ऋग्वेदः सूक्तं २.२८

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं २.२७ ऋग्वेदः - मण्डल २
सूक्तं २.२८
कूर्मो गार्त्समदो गृत्समदो वा।
सूक्तं २.२९ →
दे. वरुणः (१० दुःस्वप्ननाशिनी)। त्रिष्टुप्।
राजारानी मन्दिरस्य भित्त्योपरि वरुणः


इदं कवेरादित्यस्य स्वराजो विश्वानि सान्त्यभ्यस्तु मह्ना ।
अति यो मन्द्रो यजथाय देवः सुकीर्तिं भिक्षे वरुणस्य भूरेः ॥१॥
तव व्रते सुभगासः स्याम स्वाध्यो वरुण तुष्टुवांसः ।
उपायन उषसां गोमतीनामग्नयो न जरमाणा अनु द्यून् ॥२॥
तव स्याम पुरुवीरस्य शर्मन्नुरुशंसस्य वरुण प्रणेतः ।
यूयं नः पुत्रा अदितेरदब्धा अभि क्षमध्वं युज्याय देवाः ॥३॥
प्र सीमादित्यो असृजद्विधर्ताँ ऋतं सिन्धवो वरुणस्य यन्ति ।
न श्राम्यन्ति न वि मुचन्त्येते वयो न पप्तू रघुया परिज्मन् ॥४॥
वि मच्छ्रथाय रशनामिवाग ऋध्याम ते वरुण खामृतस्य ।
मा तन्तुश्छेदि वयतो धियं मे मा मात्रा शार्यपसः पुर ऋतोः ॥५॥
अपो सु म्यक्ष वरुण भियसं मत्सम्राळृतावोऽनु मा गृभाय ।
दामेव वत्साद्वि मुमुग्ध्यंहो नहि त्वदारे निमिषश्चनेशे ॥६॥
मा नो वधैर्वरुण ये त इष्टावेनः कृण्वन्तमसुर भ्रीणन्ति ।
मा ज्योतिषः प्रवसथानि गन्म वि षू मृधः शिश्रथो जीवसे नः ॥७॥
नमः पुरा ते वरुणोत नूनमुतापरं तुविजात ब्रवाम ।
त्वे हि कं पर्वते न श्रितान्यप्रच्युतानि दूळभ व्रतानि ॥८॥
पर ऋणा सावीरध मत्कृतानि माहं राजन्नन्यकृतेन भोजम् ।
अव्युष्टा इन्नु भूयसीरुषास आ नो जीवान्वरुण तासु शाधि ॥९॥
यो मे राजन्युज्यो वा सखा वा स्वप्ने भयं भीरवे मह्यमाह ।
स्तेनो वा यो दिप्सति नो वृको वा त्वं तस्माद्वरुण पाह्यस्मान् ॥१०॥
माहं मघोनो वरुण प्रियस्य भूरिदाव्न आ विदं शूनमापेः ।
मा रायो राजन्सुयमादव स्थां बृहद्वदेम विदथे सुवीराः ॥११॥


सायणभाष्यम्

' इदम् ' इत्येकादशर्चं षष्ठं सूक्तम् । अत्रानुक्रम्यते-- इदमेकादश वारुणम् ' इति । पूर्वसूक्ते ' कूर्मो गार्त्समदो हि वा ' इत्युक्तत्वादस्योत्तरस्य च कूर्मो गृत्समदो वा ऋषिः । त्रिष्टुप् छन्दः । वरुणो देवता । विनियोगो लैङ्गिकः । अत्र केचिदाहुः - ' इदमेकादशर्चं तु वारुणं भयपापनुत् । ऋणदारिद्र्यदुःस्वप्ननाशनं चेति शुश्रुम ' इति ।।


इ॒दं क॒वेरा॑दि॒त्यस्य॑ स्व॒राजो॒ विश्वा॑नि॒ सान्त्य॒भ्य॑स्तु म॒ह्ना ।

अति॒ यो म॒न्द्रो य॒जथा॑य दे॒वः सु॑की॒र्तिं भि॑क्षे॒ वरु॑णस्य॒ भूरेः॑ ॥१

इ॒दम् । क॒वेः । आ॒दि॒त्यस्य॑ । स्व॒ऽराजः॑ । विश्वा॑नि । सन्ति॑ । अ॒भि । अ॒स्तु॒ । म॒ह्ना ।

अति॑ । यः । म॒न्द्रः । य॒जथा॑य । दे॒वः । सु॒ऽकी॒र्तिम् । भि॒क्षे॒ । वरु॑णस्य । भूरेः॑ ॥१

