ऋग्वेदः सूक्तं १.१४१

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं १.१४० ऋग्वेदः - मण्डल १
सूक्तं १.१४१
दीर्घतमा औचथ्यः
सूक्तं १.१४२ →
दे. अग्निः। जगती, १२-१३ त्रिष्टुप् ।


बळित्था तद्वपुषे धायि दर्शतं देवस्य भर्गः सहसो यतो जनि ।
यदीमुप ह्वरते साधते मतिरृतस्य धेना अनयन्त सस्रुतः ॥१॥
पृक्षो वपुः पितुमान्नित्य आ शये द्वितीयमा सप्तशिवासु मातृषु ।
तृतीयमस्य वृषभस्य दोहसे दशप्रमतिं जनयन्त योषणः ॥२॥
निर्यदीं बुध्नान्महिषस्य वर्पस ईशानासः शवसा क्रन्त सूरयः ।
यदीमनु प्रदिवो मध्व आधवे गुहा सन्तं मातरिश्वा मथायति ॥३॥
प्र यत्पितुः परमान्नीयते पर्या पृक्षुधो वीरुधो दंसु रोहति ।
उभा यदस्य जनुषं यदिन्वत आदिद्यविष्ठो अभवद्घृणा शुचिः ॥४॥
आदिन्मातॄराविशद्यास्वा शुचिरहिंस्यमान उर्विया वि वावृधे ।
अनु यत्पूर्वा अरुहत्सनाजुवो नि नव्यसीष्ववरासु धावते ॥५॥
आदिद्धोतारं वृणते दिविष्टिषु भगमिव पपृचानास ऋञ्जते ।
देवान्यत्क्रत्वा मज्मना पुरुष्टुतो मर्तं शंसं विश्वधा वेति धायसे ॥६॥
वि यदस्थाद्यजतो वातचोदितो ह्वारो न वक्वा जरणा अनाकृतः ।
तस्य पत्मन्दक्षुषः कृष्णजंहसः शुचिजन्मनो रज आ व्यध्वनः ॥७॥
रथो न यातः शिक्वभिः कृतो द्यामङ्गेभिररुषेभिरीयते ।
आदस्य ते कृष्णासो दक्षि सूरयः शूरस्येव त्वेषथादीषते वयः ॥८॥
त्वया ह्यग्ने वरुणो धृतव्रतो मित्रः शाशद्रे अर्यमा सुदानवः ।
यत्सीमनु क्रतुना विश्वथा विभुररान्न नेमिः परिभूरजायथाः ॥९॥
त्वमग्ने शशमानाय सुन्वते रत्नं यविष्ठ देवतातिमिन्वसि ।
तं त्वा नु नव्यं सहसो युवन्वयं भगं न कारे महिरत्न धीमहि ॥१०॥
अस्मे रयिं न स्वर्थं दमूनसं भगं दक्षं न पपृचासि धर्णसिम् ।
रश्मीँरिव यो यमति जन्मनी उभे देवानां शंसमृत आ च सुक्रतुः ॥११॥
उत नः सुद्योत्मा जीराश्वो होता मन्द्रः शृणवच्चन्द्ररथः ।
स नो नेषन्नेषतमैरमूरोऽग्निर्वामं सुवितं वस्यो अच्छ ॥१२॥
अस्ताव्यग्निः शिमीवद्भिरर्कैः साम्राज्याय प्रतरं दधानः ।
अमी च ये मघवानो वयं च मिहं न सूरो अति निष्टतन्युः ॥१३॥

सायणभाष्यम्

‘बळित्था' इति त्रयोदशर्चं द्वितीयं सूक्तं दैर्घतमसं जागतम् । अन्त्ये त्रिष्टुभौ । अग्निर्देवता । प्रातरनुवाकाश्विनशस्त्रयोरुक्तो विनियोगः ।।


बळि॒त्था तद्वपु॑षे धायि दर्श॒तं दे॒वस्य॒ भर्गः॒ सह॑सो॒ यतो॒ जनि॑ ।

यदी॒मुप॒ ह्वर॑ते॒ साध॑ते म॒तिर्ऋ॒तस्य॒ धेना॑ अनयंत स॒स्रुतः॑ ॥१

बट् । इ॒त्था । तत् । वपु॑षे । धा॒यि॒ । द॒र्श॒तम् । दे॒वस्य॑ । भर्गः॑ । सह॑सः । यतः॑ । जनि॑ ।

यत् । ई॒म् । उप॑ । ह्वर॑ते । साध॑ते । म॒तिः । ऋ॒तस्य॑ । धेनाः॑ । अ॒न॒य॒न्त॒ । स॒ऽस्रुतः॑ ॥१

