पद्मपुराणम्/खण्डः १ (सृष्टिखण्डम्)/अध्यायः ३४

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्


भीष्म उवाच
कस्मिन्काले भगवता ब्रह्मणा लोककारिणा
यज्ञियैर्यष्टुमारब्धं तद्भवान्वक्तुमर्हति१
किं नामान ऋत्विजस्ते ब्रह्मणा ये प्रकल्पिताः
का च वै दक्षिणा तेषां दत्ता तेन महात्मना२
यथाभूतं यथावृत्तं तथा त्वं मे प्रकीर्तय
सुमहत्कौतुकं जातं यज्ञं पैतामहं प्रति३
पुलस्त्य उवाच
पूर्वमेव मया ख्यातं यदा स्वायंभुवो मनुः
सृष्ट्वा प्रजापतीन्सर्वानुक्तः सृष्टिं कुरुष्व वै४
स्वयं तु पुष्करं गत्वा यज्ञस्याहृत्य विस्तरम्
ससंभारान्समानाय्य वह्न्यगारे स्थितोभवत्५
गायंति नित्यं गंधर्वा नृत्यंत्यप्सरसां गणाः
ब्रह्मोद्गाता होताध्वर्युश्चत्वारो यज्ञवाहकाः६
एकैकस्य त्रयश्चान्ये परिवाराः स्वयंकृताः
ब्रह्मा च ब्रह्मणाच्छंसी पोता चाग्नीध्र एव च७
आन्वीक्षिकी सर्वविद्या ब्राह्मी ह्येषा चतुष्टयी
उद्गाता च प्रत्युद्गाता प्रतिहर्ता सुब्रह्मण्यः८
चतुष्टयी द्वितीयैषा तूद्गातुश्च प्रकीर्तिता
होता च मैत्रावरुणस्तथाऽच्छावाक एव च९
ग्रावस्तुच्च चतुर्थोत्र तृतीया च चतुष्टयी
अध्वर्युश्च प्रतिष्ठाता नेष्टोन्नेता तथैव च१०
चतुष्टयी चतुर्थ्येषा प्रोक्ता शंतनुनंदन
एते वै षोडश प्रोक्ता ऋत्विजो वेदचिंतकैः११
शतानि त्रीणि षष्टिश्च यज्ञाः सृष्टाः स्वयंभुवा
एतांश्चैतेषु सर्वेषु प्रवदंति सदा द्विजान्१२
सदस्यं केचिदिच्छंति त्रिसामाध्वर्युमेव च
ब्रह्माणं नारदं चक्रे ब्राह्मणाच्छंसि गौतमम्१३
देवगर्भं च पोतारमाग्नीध्रं चैव देवलम्
उद्गातांगिरसः प्रत्युद्गाता च पुलहस्तथा१४
नारायणः प्रतिहर्ता सुब्रह्मण्योत्रिरुच्यते
तस्मिन्यज्ञे भृगुर्होता वसिष्ठो मैत्र एव च१५
अच्छावाकः क्रतुः प्रोक्तो ग्रावस्तुच्च्यवनस्तथा
पुलस्त्योद्ध्वर्युरेवासीत्प्रतिष्ठाता च वै शिबिः१६
बृहस्पतिस्तत्र नेष्टा उन्नेता शांशपायनः
धर्मः सदस्यस्तत्रासीत्पुत्रपौत्रसहायवान्१७
भरद्वाजः शमीकश्च पुरुकुत्सो युगंधरः
एनकस्तीर्णकश्चैव केशः कुतप एव च१८
गर्गो वेदशिराश्चैव त्रिसामाद्ध्वर्यवः कृताः
कण्वादयस्तथा चान्ये मार्कंडो गंडिरेव च१९
पुत्रपौत्रसमेताश्च सशिष्याः सहबांधवाः
कर्माणि तत्र कुर्वाणा दिवानिशमतंद्रिताः२०
मन्वंतरे व्यतीते तु यज्ञस्यावभृथोभवत्
दक्षिणा ब्रह्मणे दत्ता प्राची होतुस्तु दक्षिणा२१
अद्ध्वर्यवे प्रतीची तु उद्गातुश्चोत्तरा तथा
त्रैलोक्यं सकलं ब्रह्मा ददौ तेषां तु दक्षिणाम्२२
धेनूनां च शतं प्राज्ञैर्दातव्यं यज्ञसिद्धये
अष्टौ तु यज्ञवाहानां चत्वारिंशाधिकास्तथा२३
द्वितीयस्थानिनां चैव चतुर्विंशत्प्रकीर्तिताः
षोडशैव तृतीयानां देया वै धेनवः शुभाः२४
द्वादशैव तथा चान्या आग्नीध्रादिषु दापयेत्
अनया संख्यया चैव ग्रामान्दासीरजाविकं२५
सहस्रभोज्यं दातव्यं स्नात्वा चावभृथे क्रतौ
यजमानेन सर्वस्वं देयं स्वायंभुवोब्रवीत्२६
अद्ध्वर्यूणां सदस्यानां स्वेच्छया दानमिष्यते
विष्णुं चाहूय वै ब्रह्मा वाक्यमाह मुदान्वितः२७
अभिप्रसाद्य सावित्रीं त्वमिहानय सुव्रत
त्वयि दृष्टे न सा कोपं करिष्यति शुभानना२८
स्निग्धैः सानुनयैर्वाक्यैर्हेतुयुक्तैर्विशेषतः
त्वं सदा मधुराभाषी जिह्वा ते स्रवतेमृतम्२९
यः करोति न ते वाक्यं त्रैलोक्ये न स दृश्यते
गंधर्वैः सहितो गत्वा प्रियां मम समानय३०
त्वया प्रसादिता साद्ध्वी तुष्टा सा त्वेष्यति ध्रुवम्
विलंबो न त्वया कार्यो व्रज माधव माचिरम्३१
लक्ष्मीस्ते पुरतो यातु सावित्र्याः सदनं शुभा
तस्यास्त्वं पदवीं गच्छ सांत्वयस्व प्रियां मम३२
न च ते विप्रियं देवि विविक्तं कर्तुमीहते
मुखं प्रेक्ष्य सदा कालं वर्तते तव सुंदरि३३
एवंविधानि वाक्यानि मधुराणि बहूनि च
देवी श्रावयितव्या सा यथातुष्टाऽचिराद्भवेत्३४
एवमुक्तस्तदा विष्णुर्ब्रह्मणा लोककारिणा
जगाम त्वरितो भूत्वा सावित्री यत्र तिष्ठति३५
दूरादेवागच्छमानं पत्न्या सह च केशवम्
उत्तस्थौ सत्वरा भूत्वा विष्णुना चाभिवंदिता३६
नमस्ते देवदेवेशि ब्रह्मपत्नि नमोस्तु ते
त्वां नमस्कृत्य सर्वो हि जनः पापात्प्रमुच्यते३७
पतिव्रता महाभागा ब्रह्मणस्त्वं हृदि स्थिता
अहर्निशं चिंतयंस्त्वां प्रसादं तेभिकांक्षति३८
सखीं चैनां प्रियां पृच्छ लक्ष्मीं भृगुसुतां सतीम्
यदि च श्रद्दधा नासि वाक्यादस्मात्सुलोचने३९
एवमुक्त्वा ततः शौरिः सावित्र्याश्चरणद्वयम्
उभाभ्यां चैव हस्ताभ्यां क्षम देवि नमोस्तु ते४०
जगद्वंद्ये जगन्मातरिति स्पृष्ट्वाऽभ्यवन्दत
संकोच्य पादौ सा देवी स्वकरेण करौ हरेः४१
गृहीत्वोवाच तं विष्णुं सर्वं क्षान्तं मयाच्युत
इयं लक्ष्मीः सदा वत्स हृदये ते निवत्स्यति४२
विना त्वया न चान्यत्र रतिं यास्यति कर्हिचित्
भृगोः पत्न्यां समुत्पन्ना पत्न्येषा तव सुव्रता४३
देवदानवयत्नेन संभूता चोदधौ पुनः
भगवान्यत्र तत्रैषा अवतारं च कुर्वती४४
देवत्वे देवदेहा वै मानुषत्वे च मानुषी
त्वत्सहाया न संदेहो दांपत्यव्रतिनी चिरम्४५
यन्मया चात्र कर्त्तव्यं प्रभोतन्मां वदस्व वै
विष्णुरुवाच
यज्ञावसानं संजातं प्रेषितोहं तवांतिकं४६
सावित्रीमानय क्षिप्रं मया स्नानं समाचरेत्
आगच्छ त्वरिता देवि याहि तत्र मुदान्विता४७
पश्यस्व स्वपतिं गत्वा देवैः सर्वैस्समन्वितम्
लक्ष्मीरुवाच
आर्ये उत्तिष्ठ शीघ्रं त्वं याहि यत्र पितामहः४८
विना त्वया न यास्यामि स्पृष्टौ पादौ मया तव
उत्थाप्य साग्रहीद्धस्तं दक्षिणा दक्षिणे करे४९
चिरायमाणां सावित्रीं ज्ञात्वा देवः पितामहः
समीपस्थं महादेवमिदमाह तदा वचः1.34.५०
गच्छ त्वमनया सार्द्धं पार्वत्याऽसुरदूषण
गौरी त्वदग्रतो यातु पश्चात्त्वं गच्छ शंकर५१