इदम् । कवेः । आदित्यस्य । स्वऽराजः । विश्वानि । सन्ति । अभि । अस्तु । मह्ना ।

अति । यः । मन्द्रः । यजथाय । देवः । सुऽकीर्तिम् । भिक्षे । वरुणस्य । भूरेः ॥१

कवेः क्रान्तदर्शिन आदित्यस्य अदितेः पुत्रस्य स्वराजः स्वयमेवराजमानस्येश्वरस्य वा वरुणस्येदं हवि: स्तोत्रं वा यजमानः करोतीति शेषः स च विश्वानि सर्वाणि संति द्वितीयभावविकारभांजिभूतजातानि मह्ना महिम्ना वरुणप्रसादालब्धेन अभ्यस्तु अभिभवतु यो देवो द्योतमानो वरुणः यजथाय यष्ट्रे पुरुषाय अति अतिशयेन मन्द्रः स्तुत्यो हर्षयिता वा भवति तस्य भूरेर्भर्तुर्वरुणस्य सुकीर्तिं शोभनां स्तुतिं भिक्षे प्रार्थये यद्वा वरुणस्येति तृतीयार्थे षष्ठी तेन वरुणेन दातव्यां शोभनां कीर्तिं अहं याचे ॥ १ ॥


तव॑ व्र॒ते सु॒भगा॑सः स्याम स्वा॒ध्यो॑ वरुण तुष्टु॒वांसः॑ ।

उ॒पाय॑न उ॒षसां॒ गोम॑तीनाम॒ग्नयो॒ न जर॑माणा॒ अनु॒ द्यून् ॥२

तव॑ । व्र॒ते । सु॒ऽभगा॑सः । स्या॒म॒ । सु॒ऽआ॒ध्यः॑ । व॒रु॒ण॒ । तु॒स्तु॒ऽवांसः॑ ।

उ॒प॒ऽअय॑ने । उ॒षसा॑म् । गोऽम॑तीनाम् । अ॒ग्नयः॑ । न । जर॑माणाः । अनु॑ । द्यून् ॥२

तव । व्रते । सुऽभगासः । स्याम । सुऽआध्यः । वरुण । तुस्तुऽवांसः ।

उपऽअयने । उषसाम् । गोऽमतीनाम् । अग्नयः । न । जरमाणाः । अनु । द्यून् ॥२

हे वरुण स्वाध्यः शोभनाध्यानाः तुष्टुवांसः स्तुतवन्तो वयं तव व्रते त्वदीये परिचरणाख्ये कर्मणि वर्तमानाः सुभगासः स्याम शोभनधना भवेम अपि च गोमतीनां रश्मिभिर्युक्तानामुषसां उपायने उपागमने सति अग्नयो न यथा अग्नयोग्निहोत्रादिकर्मार्थं समिध्यन्ते एवमनुद्यून अनुदितं जरमाणास्त्वां स्तुवन्तो वयं दीप्यमाना भवेम।।२।।


तव॑ स्याम पुरु॒वीर॑स्य॒ शर्म॑न्नुरु॒शंस॑स्य वरुण प्रणेतः ।

यू॒यं नः॑ पुत्रा अदितेरदब्धा अ॒भि क्ष॑मध्वं॒ युज्या॑य देवाः ॥३

तव॑ । स्या॒म॒ । पु॒रु॒ऽवीर॑स्य । शर्म॑न् । उ॒रु॒ऽशंस॑स्य । व॒रु॒ण॒ । प्र॒ने॒त॒रिति॑ प्रऽनेतः ।

यू॒यम् । नः॒ । पु॒त्राः॒ । अ॒दि॒तेः॒ । अ॒द॒ब्धाः॒ । अ॒भि । क्ष॒म॒ध्व॒म् । युज्या॑य । दे॒वाः॒ ॥३

तव । स्याम । पुरुऽवीरस्य । शर्मन् । उरुऽशंसस्य । वरुण । प्रनेतरिति प्रऽनेतः ।

यूयम् । नः । पुत्राः । अदितेः । अदब्धाः । अभि । क्षमध्वम् । युज्याय । देवाः ॥३

हे प्रणेतः सर्वस्य जगतः प्रकर्षेण नेतः वरुण पुरुवीरस्य पुरुभिर्बहुभिः वीरैरुपेतस्य यद्वा पुरूणां बहूनां शत्रूणां विशेषेण प्रेरकस्य उरुशंसस्य उरुभिर्बहुभिःस्तूयमानस्य तव शर्मन्शर्मणि सुखे गृहे वा स्याम अदिते: पुत्राः मित्रादयः परमपिच्छन्द्सीति परस्य षष्ठ्यन्तस्यपूर्वामन्त्रिताङ्गवद्भावेनानुप्रवेशात् पदद्वयसमुदायस्याष्टमिकं सर्वानुदात्तत्वम् अदब्धा शत्रुभिरहिंसिताः एवंभूता हे देवाः यूयं नोस्मान्कृतापराधान् युज्याय सख्याय अभिक्षमध्वं अस्माभिः कृतमपराधं सहध्वम् ॥ ३ ॥