बट् । इत्था । तत् । वपुषे । धायि । दर्शतम् । देवस्य । भर्गः । सहसः । यतः । जनि ।

यत् । ईम् । उप । ह्वरते । साधते । मतिः । ऋतस्य । धेनाः । अनयन्त । सऽस्रुतः ॥१

“देवस्य द्योतनशीलस्यादित्यस्य “दर्शत सर्वदर्शनीयं “तत् प्रसिद्धं “भर्गः तेजः “इत्था इत्थं सर्वैर्दृश्यमानप्रकारेण "वपुषे शरीरव्यवहाराय दार्ढ्याय “धायि धार्यते सर्वैः । बट् इत्था इत्युभे अपि सत्यनामनी, ' बट् श्रत् सत्रा इत्था ' (नि. ३. १०. १. ५) इति तन्नामसु पाठात् । जाठराग्निना भुक्तानां जरणेन शरीरधारणं प्रसिद्धम् । तत्रोपपत्तिमाह । “यतः “सहसः "जनि । यतः कारणात् मथनकाले बलेनोत्पन्नः अतो बलाय धार्यते इत्यर्थः। “यदीं यदेतत् प्रसिद्धं लोकोपकारि अग्नेस्तेजः "मतिः मदीया बुद्धिः “उप “ह्वरते उपगच्छति उपगम्य वर्तते वा । ह्वृ कौटिल्ये'। “साधते च तेनैव तेजसा साधयति स्वाभीष्टम् । किंच “ऋतस्य यज्ञसाधकस्याग्नेस्तेजसा “धेनाः सर्वप्राणिनां वाचः “सस्रुतः समानं गच्छन्त्यः सहैव प्रवर्तमानाः ।। स्रवतेः कर्तरि क्विप् ॥ “अनयन्त नयन्ति निर्वहन्ति जगद्व्यवहारम् ॥ व्यत्ययेनात्मनेपदम् । यद्वा । ऋतस्य धेना यज्ञस्य संबन्धिन्यो मन्त्ररूपा वाचः सस्रुतो होत्रादिमुखेन सहैव प्रवर्तमाना अनयन्त नयन्ति । अग्नेः स्तोत्रं निर्वहन्ति । अग्नेस्तेजसा वा यज्ञं निर्वहन्ति । ‘ तेजोमयी वाक् ' (छा, उ. ६. ५. ४ ) इति श्रुतेः । अतः कारणात् मतिरुपह्वरते इत्यर्थः । धेनेति वाङ्नाम, धेना ग्नाः ' ( नि. १. ११. ३९ ) इति तन्नामसु पाठात् ।।।


पृ॒क्षो वपुः॑ पितु॒मान्नित्य॒ आ श॑ये द्वि॒तीय॒मा स॒प्तशि॑वासु मा॒तृषु॑ ।

तृ॒तीय॑मस्य वृष॒भस्य॑ दो॒हसे॒ दश॑प्रमतिं जनयंत॒ योष॑णः ॥२

पृ॒क्षः । वपुः॑ । पि॒तु॒ऽमान् । नित्यः॑ । आ । श॒ये॒ । द्वि॒तीय॑म् । आ । स॒प्तऽशि॑वासु । मा॒तृषु॑ ।

तृ॒तीय॑म् । अ॒स्य॒ । वृ॒ष॒भस्य॑ । दो॒हसे॑ । दश॑ऽप्रमतिम् । ज॒न॒य॒न्त॒ । योष॑णः ॥२

पृक्षः । वपुः । पितुऽमान् । नित्यः । आ । शये । द्वितीयम् । आ । सप्तऽशिवासु । मातृषु ।

तृतीयम् । अस्य । वृषभस्य । दोहसे । दशऽप्रमतिम् । जनयन्त । योषणः ॥२

अयमग्निः “पृक्षः अन्नसाधकः पाकादिना “वपुः वपुष्मान् शरीराभिवृद्धिहेतुः “पितुमान् हविर्लक्षणान्नयुक्तः “नित्यः शाश्वतः। ईदृशः सन् प्रथमं पृथिवीस्थानः सन् “आ “शये आशेते । दाहपाकादि लौकिकं कर्म यज्ञादि वैदिकं कर्म च निर्वर्तयन् ध्रुवो भूमौ वर्तते इत्यर्थः । तथा “सप्तशिवासु “मातृषु सप्तलोकशिवकरीषु मातृस्थानीयासु हितकरीषु वृष्टिषु “द्वितीयम् “आ शेते । मध्यमस्थानो विद्युद्रूपो वा वर्तते । “अस्य “वृषभस्य वर्षितुरस्यैव वैद्युताग्नेः सहायत्वेन संबन्धिने “दोहसे दोग्ध्रे आदित्यस्थोदकस्य वर्षयित्रे आदित्यरश्मये । दुहेः कर्तरि असुप्रत्ययः । तत्प्रवृत्तये “तृतीयम् आशेते । द्युस्थानो वर्तते । यद्वा । अस्य वृषभस्य वर्षितुः प्रसिद्धस्यादित्यस्य संबन्धिने दोग्ध्रे रश्मये तत्प्रवृत्त्यर्थम् । आदित्यरश्मयो घर्मकाले भूमिस्थमुदकमाकृष्य सूर्यं प्रापय्य तत्र चिरकालं धृत्वा पुनरन्तरिक्षं प्राप्य मेघेषु स्थित्वा वर्षकाले प्रवर्षन्तीति प्रसिद्धम् । अतो रश्मेर्दोग्धृत्वम् । ईदृशं त्रिस्थानमग्निं महाभागं “योषणः मिश्रणशीलाः सर्वा दिशः “जनयन्त उत्पादयन्ति । सर्वासु दिक्षु प्रसृत इत्यर्थः । कीदृशं तम् । “दशप्रमतिम् । दशसु दिक्षु प्रकृष्टमननवन्तं पूज्यत्वाय । यद्वा । मथनकाले दशभिरङ्गुलीभिरुत्पन्नं लोकत्रये दशदिक्षु च व्याप्तमित्यर्थः ॥


