ऋग्वेदः सूक्तं १.५५
← सूक्तं १.५४ | ऋग्वेदः - मण्डल १ सूक्तं १.५५ सव्य आङ्गिरसः। |
सूक्तं १.५६ → |
दे. इन्द्रः । जगती। |
दिवश्चिदस्य वरिमा वि पप्रथ इन्द्रं न मह्ना पृथिवी चन प्रति ।
भीमस्तुविष्माञ्चर्षणिभ्य आतपः शिशीते वज्रं तेजसे न वंसगः ॥१॥
सो अर्णवो न नद्यः समुद्रियः प्रति गृभ्णाति विश्रिता वरीमभिः ।
इन्द्रः सोमस्य पीतये वृषायते सनात्स युध्म ओजसा पनस्यते ॥२॥
त्वं तमिन्द्र पर्वतं न भोजसे महो नृम्णस्य धर्मणामिरज्यसि ।
प्र वीर्येण देवताति चेकिते विश्वस्मा उग्रः कर्मणे पुरोहितः ॥३॥
स इद्वने नमस्युभिर्वचस्यते चारु जनेषु प्रब्रुवाण इन्द्रियम् ।
वृषा छन्दुर्भवति हर्यतो वृषा क्षेमेण धेनां मघवा यदिन्वति ॥४॥
स इन्महानि समिथानि मज्मना कृणोति युध्म ओजसा जनेभ्यः ।
अधा चन श्रद्दधति त्विषीमत इन्द्राय वज्रं निघनिघ्नते वधम् ॥५॥
स हि श्रवस्युः सदनानि कृत्रिमा क्ष्मया वृधान ओजसा विनाशयन् ।
ज्योतींषि कृण्वन्नवृकाणि यज्यवेऽव सुक्रतुः सर्तवा अपः सृजत् ॥६॥
दानाय मनः सोमपावन्नस्तु तेऽर्वाञ्चा हरी वन्दनश्रुदा कृधि ।
यमिष्ठासः सारथयो य इन्द्र ते न त्वा केता आ दभ्नुवन्ति भूर्णयः ॥७॥
अप्रक्षितं वसु बिभर्षि हस्तयोरषाळ्हं सहस्तन्वि श्रुतो दधे ।
आवृतासोऽवतासो न कर्तृभिस्तनूषु ते क्रतव इन्द्र भूरयः ॥८॥
सायणभाष्यम्
‘ दिवश्चिदस्य ' इति अष्टर्चं पञ्चमं सूक्तं सव्यस्यार्षमैन्द्रं जागतम् । तथा चानुक्रान्तम्- दिवश्चिदष्टौ जागतं हि ' इति । हि इत्यभिधानात् तुह्यादिपरिभाषया उत्तरे द्वे च सूक्ते जागते । अतिरात्रे प्रथमे पर्याये मैत्रावरुणशस्त्रे इदं सूक्तम् । सूत्रितं च - ‘ दिवश्चिदस्येति पर्यासः स नो नव्येभिरिति च ' ( आश्व. श्रौ. ६. ४ ) इति । विषुवति निष्केवल्येऽप्येतत्सूक्तम् । सूत्रितं च - शंसेदेवोत्तराणि षड्दिवश्चिदस्य ' ( आश्व. श्रौ. ८. ६ ) इति । समूळ्हस्य दशरात्रस्य द्वितीये छन्दोमेऽपि निष्केवल्ये एतत्सूत्रितम् - ‘ त्वं महाँ इन्द्र यो ह दिवश्चिदस्य त्वं महाँ इन्द्र तुभ्यमिति निष्केवल्यम् ' ( आश्व. श्रौ. ८. ७ ) इति ॥
दि॒वश्चि॑दस्य वरि॒मा वि प॑प्रथ॒ इन्द्रं॒ न म॒ह्ना पृ॑थि॒वी च॒न प्रति॑ ।
भी॒मस्तुवि॑ष्माञ्चर्ष॒णिभ्य॑ आत॒पः शिशी॑ते॒ वज्रं॒ तेज॑से॒ न वंस॑गः ॥१
दि॒वः । चि॒त् । अ॒स्य॒ । व॒रि॒मा । वि । प॒प्र॒थे॒ । इन्द्र॑म् । न । म॒ह्ना । पृ॒थि॒वी । च॒न । प्रति॑ ।
भी॒मः । तुवि॑ष्मान् । च॒र्ष॒णिऽभ्यः॑ । आ॒ऽत॒पः । शिशी॑ते । वज्र॑म् । तेज॑से । न । वंस॑गः ॥१
दिवः । चित् । अस्य । वरिमा । वि । पप्रथे । इन्द्रम् । न । मह्ना । पृथिवी । चन । प्रति ।