प्रतिबोध्यानय यथा शीघ्रमायाति तत्कुरु
एवमुक्तौ तदा तौ तु पार्वतीपरमेश्वरौ५२
गत्वादिष्टौ दंपती तां प्रोचतुर्ब्रह्मणः प्रियाम्
बृहत्कृत्यं त्वया तत्र करणीयं पतिव्रते५३
पृच्छस्वेमां वरारोहां गौरीं पर्वतनंदिनीम्
लक्ष्मीं चैतां विशालाक्षीमिंद्राणीं वा शुभानने५४
यासां वा श्रद्धधासि त्वं पृच्छ देवि नमोस्तु ते
आशीर्वादस्तया दत्तो देवदेवस्य शूलिनः५५
शरीरार्धे च ते गौरी सदा स्थास्यति शंकर
अनया शोभसे देव त्वया त्रैलोक्यसुंदर५६
सुखभागि जगत्सर्वं त्वया नाथेन शत्रुहन्
एवं ब्रुवंती सावित्री गृहीता ब्रह्मणः प्रिया५७
गौर्य्या च वामहस्ते तु लक्ष्म्या वै दक्षिणे करे
अभिवंद्य तु तां देवीं शंकरो वाक्यमब्रवीत्५८
एह्यागच्छ महाभागे यत्र तिष्ठति ते पतिः
तत्र गच्छ वरारोहे स्त्रीणां भर्ता परागतिः५९
बृहदाग्रहणे देवि प्रणयाद्गंतुमर्हसि
लक्ष्मीश्चैषा पार्वती च स्थिता देवि तवाग्रतः६०
एतयोर्वचसा देवि आवयोश्च शुभानने
मानभंगो न ते कर्तुं यज्यते ब्रह्मणः प्रिये६१
अस्मदभ्यर्थिता देवि तत्र याहि मुदान्विता
गौर्युवाच
अहं च ते प्रिया देवि सर्वदा वदसि स्वयम्६२
लक्ष्मीश्च ते करे लग्ना दक्षिणे च मया धृता
एह्यागच्छ महाभागे यत्र तिष्ठति ते पतिः६३
नीता सा तु तदा ताभ्यां देवी सा मध्यतः कृता
पुरस्सरौ विष्णुरुद्रौ शक्राद्याश्च तथा सुराः६४
गंधर्वाप्सरसश्चैव त्रैलोक्यं सचराचम्
तत्रायाता च सा देवी सावित्री ब्रह्मणः प्रिया६५
सावित्रीं सुमुखीं दृष्ट्वा सर्वलोकपितामहः
गायत्र्या सहितो ब्रह्मा इदं वचनमब्रवीत्६६
एषा देवी कर्मकरी अहं ते वशगस्थितः
समादिश वरारोहे यत्ते कार्यं मया त्विह६७
एवमुक्ता च सा देवी स्वयं देवेन ब्रह्मणा
त्रपयाधोमुखी देवी न च किंचिदवोचत६८
पादयोः पतिता देवी गायत्री ब्रह्मचोदिता
कृतवत्यपराधं ते क्षम देवि नमोस्तु ते६९
आलिंग्य सादरं कंठे सा परिष्वज्य पीडितां
गायत्रीं सांत्वयामास मान्यश्चैष पतिर्मम७०
कर्त्तव्यं वचनं तस्य स्त्रीणां प्राणेश्वरः पतिः
उक्तं भगवता पूर्वं सृष्टिकाले विरिंचिना७१
न च स्त्रीणां पृथग्यज्ञो न व्रतं नाप्युपोषणम्
भर्ता यद्वदते वाक्यं तत्तु कुर्यादकुत्सया७२
भर्तृनिंदां या कुरुते स्वसृनिंदां तथैव च
परिवादं प्रलापं वा नरकं सा तु गच्छति७३
पत्यौ जीवति या नारी उपवासव्रतं चरेत्
आयुष्यं हरते भर्तुर्मृता नरकमिच्छति७४
एवं ज्ञात्वा त्वया भर्तुर्न कार्यं विप्रियं सति
न चास्य दक्षिणं त्वंगं त्वया सेव्यं कथंचन७५
सर्वकार्ये त्वहं चास्य दक्षिणं पक्षमाश्रिता
सव्यं त्वमायेस्साध्वि पार्श्वे नारदपुष्करौ७६
ब्रह्मस्थानानि चान्यानि स्थितान्यायतनानि च
लभे वै शोभमानेह यावत्सृष्टिः प्रजायते७७
भवत्या च मया चैव स्थातव्यं च न संशयः
पुष्करे ब्रह्मणः पार्श्वे वामं च त्वं समाश्रय७८
अनेन चोपदेशेन सुखं तिष्ठ मयान्विता
गायत्र्युवाच
एवमेतत्करिष्यामि तव निर्देशकारिका७९
तवैवाज्ञा मया कार्या त्वं मे प्राणसमा सखी
अहं ते त्वनुजा देवि सदा मां पातुमर्हसि८०
देवदेवस्तदा ब्रह्मा पुष्करे विष्णुना सह
स्नानावसाने देवानां सर्वेषां प्रददौ वरान्८१
देवानां च पतिं शक्रं ज्योतिषां च दिवाकरं
नक्षत्राणां तथा सोमं रसानां वरुणं तथा८२
प्रजापतीनां दक्षं च नदीनां चैव सागरं
कुबेरं च धनाध्यक्षं तथा चक्रे च रक्षसां८३
भूतानां चैव सर्वेषां गणानां च पिनाकिनम्
मानवानां मनुं चैव पक्षिणां गरुडं तथा८४
ऋषीणां च वसिष्ठं च ग्रहाणां च प्रभाकरं
एवमादीनि वै दत्वा देवदेवः पितामहः८५
विष्णुं च शंकरं चैव ब्रह्मा प्रोवाच सादरम्
पृथिव्याः सर्वतीर्थेषु भवंतौ पूज्यसत्तमौ८६
भवद्भ्यां न विना तीर्थं पुण्यतामेति कर्हिचित्
लिंगं वा प्रतिमा वापि दृश्यते यत्रकुत्रचित्८७
तत्तीर्थं पुण्यतां याति सर्वमेव फलप्रदं
मानवा ह्युपहारैश्च ये करिष्यंति पूजनं८८
युष्माकं मां पुरस्कृत्य तेषां रोगभयं कुतः
येषु राष्ट्रेषु युष्माकमुत्सवाः पूजनादिकाः८९
प्रवर्त्स्यंति क्रियाः सर्वा यत्फलं तेषु तच्छृणु
नाधयो व्याधयश्चैव नोपसर्गा न क्षुद्भयं९०
विप्रयोगो न चापीष्टैरनिष्टैर्नापि संगतिः
नाक्षिरोगः शिरार्तिर्वा पित्तशूल भगंदराः९१
नाभिचारं भयं तत्रापस्मारो न विषूचिका
वृद्धिर्निकामतस्तस्मिन्सम्यग्बुद्धिरनुत्तमा९२
आरोग्यं सर्वतश्चैव दीर्घायुश्च प्रजाधनं
नाकाले भविता मृत्युर्गावो नाल्पपयोमुचः९३
नाकालफलिता वृक्षा नोत्पातभयमण्वपि
एतच्छ्रुत्वा ततो विष्णुर्ब्रह्माणं स्तोतुमुद्यतः९४
विष्णुरुवाच
नमोस्त्वनंताय विशुद्धचेतसे स्वरूपरूपाय सहस्रबाहवे
सहस्ररश्मिप्रभवाय वेधसे विशालदेहाय विशुद्धकर्मणे९५
समस्तविश्वार्तिहराय शंभवे समस्तसूर्यानलतिग्मतेजसे
नमोस्तु विद्यावितताय चक्रिणे समस्तधीस्थानकृते सदा नमः९६
अनादिदेवाच्युत शेखरप्रभो भाव्युद्भवद्भूतपते महेश्वर
महत्पते सर्वपते जगत्पते भुवस्पते भुवनपते सदा नमः९७
यज्ञेश नारायण जिष्णु शंकर क्षितीश विश्वेश्वर विश्वलोचन
शशांकसूर्याच्युतवीरविश्वप्रवृत्तमूर्तेमृतमूर्त अव्यय९८
ज्वलद्धुताशार्चि निरुद्धमंडल प्रदेशनारायण विश्वतोमुख
समस्तदेवार्तिहरामृताव्यय प्रपाहि मां शरणगतं तथा विभो९९
वक्त्राण्यनेकानि विभो तवाहं पश्यामि यज्ञस्य गतिं पुराणम्
ब्रह्माणमीशं जगतां प्रसूतिं नमोस्तु तुभ्यं प्रपितामहाय1.34.१००
संसारचक्रक्रमणैरनेकैः क्वचिद्भवान्देववराधिदेवः
तत्सर्वविज्ञानविशुद्धसत्वैरुपास्यसे किं प्रणमाम्यहं त्वाम्१०१
एवं भवंतं प्रकृतेः पुरस्ताद्यो वेत्त्यसौ सर्वविदां वरिष्ठः
गुणान्वितेषु प्रसभं विवेद्यो विशालमूर्तिस्त्विह सूक्ष्मरूपः१०२