निर्यदीं॑ बु॒ध्नान्म॑हि॒षस्य॒ वर्प॑स ईशा॒नासः॒ शव॑सा॒ क्रंत॑ सू॒रयः॑ ।

यदी॒मनु॑ प्र॒दिवो॒ मध्व॑ आध॒वे गुहा॒ संतं॑ मात॒रिश्वा॑ मथा॒यति॑ ॥३

निः । यत् । ई॒म् । बु॒ध्नात् । म॒हि॒षस्य॑ । वर्प॑सः । ई॒शा॒नासः॑ । शव॑सा । क्रन्त॑ । सू॒रयः॑ ।

यत् । ई॒म् । अनु॑ । प्र॒ऽदिवः॑ । मध्वः॑ । आ॒ऽध॒वे । गुहा॑ । सन्त॑म् । मा॒त॒रिश्वा॑ । म॒था॒यति॑ ॥३

निः । यत् । ईम् । बुध्नात् । महिषस्य । वर्पसः । ईशानासः । शवसा । क्रन्त । सूरयः ।

यत् । ईम् । अनु । प्रऽदिवः । मध्वः । आऽधवे । गुहा । सन्तम् । मातरिश्वा । मथायति ॥३

“ईम् एनमग्निं “यत् यस्मात् कारणात् “महिषस्य । महन्नामैतत्, ‘महिषः अभ्वः ऋभुक्षा: ( नि. ३. ३. ८) इति तन्नामसु पाठात् । महतो यज्ञस्य “बुध्नात् मूलात् आधानादारभ्य “वर्पसः । रूपनामैतत् । रूपस्य उपक्रमोपसंहारात्मकस्य सिद्धये “ईशानासः स्वकीयव्यापारसमर्थाः “सूरयः मेधाविन ऋत्विजः “शवसा बलेन मन्त्रादिरूपेण शारीरेण वा “निः “क्रन्त निष्कुर्वन्ति साधयन्ति उत्पादयन्ति काष्ठात् । यद्वा । एनमग्निं बुध्नात् आदितो मथनादारभ्य महिषस्य वर्पसो महतो रूपस्य आहुतिस्वीकारसमर्थस्य सिद्धये निष्कुर्वन्ति ॥ करोतेश्छान्दसे लुङि : मन्त्रे घस० ) इति च्लेर्लुक् । व्यत्ययेन अन्तादेशः ॥ किंच “यदीम् एनमेवाग्निं “प्रदिवः पुराणात् । अनादिकालमारभ्य न केवलमिदानीमेवेत्यर्थः । पूर्ववत् इदानीं “मध्वः मधुनो मधुसदृशस्य “आधवे आधवने प्रक्षेपे निमित्ते सति “गुहा “सन्तं गुहायां वेद्यां काष्ठेषु निगूढं सन्तं "मातरिश्वा अन्तरिक्षे चेष्टमानो वायुः अनुक्रमेण “मथायति चालयति । उद्बोधयतीत्यर्थः । यद्वा । मातरि फलस्य मातरि यागे श्वसिति चेष्टते इति मातरिश्वा यजमानो गुहा सन्तम् अरण्योर्निगूढं सन्तं प्रादुर्भावाय अनुक्रमेण मथायति मथ्नाति उत्पादयतीत्यर्थः । यस्मादेवंरूपस्तस्मात् स्तोतव्य इत्यर्थः ।।


प्र यत्पि॒तुः प॑र॒मान्नी॒यते॒ पर्या पृ॒क्षुधो॑ वी॒रुधो॒ दंसु॑ रोहति ।

उ॒भा यद॑स्य ज॒नुषं॒ यदिन्व॑त॒ आदिद्यवि॑ष्ठो अभवद्घृ॒णा शुचिः॑ ॥४

प्र । यत् । पि॒तुः । प॒र॒मात् । नी॒यते॑ । परि॑ । आ । पृ॒क्षुधः॑ । वी॒रुधः॑ । दंऽसु॑ । रो॒ह॒ति॒ ।

उ॒भा । यत् । अ॒स्य॒ । ज॒नुष॑म् । यत् । इन्व॑तः । आत् । इत् । यवि॑ष्ठः । अ॒भ॒व॒त् । घृ॒णा । शुचिः॑ ॥४

प्र । यत् । पितुः । परमात् । नीयते । परि । आ । पृक्षुधः । वीरुधः । दंऽसु । रोहति ।

उभा । यत् । अस्य । जनुषम् । यत् । इन्वतः । आत् । इत् । यविष्ठः । अभवत् । घृणा । शुचिः ॥४