प्र सी॑मादि॒त्यो अ॑सृजद्विध॒र्ताँ ऋ॒तं सिन्ध॑वो॒ वरु॑णस्य यन्ति ।

न श्रा॑म्यन्ति॒ न वि मु॑चन्त्ये॒ते वयो॒ न प॑प्तू रघु॒या परि॑ज्मन् ॥४

प्र । सी॒म् । आ॒दि॒त्यः । अ॒सृ॒ज॒त् । वि॒ऽध॒र्ता । ऋ॒तम् । सिन्ध॑वः । वरु॑णस्य । य॒न्ति॒ ।

न । श्रा॒म्य॒न्ति॒ । न । वि । मु॒च॒न्ति॒ । ए॒ते । वयः॑ । न । प॒प्तुः॒ । र॒घु॒ऽया । परि॑ऽज्मन् ॥४

प्र । सीम् । आदित्यः । असृजत् । विऽधर्ता । ऋतम् । सिन्धवः । वरुणस्य । यन्ति ।

न । श्राम्यन्ति । न । वि । मुचन्ति । एते । वयः । न । पप्तुः । रघुऽया । परिऽज्मन् ॥४

विधर्ता सेतुरिव जलस्य विधारयिता आदित्यः अदितेः पुत्रो वरुणः ऋतं विधारणहेतुभूतं सत्यम् यद्वा नदीनामुपादानभूतमुदकम् सीं सर्वतः प्रासृजत् प्रकर्षेण सृष्टवान् अणोप्रगृह्यस्यानुनासिक इत्याकारः सानुनासिकः तेन वरुणस्यर्तेन सिन्धवः स्यन्दनशीला नद्यो यन्ति गच्छन्ति प्रवहन्ति एते सिन्धवः न श्राम्यन्ति न प्राप्नुवन्ति न विमुचन्ति उपरता न भवन्ति अनलसाः सर्वदैकरूपेण प्रवहन्तीत्यर्थः एतदेवोच्यते - वयो न वयः पक्षिण इव रघुयाः लघुवर्गाः शीघ्रगामिनः परिज्मन् परिज्मनि भूम्यां पप्तुः पतंति गच्छन्ति पतृ गतौ लिट्युसितनिपत्योश्छन्दसीत्युपधालोपः स्थानिवद्भावात् द्विर्वचनादि रघुया इत्यत्र सुपांसुलुगिति जसोयाजादेशः ॥ ४ ॥


वि मच्छ्र॑थाय रश॒नामि॒वाग॑ ऋ॒ध्याम॑ ते वरुण॒ खामृ॒तस्य॑ ।

मा तन्तु॑श्छेदि॒ वय॑तो॒ धियं॑ मे॒ मा मात्रा॑ शार्य॒पसः॑ पु॒र ऋ॒तोः ॥५

वि । मत् । श्र॒थ॒य॒ । र॒श॒नाम्ऽइ॑व । आगः॑ । ऋ॒ध्याम॑ । ते॒ । व॒रु॒ण॒ । खाम् । ऋ॒तस्य॑ ।

मा । तन्तुः॑ । छे॒दि॒ । वय॑तः । धिय॑म् । मे॒ । मा । मात्रा॑ । शा॒रि॒ । अ॒पसः॑ । पु॒रा । ऋ॒तोः ॥५

वि । मत् । श्रथय । रशनाम्ऽइव । आगः । ऋध्याम । ते । वरुण । खाम् । ऋतस्य ।

मा । तन्तुः । छेदि । वयतः । धियम् । मे । मा । मात्रा । शारि । अपसः । पुरा । ऋतोः ॥५

हे वरुण मत् मत्सकाशात् रशनामिव रज्जुमिव आगः विहिताननुष्ठानजनितं पापं विश्रथय शिथिलीकुरु विमोचयेत्यर्थः ते त्वत्संबन्धिन ऋतस्योदकस्य पूर्णा खां नदीं खा इति नदीनाम तां एवंभूता हे देवाः ऋध्याम लभेमहि अपि च धियं कर्म वयतः संतन्वतो मे मम तन्तुः कर्मसन्ततिः मा छेदि छिन्नो मा भूत् नैरन्तर्येणास्त्वित्यर्थः तथा ऋतोः समाप्तिकालात् पुरा पूर्वं अपसः कर्मणः मात्राशरीरं प्राच्योदीच्यांगलक्षणं मा शारि शीर्णं विकलं मा भूत् शॄ हिंसायां कर्मणिलुङ् पुरऋतोरित्यत्र ऋत्यक इतिप्रकृतिभावः ॥ ५ ॥


अपो॒ सु म्य॑क्ष वरुण भि॒यसं॒ मत्सम्रा॒ळृता॒वोऽनु॑ मा गृभाय ।

दामे॑व व॒त्साद्वि मु॑मु॒ग्ध्यंहो॑ न॒हि त्वदा॒रे नि॒मिष॑श्च॒नेशे॑ ॥६

अपो॒ इति॑ । सु । म्य॒क्ष॒ । व॒रु॒ण॒ । भि॒यस॑म् । मत् । सम्ऽरा॑ट् । ऋत॑ऽवः । अनु॑ । मा॒ । गृ॒भा॒य॒ ।