वाक्पाणिपादैर्विगतेन्द्रियोपि कथं भवान्वै सुगतिस्सुकर्मा
संसारबंधे निहितेंद्रियोपि पुनः कथं देववरोसि वेद्यः१०३
मूर्त्तादमूर्त्तं न तु लभ्यते परं परं वपुर्देवविशुद्धभावैः
संसारविच्छित्तिकरैर्यजद्भिरतोवसीयेत चतुर्मुख त्वम्१०४
परं न जानंति यतो वपुस्ते देवादयोप्यद्भुतरूपधारिन्
विभोवतारेग्रतरं पुराणमाराधयेद्यत्कमलासनस्थम्१०५
न ते तत्त्वं विश्वसृजोपि योनिमेकांततो वेत्ति विशुद्धभावः
परं त्वहं वेद्मि कथं पुराणं भवंतमाद्यं तपसा विशुद्धम्१०६
पद्मासनो वै जनकः प्रसिद्ध एवं प्रसिद्धिर्ह्यसकृत्पुराणात्
संचिंत्य ते नाथ विभुं भवंतं जानाति नैवं तपसाविहीनः१०७
अस्मादृशैश्च प्रवरैर्विबोध्यं त्वां देवमूर्खाः स्वमतिं विभज्य
प्रबोद्धुमिच्छन्ति न तेषु बुद्धिरुदारकीर्तिष्वपि वेदहीनाः१०८
जन्मांतरैर्वेद विवेकबुद्धिभिर्भवेद्यथा वा यदि वा प्रकाशः
तल्लाभलुब्धस्य न मानुषत्वं न देवगंधर्वपतिः शिवः स्यात्१०९
न विष्णुरूपो भगवान्सुसूक्ष्मः स्थूलोसि देवः कृतकृत्यतायाः
स्थूलोपि सूक्ष्मः सुलभोसि देव त्वद्बाह्यकृत्या नरकेपतंति११०
विमुच्यते वा भवति स्थितेस्मिन्दस्रेन्दुवह्न्यर्कमरुन्महीभिः
तत्वैः स्वरूपैः समरूपधारिभिरात्मस्वरूपे वितत स्वभावः१११
इति स्तुतिं मे भगवन्ह्यनंत जुषस्व भक्तस्य विशेषतश्च
समाधियुक्तस्य विशुद्धचेतसस्त्वद्भावभावैकमनोनुगस्य११२
सदा हृदिस्थो भगवन्नमस्ते नमामि नित्यं भगवन्पुराण
इति प्रकाशं तव मे तदीशस्तवं मया सर्वगतिप्रबुद्ध११३
संसारचक्रे भ्रमणादियुक्ता भीतिं पुनर्नः प्रतिपालयस्व११४
ब्रह्मोवाच
सर्वज्ञस्त्वं न संदेहो प्रज्ञाराशिश्च केशव
देवानां प्रथमः पूज्यः सर्वदा त्वं भविष्यसि११५
नारायणादनंतरं रुद्रो भक्त्या विरिंचनम्
तुष्टाव प्रणतो भूत्वा ब्रह्माणं कमलोद्भवम्११६
नमः कमलपत्राक्ष नमस्ते पद्मजन्मने
नमः सुरासुरगुरो कारिणे परमात्मने११७
नमस्ते सर्वदेवेश नमो वै मोहनाशन
विष्णोर्नाभिस्थितवते कमलासन जन्मने११८
नमो विद्रुमरक्तांग पाणिपल्लवशोभिने
शरणं त्वां प्रपन्नोस्मि त्राहि मां भवसंसृतेः११९
पूर्वं नीलांबुदाकारं कुड्मलं ते पितामह
दृष्ट्वा रक्तमुखं भूयः पत्रकेसरसंयुतम्१२०
पद्मं चानेकपत्रान्तमसंख्यातं निरंजनम्
तत्र स्थितेन त्वयैषा सृष्टिश्चैव प्रवर्तिता१२१
त्वां मुक्त्वा नान्यतस्त्राणं जगद्वंद्य नमोस्तु ते
सावित्रीशापदग्धोहं लिंगं मे पतितं क्षितौ१२२
इदानीं कुरु मे शांतिं त्राहि मां सह भार्यया
ब्रह्मा वै पातु मे पादौ जंघे वै कमलासनः१२३
विरिंचो मे कटिं पातु सृष्टिकृद्गुह्यमेव च
नाभिं पद्मनिभः पातु जठरं चतुराननः१२४
उरस्तु विश्वसृक्पातु हृदयं पातु पद्मजः
सावित्रीपतिर्मे कंठं हृषीकेशो मुखं मम१२५
पद्मवर्णश्च नयने परमात्मा शिरो मम
एवं न्यस्य गुरोर्नाम शंकरो नामशंकरः१२६
नमस्ते भगवन्ब्रह्मन्नित्युक्त्वा विरराम ह
ततस्तुष्टो हरं ब्रह्मा वाक्यमेतदुवाच ह१२७
कं ते कामं करोम्यद्य पृच्छ मां यद्यदिच्छसि
रुद्र उवाच
यदि प्रसन्नो मे नाथ वरदो यदि वा मम१२८
तदेकं मे वद विभो यस्मिन्स्थाने भवान्स्थितः
केषुकेषु च स्थानेषु त्वां पश्यंति सदा द्विजाः१२९
नाम्ना च केन ते स्थानं शोभते धरणीतले
तन्मे वदस्व सर्वेश तव भक्तिरतस्य च१३०
ब्रह्मोवाच
पुष्करेहं सुरश्रेष्ठो गयायां च चतुर्मुखः
कान्यकुब्जे देवगर्भो भृगुकक्षे पितामहः१३१
कावेर्य्यां सृष्टिकर्ता च नंदिपुर्य्यां बृहस्पतिः
प्रभासे पद्मजन्मा च वानर्यां च सुरप्रियः१३२
द्वारवत्यां तु ऋग्वेदी वैदिशे भुवनाधिपः
पौंड्रके पुंडरीकाक्षः पिंगाक्षो हस्तिनापुरे१३३
जयंत्यां विजयश्चास्मि जयंतः पुष्करावते
उग्रेषु पद्महस्तोहं तमोनद्यां तमोनुदः१३४
अहिच्छन्ने जया नंदी कांचीपुर्यां जनप्रियः
ब्रह्माहं पाटलीपुत्रे ऋषिकुंडे मुनिस्तथा१३५
महितारे मुकुंदश्च श्रीकंठः श्रीनिवासिते
कामरूपे शुभाकारो वाराणस्यां शिवप्रियः१३६
मल्लिकाक्षे तथा विष्णुर्महेंद्रे भार्गवस्तथा
गोनर्दे स्थविराकार उज्जयिन्यां पितामहः१३७
कौशांब्यां तु महाबोधिरयोध्यायां च राघवः
मुंनींद्रश्चित्रकूटे तु वाराहो विंध्यपर्वते१३८
गंगाद्वारे परमेष्ठी हिमवत्यपि शंकरः
देविकायां स्रुचाहस्तः स्रुवहस्तश्चतुर्वटे१३९
वृंदावने पद्मपाणिः कुशहस्तश्च नैमिषे
गोप्लक्षे चैव गोपीन्द्रः सचंद्रो यमुनातटे१४०
भागीरथ्यां पद्मतनुर्जलानंदो जलंधरे
कौंकणे चैव मद्राक्षः कांपिल्ये कनकप्रियः१४१
वेंकटे चान्नदाता च शंभुश्चैव क्रतुस्थले
लंकायां च पुलस्त्योहं काश्मीरे हंसवाहनः१४२
वसिष्ठश्चार्बुदे चैव नारदश्चोत्पलावते
मेलके श्रुतिदाताहं प्रपाते यादसांपतिः१४३
सामवेदस्तथा यज्ञे मधुरे मधुरप्रियः
अंकोटे यज्ञभोक्ता च ब्रह्मवादे सुरप्रियः१४४
नारायणश्च गोमंते मायापुर्यां द्विजप्रियः
ऋषिवेदे दुराधर्षो देवायां सुरमर्दनः१४५
विजयायां महारूपः स्वरूपो राष्ट्रवर्द्धने
पृथूदरस्तु मालव्यां शाकंभर्यां रसप्रियः१४६
पिंडारके तु गोपालः शंखोद्धारेंगवर्द्धनः
कादंबके प्रजाध्यक्षो देवाध्यक्षः समस्थले१४७
गंगाधरो भद्रपीठे जलशाप्यहमर्बुदे
त्र्यंबके त्रिपुराधीशः श्रीपर्वते त्रिलोचनः१४८
महादेवः पद्मपुरे कापाले वैधसस्तथा
शृंगिबेरपुरे शौरिर्नैमिषे चक्रपाणिकः१४९
दंडपुर्यां विरूपाक्षो गौतमो धूतपापके
हंसनाथो माल्यवति द्विजेंद्रो वलिके तथा1.34.१५०
इंद्रपुर्यां देवनाथो द्यूतपायां पुरंदरः
हंसवाहस्तु लंबायां चंडायां गरुडप्रियः१५१
महोदये महायज्ञः सुयज्ञो यज्ञकेतने
सिद्धिस्मरे पद्मवर्णः विभायां पद्मबोधनः१५२
देवदारुवने लिंगं महापत्तौ विनायकः
त्र्यंबको मातृकास्थाने अलकायां कुलाधिपः१५३
त्रिकूटे चैव गोनर्दः पाताले वासुकिस्तथा