“यत् यस्मात् “पितुः अन्नस्य पशुलक्षणस्य ॥ षष्ठीस्थाने प्रथमा ।। तस्य “परमात् परमत्वाद्धेतोः । उत्कृष्टत्वायेत्यर्थः। तदर्थं “प्र “परि “नीयते प्रकर्षेण परितो नीयते पर्यग्निक्रियते इत्यर्थः । यद्वा । पितुरुत्पादकात् परमात् उत्कृष्टात् गार्हपत्यलक्षणस्याग्नेः सकाशात् आहवनीयं प्रति प्र परि नीयते प्रकर्षेण नीयते । परि अनर्थकः । किंच “पृक्षुधः पशुपुरोडाशादिषु दाहमध्ये धीयमानाः । यद्वा ॥ मशब्दस्य संप्रसारणम् । क्षुध बुभुक्षायाम्' । क्विप् ॥ प्रक्षोध्याः प्रकर्षेण बुभुक्षिता भोक्तुमिष्यमाणाः । “वीरुधो “दंसु दन्तेषु मध्ये "आ “रोहति आरोहन्ति प्रविशन्तीत्यर्थः । “यत् यस्मात् “उभा उभौ अध्वर्युयजमानौ उभे अरणी वा “अस्य अग्नेः “जनुषं जन्म उत्पत्तिम् “इन्वतः व्याप्नुतः स्वीकुरुत इत्यर्थः ॥ ‘ इवि व्याप्तौ ' । इदित्त्वात् नुम् ॥ “आदित् अत एव कारणात् “शुचिः शुद्धोऽयमग्निः “घृणा यजमानेष्वनुग्रहेण । यद्वा । घृणा घृणो दीप्तिमान् ।। मत्वर्थों लुप्यते ।। दीप्त्या वा “यविष्ठः युवतमः “अभवत् संपन्नः । स्वीकारसमर्थोऽभवदित्यर्थः ।।


आदिन्मा॒तॄरावि॑श॒द्यास्वा शुचि॒रहिं॑स्यमान उर्वि॒या वि वा॑वृधे ।

अनु॒ यत्पूर्वा॒ अरु॑हत्सना॒जुवो॒ नि नव्य॑सी॒ष्वव॑रासु धावते ॥५

आत् । इत् । मा॒तॄः । आ । अ॒वि॒श॒त् । यासु॑ । आ । शुचिः॑ । अहिं॑स्यमानः । उ॒र्वि॒या । वि । व॒वृ॒धे॒ ।

अनु॑ । यत् । पूर्वा॑ । अरु॑हत् । स॒ना॒ऽजुवः॑ । नि । नव्य॑सीषु । अव॑रासु । धा॒व॒ते॒ ॥५

आत् । इत् । मातॄः । आ । अविशत् । यासु । आ । शुचिः । अहिंस्यमानः । उर्विया । वि । ववृधे ।

अनु । यत् । पूर्वा । अरुहत् । सनाऽजुवः । नि । नव्यसीषु । अवरासु । धावते ॥५

अयमग्निः “आ “शुचिः दीप्तः सन् “आदित् पूर्वमन्त्रे यविष्ठोऽभवदित्युक्तत्वात् तदनन्तरमेव "मातॄः उत्पादयित्रीर्मातृस्थानीया दश दिशः “आ “अविशत् सर्वतः प्रविशति । पूर्वत्र ‘दशप्रमतिं जनयन्त योषणः' (ऋ. सं.१. १४१. २) इत्युक्तत्वात् दिशां मातृत्वम् । दिक्षु प्रकाशेन व्याप्त इत्यर्थः । मातरो विशेष्यन्ते। “यासु मातृषु “अहिंस्यमानः परैरपीड्यमानः “उर्विया उरु अतिप्रभूतं “वि “ववृधे विविधं प्रवृद्धोऽभवत् तास्वाविशत् । यथा लोके कश्चित्तेजस्वी जनन्याः स्तनपानपरिपीडादिभिः सम्यक् पोषितो लोके प्रकाश्य पुनरागत्य मातरमालिङ्गति तद्वदिति भावः । कस्मिन् काले इति तत्राह । “यत् यदा “सनाजुवः दीर्घकालवियोगिन्यः स्थापनकाल एव प्रक्षिप्ताः अत एव “पूर्वाः प्रथमभाविनीरोषधीरनुक्रमेण “अरुहत् आरोहति ।। रुहेश्छान्दसो लुङ् । ‘ कृमृदृरुहिभ्यश्छन्दसि ' इति च्लेः अङादेशः ।। उपरि प्रज्वलति । तथा “नव्यसीषु नवतरासु अत एव “अवरासु अत एव पूर्वापेक्षया निकृष्टासु पश्चाद्भाविनीष्वोषधीषु “नि “धावते नितरां नीचैर्वा गच्छति । अन्तःप्रविशतीत्यर्थः । यदा काष्ठानाम् अधस्तादुपरिष्टाच्च प्रविश्य ज्वलति तदा दिक्षु प्रकाशितोऽभवत्' इत्यर्थः ॥ ॥ ८ ॥


आदिद्धोता॑रं वृणते॒ दिवि॑ष्टिषु॒ भग॑मिव पपृचा॒नास॑ ऋंजते ।

दे॒वान्यत्क्रत्वा॑ म॒ज्मना॑ पुरुष्टु॒तो मर्तं॒ शंसं॑ वि॒श्वधा॒ वेति॒ धाय॑से ॥६

आत् । इत् । होता॑रम् । वृ॒ण॒ते॒ । दिवि॑ष्टिषु । भग॑म्ऽइव । प॒पृ॒चा॒नासः॑ । ऋ॒ञ्ज॒ते॒ ।

दे॒वान् । यत् । क्रत्वा॑ । म॒ज्मना॑ । पु॒रु॒ऽस्तु॒तः । मर्त॑म् । शंस॑म् । वि॒श्वधा॑ । वेति॑ । धाय॑से ॥६