दाम॑ऽइव । व॒त्सात् । वि । मु॒मु॒ग्धि॒ । अंहः॑ । न॒हि । त्वत् । आ॒रे । नि॒ऽमिषः॑ । च॒न । ईशे॑ ॥६

अपो इति । सु । म्यक्ष । वरुण । भियसम् । मत् । सम्ऽराट् । ऋतऽवः । अनु । मा । गृभाय ।

दामऽइव । वत्सात् । वि । मुमुग्धि । अंहः । नहि । त्वत् । आरे । निऽमिषः । चन । ईशे ॥६


हे वरुण भियसं भयं मत्मत्तः सु सुष्ठु अपोम्यक्ष अपगमय हे सम्राट्सम्यग्राजमान हे ऋतावः सत्यवन् यज्ञवन्वा वरुण मा मां अनुगृभाय अनुगृहाण छन्दसि शायजपीतिश्नः शायजादेशः हग्रहोर्भ इति भत्वम् अपि च दामेव वत्सात् यथा दोग्धा वत्ससकाशात् बन्धनीं रज्जुं विमुञ्चति तथा अंहः पापं मत्सकाशाद्विमुमुग्धि विमुञ्च छान्दसःशपःश्लुः पृथक्कुरु त्वदारे त्वत्तो दूरदेशे वर्तमानः त्वदन्य इत्यर्थ: त्वतोन्यः कश्चित् निमिषश्चन निमेषस्यापि अक्षिपक्ष्मचलनस्यापि नहि ईशे नेष्टे त्वमेव ईश्वर इत्यर्थः लोपस्तअात्मनेपदेष्विति त लोपः ॥ ६ ॥


मा नो॑ व॒धैर्व॑रुण॒ ये त॑ इ॒ष्टावेनः॑ कृ॒ण्वन्त॑मसुर भ्री॒णन्ति॑ ।

मा ज्योति॑षः प्रवस॒थानि॑ गन्म॒ वि षू मृधः॑ शिश्रथो जी॒वसे॑ नः ॥७

मा । नः॒ । व॒धैः । व॒रु॒ण॒ । ये । ते॒ । इ॒ष्टौ । एनः॑ । कृ॒ण्वन्त॑म् । अ॒सु॒र॒ । भ्री॒णन्ति॑ ।

मा । ज्योति॑षः । प्र॒ऽव॒स॒थानि॑ । ग॒न्म॒ । वि । सु । मृधः॑ । शि॒श्र॒थः॒ । जी॒वसे॑ । नः॒ ॥७

मा । नः । वधैः । वरुण । ये । ते । इष्टौ । एनः । कृण्वन्तम् । असुर । भ्रीणन्ति ।

मा । ज्योतिषः । प्रऽवसथानि । गन्म । वि । सु । मृधः । शिश्रथः । जीवसे । नः ॥७

हे वरुण नोस्मान्वधैः हननसाधनैरायुधैर्मा हिंसीरिति शेषः हे असुर पापकृतांनिरसितः ते त्वदीये इष्टौ यज्ञे एनः विहिताननुष्ठानेनजनितं पापं कृण्वन्तं कुर्वन्तं पुरुषं ये वधा भ्रीणन्ति हिंसन्ति तैरिति पूर्वत्रसंबन्धः भ्रीष् हिंसायां कैयादिकः अपि च ज्योतिषः गृहे वर्तमानादग्नेः सौरप्रकाशाद्वा प्रवसथानि प्रवासान्मा गन्म मा गच्छाम सर्वदा गृहे वर्तमानः सूर्यं पश्यंश्चिरकालं जीवेयमित्यर्थः गमेर्लेुङिमन्त्रेघसेति च्लेर्लुक् तथा नो स्माकं जीवसे जीवनाय मृधो हिंसकान् सु सुष्ठु विशिश्रथः विश्लेषय बाधस्वेत्यर्थः ॥ ७ ॥


नमः॑ पु॒रा ते॑ वरुणो॒त नू॒नमु॒ताप॒रं तु॑विजात ब्रवाम ।

त्वे हि कं॒ पर्व॑ते॒ न श्रि॒तान्यप्र॑च्युतानि दूळभ व्र॒तानि॑ ॥८

नमः॑ । पु॒रा । ते॒ । व॒रु॒ण॒ । उ॒त । नू॒नम् । उ॒त । अ॒प॒रम् । तु॒वि॒ऽजा॒त॒ । ब्र॒वा॒म॒ ।

त्वे इति॑ । हि । क॒म् । पर्व॑ते । न । श्रि॒तानि॑ । अप्र॑ऽच्युतानि । दुः॒ऽद॒भ॒ । व्र॒तानि॑ ॥८