पद्माध्यक्षश्च केदारे कूष्मांडे सुरतप्रियः१५४
कुंडवाप्यां शुभांगस्तु सारण्यां तक्षकस्तथा
अक्षोटे पापहा चैव अंबिकायां सुदर्शनः१५५
वरदायां महावीरः कांतारे दुर्गनाशनः
अनंतश्चैव पर्णाटे प्रकाशायां दिवाकरः१५६
विराजायां पद्मनाभः स्वरुद्रश्च वृकस्थले
मार्कंडो वटके चैव वाहिन्यां मृगकेतनः१५७
पद्मावत्यां पद्मगृहो गगने पद्मकेतनः
अष्टोत्तरं स्थानशतं मया ते परिकीर्तितम्१५८
यत्र वै मम सांनिध्यं त्रिसंध्यं त्रिपुरांतक
एतेषामपि यस्त्वेकं पश्यते भक्तिमान्नरः१५९
स्थानं सुविरजं लब्ध्वा मोदते शाश्वतीः समाः
मानसं वाचिकं चैव कायिकं यच्च दुष्कृतम्१६०
तत्सर्वं नाशमायाति नात्र कार्या विचारणा
यस्त्वेतानि च सर्वाणि गत्वा मां पश्यते नरः१६१
भवते मोक्षभागी च यत्राहं तत्र वै स्थितः
पुष्पोपहारैर्धूपैश्च ब्राह्मणानां च तर्पणैः१६२
ध्यानेन च स्थिरेणाशु प्राप्यते परमेश्वरः
तस्य पुण्यफलं चाग्र्यमंते मोक्षफलं तथा१६३
स ब्रह्मलोकमासाद्य तत्कालं तत्र तिष्ठति
पुनः सृष्टौ भवेद्देवो वैराजानां महातपाः१६४
ब्रह्महत्यादि पापानि इहलोके कृतान्यपि
अकामतः कामतो वा तानि नश्यंति तत्क्षणात्१६५
इहलोके दरिद्रो यो भ्रष्टराज्योथवा पुनः
स्थानेष्वेतेषु वै गत्वा मां पश्यति समाधिना१६६
कृत्वा पूजोपहारं च स्नानं च पितृतर्पणम्
कृत्वा पिंडप्रदानं च सोचिराद्दुःखवर्जितः१६७
एकच्छत्रो भवेद्राजा सत्यमेतन्न संशयः
इह राज्यानि सौभाग्यं धनं धान्यं वरस्त्रियः१६८
भवंति विविधास्तस्य यैर्यात्रा पुष्करे कृता
इदं यात्राविधानं यः कुरुते कारयेत वा१६९
शृणोति वा स पापैस्तु सर्वैरेव प्रमुच्यते
अगम्यागमनं येन कृतं जानाति मानवः१७०
ब्रह्मक्रियाया लोपेन बहुवर्षकृतेन च
यात्रां चेमां सकृत्कृत्वा वेदसंस्कारमाप्नुयात्१७१
किमत्र बहुनोक्तेन इदमस्तीह शंकर
अप्राप्यं प्राप्यते तेन पापं चापि विनश्यति१७२
सर्वयज्ञफलैस्तुल्यं सर्वतीर्थफलप्रदम्
सर्वेषां चैव वेदानां समाप्तिस्तेन वै कृता१७३
यैः कृत्वा पुष्करे संध्यां सावित्री समुपासिता
स्वपत्नीहस्तदत्तेन पौष्करेण जलेन तु१७४
भृंगारेण वरेणैव मृण्मयेनापि शंकर
आनीय तज्जलं पुण्यं संध्योपास्तिर्दिनक्षये१७५
समाधिना समाधेया सप्राणायामपूर्विका
तस्यां कृतायां यत्पुण्यं तच्छृणुष्व हराद्य मे१७६
तेन द्वादशवर्षाणि भवेत्संध्या सुवंदिता
अश्वमेधफलं स्नाने दाने दशगुणं तथा१७७
उपवासेप्यनंतं च स्वयं प्रोक्तं मयानघ
सावित्र्याः पुरतो यस्तु दंपत्योर्भोजनं ददेत्१७८
तेनाहं भोजितस्तत्र भवामीह न संशयः
द्वितीयं भोजयेद्यस्तु भोजितस्तेन केशवः१७९
लक्ष्मीसहायो वरदो वरांस्तस्य प्रयच्छति
उमासहायस्तार्तीये भोजितोसि न संशयः१८०
अथवा या कुमारीणां भक्त्या दद्याच्च भोजनम्
तस्याः कुले भवेद्वंध्या न कदाचिच्च दुर्भगा१८१
न कन्या जननी क्वापि न भर्तुर्या न वल्लभा
तस्मात्सर्वप्रयत्नेन सावित्र्यग्रे तु भोजनम्१८२
पारत्रमैहिकं वापि कामयद्भिर्नरैः सदा
दातव्यं सर्वदा भीष्म कटुतैलविवर्जितम्१८३
न चाम्लं न च वै क्षारं स्त्रीणां भोज्यं कदाचन
भक्ष्यं पंचप्रकारं च रसैः सर्वैस्सुसंस्कृतम्१८४
घृतपूर्यः सुपक्वाश्च बहुक्षीरसमन्विताः
शिखरिणी तथा पेया दधिक्षीरसमन्विता१८५
आह्लादकारिणी पुंसां स्त्रीणां चातीव वल्लभा
धनधान्यां जनोपेतं नारीणां च शताकुलम्१८६
पूपकं शष्कुलं तस्यां जायते नात्र संशयः
न ज्वरो न च संतापो न दुःखं न वियोगिता१८७
असौ तारयते स्वानां कुलानामेकविंशतिं
बंधुभिश्च सुतैश्चैव दासीदासैरनंतकैः१८८
पूरितं च कुलं तस्याः पूरिकां या प्रदास्यति
एधते च चिरं कालं पुत्रपौत्रसमन्वितम्१८९
कुलं च सकलं तस्य शष्कुलं यः प्रयच्छति
पुत्रिण्यो वै दुहितरो बंधुभिः सहितं कुलम्१९०
शिखरिणीप्रदात्रीणां युवतीनां न संशयः
मोदते तु कुलं तस्याः सर्वसिद्धिप्रपूरितम्१९१
मोदकानां प्रदानेन एवमाह प्रजापतिः
एतदेव तु गौरीणां भोजनं हर शस्यते१९२
सुभगा पुत्रिणी साध्वी धनऋद्धिसमन्विता
सहस्रभोजिनी शंभो जन्मजन्म भविष्यति१९३
पूपानि चैव पुण्यानि कृतानि मधुराणि च
द्राक्षारसप्रधानं च गुडखंडसमन्वितम्१९४
शारदेन तु धान्येन कृत्वा खंडं विमिश्रितत्
स्त्रीणां चैव तु पेयानि भक्ष्याणि च द्विजन्मनाम्१९५
इह चाविकवासांसि वर्षायोग्यानि सर्वशः
यानियानि च पेयानि तानि योग्यानि दापयेत्१९६
प्रतिपूज्य विधानेन वसुदानैः सकंचुकैः
कुंकुमेनानुलिप्तांग्यः स्रग्दामभिरलंकृताः१९७
दत्वा तूपानहावङ्घ्र्योर्नारिकेलं करे तथा
अक्ष्णोश्चैवांजनं दत्वा सिंदूरं चैव मस्तके१९८
गुडं फलानि हृद्यानि वांछितानि मृदूनि च
हस्ते दत्वा सपात्राणि प्रणिपत्य विसर्जयेत्१९९
स्वयं भुंजीत वै पश्चात्सबंधुर्बालकैः सह
अथवा नैव संपत्तिस्तीर्थे दानं च भाजनम्1.34.२००
गृहे गतः प्रदास्यामि हृष्टो देव प्रसीद मे
एवमेव पितॄणां च आगत्य स्वीय मंदिरे२०१
पिंडप्रदानपूर्वं तु श्राद्धं कुर्याद्विधानतः
पितरस्तस्य वै तृप्ता भवंति ब्रह्मणो दिनम्२०२
तीर्थादष्टगुणं पुण्यं स्वगृहे ददतां शिव
न च पश्यंति वै नीचाः श्राद्धं द्विजातिभिः कृतं२०३
एकांते तु गृहे गुप्ते पितॄणां श्राद्धमिष्यते
नीचदृष्ट्या हतं तच्च पितॄन्नैवोपतिष्ठति२०४
तस्मात्सर्वप्रयत्नेन श्राद्धं गुप्तं च कारयेत्
पितॄणां तृप्तिदं प्रोक्तं स्वयमेव स्वयंभुवा२०५
गौरीभक्त्याधिका या तु शस्ता ज्ञातक्रिया तु सा
राजसी मनसा ज्ञाता जनानां कीर्तिदायिनी२०६
गुप्तं दानं सदा देयमात्मनो हितमिच्छता
पक्वान्नं दृश्यतामेति दीयमानं जनैर्भुवि२०७
दृश्यमानं तु तत्तुष्ट्यै दृश्यते नेह कर्हिचित्
एकस्मिन्भोजिते विप्रे कोटिर्भवति भोजिता२०८