आत् । इत् । होतारम् । वृणते । दिविष्टिषु । भगम्ऽइव । पपृचानासः । ऋञ्जते ।

देवान् । यत् । क्रत्वा । मज्मना । पुरुऽस्तुतः । मर्तम् । शंसम् । विश्वधा । वेति । धायसे ॥६

“होतारं होमनिष्पादकम् आह्वातारं वा देवानां ईदृशमग्निं “दिविष्टिषु दिवसैषणेषु निमित्तभूतेषु “वृणते संभजते । “आदित् अनन्तरमेव तथा “पप्रचानासः हविषा स्तुत्या च संपृचाना ऋत्विजो यजमानाः ॥ पृचेश्छान्दसस्य लिटः कानच् ॥ “ऋञ्जते प्रसाधयन्ति । किमिव। “भगमिव । तं यथा जनाः प्रसाधयन्ति तद्वत् । यद्वा । महान्तं राजानमिव सूर्यदीप्तिवत् पूज्यमित्यर्थः । ‘ ऋञ्जतिः प्रसाधनकर्मा' इति यास्कः । “यत् यस्मात् अयमग्निः “पुरुष्टुतः बहुभिर्बहुधा वा स्तूयमानः “क्रत्वा क्रतुना कर्मणा यागादिरूपेण “मज्मना शारीरेण बलेन च युक्तान् "देवान् व्यवहर्तॄनृत्विजो यज्ञभुजो देवान् वा क्रत्वा मज्मना च योजयितुं तथा “मर्तं यजमानं “शंसं स्तुतिं च स्तुत्यं वा तं “विश्वधा विश्वधनो यद्वा विश्वात्मकोऽयं “वेति पूर्वोक्तान् कामयते । किमर्थम् । “धायसे हविर्लक्षणान्नाय । तस्मात् होतारमग्निं वृणते ऋञ्जते च ।।


वि यदस्था॑द्यज॒तो वात॑चोदितो ह्वा॒रो न वक्वा॑ ज॒रणा॒ अना॑कृतः ।

तस्य॒ पत्मं॑द॒क्षुषः॑ कृ॒ष्णजं॑हसः॒ शुचि॑जन्मनो॒ रज॒ आ व्य॑ध्वनः ॥७

वि । यत् । अस्था॑त् । य॒ज॒तः । वात॑ऽचोदितः । ह्वा॒रः । न । वक्वा॑ । ज॒रणाः॑ । अना॑कृतः ।

तस्य॑ । पत्म॑न् । ध॒क्षुषः॑ । कृ॒ष्णऽजं॑हसः । शुचि॑ऽजन्मनः । रजः॑ । आ । विऽअ॑ध्वनः ॥७

वि । यत् । अस्थात् । यजतः । वातऽचोदितः । ह्वारः । न । वक्वा । जरणाः । अनाकृतः ।

तस्य । पत्मन् । धक्षुषः । कृष्णऽजंहसः । शुचिऽजन्मनः । रजः । आ । विऽअध्वनः ॥७

“यत् यदा अयमग्निः “वातचोदितः वायुना प्रेरितः ॥ तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम्॥ “यजतः सर्वैः यष्टव्यः यष्टुं योग्यः सन् “वि “अस्थात् वितिष्ठते सर्वतो व्याप्तो भवति । तत्र दृष्टान्तः । “अनाकृतः अनिवारितोऽप्रतिहतप्रसरः "वक्वा बहुवक्ता ॥ वचेः ‘अन्येभ्योऽपि दृश्यन्ते' इति वनिप् । दृशिग्रहणात् कुत्वम् ॥ "ह्वारो “न कुटिल इव विदूषणकादिरिव' । ह्वरतेर्ण्यन्तात् पचाद्यच् ॥ स यथा “जरणाः स्तुतीर्वितिष्ठते विविधं कुर्वन् वर्तते तद्वदयमप्यनाकृतः अप्रतिबद्धप्रसरो व्यवस्थितः । तदा “तस्य अग्नेः “पत्मन् पतने मार्गे यज्ञरूपे “रजः रञ्जनात्मको लोकः “आ अस्थात् आतिष्ठति सर्वतः आश्रयति अग्नौ बहुधा यजतीत्यर्थः । कीदृशस्य तस्य । “धक्षुषः दहतः ॥ दहेर्लिटः क्वसुः ।। "कृष्णजंहसः कृष्णमार्गस्य ॥ पुनःपुनर्गम्यते इति जंहा मार्गः । हन्तेर्यङ्लुगन्तात् कर्मणि असुन् । कुत्वाभावश्छान्दसः ॥ “शुचिजन्मनः मन्त्रसहितारण्योरुत्पन्नत्वात् “व्यध्वनः विविधज्वालस्य अनियतमार्गस्य ।


रथो॒ न या॒तः शिक्व॑भिः कृ॒तो द्यामंगे॑भिररु॒षेभि॑रीयते ।

आद॑स्य॒ ते कृ॒ष्णासो॑ दक्षि सू॒रयः॒ शूर॑स्येव त्वे॒षथा॑दीषते॒ वयः॑ ॥८

रथः॑ । न । या॒तः । शिक्व॑ऽभिः । कृ॒तः । द्याम् । अङ्गे॑भिः । अ॒रु॒षेभिः॑ । ई॒य॒ते॒ ।

आत् । अ॒स्य॒ । ते । कृ॒ष्णासः॑ । ध॒क्षि॒ । सू॒रयः॑ । शूर॑स्यऽइव । त्वे॒षथा॑त् । ई॒ष॒ते॒ । वयः॑ ॥८