नमः । पुरा । ते । वरुण । उत । नूनम् । उत । अपरम् । तुविऽजात । ब्रवाम ।

त्वे इति । हि । कम् । पर्वते । न । श्रितानि । अप्रऽच्युतानि । दुःऽदभ । व्रतानि ॥८

हे वरुण पुरा पूर्वस्मिन्काले ते तुभ्यं नमः नमस्कारप्रतिपादकं नम इति शब्दमवादिष्म उत अपि च नूनमद्यापि ब्रवाम उत अपि च हे तुविजात बहुप्रदेशेषु प्रादुर्भूत वरुण अपरं आगामिन्यपि काले नमःशब्दं ब्रवाम उचारयाम कस्मादिति चेदुच्यते-दूळभ दुर्दभ दंभितुं हिंसितुमशक्य दुरोदाशनाशदभध्येष्विति रेफस्योत्वमुत्तरपदादेष्टुत्वं च कमित्येतत्पदपूर्णम् हि यस्मात् त्वे त्वयि पर्वतेन शिलोच्चये इव अच्युतानि अन्यैः प्रच्यावयितुमशक्यानि व्रतानि कर्माणि विधरणानि श्रितानि अाश्रितानि तस्मादित्यर्थः ॥ ८ ॥


पर॑ ऋ॒णा सा॑वी॒रध॒ मत्कृ॑तानि॒ माहं रा॑जन्न॒न्यकृ॑तेन भोजम् ।

अव्यु॑ष्टा॒ इन्नु भूय॑सीरु॒षास॒ आ नो॑ जी॒वान्व॑रुण॒ तासु॑ शाधि ॥९

परा॑ । ऋ॒णा । सा॒वीः॒ । अध॑ । मत्ऽकृ॑तानि । मा । अ॒हम् । रा॒ज॒न् । अ॒न्यऽकृ॑तेन । भो॒ज॒म् ।

अवि॑ऽउष्टाः । इत् । नु । भूय॑सीः । उ॒षसः॑ । आ । नः॒ । जी॒वान् । व॒रु॒ण॒ । तासु॑ । शा॒धि॒ ॥९

परा । ऋणा । सावीः । अध । मत्ऽकृतानि । मा । अहम् । राजन् । अन्यऽकृतेन । भोजम् ।

अविऽउष्टाः । इत् । नु । भूयसीः । उषसः । आ । नः । जीवान् । वरुण । तासु । शाधि ॥९

हे वरुण ऋणा ऋणानि पित्रादिभिः कृतान्यस्माभिर्देयानि परासावीः परासुव पराचीनं प्रेरय प्रेरणे छान्दुसोलुङ् अध अधुना मत्कृतानि मया निष्पादितानि ऋणानि परासुव अपि च हे राजन् स्वामिन् वरुण अहं अन्यकृतेन अन्यैरर्जितेन धनेन मा भोजं भोगं मा लभेयम् किं कारणमिति चेदुच्यते - भूयसीः भूयस्यो बहुतराः उषसः अव्युष्टा इत्नु सत्यं अव्युष्टा एव अपररात्रेषूत्थाय ऋणानि चिन्तयतो जाग्रतो मम व्युष्टा अप्यव्युष्टकल्पा आसन् हे वरुण तासूषस्सु नोस्मान् जीवान् जीवनवतः आशाधि आसमन्तादनुशिष्टान्कुरु ऋणान्यपहत्य भोगपर्याप्तं धनं प्रयच्छेत्यर्थः॥९॥


यो मे॑ राज॒न्युज्यो॑ वा॒ सखा॑ वा॒ स्वप्ने॑ भ॒यं भी॒रवे॒ मह्य॒माह॑ ।

स्ते॒नो वा॒ यो दिप्स॑ति नो॒ वृको॑ वा॒ त्वं तस्मा॑द्वरुण पाह्य॒स्मान् ॥१०

यः । मे॒ । रा॒ज॒न् । युज्यः॑ । वा॒ । सखा॑ । वा॒ । स्वप्ने॑ । भ॒यम् । भी॒रवे॑ । मह्य॑म् । आह॑ ।

स्ते॒नः । वा॒ । यः । दिप्स॑ति । नः॒ । वृकः॑ । वा॒ । त्वम् । तस्मा॑त् । व॒रु॒ण॒ । पा॒हि॒ । अ॒स्मान् ॥१०

यः । मे । राजन् । युज्यः । वा । सखा । वा । स्वप्ने । भयम् । भीरवे । मह्यम् । आह ।

स्तेनः । वा । यः । दिप्सति । नः । वृकः । वा । त्वम् । तस्मात् । वरुण । पाहि । अस्मान् ॥१०

हे राजन् वरुण मे मदीयो युज्यो योजनसमर्थः पित्रादिर्वा सखा समानख्यानो बान्धवो वा स्वप्ने दृष्टं त्वद्विषयं भयं भीरवे भयशीलाय मह्यं य आह ब्रूते तथा स्तेनश्चौरो वा वृकोरण्यश्वा वा यो नो स्मान्दिप्सति जिघाँसति सनीवंतर्धेति विकल्पनादिडभावः दम्भइच्चेतीत्वम् हे वरुण त्वं तस्मात्सर्वस्मादस्मान्पाहि रक्ष॥ १० ॥