भवने नात्र संदेहः सत्यं पौराणिकं वचः
तीर्थे तु ब्राह्मणं नैव परीक्षेत कथंचन२०९
अन्नार्थिनमनुप्राप्तं भोज्यं तं मनुरब्रवीत्
सक्तुभिः पिंडदानं च संयावैः पायसेन वा२१०
कर्त्तव्यमृषिभिर्दृष्टं पिण्याकेनैंगुदेन वा
तिलपिण्याककैर्देयं भक्तिमद्भिर्नरैः सदा२११
श्राद्धं तत्र तु कर्तव्यमर्घ्यावाहनवर्जितम्
स्वधां तु गृध्राः काका वा नैव दृष्ट्या हरन्ति ते२१२
श्राद्धं तत्तैर्थिकं प्रोक्तं पितॄणां तृप्तिदं परम्
कर्तव्यं तत्प्रयत्नेन भक्तिरेवात्र कारणम्२१३
भक्त्या तुष्यन्ति पितरस्तुष्टाः कामान्दिशन्ति ते
पुत्रं पौत्रं धनं धान्यं कामान्यान्मनसेच्छति२१४
भक्त्या चाराधितो दद्यान्नृणां प्रीतः पितामहः
अकालेप्यथ काले वा तीर्थे श्राद्धं सदा नरैः२१५
प्राप्तैरेव सदा स्नानं कर्तव्यं पितृतर्पणम्
पिंडदानं च कर्तव्यं पितॄणां चातिवल्लभम्२१६
पितरो हि निरीक्षन्ते गोत्रजं समुपागतम्
आशया परया युक्ताः कांक्षंतस्सलिलं च ते२१७
विलम्बो नैव कर्तव्यो नैव विघ्नं समाचरेत्
अच्छिन्ना सन्ततिस्तेषां सदा कालं भविष्यति२१८
पितरः पुत्रदातारं वृद्धिश्राद्धाभिकांक्षिणः
तेन ते सन्ततिच्छेदं न कुर्वन्ति हि कर्हिचित्२१९
अतः श्राद्धं पुरा प्रोक्तं स्वयमेव स्वयंभुवा
गुणोत्तरंतुयत्कार्यंद्विजैःपितृपरायणैः२२०
तीर्थे क्षेत्रे गृहे वापि संक्रांतौ ग्रहणेपि वा
विषुवे अयने चापि जन्मर्क्षे च प्रपीडिते२२१
एतान्वै श्राद्धकालांस्तु पुरा स्वायंभुवोब्रवीत्
कृते श्राद्धे न वै पुंसां पीडा भवति देहजा२२२
तदा पुत्रकृतं वापि सर्वं त्यजति दुष्कृतम्
यथा न भविता पीडा ग्रहचोरनृपादिकात्२२३
दुष्कृतं नश्यते सर्वं परत्र च गतिं शुभाम्
लभते नात्र सन्देहः प्रजापतिवचो यथा२२४
कृते युगे पुष्कराणि त्रेतायां नैमिषं स्मृतम्
द्वापरे च कुरुक्षेत्रं कलौ गंगां समाश्रयेत्२२५
दुष्करः पुष्करे वासो दुष्करं पुष्करे तपः
यदन्यत्र कृतं पापं तीर्थे तद्याति लाघवम्२२६
न तीर्थकृतमन्यत्र क्वचित्पापं व्यपोहति
सायंप्रातः स्मरेद्यस्तु पुष्कराणि कृताञ्जलि२२७
उपस्पृष्टं भवेत्तेन सर्वतीर्थेषु भारत
सायंप्रातरुपस्पृश्य पुष्करे नियतेन्द्रियः२२८
क्रतून्सर्वानवाप्नोति ब्रह्मलोकं च गच्छति
द्वादशाब्दं द्वादशाहं मासं मासार्धमेव च२२९
यो वसेत्पुष्करे नित्यं स गच्छेत्परमांगतिम्
सर्वेषामेवलोकानांब्रह्मलोकोपरिस्थितः२३०
यइच्छेत्पुष्करंगन्तुंसोनुसेवेतपुष्करम्
यथा लोमविलोमाभ्यां तथा व्यस्तसमस्तयोः२३१
स्नातस्तु पुष्करे सम्यक्कोट्याश्च फलमुश्नुते
विधिवत्क्रियमाणेषु सर्वतीर्थेषु यत्फलम्२३२
पुष्करालोकनादेव नरः प्राप्नोति तत्फलम्
दशकोटिसहस्राणि तीर्थानां वै महीतले२३३
सान्निध्यं पुष्करे तेषां त्रिसंध्यं कुरुनन्दन
यावत्तिष्ठंति गिरयो यावत्तिष्ठन्तिसागराः२३४
तावत्पुष्कर मृत्यूनां ब्रह्मलोको न संशयः
जन्मान्तरसहस्रैश्च आजन्ममरणांन्तिकम्२३५
निर्दहेद्दुष्कृतं सर्वं सकृत्स्नात्वा तु पुष्करे
पुष्करं दुष्करं क्षेत्रं सर्वपापप्रणाशनम्२३६
इदानीं शृणु मे राजन्पञ्चपातकनाशनम्
यजनं देवदेवस्य ब्रह्मपुत्र वसुप्रदम्२३७
इह जन्मनि दारिद्र्य व्याधिकुष्ठादिपीडितः
अलक्ष्मीवानपुत्रस्तु यो भवेत्पुरुषो भुवि२३८
तस्य सद्यो भवेल्लक्ष्मीरायुः पूर्णं सुतास्सुखम्
कृत्वा तु मण्डलगतं लोकपालसमन्वितम्२३९
ब्रह्माणं तु परं देवं यः पश्यति विधानतः
पूजितं नवनाभेन मन्त्रमूर्तिमयो निजम्२४०
कार्तिके मासि शुक्लायां पौर्णमास्यां विशेषतः
सर्वासु वा यजेदेवं पूर्णिमासु विधानतः२४१
संक्रान्तौ च महाबाहो चन्द्रसूर्यग्रहेपि वा
यः पश्यति विभुं देवं पूजितं गुरुणा नृप२४२
तस्य सद्यो भवेत्तुष्टिः पापध्वंसश्च जायते
स मान्यो देवतानां च भवतीह नराधिप२४३
ब्राह्मणक्षत्रियविशां भक्तानां तु परीक्षणम्
संवत्सरं गुरुः कुर्याज्जातिशौचक्रियादिभिः२४४
उपपन्नमिति ज्ञात्वा हृदये नावधारयेत्
तेपि भक्तियुता ध्यात्वा त्वाचार्यं परमेश्वरम्२४५
संवत्सरं गुरौ भक्तिं कुर्युर्विष्णौ यथा तथा
प्रसादयेयुश्च ततः पूर्णे संवत्सरे गुरुम्२४६
भगवंस्त्वत्प्रसादेन संसारार्णवतारणम्
परब्रह्मोपासनेन विरिंच्याराधनेन च२४७
सहस्रशीर्षजप्येन मण्डलब्राह्मणेन च
ध्यानेन स्यात्तथास्माकमुपदेशः प्रदीयताम्२४८
इच्छामो वैदिकीं लक्ष्मीं विशेषेण प्रसीदताम्
अभ्यर्थितो गुरुस्त्वेवं मेधावी तैस्तदा ततः२४९
यथाविधि समभ्यर्चेद्ब्रह्माणं विष्णुमग्रतः
ते बद्धनेत्राः स्वाप्यास्तु कार्तिकस्य चतुर्दशीम्1.34.२५०
ब्राह्मे मुहूर्ते चोत्त्थाय बद्धपद्मासनास्तु ते
ध्यात्वा गुरुं सहस्रारे श्वेतवस्त्रोपवीतकम्२५१
श्वेतमाल्यांबरधरं श्वेतगंधानुलेपनम्
निर्गम्य च बहिर्नद्यां कुर्युर्नित्यमतन्द्रिताः२५२
क्षीरवृक्षोत्थमाचार्यो दापयेद्दन्तधावनम्
ते च तं भक्षयेयुर्हि नदीं गत्वा समुद्रगाम्२५३
इतरद्वा तटाकं वा गृहे वापि विधानतः
तद्भक्षयेयुर्मंत्रेण मंत्रितं परमेष्ठिनः२५४
आपोहिष्ठेति मंत्रेण सप्तकृत्वोभिमंत्रितं
देवस्य त्वेति वै जप्त्वा युंजानेति करे न्यसेत्२५५
इरावत्येति प्रक्षाल्य ब्रह्मोदनेति वै मुखे
भक्षयित्वा क्षिपेद्दूरं पतितं च निरीक्षयेत्२५६
सम्मुखं प्राङ्मुखं वापि विदिशं चापि वा गतम्
संमुखे देवतालब्धिर्मंत्रसिद्धिश्च जायते२५७
पराङ्मुखे दंतकाष्ठे सर्वे देवाः पराङ्मुखाः
उत्तरेण गते तस्मिन्सिद्धिर्भवति वा न वा२५८
दक्षिणेन भवेन्मृत्युर्गुरोस्तस्य न संशयः
प्रेक्ष्याशुभं स्वपेद्भूमौ देवदेवस्य सन्निधौ२५९
स्वप्नान्दृष्ट्वा गुरोरग्रे श्रावयेयुर्विचक्षणाः
ततः शुभाशुभं तत्र लक्षयेत्परमो गुरुः२६०
पौर्णमास्यामथ स्नात्वा ततो देवालयं व्रजेत्