भीमः । तुविष्मान् । चर्षणिऽभ्यः । आऽतपः । शिशीते । वज्रम् । तेजसे । न । वंसगः ॥१
“अस्य इन्द्रस्य “वरिमा उरुत्वं प्राभवं “दिवश्चित् द्युलोकादपि “वि “पप्रथे विस्तीर्णं बभूव । “पृथिवी “चन पृथिव्यपि च “मह्ना महिम्ना महत्त्वेन “इन्द्रं “न “प्रति भवति । भूमिरपीन्द्रस्य प्रतिनिधिर्न भवति । ततोऽपि स गरीयानित्यर्थः । “भीमः शत्रूणां भयंकरः “तुविष्मान् प्रज्ञावान् बलवान् वा "चर्षणिभ्यः मनुष्येभ्यः स्तोतृभ्यस्तेषामर्थाय शत्रूणाम् “आतपः ॥ समन्तात् तापकारी। एवंविधः स इन्द्रः “वज्रं वर्जनशीलमायुधं "तेजसे तैक्ष्ण्याय “शिशीते तनूकरोति तीक्ष्णीकरोति । तत्र दृष्टान्तः । “वंसगः “न । वननीयगतिमान् वृषभो यथा स्वशृङ्गे युद्धार्थं तीक्ष्णीकरोति तद्वत् ॥ दिवः । ऊडिदम् इति विभक्तेरुदात्तत्वम् । वरिमा । उरुशब्दात् पृथ्वादिलक्षणः इमनिच् ।' प्रियस्थिर ' । इत्यादिना उरुशब्दस्य वरादेशः । पप्रथे । ‘ प्रथ प्रख्याने' । मह्ना महिम्ना । वर्णलोपश्छान्दसः । यद्वा । महेरौणादिकः कनिप्रत्ययः । प्रत्ययस्वरेणान्तोदात्तः । तृतीयैकवचने ‘ अल्लोपोऽनः' इति अकारलोपः । उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् । प्रति । ' प्रतिः प्रतिनिधिप्रतिदानयोः' इति प्रतिनिधौ कर्मप्रवचनीयत्वम् । कर्मप्रवचनीययुक्ते ' ( पा. सू. २. ३. ८) इति इन्द्रशब्दात् द्वितीया । ‘ प्रतिनिधिप्रतिदाने च यस्मात् ' (पा. सू. २. ३. ११) इति पञ्चमी तु छान्दसत्वात् न भवति । भीमः । ञिभी भये' इत्यस्मात् “ भियः षुग्वा' ( उ. सू. १. १४५ ) इति मक्प्रत्ययः । ‘भीमो बिभ्यत्यस्मात् (निरु. १. २० ) इति यास्कः । आतपः । तपतीति तपः । पचाद्यच् । थाथादिना उत्तरपदान्तोदातत्वम्। शिशीते । ‘ शो तनूकरणे ' । व्यत्ययेनात्मनेपदम् । ‘ बहुलं छन्दसि ' इति विकरणस्य श्लुः । ‘ बहुलं छन्दसि ' इति अभ्यासस्य इत्वम् । ‘ई हल्यघोः' इति ईत्वम् । अनजादावपि लसार्वधातुके व्यत्ययेन अभ्यस्ताद्युदात्तत्वम् (पा. सू. ६. १. १८९) । वंसगः । वन षण संभक्तौ' इत्यस्मात् कर्मणि औणादिकः सप्रत्ययः । वंसं वननीयं गच्छतीति वंसगः । ‘ डोऽन्यत्रापि दृश्यते ' ( पा. म. ३. २. ४८) इति गमेः डप्रत्ययः । दिवोदासादित्वात् पूर्वपदाद्युदात्तत्वम् ॥
सो अ॑र्ण॒वो न न॒द्य॑ः समु॒द्रिय॒ः प्रति॑ गृभ्णाति॒ विश्रि॑ता॒ वरी॑मभिः ।
इन्द्र॒ः सोम॑स्य पी॒तये॑ वृषायते स॒नात्स यु॒ध्म ओज॑सा पनस्यते ॥२
सः । अ॒र्ण॒वः । न । न॒द्यः॑ । स॒मु॒द्रियः॑ । प्रति॑ । गृ॒भ्णा॒ति॒ । विऽश्रि॑ताः । वरी॑मऽभिः ।
इन्द्रः॑ । सोम॑स्य । पी॒तये॑ । वृ॒ष॒ऽय॒ते॒ । स॒नात् । सः । यु॒ध्मः । ओज॑सा । प॒न॒स्य॒ते॒ ॥२
सः । अर्णवः । न । नद्यः । समुद्रियः । प्रति । गृभ्णाति । विऽश्रिताः । वरीमऽभिः ।