रथः । न । यातः । शिक्वऽभिः । कृतः । द्याम् । अङ्गेभिः । अरुषेभिः । ईयते ।

आत् । अस्य । ते । कृष्णासः । धक्षि । सूरयः । शूरस्यऽइव । त्वेषथात् । ईषते । वयः ॥८

अयमग्निः “शिक्वभिः रज्जुभिः “कृतः बद्धः “रथो “न रथ इव । स यथा स्वीयैश्चक्रादिभिः अङगैः “ईयते तद्वत् “यातः स्थापितः सन् “अरुषेभिः गमनशीलैः “अङ्गेभिः ज्वालादिरूपैः अवयवैः “द्याम् अन्तरिक्षम् आज्येन हृष्टः सन् “ईयते गच्छति ।। ‘ईङ् गतौ ।। “आत् प्रवृद्ध्यनन्तरम् “अस्य अग्नेः “ते “सूरयः सरणयो मार्गाः "कृष्णासः कृष्णवर्णा भवन्ति । यत एवं भवन्ति तदर्थं “दक्षि दहति काष्ठान् ।। पुरुषव्यत्ययः । छान्दसः शपो लुक् ।। किंच ज्वलितस्याग्नेः “त्वेषथात् दीप्तात् तेजसः सकाशात् “वयः गमनवन्तः पक्षिमृगादयः “ईषते गच्छन्ति ।। ईष गत्यादौ । ‘ बहुलं छन्दसि ' इति शपो लुक्॥ पलायन्ते । तत्र दृष्टान्तः । शूरस्य त्वेषथात् वय इव । कस्यचित् विक्रान्तस्य दीप्तात्तेजसः सकाशात् भीत्या पलायमाना इव । एवमन्तरिक्षं स्पृशन् सर्वतो दहतीति सर्वदा दावाग्निरूपेण स्तूयते ॥


त्वया॒ ह्य॑ग्ने॒ वरु॑णो धृ॒तव्र॑तो मि॒त्रः शा॑श॒द्रे अ॑र्य॒मा सु॒दान॑वः ।

यत्सी॒मनु॒ क्रतु॑ना वि॒श्वथा॑ वि॒भुर॒रान्न ने॒मिः प॑रि॒भूरजा॑यथाः ॥९

त्वया॑ । हि । अ॒ग्ने॒ । वरु॑णः । धृ॒तऽव्र॑तः । मि॒त्रः । शा॒श॒द्रे । अ॒र्य॒मा । सु॒ऽदान॑वः ।

यत् । सी॒म् । अनु॑ । क्रतु॑ना । वि॒श्वऽथा॑ । वि॒ऽभुः । अ॒रान् । न । ने॒मिः । प॒रि॒ऽभूः । अजा॑यथाः ॥९

त्वया । हि । अग्ने । वरुणः । धृतऽव्रतः । मित्रः । शाशद्रे । अर्यमा । सुऽदानवः ।

यत् । सीम् । अनु । क्रतुना । विश्वऽथा । विऽभुः । अरान् । न । नेमिः । परिऽभूः । अजायथाः ॥९

हे “अग्ने “त्वया खलु “वरुणः रात्र्यभिमानी देवः “धृतव्रतः स्वीकृतवर्षणादिकर्मा भवति । तथा “मित्रः अहरभिमानी देवः “शाशद्रे शातयति तमः ॥ शद्लृ शातने' । छान्दसो लिट् । बहुलं छन्दसि ' इति रुट् । तुजादित्वात् अभ्यासदीर्घः । तथा “अर्यमा उभयोर्मध्यवर्ती देवः “सुदानवः शोभनदानो भवति ।। व्यत्ययेन बहुवचनम् । यद्वा । एते वरुणादयः सुदानवः शोभनदानाः स्वस्वकार्यकर्तारस्त्वया हि शाशद्रे तीक्ष्णीक्रियन्ते । हिशब्दो मन्त्रान्तरप्रसिद्धिद्योतनार्थः । ‘ त्वमग्ने वरुणो जायसे (ऋ. सं. ५, ३. १ ) इति हि मन्त्रान्तरम् ॥ शदेः कर्मणि छान्दसो लिट् । ‘इरयो रे' इति रेभावः । ‘ हि च ' इति निघाताभावः । वरुणादीनामग्न्यायत्तत्वे उपपत्तिमाह । “यत् यस्मात् कारणात् हे अग्ने “सीं सर्वतः “क्रतुना कर्मणा “विश्वथा विश्व इव विश्वात्मक इव “विभुः मित्रार्यमात्मना सर्वव्यापी “परिभूः स्वतेजसा सर्वतः परिभाविता सन् अनुक्रमेण “अजायथाः जायसे प्रादुर्भवसि । तत्र दृष्टान्तः । “अरान् रथस्य शङ्कून् “नेमिः “न बाह्यवलय इव । स यथा व्याप्य तिष्ठति तद्वदयमग्निर्वरुणादीन् व्याप्य तिष्ठति ।।