गुरुश्च मंडलं भूमौ कल्पितायां तु वर्तयेत्२६१
लक्षणैर्विविधैर्भूमिं लक्षयित्वा विधानतः
षोडशारं लिखेत्पद्मं नवधारमथापि वा२६२
अष्टपत्रमथो वापि लिखित्त्वा दर्शयेद्बुधः
नेत्रबंधं तु कुर्वीत सितवस्त्रेण यत्नतः२६३
वर्णानुक्रमतः शिष्यान्पुष्पहस्तान्प्रवेशयेत्
नवनाभं यदा कुर्यान्मंडलं वर्णकैर्बुधः२६४
इंद्राणीपूर्वकं देवमिंद्रमैंद्र्यां तु पूजयेत्
लोकपालैः समं तद्वदग्निं संपूजयेन्नृप२६५
दिशि वह्नेर्यमं याम्यां नैऋत्यां चैव निर्ऋतिम्
वरुणं वारुणाशायां वायुं वायव्यगोचरे२६६
धनदं चोत्तरे न्यस्य रुद्रमीशानगोचरे
कमंडलुं पूर्वतो हि स्रुचं वै दक्षिणे तथा२६७
हंसं वै पश्चिमायां तु उत्तरायां स्रुवं तथा
आग्नेय्यां च ब्रसीं दद्यान्नैर्ऋत्यां पादुके तथा२६८
वायव्यां योगपट्टं च ऐशान्यां च गलंतिकाम्
विष्णुस्तु पूर्वतः पूज्यो दक्षिणे चापि शंकरः२६९
पश्चिमे तु रविर्देव ऋषयश्चोत्तरे तथा
मध्ये स्वयं पद्मजन्मा सावित्री दक्षिणे तथा२७०
उत्तरे चैव गायत्री देवी पद्मदलेक्षणा
ऋग्वेदं पूर्वतो न्यस्य यजुर्वेदं च दक्षिणे२७१
पश्चिमे सामवेदं च अथर्वं चोत्तरे तथा
इतिहासपुराणानिच्छंदोज्यौतिषमेवच२७२
धर्मशास्त्राणि चान्यानि इंद्रादि दिक्षु विन्यसेत्
पूर्वपत्रे बलं पूज्य प्रद्युम्नं दक्षिणे दले२७३
पश्चिमे चानिरुद्धं च वासुदेवमथोत्तरे
पूर्वतो वामदेवं च सद्योजातं तु दक्षिणे२७४
ईशानं पश्चिमे स्थाप्य तत्पुरुषं चोत्तरे तथा
अघोरस्सर्वतः पूज्य एषा पूजा तु मंडले२७५
पूर्वतो भास्करं पूज्य दक्षिणेन दिवाकरं
प्रभाकरं पश्चिमे तु ग्रहराजमथोत्तरे२७६
एवं पूज्य विधानेन ब्रह्माणं परमेश्वरम्
दिङ्मंडले तु विन्यस्य अष्टौ कुंभान्विधानतः२७७
ब्राह्मं तु कलशं मध्ये नवमं तत्र कल्पयेत्
स्नापयेन्मुक्तिकामं तु ब्रह्मणो वै घटेन तु२७८
श्रीकामं वैष्णवेनेह कलशेन तु पार्थिव
राज्यार्थिनं स्नापयेच्च ऐंद्रेण कलशेन तु२७९
द्रव्यप्रतापकामं तु आग्नेय घटवारिणा
मृत्युंजयविधानाय याम्येन स्नापयेन्नरम्२८०
दुष्टप्रध्वंसनायालं नैर्ऋतेन विधीयते
स्नापयेद्वारुणेनाशु पापनाशाय मानवं२८१
शरीरारोग्यकामं तु वायव्येनाभिषेचयेत्
द्रव्यसंपत्तिकामस्य कौबेरेण विधीयते२८२
रौद्रेण ज्ञानकामस्य लोकपालघटास्त्विमे
एकैकेन नरः स्नात्वा सर्वदोषविवर्जितः२८३
जायते ब्रह्मसदृशो राजासद्योऽथ वा नरः
अथवा दिक्षु सर्वासु यथासंख्येन लोकपान्२८४
पूजयेत्तु स्वनाम्ना तु कुंभैरेव विधानतः
एवं संपूज्य देवांस्तु लोकपालान्प्रसन्नधीः२८५
पश्चात्परीक्षितान्शिष्यान्बद्धनेत्रान्प्रवेशयेत्
दग्ध्वाग्नेय्या धारणया वायुना विधुनेत्ततः२८६
सोमेनाप्यायितान्कृत्वा श्रावयेत्समयांस्ततः
न निंद्याद्ब्राह्मणान्देवान्विष्णुं ब्रह्माणमेव च२८७
इंद्रमादित्यमग्निं च लोकपालान्ग्रहांस्तथा
गुरुं च ब्राह्मणं वापि मुनींद्रं पूर्वदीक्षितम्२८८
एवं तु समयान्श्राव्य पश्चाद्धोमं तु कारयेत्
ऊँ नमो भगवते ब्रह्मणे सर्वरूपिणे हुंफट्स्वाहा२८९
षोडशाक्षरमंत्रेण होमयेज्ज्वलितेनले
गर्भाधानादिकाः सर्वा आहुतीस्संप्रदापयेत्२९०
तिसृभिस्तु व्याहृतिभिर्देवदेवस्य सन्निधौ
होमांते दीक्षितः पश्चाद्दापयेद्गुरुदक्षिणाम्२९१
हस्त्यश्वयानशकटहेमधान्यादिकं नृप
दापयेद्गुरवे प्राज्ञो मध्यमे मध्यमं तथा२९२
दापयेदपरे युग्मं सहिरण्यं तु तद्गुरोः
एवं कृते तु यत्पुण्यं महत्संजायते तथा२९३
तन्न शक्यं निगदितुमपि वर्षशतैरपि
दीक्षितोथ पुरा भूत्वा पाद्मं वै शृणुयाद्यदि२९४
तेन वेदाः पुराणानि सर्वमंत्रास्ससंग्रहाः
जप्तास्स्युः पुष्करे तीर्थे प्रयागे सिंधुसागरे२९५
देवह्रदे कुरुक्षेत्रे वाराणस्यां विशेषतः
ग्रहणे विषुवे चैव यत्फलं जपतां भवेत्२९६
फलं शतगुणं तच्च पुष्करस्थं पितामहम्
दृष्ट्वा प्राप्नोति विविधान्कामान्कामयते यदि२९७
पूजां वैधानिकीं कृत्वा दीक्षितो यः शृणोति च
देवा अपि तपः कृत्वा ध्यायंति च वदन्ति च२९८
कदा मे भारते वर्षे जन्म स्यादिति पार्थिव
दीक्षिताश्च भविष्यामः पाद्मं श्रोष्यामहे कदा२९९
पाद्मं तु षोडशात्मानं न्यस्य देहे कदा वयम्
यास्यामस्तु परं स्थानं यद्गत्वा न पुनर्भवेत्1.34.३००
एवं जल्पंति विबुधा मनसा चिंतयंति च
ब्रह्मयज्ञं च कार्तिक्यां कदा द्रक्ष्यामहे नृप३०१
एवं ते विधिरुद्दिष्टो मयायं कुरुसत्तम
देवगंधर्वयक्षाणां सर्वदा दुर्लभो ह्यसौ३०२
एवं यो वेत्ति तत्त्वेन यश्च पश्यति मंडलम्
यश्चेमं शृणुयाच्चैव सर्वे मुक्ता इति श्रुतिः३०३
अतः परं प्रवक्ष्यामि रहस्यमिदमुत्तमम्
येन लक्ष्मीर्धृतिस्तुष्टिः पुष्टिश्चापि भवेन्नृणाम्३०४
सर्वे ग्रहास्सदा सौम्या जायंते येन पार्थिव
आदित्यवारं हस्तेन पूर्वमादाय भक्तितः३०५
भक्तैकेन क्षिपेत्तावद्यावत्सप्त च संख्यया
ततस्तु सप्तमे पूर्णे कुर्याद्ब्राह्मणभोजनम्३०६
आदित्यं चैव सौवर्णं कृत्वा यत्नेन मानवः
रक्तवस्त्रयुगच्छन्नं छत्रिकां पादुके तथा३०७
उपानहौ च दातव्ये स्थापयेत्ताम्रभाजने
घृतेन स्नपनं कृत्वा संपूर्णांग द्विजातये३०८
दापयेत्कृत्यविदुषे ब्राह्मणाय विशेषतः
एवं कृतौ फलं तस्य भवेदारोग्यमुत्तमम्३०९
द्रव्यसंपत्समग्राप्तिरिति पौराणिकी क्रिया
अविसंवादिनी चेयं शांति पुष्टिप्रदा नृणाम्३१०
तद्वच्चित्रासु संगृह्य सोमवारं विचक्षणः
रात्रिभक्षः क्षिपेदष्टौ सोमवारान्प्रयत्नतः३११
प्रत्येकं ब्राह्मणा भोज्या यथाशक्ति विचक्षणाः
नवमे तु ततः पूर्णे कुर्याद्ब्राह्मणभोजनम्३१२
वस्त्रयुग्मं च दातव्यं ततः सोमं प्रदापयेत्
कांस्यभाजनसंस्थं तु क्षीरसंपूरितं ततः३१३
तद्वच्छत्रं पादुके च तथोपानत्समन्वितम्
संपूर्णांगाय दातव्यं ब्राह्मणाय विशेषतः३१४