इन्द्रः । सोमस्य । पीतये । वृषऽयते । सनात् । सः । युध्मः । ओजसा । पनस्यते ॥२
“सः इन्द्रः “समुद्रियः । समुद्रवन्त्यस्मादापः इति समुद्रमन्तरिक्षम् । तत्र भवः समुद्रियः । एवंभूतः सन् "वरीमभिः स्वकीयैः संवरणैः यद्वा उरुत्वैः “विश्रिताः व्याप्ताः “नद्यः नदीः शब्दकारिणीः वृत्रेणावृता आपः “अर्णवो “न समुद्र इव “प्रति “गृभ्णाति । स्वीकृत्य ववर्षेति भावः । स च “इन्द्रः “सोमस्य “पीतये पानाय "वृषायते वृष इवाचरति । हर्षयुक्तो वर्तते इत्यर्थः । तथा “सः इन्द्रः “युध्मः योद्धा "सनात् चिरादेव यद्वा सनातनः “ओजसा बलकृतेन वृत्रवधादिरूपेण कर्मणा “पनस्यते पनः स्तोत्रमिच्छति ॥ अर्णवः । ‘ अर्णसो लोपश्च' ( का. ५. २. १०९. २ ) इति मत्वर्थीयो वप्रत्ययः सलोपश्च । प्रत्ययस्वरः । नद्यः । ‘ नद अव्यक्ते शब्दे ' इत्यस्मात् कर्तरि पचाद्यच् । ‘ चितः' इत्यन्तोदात्तत्वम् ।‘नदट्' (पा. सू. ३. १. १३४ ग.) इति टित्त्वेन पाठात् टिड्ढाणञ् ' इति ङीप् ।' यस्य ' इति लोपे उदात्तनिवृतिस्वरेण तस्य उदात्तत्वम्। जसि यणादेशे ‘ उदात्तस्वरितयोर्यणः° ' इति स्वरितत्वम् । द्वितीयार्थे प्रथमा । अनया व्युत्पत्त्या नद्य इत्याप उच्यन्ते । तथा च श्रूयते - अहावनदता हते । तस्मादा नद्यो नाम स्थ तो वो नामानि सिन्धवः । (तै. सं. ५, ६. १. २ ) इति । समुद्रियः । समुद्राभ्राद्धः ' ( पा. सू. ४. ४. ११८) इति भवार्थे घप्रत्ययः । घस्य इयादेशः । तस्योपदेशिवद्वचनात् उदात्तत्वम् । गृभ्णाति । हृग्रहोर्भः० । इति भत्वम् । विश्रिताः । ‘ श्रिञ् सेवायाम् । कर्मणि निष्ठा । ‘ गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । वरीमभिः । वृञ् वरणे' इत्यस्मात् औणादिक ईमनिन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । यद्वा उरुशब्दात् इमनिचि दीर्घ आद्युदात्तत्वं च छान्दसत्वात्। वृषायते। ‘ कर्तुः क्यङ सलोपश्च' (पा. सू. ३. १. ११ ) इति आचारार्थे क्यङ् । ङित्त्वात् आत्मनेपदम् । ‘ अकृत्सार्वधातुकयोः' इति दीर्घः । युध्मः । ‘ युध संप्रहारे' इत्यस्मात् ‘ इषियुधीन्धिदसिश्याधूसूभ्यो मक्' इति मक् । पनस्यते । ‘ पन स्तुतौ । पननं पनः तदिच्छति पनस्यति । व्यत्ययेनात्मनेपदम् ॥
त्वं तमि॑न्द्र॒ पर्व॑तं॒ न भोज॑से म॒हो नृ॒म्णस्य॒ धर्म॑णामिरज्यसि ।
प्र वी॒र्ये॑ण दे॒वताति॑ चेकिते॒ विश्व॑स्मा उ॒ग्रः कर्म॑णे पु॒रोहि॑तः ॥३
त्वम् । तम् । इ॒न्द्र॒ । पर्व॑तम् । न । भोज॑से । म॒हः । नृ॒म्णस्य॑ । धर्म॑णाम् । इ॒र॒ज्य॒सि॒ ।
प्र । वी॒र्ये॑ण । दे॒वता॑ । अति॑ । चे॒कि॒ते॒ । विश्व॑स्मै । उ॒ग्रः । कर्म॑णे । पु॒रःऽहि॑तः ॥३