त्वम॑ग्ने शशमा॒नाय॑ सुन्व॒ते रत्नं॑ यविष्ठ दे॒वता॑तिमिन्वसि ।

तं त्वा॒ नु नव्यं॑ सहसो युवन्व॒यं भगं॒ न का॒रे म॑हिरत्न धीमहि ॥१०

त्वम् । अ॒ग्ने॒ । श॒श॒मा॒नाय॑ । सु॒न्व॒ते । रत्न॑म् । य॒वि॒ष्ठ॒ । दे॒वऽता॑तिम् । इ॒न्व॒सि॒ ।

त्वम् । त्वा॒ । नु । नव्य॑म् । स॒ह॒सः॒ । यु॒व॒न् । व॒यम् । भग॑म् । न । का॒रे । म॒हि॒ऽर॒त्न॒ । धी॒म॒हि॒ ॥१०

त्वम् । अग्ने । शशमानाय । सुन्वते । रत्नम् । यविष्ठ । देवऽतातिम् । इन्वसि ।

त्वम् । त्वा । नु । नव्यम् । सहसः । युवन् । वयम् । भगम् । न । कारे । महिऽरत्न । धीमहि ॥१०

हे “अग्ने "यविष्ठ युवतम “त्वं “शशमानाय त्वां स्तुवते । शशमान: शंसमानः '( निरु, ६.८ ) इति यास्कः । “सुन्वते त्वदर्थमभिषवं कुर्वते यजमानाय तद्यागार्थं “रत्नं रमणीयं हविः “देवताति देवेषु तायमानं विस्तार्यमाणम् “इन्वसि व्याप्नोषि । अस्मत्प्रत्तं हविः देवान् प्रापयसीत्यर्थः । इन्वतिः व्याप्तिकर्मा, ‘इन्वति ननक्ष' (नि. २. १८. १ ) इति तन्नामसु पाठात् । हे “सहसो “युवन् । युवशब्देनोत्पत्तिर्लक्ष्यते । मथनकाले बलेनोत्पन्न बलस्य मिश्रयितर्वा। यद्वा । सहसस्पुत्र युवन् नित्यतरुण “महिरत्न अस्मत्प्रदेयमहद्रमणीयधन “नव्यं नवतरं स्तुत्यं वा “तं तादृशं हविर्भुजं “त्वा त्वां “वयं यजमानाः “कारे शब्दे स्तोत्रलक्षणे “नु क्षिप्रं “धीमहि स्थापयामः । हविष्प्रदानसमये क्षिप्रमेव स्तुम इत्यर्थः । तत्र दृष्टान्तः । “भगं “न आदित्यमिव । यद्वा । महान्तं राजानमिव । तं यथा स्तुवन्ति तद्वत् ।।


अ॒स्मे र॒यिं न स्वर्थं॒ दमू॑नसं॒ भगं॒ दक्षं॒ न प॑पृचासि धर्ण॒सिं ।

र॒श्मीँरि॑व॒ यो यम॑ति॒ जन्म॑नी उ॒भे दे॒वानां॒ शंस॑मृ॒त आ च॑ सु॒क्रतुः॑ ॥११

अ॒स्मे इति॑ । र॒यिम् । न । सु॒ऽअर्थ॑म् । दमू॑नसम् । भग॑म् । दक्ष॑म् । न । प॒पृ॒चा॒सि॒ । ध॒र्ण॒सिम् ।

र॒श्मीन्ऽइ॑व । यः । यम॑ति । जन्म॑नी॒ इति॑ । उ॒भे इति॑ । दे॒वाना॑म् । शंस॑म् । ऋ॒ते । आ । च॒ । सु॒ऽक्रतुः॑ ॥११

अस्मे इति । रयिम् । न । सुऽअर्थम् । दमूनसम् । भगम् । दक्षम् । न । पपृचासि । धर्णसिम् ।

रश्मीन्ऽइव । यः । यमति । जन्मनी इति । उभे इति । देवानाम् । शंसम् । ऋते । आ । च । सुऽक्रतुः ॥११

हे अग्ने त्वम् “अस्मे अस्मासु “स्वर्थं सुष्ठु अरणीयं “दमूनसं दमनीयम् उपार्ज्यम् ॥ दमेरूनसिः' (उ. सू. ४. २३५ ) इति ऊनसिप्रत्ययः ।। “रयिं “न “पपृचासि धनं यथा संपृणक्षि । तथा “भगं सर्वैर्भजनीयं “दक्षं “न उत्साहवन्तं प्रबुद्धं वा “धर्णसिं विद्यादिधारणकुशलं पुत्रं यथा पप्रचासि संपृणक्षि उभयमपि ददासीत्यर्थः । “पृची संपर्के'। लेटि आडागमः। ‘बहुलं छन्दसि ' इति विकरणस्य श्लुः ॥ इदानीं परोक्षेणाह । “यः अग्निः “रश्मीँरिव स्वकीयान् रश्मीन् यथा “यमति नियमयति विस्तारयति तद्वत् सः “उभे "जन्मनी जननाधारभूतौ उभौ लोकौ इहलोकपरलोकौ यमति नियच्छति । तथा “सुक्रतुः शोभनकर्मा अयम् “ऋते अस्मदीययज्ञे “देवानां देवसंबन्धिनं “शंसं स्तवं “च “आ यमति आयच्छति सर्वदा ददाति । यद्वा । पूर्वार्धे पपृचासीत्यपि परोक्षत्वाय प्रथमपुरुषतया योज्यम् ॥