माहं म॒घोनो॑ वरुण प्रि॒यस्य॑ भूरि॒दाव्न॒ आ वि॑दं॒ शून॑मा॒पेः ।

मा रा॒यो रा॑जन्सु॒यमा॒दव॑ स्थां बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥११

मा । अ॒हम् । म॒घोनः॑ । व॒रु॒ण॒ । प्रि॒यस्य॑ । भू॒रि॒ऽदाव्नः॑ । आ । वि॒द॒म् । शून॑म् । आ॒पेः ।

मा । रा॒यः । रा॒ज॒न् । सु॒ऽयमा॑त् । अव॑ । स्था॒म् । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥११

मा । अहम् । मघोनः । वरुण । प्रियस्य । भूरिऽदाव्नः । आ । विदम् । शूनम् । आपेः ।

मा । रायः । राजन् । सुऽयमात् । अव । स्थाम् । बृहत् । वदेम । विदथे । सुऽवीराः ॥११

हे वरुण प्रियस्य भूरिदाव्नः भूरेर्धनस्य दातुर्धनवत आद्यस्य पुरतः पुत्रादेर्दारिद्र्यं अहं मा अविदं मा आवेदयानि ज्ञापयानि हे राजन् सुष्ठुनियामकाद्धनात् अवयुत्य स्थितो मा भूवं शोभनपुत्राः यज्ञे गृहे वा वर्तमानाः प्रौढं स्तोत्रं उच्चारयामः॥ ११॥


[सम्पाद्यताम्]

आदित्यानामिमाः सूक्तम् इदं वारुणमुच्यते । वारुणी यो म इत्याद्या दुःस्वप्नाद्यप्रणाशिनी ।।बृहद्देवता ४.८३ ।।

वरुणोपरि पौराणिकाः संदर्भाः

वरुणोपरि टिप्पणी

२.२८.२

टिप्पणी

तव व्रते सुभगासः स्याम - वरुणस्य व्रतस्य उल्लेखाः ऋग्वेदे यत्रतत्र सन्ति (यच्चिद्धि ते विशो यथा प्र देव वरुण व्रतम्। मिनीमसि द्यविद्यवि(१.२५.१), त्वया ह्यग्ने वरुणो धृतव्रतो(१.१४१.९), सरस्वान् धीभिर्वरुणो धृतव्रतः(१०.६६.५), अदब्धानि वरुणस्य व्रतानि(१.२४.१०), राज्ञो नु ते वरुणस्य व्रतानि(१.९१.३)आदि। वरुणस्य व्रतं किं भवति। अस्मिन् संदर्भे मत्स्यपुराणे १०१.७४ उल्लेखमस्ति -

निशि कृत्वा जले वासं प्रभाते गोप्रदो भवेत्।

वारुणं लोकमाप्नोति वरुणव्रतमुच्यते।। मत्स्यपुराणम् १०१.७४ ।।

अपि च -

व्रतेन दीक्षामाप्नोति दीक्षयाप्नोति दक्षिणाम्। दक्षिणा श्रद्धामाप्नोति श्रद्धया सत्यमाप्यते।। - वा.सं १९.३०


उपायने उषसां गोमतीनां - उषोपरि टिप्पणी पठनीयमस्ति। यद्यपि ऋग्वेदे अश्वावती गोमती उषासः इति उल्लेखाः सन्ति, किन्तु तयोः किमन्तरं अस्ति, ज्ञातम् नास्ति। एकः कथनमस्ति - उषा वा अश्वस्य मेध्यस्य शिरः (शतपथब्राह्मणम् १०.६.४.१ )। अयं संकेतमस्ति यत् यत्र अश्वस्य मेध्यकरणस्य आवश्यकता अस्ति, तत्र अश्वावत्याः उषायाः आवश्यकता अस्ति। डा. फतहसिंह अनुसारेण, अश्वस्य प्रवृत्तिः प्रसरणे, सामाजिक जीवने अस्ति। वरुणस्य तादात्म्यं अश्वमेधयागेन सह नास्ति, अपितु राजसूययागेन सह अस्ति।