त्वम् । तम् । इन्द्र । पर्वतम् । न । भोजसे । महः । नृम्णस्य । धर्मणाम् । इरज्यसि ।
प्र । वीर्येण । देवता । अति । चेकिते । विश्वस्मै । उग्रः । कर्मणे । पुरःऽहितः ॥३
हे “इन्द्र “त्वं “भोजसे भोजनाय "पर्वतं पर्ववन्तं मेघं “न अकार्षीः । न हि हतो भुङ्क्ते । इन्द्रो हि वर्षणार्थं मेघं वज्रेण हन्ति । तथा 'महः महतः "नृम्णस्य धनस्य “धर्मणां धारयितॄणां कुबेरादीनाम् “इरज्यसि ईशिषे । इरज्यतिरैश्वर्यकर्मा । स इन्द्रः “देवता "वीर्येण “अति अतिशयित इति “प्र “चेकिते प्रकर्षेणास्माभिर्ज्ञातो बभूव । स च “उग्रः उद्गूर्ण इन्द्रः “विश्वस्मै सर्वस्मै वृत्रवधादिरूपाय “कर्मणे देवैः “पुरोहितः पुरस्तादवस्थापितः ॥ धर्मणाम् । ‘ धृञ् धारणे'। ‘ अन्येभ्योऽपि दृश्यन्ते' इति कर्तरि मनिन् । नित्त्वादाद्युदात्तत्वम् । इरज्यसि ।' इरज् ईर्ष्यायाम्'। ऐश्वर्ये इत्येके । कण्ड्वादित्वात् यक् । वीर्येण । ' शूर वीर विक्रान्तौ । चुरादिः । ‘ अचो यत्' इति यत् । णिलोपः । बहुव्रीहौ ‘वीरवीर्यौ च' इत्युत्तरपदाद्युदात्तत्वविधानसामर्थ्यात् ‘ यतोऽनावः' इत्याद्युदात्तत्वाभावे ' तित्स्वरितम्' इति स्वरितत्वम् । तस्मिन् हि सति ‘आद्युदात्तं द्व्यच्छन्दसि' इत्यनेनैव सिद्धत्वात् पुनर्वीर्यग्रहणमनर्थकं स्यादित्युक्तम् । देवता । देव एव देवता। ‘देवात्तल्' (पा. सू. ५. ४. २७) इति स्वार्थे तल्प्रत्ययः । ‘ लिति' इति प्रत्ययात् पूर्वस्योदात्तत्वम् । चेकिते । कित ज्ञाने '। अस्मात् यङन्तात् चेकित्यतेः कर्मणि लिटि अतोलोपयलोपौ । पुरोहितः । पुरस्शब्दस्य असिप्रत्ययान्तस्य ‘ तद्धितश्चासर्वविभक्तिः ' इति अव्ययत्वेन ‘ पुरोऽव्ययम्' इति गतिसंज्ञायां ‘ गतिरनन्तरः' इति पूर्वपदप्रकृतिस्वरत्वम् ॥
स इद्वने॑ नम॒स्युभि॑र्वचस्यते॒ चारु॒ जने॑षु प्रब्रुवा॒ण इ॑न्द्रि॒यम् ।
वृषा॒ छन्दु॑र्भवति हर्य॒तो वृषा॒ क्षेमे॑ण॒ धेनां॑ म॒घवा॒ यदिन्व॑ति ॥४
सः । इत् । वने॑ । न॒म॒स्युऽभिः॑ । व॒च॒स्य॒ते॒ । चारु॑ । जने॑षु । प्र॒ऽब्रु॒वा॒णः । इ॒न्द्रि॒यम् ।
वृषा॑ । छन्दुः॑ । भ॒व॒ति॒ । ह॒र्य॒तः । वृषा॑ । क्षेमे॑ण । धेना॑म् । म॒घवा॑ । यत् । इन्व॑ति ॥४
सः । इत् । वने । नमस्युऽभिः । वचस्यते । चारु । जनेषु । प्रऽब्रुवाणः । इन्द्रियम् ।
वृषा । छन्दुः । भवति । हर्यतः । वृषा । क्षेमेण । धेनाम् । मघवा । यत् । इन्वति ॥४