उ॒त नः॑ सु॒द्योत्मा॑ जी॒राश्वो॒ होता॑ मं॒द्रः शृ॑णवच्चं॒द्रर॑थः ।

स नो॑ नेष॒न्नेष॑तमै॒रमू॑रो॒ऽग्निर्वा॒मं सु॑वि॒तं वस्यो॒ अच्छ॑ ॥१२

उ॒त । नः॒ । सु॒ऽद्योत्मा॑ । जी॒रऽअ॑श्वः । होता॑ । म॒न्द्रः । शृ॒ण॒व॒त् । च॒न्द्रऽर॑थः ।

सः । नः॒ । ने॒ष॒त् । नेष॑ऽतमैः । अमू॑रः । अ॒ग्निः । वा॒मम् । सु॒वि॒तम् । वस्यः॑ । अच्छ॑ ॥१२

उत । नः । सुऽद्योत्मा । जीरऽअश्वः । होता । मन्द्रः । शृणवत् । चन्द्रऽरथः ।

सः । नः । नेषत् । नेषऽतमैः । अमूरः । अग्निः । वामम् । सुवितम् । वस्यः । अच्छ ॥१२

उतशब्दोऽप्यर्थः । स च संभावनायाम् । सोऽग्निः “नः अस्मदीयमाह्वानम् “उत “शृणवत् । अपि नाम शृणुयात् । यद्वा । नः अस्मान् श्रावयेत् देवेषु मध्ये प्रख्यापयेत् ॥ शृणोतेर्लेटि अडागमः॥ कीदृशोऽयम् । “सुद्योत्मा सुद्योतमानः ॥ ‘ द्युत दीप्तौ । अन्येभ्योऽपि दृश्यन्ते' इति मनिन् । “जीराश्वः शीघ्रगमनाश्वः “होता देवानामाह्वाता “मन्द्रः मदनशीलः “चन्द्ररथः सुवर्णमयरथोपेतः । किंच अयम् “अमूरः अमूढबलः “वस्यः वसनीयः “सः प्रसिद्धः “अग्निः “नेषतमैः अत्यर्थं नेतृभिः कर्मभिः स्तोत्रैर्वा “नः अस्मान् उत “नेषत् अपि नाम नयेत् । यज्ञस्य पारं प्रापयेत् ॥ नयतेलेंटि अडागमः । ‘ सिब्बहुलम् ' इति सिप्॥ किमर्थम् । “वामं वननीयं "सुवितं सुष्ठु प्राप्यं सर्वैः काङ्क्षणीयं स्वर्गम् “अच्छ आभिमुख्येन प्राप्तुं नेषत् ॥


अस्ता॑व्य॒ग्निः शिमी॑वद्भिर॒र्कैः साम्रा॑ज्याय प्रत॒रं दधा॑नः ।

अ॒मी च॒ ये म॒घवा॑नो व॒यं च॒ मिहं॒ न सूरो॒ अति॒ निष्ट॑तन्युः ॥१३

अस्ता॑वि । अ॒ग्निः । शिमी॑वत्ऽभिः । अ॒र्कैः । साम्ऽरा॑ज्याय । प्र॒ऽत॒रम् । दधा॑नः ।

अ॒मी इति॑ । च॒ । ये । म॒घऽवा॑नः । व॒यम् । च॒ । मिह॑म् । न । सूरः॑ । अति॑ । निः । त॒त॒न्युः॒ ॥१३

अस्तावि । अग्निः । शिमीवत्ऽभिः । अर्कैः । साम्ऽराज्याय । प्रऽतरम् । दधानः ।

अमी इति । च । ये । मघऽवानः । वयम् । च । मिहम् । न । सूरः । अति । निः । ततन्युः ॥१३

अयम् “अग्निः “शिमीवद्भिः हविष्प्रदानादिकर्मवद्भिः “अर्कैः अर्चनसाधनैर्मन्त्रैः “अस्तावि स्तुतोऽस्माभिर्यजमानैः । शिमीति कर्मनाम, ‘ शिमी शक्तिः ' ( नि. २. १. २४ ) इति तन्नामसु पाठात् । कीदृशोऽयम् । “साम्राज्याय साम्राज्यस्येति कर्मणि षष्ठीस्थाने चतुर्थी । सम्यक् राजमानत्वं “प्रतरं प्रकृष्टतरमत्यर्थं “दधानः ।।' अमु च च्छन्दसि ' इति अमुप्रत्ययः ।। किंच इममग्निम् “अमी “च पुरोवर्तमाना ऋत्विजः पुत्रादयो वा "ये "वयं “च पूर्वं स्तोतृत्वेन प्रसिद्धा वयमपि “अति अत्यर्थं “निष्टतन्युः शब्दयन्तु ।। निष्पूर्वः स्तनतिः शब्दकर्मा ।। इतः परमपि अस्मत्पुत्रपौत्रादयो वयं च अग्निं स्तुम इत्यर्थः । तत्र दृष्टान्तः । “मिहं “न “सूरः । मिहं मेहनशीलं मेघं यथा सूरः सूर्यो वृष्ट्यर्थं शब्दयति तद्वत् ॥ लिङि छान्दसो विकरणस्य श्लुः । ‘ अभिनिसः स्तनः शब्दसंज्ञायाम् (पा. सू. ८. ३. ८६ ) इति षत्वम् ॥ ॥ ९ ॥

मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१४१&oldid=207807" इत्यस्माद् पुनः प्राप्तिः