स्वात्यामंगारकं पूज्य क्षपयेन्नक्तभोजनैः
अष्टावेवं च यावच्च कुर्याद्ब्राह्मणभोजनम्३१५
अंगारकं च सौवर्णं स्थापितं ताम्रभाजने
दापयेद्ब्राह्मणायाथ संपूर्णांगाय चैव हि३१६
नक्षत्रानुक्रमेणैव क्षिपेन्नक्तानि सप्त वै
अष्टमे तु क्रमात्खेटान्सौवर्णान्दापयेद्बुधः३१७
अग्निकार्यं च कुर्वीत यथादृष्टं विधानतः
एवं कृते भवेद्यद्वै तन्निबोध नराधिप३१८
असौम्याश्च ग्रहास्सर्वे सौम्यरूपा भवंति च
सर्वे रोगा विनश्यन्ति तुष्टिमायान्ति देवताः३१९
न विरुन्धन्ति तं नागाः पितरस्तर्पितास्तथा
दुस्स्वप्ननाशो भवति शृण्वतां पठतां तथा३२०
यदि भौमो रविसुतो भास्करो राहुणा सह
केतुश्च मूर्ध्नि तिष्ठंति रौद्राः पीडाकरा ग्रहाः३२१
अनेन कृतमात्रेण ससौभाग्या भवंति हि
य एवं कुरुते राजन्सदाभक्तिसमन्वितः३२२
तस्य सानुग्रहाः सर्वे शांतिं यच्छंति नान्यथा
शनैश्चरं राहुकेतू लोहपात्रेषु विन्यसेत्३२३
लोहेन कारयेच्चैनान्ब्राह्मणेभ्यश्च दापयेत्
कृष्णं वस्त्रयुगं देयमेतेषां प्रीणनाय वै३२४
सौवर्णां गाश्च दातव्याः शांतिश्रीविजयेप्सुभिः
व्रतांते सर्व एते हि ग्रहास्सौवर्णका नृप३२५
दातव्याः शांतिमिच्छद्भिर्व्रतांते द्विजभोजनम्
यथाशक्ति दक्षिणा च ग्रहाणां प्रीतये तथा३२६
अल्पायासेन राजेंद्र सर्वान्कामानवाप्नुयात्
शंकराज्ज्ञानमन्विच्छेदारोग्यं भास्करात्तथा३२७ (ज्ञान)
हुताशनाद्धनमिच्छेद्गतिमिच्छेज्जनार्दनात् (गति)
ब्राह्म्यं पितामहाच्चैव सर्वजन्तुप्रशांतिदम्३२८
भीष्म उवाच
यस्त्वया कथितो यज्ञो यज्वनां तु फलं महत्
तथायुषस्स्वल्पतया अन्यैः प्राप्तुं न शक्यते३२९
स्वल्यायासेन यत्पुण्यं संवत्सरमुपोषजम्
भवेत्तन्मे मुनिश्रेष्ठ कथयस्व महाफलम्३३०
पुलस्त्य उवाच
इदमर्थं महाराज श्वेतो राजा महायशाः
वसिष्ठं पृष्टवान्प्रश्नं क्षुधया पीडितो भृशम्३३१
आसीदिलावृते वर्षे श्वेतो राजा महाबलः
स महीं सकलां जिग्ये सप्तद्वीपां सपत्तनाम्३३२
ब्रह्मपुत्रो वसिष्ठश्च आसीत्तस्य पुरोहितः
स कदाचिन्नृपश्रेष्ठो जित्वा परमधार्मिकः३३३
पुरोहितमुवाचेदं वसिष्ठं जपतां वरम्
श्वेत उवाच
भगवन्नश्वमेधानां सहस्रं कर्तुमुत्सहे३३४
सुवर्णरूप्यरत्नानां दानं कर्तुं द्विजातिषु
पृथिव्यामन्नदानं तु दातुन्नेच्छामि वै गुरो३३५
नान्नेन किंचिद्दत्तेन दत्ते होम्नि द्विजे प्रभो
न किंचिद्वस्त्विति ज्ञात्वा न दत्तं तत्कदाचन३३६
रक्तवस्त्रमलंकारं ग्रामांश्च नगराणि च
अददाद्ब्राह्मणेभ्योऽसौ श्वेतो राजा महायशाः३३७
नान्नं जलं तेन राज्ञा दत्तमासीत्कदाचन
ततोऽश्वमेधैर्बहुभिर्यज्वासौ नृपसत्तम३३८
स्वर्गं गतः पुण्यजितं तपस्तप्त्वार्बुदत्रयम्
ब्राह्मीं सलोकतां प्राप्तः सर्वालंकारभूषितः३३९
नृत्यंत्यप्सरसस्तत्र गायंते सिद्धयोषितः
तुंबुरुर्नारदस्तत्र द्वावप्यनुगतौ सदा३४०
अगायेतां महाप्राज्ञौ मुनयश्च तपोन्विताः
वेदोक्तमंत्रैः स्तुवन्ति अनेकक्रतुयाजिनम्३४१
एवं विभवयुक्तस्य राज्ञस्तस्य महात्मनः
क्षुधाया पीड्यते देहं तृष्णया च विशेषतः३४२
स तया पीड्यमानस्तु क्षुधया राजसत्तमः
विमानेनाप्यसौ स्वर्गं त्यक्त्वागादृक्षपर्वतम्३४३
यत्रात्ममूर्तिस्तत्रागात्पुरा दग्धा महावने
तत्रास्थीनि स्वयं गृह्य लिहन्नास्ते स पार्थिवः३४४
पुनर्विमानमारुह्य ययौ नाकं नराधिपः
अथ कालेन महता स राजा संशितव्रतः३४५
स्वान्यस्थीनि लिहन्दृष्टो वसिष्ठेन पुरोधसा
उक्तश्च किन्नु राजेन्द्र स्वास्थिभक्षो नराधिप३४६
एवमुक्तस्ततो राजा वसिष्ठेन महर्षिणा
उवाच वचनं चेदं श्वेतो राजाथ तं मुनिम्३४७
भगवंस्तृट्क्षुधार्तोहमन्नदानं पुरा मया
न दत्तं मुनिशार्दूल तेन मां क्षुत्प्रबाधते३४८
एवमुक्तस्तदा राजा वसिष्ठो मुनिपुंगवः
उवाच तं नृपं भूयो वाक्यमेतन्महामुनिः३४९
किं ते करोमि राजेंद्र क्षुधितस्य विशेषतः
वस्तु कस्यापि किंचिद्धि नाऽदत्तमुपतिष्ठति1.34.३५०
रत्नहेमप्रदानेन भोगवान्जायते नरः
अन्नदानप्रदानेन सर्वकामैः प्रदीपितः३५१
तन्न दत्तं त्वया राजन्स्तोकं मत्वा नराधिपः
श्वेत उवाच
अदत्तस्य च संभूतिर्यथा भवति मे गुरो३५२
वसिष्ठ त्वत्प्रसादेन तन्ममाचक्ष्व पृच्छतः
वसिष्ठ उवाच
अस्त्येकं कारणं येन जायते नात्र संशयः३५३
तच्छृणुष्व नरव्याघ्र कथ्यमानं मया तव
आसीद्राजा पुरा कल्पे विनीताश्वेति कीर्तितः३५४
स चाश्वमेधमारेभे यज्ञं कर्तुं वरं नृपः
यजनांते द्विजेंद्रेभ्यो दत्तं गोऽश्वादि याचितम्३५५
नान्नं दत्तं तेन किंचित्स्वल्पं मत्वा यथा त्वया
ततः कालेन महता मृतोऽसौ जाह्नवी तटे३५६
मायापुर्यां विनीताश्वः सार्वभौमोऽभवन्नृपः
स्वर्गं च गतवान्सोऽपि यथा राजा भवान्प्रभो३५७
असावपि क्षुधाविष्ट एवमेवागतोऽभवत्
मर्त्यलोके नदीतीरे गंगायां नीलपर्वते३५८
विमानेनार्कवर्णेन भास्वता देववन्नृप
ददर्श तत्स्वकं देहं तथा स्वं च पुरोहितम्३५९
होतारं ब्राह्मणं नाम यजंतं जाह्नवी तटे
तं दृष्ट्वाऽसावपि पुनः पर्यपृच्छदिद्वजोत्तमम्३६०
क्षुधायाः कारणं राजन्स होता तमुवाच ह
तिलधेनुं च वै राजन्घृतधेनुं च सत्तम३६१
जलधेनुं च धेनुं च रसधेनुं च पार्थिव
देहि शीघ्रं येन भवांस्तृट्क्षुधावर्जितो दिवि३६२
रमे तयावदादित्यस्तपते दिवि चंद्रमाः
एवमुक्तस्ततो राजा तं पुनः पृष्टवानिदम्३६३
तिलधेनुस्थितिं ब्रूहि तथा कृत्वा ददाम्यहम्
पुरोहित उवाच
विधानं तिलधेनोस्तु तच्छृणुष्व नराधिप३६४
धेनुस्स्यात्षोडशाढक्य चतुर्भिर्वत्सको भवेत्
इक्षुदंडमयाः पादा दन्ताः पुष्पमयाः शुभाः३६५
नासा गंधमयी तस्या जिह्वा गुडमयी तथा
पुच्छे स्रक्कल्पनीयास्याद्घंटाभरणभूषिता३६६
ईदृशीं कल्पयित्वा तु स्वर्णशृंगीं तु कल्पयेत्
रौप्यखुरां कांस्यदोहां पूर्वधेनुविधानतः३६७