“स “इत् स एवेन्द्रः “वने अरण्ये "नमस्युभिः नमसा स्तोत्रेण पूजयितृभिर्ऋषिभिः “वचस्यते वच इच्छन् क्रियते स्तूयते इत्यर्थः । यद्वा वचः स्तोत्रमात्मन इच्छति । स चेन्द्र आत्मीयेषु “जनेषु “इन्द्रियं स्ववीर्यं “प्रब्रुवाणः प्रकटयन् 'चारु वर्तते । किंच सः “वृषा कामानां वर्षकः “हर्यतः प्रेप्सावतो यियक्षतः “छन्दुः उपच्छन्दयिता “भवति । यियक्षतां पुरुषाणां यागे रुचिमुत्पादयतीति भावः । “वृषा हविषां वर्षयिता । हविष्प्रदातेत्यर्थः । “मघवा धनवान् । एवंभूतो यजमानः "क्षेमेण इन्द्रकृतेन रक्षणेन युक्तः सन् “यत् यदा “धेनां स्तुतिलक्षणां वाचम् “इन्वति प्रेरयति । तदानीं छन्दुर्भवतीति पूर्वेणान्वयः । यद्वा । मघवा वृषा इन्द्रः क्षेमेण क्षेमकरेण मनसा धेनां यजमानैः कृतां स्तुतिं यद्यस्मात् इन्वति व्याप्नोति । तस्मादिति योज्यम् ॥ नमस्युभिः । 'नमोवरिवः' इति पूजार्थे क्यच् । ‘क्याच्छन्दसि ' इति उप्रत्ययः । वचस्यते । वच इच्छति वचस्यति । तं वचस्यन्तं कुर्वन्ति मुनयो वचस्ययन्ति । वचस्ययतेः कर्मणि यकि अतोलोपयलोपौ । यद्वा । वचस्यतेर्व्यत्ययेनात्मनेपदम् । प्रब्रुवाणः । ‘ ब्रूञ् व्यक्तायां वाचि' । लटः शानच् । अदादित्वात् शपो लुक् । शानचो ङित्त्वात् गुणाभावे उवङ् । चित्स्वरेणान्तोदात्तः । इन्द्रियम् । इन्द्रस्य लिङ्गमिन्द्रियम् । इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तमिति वा ' ( पा. सू. ५. २. ९३ ) इति लिङ्गादिश्वर्थेषु इन्द्रशब्दात् घच्प्रत्ययो निपात्यते । अतः अन्तोदात्तत्वम् । इन्वति । इवि व्याप्तौ'। शपः पित्त्वादनुदात्तत्वे धातुस्वरः । यद्वृत्तयोगादनिघातः ॥
स इन्म॒हानि॑ समि॒थानि॑ म॒ज्मना॑ कृ॒णोति॑ यु॒ध्म ओज॑सा॒ जने॑भ्यः ।
अधा॑ च॒न श्रद्द॑धति॒ त्विषी॑मत॒ इन्द्रा॑य॒ वज्रं॑ नि॒घनि॑घ्नते व॒धम् ॥५
सः । इत् । म॒हानि॑ । स॒म्ऽइ॒थानि॑ । म॒ज्मना॑ । कृ॒णोति॑ । यु॒ध्मः । ओज॑सा । जने॑भ्यः ।
अध॑ । च॒न । श्रत् । द॒ध॒ति॒ । त्विषि॑ऽमते । इन्द्रा॑य । वज्र॑म् । नि॒ऽघनि॑घ्नते । व॒धम् ॥५
सः । इत् । महानि । सम्ऽइथानि । मज्मना । कृणोति । युध्मः । ओजसा । जनेभ्यः ।
अध । चन । श्रत् । दधति । त्विषिऽमते । इन्द्राय । वज्रम् । निऽघनिघ्नते । वधम् ॥५
“स “इत् स एवेन्द्रः “युध्मः योद्धा “महानि "समिथानि महतः संग्रामान् “मज्मना सर्वस्य शोधकेन “ओजसा बलेन “कृणोति करोति । किमर्थम् । “जनेभ्यः स्तोतृजनार्थम् । यदा इन्द्रः “वधं हननसाधनं “वज्रम् आयुधं मेघेषु “निघनिघ्नते निहन्ति “अधा “चन अनन्तरमेव “त्विषीमते दीप्तिमते “इन्द्राय सर्वे जनाः “श्रद्दधति । श्रत् इति सत्यनाम । इन्द्रो बलवानिति यदुच्यते तत्सत्यमेवेति सर्वे प्रतिपद्यन्ते ॥ महानि । महान्तीत्यस्य तकारलोपश्छान्दसः । यद्वा । मह्यन्ते पूज्यन्ते इति महानि प्रवृद्धानि ।' घञर्थे कविधानम्° ' इति कः । प्रत्ययस्वरः । समिथानि । ‘ इण् गतौ । संयन्ति संगच्छन्तेऽस्मिन्वीरा इति समिथानि संग्रामाः । ‘ समीणः ' ( उ. सू. ४. ५३२ ) इति थक्प्रत्ययः । कित्त्वाद्गुणाभावः । थाथादिना उत्तरपदान्तोदात्तत्वम् । मज्मना । ‘टुमस्जो शुद्धौ ' । मनिप्रत्ययः । : झलां जश् झशि' ( पा. सू. ८. ४. ५३ ) इति सकारस्य जश्त्वं दकारः । ततश्चुत्वं जकारः । प्रत्ययस्वरः । अध । छान्दसं धत्वम् । ‘ निपातस्य च ' इति सांहितिको दीर्घः । त्विषीमते । त्विष दीप्तौ ।' इन्सर्वधातुभ्यः' इति इन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । मतुपः पित्त्वादनुदात्तत्वे तदेव शिष्यते । अन्येषामपि दृश्यते ' इति सांहितिको दीर्घः । निघनिघ्नते। हन्तेर्व्यत्ययेनात्मनेपदं बहुवचनं च । ‘ बहुलं छन्दसि ' इति शपः श्लुः । ‘ गमहन' इत्यादिना उपधालोपः । अभ्यासस्य घत्वं निगागमश्च ।' आगनीगन्तीति च ' ( पा. सू. ७. ४. ६५ ) इति इतिचशब्दः प्रकारार्थं इत्युक्तत्वात् दाधर्त्यादौ एतद्द्रष्टव्यम् ॥ ॥ १९ ॥
स हि श्र॑व॒स्युः सद॑नानि कृ॒त्रिमा॑ क्ष्म॒या वृ॑धा॒न ओज॑सा विना॒शय॑न् ।
ज्योतीं॑षि कृ॒ण्वन्न॑वृ॒काणि॒ यज्य॒वेऽव॑ सु॒क्रतु॒ः सर्त॒वा अ॒पः सृ॑जत् ॥६
सः । हि । श्र॒व॒स्युः । सद॑नानि । कृ॒त्रिमा॑ । क्ष्म॒या । वृ॒धा॒नः । ओज॑सा । वि॒ऽना॒शय॑न् ।
ज्योतीं॑षि । कृ॒ण्वन् । अ॒वृ॒काणि॑ । यज्य॑वे । अव॑ । सु॒ऽक्रतुः॑ । सर्त॒वै । अ॒पः । सृ॒ज॒त् ॥६
सः । हि । श्रवस्युः । सदनानि । कृत्रिमा । क्ष्मया । वृधानः । ओजसा । विऽनाशयन् ।
ज्योतींषि । कृण्वन् । अवृकाणि । यज्यवे । अव । सुऽक्रतुः । सर्तवै । अपः । सृजत् ॥६
“श्रवस्युः अन्नं यशो वात्मन इच्छन् “कृत्रिमा कृत्रिमाणि क्रियया निर्वृत्तानि “सदनानि असुरपुराणि “ओजसा बलेन "विनाशयन् “क्ष्मया भूम्या समानं "वृधानः वर्धनशीलः । यद्वा। क्ष्मया इति ओजोविशेषणम् । शत्रूणामभिभवित्रा बलेनेत्यर्थः । “ज्योतींषि सूर्यादीनि वृत्रेणावृतानि “अवृकाणि वृकेणावरकेण तेन रहितानि "कृण्वन् कुर्वन् “सुक्रतुः शोभनकर्मसहितः एवंविधः “सः खलु इन्द्रः “यज्यवे यष्ट्रे यजमानाय तदर्थं “सर्तवै सरणाय “अपः वृष्टिलक्षणान्युदकानि “अव “सृजत् । वृष्टिं कृतवानित्यर्थः ॥ कृत्रिमा । ' डुकृञ् करणे '। ‘ ड्वितः क्त्रिः ' ( पा. सू. ३. ३. ८८ ) इति भावे क्त्रिप्रत्ययः । ' त्रेर्मम्नित्यम् ' ( पा. सू. ४. ४. २० ) इति निर्वृत्तार्थ मप् । तस्य पित्त्वादनुदात्तत्वे क्त्रिप्रत्ययस्वर एव शिष्यते । ‘ शेश्छन्दसि बहुलम् । इति शेर्लोपः । क्ष्मया । ‘ क्षमूष् सहने । क्षमते प्राणिजातकृतमुपद्रवमिति क्षमा । षिद्भिदादिभ्योऽङ्' (पा. सू. ३. ३. १०४ ) इति अङ्प्रत्ययः । ततः टाप् । व्यत्ययेन धातोः उपधालोपः । छान्दसं विभक्त्युदात्तत्वम् । यद्वा । अयं धातुरभिभवार्थः, षह अभिभवे ' इति सहनस्याभिभवार्थत्वात् । अस्मात् औणादिको मनिन् । व्यत्ययेन स्त्रीलिङ्गता । ‘ मनः' ( पा. सू. ४.