गोमतीनां उषसः रहस्यं शतपथब्राह्मण ४.४.५.१० एवं ५.३.४.१२ कथनानुसारेण अपि व्याख्यातुं शक्यन्ते। कर्मकाण्डे वरुणप्रकारस्य अपां संग्रहस्य आवश्यकता भवति। वरुणप्रकारस्य अपसः कः परिज्ञानमस्ति। उत्तरमस्ति यत् या आपः स्यन्दमानानां अपःसु स्थावराः सन्ति, येषां प्रवाहः नास्ति, ते वरुण्या प्रकाराः आपः भवन्ति। अयं संकेतमस्ति यत् येषां अपसः प्रवृत्तिः स्यन्दशीला अस्ति, ते अश्वप्रकाराः आपः सन्ति। ये स्थावराः सन्ति, ते गोप्रकारस्य (अथवा वरुणस्य पाशेन बद्धा) आपः सन्ति। पद्मपुराणे १.३४.८२ कथनमस्ति यत् वरुणः रसानां अधिपतिरस्ति। यः प्रवाहः अस्ति, आनन्दस्य प्रवाहः, तत् अश्वमस्ति। प्रवाहस्य मध्ये यः स्थिरता अस्ति, तत् गोमत्यः उषासः सन्ति, अयं कथितुं शक्यन्ते। वैदिक साहित्ये रसस्य तात्पर्यं अव्यवस्था मध्ये व्यवस्थातः भवति। रसो वै सः - परमात्मा एव रसानां रसः अस्ति।

अस्माकं जाग्रतचेतना विभिन्न प्रकाराणां उषसः संघट्टनमस्ति। वरुणस्य कार्यं चेतनायाः धनात्मके पथे स्थापनं अस्ति। येषां उषसः आविर्भावं चेतनां ऋणात्मके पथे नयति, तेषां उषसः आविर्भावं वरुणदेवः रोधितुं शक्नोति। आधुनिक चिकित्साशास्त्रे कैंसररोगस्य चिकित्सा हेतु नवीनकोशिकानां सृजनं रुद्धं कुर्वन्ति। या ऊर्जा नवीनकोशिकानां सर्जने व्ययी भवेत्, तस्याः संचयनं भवति, रोगस्य नाशं भवति।

अग्नयो न जरमाणा अनु द्यून् - गोमतीनां उषसां उपायनं द्युलोके प्रज्वलितानां अग्नीनां समानमस्ति। भविष्यपुराणे २.१.१७.१५ तोयाग्नेः संज्ञा एव वरुणः अस्ति। अग्नि अर्थात् रसः, उच्चतरायाः व्यवस्थायाः स्थितिः, न्यूनतरायाः एण्ट्रांपेः स्थितिः।


जल महाभूतोपरि टिप्पणी

टिप्पणी

ह्रीं बीजाक्षरस्य जलमहाभूतेन सह सम्बन्धं अस्ति। ओंकारस्य अयं उ मात्रा अस्ति। विष्णुः देवतास्ति। स्थितिकरणं, ब्रह्मणः सृष्ट्याः पालनं विष्णोः कृत्यं भवति। सृष्ट तन्त्रात् न केनापि प्रकारेण ऊर्जायाः क्षयं भवतु, अयं विष्णोः कृत्यम्। आधुनिक विज्ञानानुसारेण एकप्रकारस्य ऊर्जायाः अन्यप्रकारस्य ऊर्जायां रूपान्तरणं शतप्रतिशत दक्षतापूर्वकं संभवं नास्ति। ऊर्जायाः एकं अंशं रूपान्तरणकरणे व्यर्थं भविष्यति। व्यर्थ अंशस्य निष्कासनं आवश्यकं अस्ति। अयं तेज महाभूतस्य विषयः अस्ति।

पुराणानुसारेण ह्रीं बीजेन जले रसस्य उत्पादनं अपेक्षणीयः। आधुनिक विज्ञानानुसारेण, विभिन्न जीवेषु रसनायां विभिन्न एन्जाईमाः भवन्ति येषां कारणेन ते जड पदार्थेषु अपि रसानां अनुभवं कुर्वन्ति। ह्रीं बीजस्य साहाय्येन किं अयं संभवमस्ति यत् गौः जिह्वोपरि ये एन्जाईमाः सन्ति, ते अस्माकं जिह्वोपरि अपि उत्पन्नाः भवेयुः। अमृत उत्पादनं, परितृप्तिः इत्यादि गुणाः ह्रीं बीजेन सह सम्बद्धाः सन्ति। केन प्रकारेण, अयं अज्ञातमेव। भौतिक जगतस्य मध्ये अयं धारणा अस्ति यत् यदा सूर्यस्य किरणानां ओषधीषु प्रवेशं भवति, तदा विषस्य उत्पत्तिः भवति। यदा चन्द्रस्य प्रवेशं भवति, तदा अमृतस्य उत्पत्तिः भवति। चन्द्रस्य षोडश्याः कलायाः ओषधीषु प्रवेशः अमावास्यां तिथ्यां भवति।