कृत्वा तां ब्राह्मणायाशु दापयेन्मंत्रतो नृप
स्थितां कृष्णाजिने धेनुं वासोभिर्गोपितां शुभाम्३६८
सूत्रेणासूत्रितां कृत्वा पंचरत्नसमन्विताम्
सर्वौषधिसमायुक्तां मंत्रपूतां तु दापयेत्३६९
अन्नम्मे जायतां सद्यः पानं सर्वरसास्तथा
कामान्संपादयास्माकं तिलधेनो द्विजेर्पिता३७०
गृह्णामि देवि त्वां भक्त्या कुटुम्बार्थे विशेषतः
देहि कामान्वितान्सर्वांस्तिलधेनो नमोस्तु ते३७१
एवं विधानतो दत्ता तिलधेनुर्नृपोत्तम
सर्वकामसमावाप्तिं कुरुते नात्र संशयः३७२
जलधेनुस्तथैवेह कुंभैरेव प्रकल्पिता
दत्ता तु विधिना कामान्सद्यः सर्वान्प्रयच्छति३७३
धेनुशतं तथा दत्तं पूर्णिमा नियमेन हि
सावित्री इव वै स्वर्गे सर्वकामप्रदा भवेत्३७४
घृतधेनुस्तथा दत्ता विधानेन विचक्षणैः
सर्वकामसमावाप्तिं कुरुते कांतिदा भवेत्३७५
रसधेनुस्तथा दत्ता कार्तिके मासि पार्थिव
सर्वान्कामान्प्रयच्छेत्तु नित्यं सा गतिदा भवेत्३७६
एतत्ते सर्वमाख्यातं समासाद्बहुविस्तरम्
अपारं फलमुद्दिष्टं ब्रह्मणा सर्वकर्मणा३७७
तृष्णया क्षुधया यद्वा पीडितो राजसत्तम
तद्दानं कार्तिके देयं पूर्वं देहि नराधिप३७८
ब्रह्मांडं सर्वसंपन्नं भूतरत्नौषधीयुतम्
देवदानवयक्षैश्च युक्तमेतत्सदा विभो३७९
एतत्तु सकलं कृत्वा सर्वतो रजतान्वितम्
सुरत्नसूर्यचंद्राढ्यं कार्तिके द्वादशी दिने३८०
अथवा पंचदश्यां तु कार्तिकस्यैव नान्यतः
पुरोहिताय गुरवे दापयेद्भक्तिमान्नरः३८१
ब्रह्मांडोदरवर्तीनि यानि भूतानि पार्थिव
तानि दत्तानि वै तेन समासात्कथितं तव३८२
यद्यज्ञैर्यजतो राजन्समाप्तवरदक्षिणैः
सर्वं फलं तत्खंडस्य ब्रह्मांडस्य विशेषतः३८३
यः पुनः सकलं चेदं ब्रह्मांडं प्रदिशेन्नरः
तेन जप्तं हुतं दत्तं पठितं कीर्तितं भवेत्३८४
राजोवाच
विधिं ब्रह्मांडदानस्य कृत्वा तत्मोक्षभाग्भवेत्
कालं देशं विप्रतीर्थं सर्वं त्वं वद मेनघ३८५
कृतेन येन सर्वस्य फलभागी भवाम्यहम्
कुत्सितस्यास्य भावस्य मोक्षस्स्यादचिराच्च मे३८६
वसिष्ठ उवाच
एवं श्रुत्वा ततो राजन्पुरोधास्तस्य स द्विजः
ब्रह्मांडं कारयामास सौवर्णं सर्वधातुभिः३८७
युतं निष्कसहस्रेण पद्मं तत्र ह्यकल्पयत्
तत्र ब्रह्मा तस्य मध्येपद्मरागैरलंकृतः३८८
सावित्र्या चैव गायत्र्या ऋषिभिर्मुनिभिः सह
नारदाद्याः सुताः सर्व इन्द्राद्याश्च दिवौकसः३८९
सौवर्णविग्रहाः सर्वे ब्रह्मणस्तु पुरःसराः
वराहरूपी भगवान्लक्ष्म्या सह सनातनः३९०
नीलं मरकतं चैव भूषायां तस्य कारयेत्
गोमेदैस्तस्य वै शोभां कारयेत च बुद्धिमान्३९१
मोक्तिकैश्चापि सोमस्य शोभां वज्रैर्दिवाकरे
ग्रहाणां चैव सर्वेषां सुवर्णानि च दापयेत्३९२
स्वर्णात्सप्तगुणं रौप्यं रौप्यात्ताम्रं तथाविधम्
ततः सप्तगुणं कार्यं कांस्यं सप्तगुणं तथा३९३
कांस्यात्सप्तगुणं कार्यं त्रपु चैव नराधिप
त्रपुसप्तगुणं सीसं सीसाल्लोहं च कारयेत्३९४
सप्तद्वीपास्समुद्राश्च सप्त वै कुलपर्वताः
अनया संख्यया कृत्वा निपुणैः शिल्पिभिस्ततः३९५
पादपादीनि भूतानि राजतान्येव कारयेत्
आरण्यानि च सत्त्वानि सौवर्णानि च कारयेत्३९६
वृक्षान्वनस्पतीन्गुल्मतृणपर्णानि वीरुधः
सर्वं प्रकल्प्य विधिवत्तीर्थे देयं विचक्षणैः३९७
कुरुक्षेत्रे गयायां च प्रयागेऽमरकंटके
द्वारवत्यां प्रभासे च गंगाद्वारे च पुष्करे३९८
तीर्थेष्वेतेषु वै देयं ग्रहणे शशिसूर्ययोः
दिनच्छिद्रेषु सर्वेषु अयने दक्षिणोत्तरे३९९
व्यतीपाते बहुगुणं विषुवे च विशेषतः
दातव्यमेतद्राजेंद्र विचारं नैव कारयेत्1.34.४००
शालाग्निहोत्रिणं कृत्वा सुरूपं च गुणान्वितम्
सपत्नीकं च संपूज्य भूषयित्वा च भूषणैः४०१
पुरोहितं मुख्यतमं कृत्वाऽन्ये च तथा द्विजाः
चतुर्विंशद्गुणोपेताः सपत्नीका निमंत्रिताः४०२
अंगुलीयानि च तथा कर्णवेष्टं च दापयेत्
एवंविधांस्तु तान्पूज्य तेषामग्रे सुसंस्थितः४०३
अष्टांगप्रणिपातेन प्रणम्य च पुनःपुनः
पुरोहिताय पुरतः कृत्वा वै करसंपुटम्४०४
यूयं वै ब्राह्मणाः प्रीता मैत्रत्वेनानुगृह्णत
सौमुख्येन द्विजश्रेष्ठा भूयः पूततरस्त्वहः४०५
भवतां प्रीतियोगेन स्वयं प्रीतः पितामहः
ब्रह्मांडेन तु दत्तेन तोषं यातु जनार्दनः४०६
पिनाकपाणिर्भगवान्शक्रश्च त्रिदशेश्वरः
एते तोषं समायांतु अनुध्यानाद्द्विजोत्तमाः४०७
एवं स्तुत्वा ततो राजा ब्राह्मणान्वेदपारगान्
ब्रह्माण्डं तु गुरोः प्रादात्सविधानं पुनः क्षणात्४०८
सर्वकामैस्ततस्तृप्तो ययौ स्वर्गं नराधिपः
तेनैव गुरुणा तच्च विभक्तं ब्राह्मणैः सह४०९
दत्तं तेनापि चान्येभ्यो ब्रह्मांडं च नराधिप
ब्रह्मांडे भूमिदाने च ग्राही चैको न वै भवेत्४१०
गृह्णन्दोषमवाप्नोति ब्रह्महत्यां न संशयः
सर्वेषां चैव प्रत्यक्षं दातव्यं परिकीर्त्य वै४११
दीयमानं च पश्यंति तेपि पूता भवंति हि
दर्शनादेव ते मुक्ता भवंन्त्येव न संशयः४१२
या भीमद्वादशी प्रोक्ता स्वर्णं तोयं मृगाजिनं
एतानि कृत्वा पश्यन्तु दृष्टैरेतैः क्रियाफलं४१३
अयत्नादेव लभ्येत कर्तुश्चैव सलोकता
सदा गावः प्रणम्याश्च मंत्रेणानेन पार्थिव४१४
नमो गोभ्यः श्रीमतीभ्यः सौरभेयीभ्य एव च
नमो ब्रह्मसुताभ्यश्च पवित्राभ्यो नमोनमः४१५
मंत्रस्य चास्य स्मरणाद्गोदानफलमाप्नुयात्
तस्मात्त्वमपि राजेंद्र पुष्करे तीर्थ उत्तमे४१६
कार्तिक्यां तु विशेषेण गोदानफलमाप्स्यसि
यत्किंचिद्विद्यते पापं स्त्रियो वा पुरुषस्य वा४१७
पुष्करे स्नानमात्रेण तदशेषं प्रणश्यति
पृथिव्यां यानि तीर्थानि आसमुद्रात्तु भारत४१८
पुष्करे तान्युपायांति कार्तिक्यां तु विशेषतः४१९

इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे ब्रह्मांडदानं नाम चतुस्त्रिंशत्तमोऽध्यायः३४