स्कन्द पुराणे महाभूतेभिः सह तीर्थानां सम्बन्धनं कृतं भवति। अनेनानुसारेण जल महाभूतेन सह हरिश्चन्द्र, मध्यम इत्यादीनां तीर्थानां सम्बन्धं अस्ति। मध्यमं तीर्थं किं भवति, अस्मिन् संदर्भे ब्रह्माण्ड पुराणे ज्येष्ठ, मध्य एवं कनिष्ठ पुष्कराणां वर्णनं अस्ति। परशुरामः ज्येष्ठे पुष्करे तपः करोति, किन्तु सफलता न मिलति। मध्यमे पुष्करे सः मृगाणां वार्ता शृणोति यत् यदि अयं परशुरामः कनिष्ठपुष्करे गत्वा अगस्त्य मुनितः प्रेमामृतं स्तोत्रं गृह्णातु, तदा सफलता संभवमस्ति। अतएव, मध्यमा स्थितिः सा भवति यत्र सफलतायाः ये सूत्राः सन्ति, ते विभिन्नेभिः माध्यमेभिः साधकं प्रापयन्ति। भागवत पुराणानुसारेण –

ईश्वरे तदधीनेषु बालिशेषु द्विषत्सु च।

प्रेम मैत्री कृपा – उपेक्षा यः करोति स मध्यमः।।

एवं मध्यम प्रकारस्य भक्त हेतु प्रेम, मैत्री, कृपा, उपेक्षा एते चत्वारः स्तराः भवन्ति। केवल प्रेम्णः स्थिति न भवति। ऊर्जायाः क्षयं द्वेष रूपे अपि भवति। अपि च, ऊर्जायाः विरलीभवनं(बालिशं) अपि भवति। मन्त्रं अस्ति – अप नः शोशुचदघं। हे आपः अघस्य अपनयनं कुरु। अघ अर्थात् अ-घ, घ घनत्वे। अघ अर्थात् विरलीकरणम्। एतेः सर्वे घटकाः तेज महाभूतस्य, संहारस्य विषयाः भविष्यन्ति।

ह्रीं सह केदार तीर्थस्य अपि सम्बन्धं भवति। यथा केदार शब्दस्य टिप्पण्यां कथितं अस्ति, कोपि घटना यदा अस्माकं निम्नतरं चेतनां दारयति, आकाशीय विद्युद् भांति कर्तितं करोति – यथा कोपि आश्चर्यं, तदा केदार तीर्थस्य जन्म भवति। वयं किमपि कार्यं कुर्यामः, यदि अयं कार्यं केदारं न भवति, तदा ऊर्जायाः क्षयं भविष्यति।

जल महाभूतेन सह प्रतिष्ठागुणस्य सम्बन्धमस्ति। लोके देवमूर्त्तेः प्राणप्रतिष्ठा प्रसिद्धमस्ति। पुराणेषु पुरूरवा प्रतिष्ठानपुरस्य राजा अस्ति। सः उर्वश्याः कामनां करोति। प्रतिष्ठा अर्थात् दैनिके जीवने क्षुधा-तृषा आदि उच्चावचानि जीवनस्य भयदायकाः न भविष्यन्ति। जीवस्य परितः अरिष्टा स्थितिः भविष्यति।

जलस्य एकं गुणं प्रवाहं एवं परस्परमिश्रणं अस्ति। कथनं अस्ति यत् वृत्रस्य हननोपरि एव अयं सम्भवमस्ति। स्पष्टरूपेण, अयं चेतनायाः परस्परमिश्रणेन सह सम्बद्धं अस्ति।

जल महाभूतस्य एकं गुणमयमस्ति यत् यत्र जलस्य उपलब्धिः भविष्यति, तत्रैव ओषधि-वनस्पतीनां प्रादुर्भावं भविष्यति। वैदिक साहित्ये जलस्य वर्षणं साधारणा घटना नास्ति। यदा पुरोवातस्य, गर्जनस्य, विद्युतस्य आदीनां संयोगं भविष्यति, तदैव वर्षणं भविष्यति।

मण्डल २

सूक्तं २.१

सूक्तं २.२

सूक्तं २.३

सूक्तं २.४

सूक्तं २.५

सूक्तं २.६

सूक्तं २.७

सूक्तं २.८

सूक्तं २.९

सूक्तं २.१०

सूक्तं २.११

सूक्तं २.१२

सूक्तं २.१३

सूक्तं २.१४

सूक्तं २.१५

सूक्तं २.१६

सूक्तं २.१७

सूक्तं २.१८

सूक्तं २.१९

सूक्तं २.२०

सूक्तं २.२१

सूक्तं २.२२

सूक्तं २.२३

सूक्तं २.२४

सूक्तं २.२५

सूक्तं २.२६

सूक्तं २.२७

सूक्तं २.२८

सूक्तं २.२९

सूक्तं २.३०

सूक्तं २.३१

सूक्तं २.३२

सूक्तं २.३३

सूक्तं २.३४

सूक्तं २.३५

सूक्तं २.३६

सूक्तं २.३७

सूक्तं २.३८

सूक्तं २.३९

सूक्तं २.४०

सूक्तं २.४१

सूक्तं २.४२

सूक्तं २.४३


"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_२.२८&oldid=208788" इत्यस्माद् पुनः प्राप्तिः