१. ११) इति डीपो निषेधे ‘ डाबुभाभ्यामन्यतरस्याम् (पा. सू. ४. १. १३ ) इति डाप् । टिलोपः । वृधानः । ताच्छीलिकः चानश् । बहुलं छन्दसि इति शपो लुक् । ‘ चितः' इत्यन्तोदात्तत्वम् । अवृकाणि । ‘ वृञ् वरणे'। ‘ सृवृभूशुषिमुषिभ्यः कित्' ( उ. सू. ३. ३२१ ) इति कन्प्रत्ययः । बहुव्रीहौ ‘नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । यज्यवे । ‘ यजिमनिशुन्धिदसिजनिभ्यो युः' इति युप्रत्ययः । वृषादेराकृतिगणत्वादाद्युदात्तत्वम् । सुक्रतुः । बहुव्रीहौ ' क्रत्वादयश्च' इत्युत्तरपदाद्युदात्तत्वम् । सर्तवै । ‘ सृ गतौ । ‘ कृत्यार्थे तवैकेन्° ' इति भावे तवैप्रत्ययः । गुणः । ‘ अन्तश्च तवै युगपत् ' ( पा. सू. ६. १. २०० ) इति आद्यन्तयोः युगपत् उदात्तत्वम् । अपः । ऊडिदम् ' इति शस उदात्तत्वम् । सृजत् । लङि ‘ बहुलं छन्दस्यमाङयोगेऽपि ' इति अडभावः ॥
दा॒नाय॒ मन॑ः सोमपावन्नस्तु ते॒ऽर्वाञ्चा॒ हरी॑ वन्दनश्रु॒दा कृ॑धि ।
यमि॑ष्ठास॒ः सार॑थयो॒ य इ॑न्द्र ते॒ न त्वा॒ केता॒ आ द॑भ्नुवन्ति॒ भूर्ण॑यः ॥७
दा॒नाय॑ । मनः॑ । सो॒म॒ऽपा॒व॒न् । अ॒स्तु॒ । ते॒ । अ॒र्वाञ्चा॑ । हरी॒ इति॑ । व॒न्द॒न॒ऽश्रु॒त् । आ । कृ॒धि॒ ।
यमि॑ष्ठासः । सार॑थयः । ये । इ॒न्द्र॒ । ते॒ । न । त्वा॒ । केताः॑ । आ । द॒भ्नु॒व॒न्ति॒ । भूर्ण॑यः ॥७
दानाय । मनः । सोमऽपावन् । अस्तु । ते । अर्वाञ्चा । हरी इति । वन्दनऽश्रुत् । आ । कृधि ।
यमिष्ठासः । सारथयः । ये । इन्द्र । ते । न । त्वा । केताः । आ । दभ्नुवन्ति । भूर्णयः ॥७
हे "सोमपावन् सोमस्य पातरिन्द्र “ते त्वदीयं “मनः “दानाय अस्मदभिमतफलप्रदानाय "अस्तु भवतु । हे “वन्दनश्रुत् वन्दनानां स्तुतीनां श्रोतः "हरी त्वदीयावश्वौ “अर्वाञ्चा अस्मद्यज्ञाभिमुखौ “आ “कृधि आभिमुख्येन कुरु । हे "इन्द्र "ते तव स्वभूताः “ये सारथयः सन्ति ते "यमिष्ठासः अतिशयेन यन्तारः अश्वनियमनकुशला इत्यर्थः । यस्मादेवं तस्मात् “केताः प्रातिकूल्यज्ञातारः ”भूर्णयः स्वकीयायुधादीनां भर्तारः । यद्वा । भीतास्तीक्ष्णाः शत्रवः “त्वा त्वां न “आ “दभ्नुवन्ति न हिंसन्ति । सोमपावन् । ‘ आतो मनिन् ' इति वनिप् । ' असंबुद्धौ ' इति पर्युदासात् दीर्घाभावः । अर्वाञ्चा । ‘ सुपां सुलुक् ' इति विभक्तेः आकारः । वन्दनश्रुत् । वदि अभिवादनस्तुत्योः । इदित्त्वात् नुम् । भावे ल्युट् । तेषां श्रोता । श्रु श्रवणे'। क्विपि तुगागमः । यमिष्ठासः । यन्तृशब्दात् ' तुश्छन्दसि ' इति इष्ठन्प्रत्ययः । ‘ तुरिष्ठेमेयःसु ' इति तृलोपः । नित्त्वादाद्युदात्तत्वम् ।' आज्जसेरसुक्' इति असुक् । केताः । कित ज्ञाने'। चिकेतति प्रतिकूलं जामन्तीति केताः । पचाद्यच् । वृषादेराकृतिगणत्वादाद्युदात्तत्वम् । यद्वा । प्रतिकूलतया ज्ञायन्ते इति केताः । कर्मणि घञ् । ञित्त्वादाद्युदात्तत्वम् । दभ्नुवन्ति । दम्भु दम्भे' । स्वादित्वात् श्नुः । तस्य ङित्त्वात् “ अनिदिताम्' इति नलोपः । संयोगपूर्वत्वेन ‘हुश्नुवोः' इति यणादेशाभावे ‘अचि श्नुधातु ' इत्यादिना उवङादेशः । भूर्णयः । ‘ भृञ् भरणे'। “घृणिः पृश्निः' इत्यादौ अस्मात् निप्रत्ययान्तो निपात्यते । ऋत उत्वं दीर्घश्च । यद्वा । ‘ भॄ भये ' इत्यस्मात् ‘कृत्यल्युटो बहुलम् इति कर्तरि क्तिनि “ उदोष्ठ्यपूर्वस्य' इति उत्वम् । ‘हलि च' इति दीर्घः । ऋकारल्वादिभ्यः क्तिन्निष्ठावद्भवति' (पा. सू. ८. २. ४४. १ ) इति निष्ठावद्भावात् नत्वम् । नित्त्वादाद्युदात्तत्वम् ॥
अप्र॑क्षितं॒ वसु॑ बिभर्षि॒ हस्त॑यो॒रषा॑ळ्हं॒ सह॑स्त॒न्वि॑ श्रु॒तो द॑धे ।
आवृ॑तासोऽव॒तासो॒ न क॒र्तृभि॑स्त॒नूषु॑ ते॒ क्रत॑व इन्द्र॒ भूर॑यः ॥८
अप्र॑ऽक्षितम् । वसु॑ । बि॒भ॒र्षि॒ । हस्त॑योः । अषा॑ळ्हम् । सहः॑ । त॒न्वि॑ । श्रु॒तः । द॒धे॒ ।
आऽवृ॑तासः । अ॒व॒तासः । न । क॒र्तृऽभिः॑ । त॒नूषु॑ । ते॒ । क्रत॑वः । इ॒न्द्र॒ । भूर॑यः ॥८
अप्रऽक्षितम् । वसु । बिभर्षि । हस्तयोः । अषाळ्हम् । सहः । तन्वि । श्रुतः । दधे ।
आऽवृतासः । अवतासः । न । कर्तृऽभिः । तनूषु । ते । क्रतवः । इन्द्र । भूरयः ॥८
हे इन्द्र त्वम् “अप्रक्षितम् प्रक्षयरहितं “वसु धनं “हस्तयोः “बिभर्षि स्तोतृभ्यो दातुं धारयसि । तथा “श्रुतः प्रख्यातो भवान् “तन्वि आत्मीये शरीरे "अषाळ्हं शत्रुभिरनभिभूतं "सहः बलं “दधे धारयति । त्वदीयास्तनवः “कर्तृभिः वृत्रादेरसुरस्य वधं कुर्वद्भिर्बलकृतैः कर्मभिः “आवृतासः आवृताः । बलकृतानि सर्वाणि कर्माणि एतस्य शरीरमावृत्यावतिष्ठन्ते । तत्र दृष्टान्तः । “अवतासो “न। अवतः इति कूपनाम । यथा कूपा जलोद्धरणाय प्रवृत्तैः प्राणिभिराव्रियन्ते तद्वत् । यस्मादेवं तस्मात् हे "इन्द्र "ते तव शरीरेषु “क्रतवः कर्माणि “भूरयः बहूनि विद्यन्ते ॥ अप्रक्षितम् । ‘क्षि क्षये' इत्यस्मात् भावे निष्ठा । ‘ अण्यदर्थे' (पा. सू. ६. ४. ६०) इति पर्युदासात् दीर्घाभावः। अत एव ‘क्षियो दीर्घात्' इति निष्ठानत्वाभावः । प्रकृष्टं क्षितं यस्य तत् प्रक्षितम् । न प्रक्षितम् अप्रक्षितम् । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । बिभर्षि । ‘डुभृञ् धारणपोषणयोः' । लटि सिपि शपः श्लुः । भृञामित्' इति अभ्यासस्य इत्वम् । अषाळ्हम् । षह अभिभवे' इत्यस्मात् निष्ठायां तकारादौ प्रत्यये ‘तीषसह°' (पा. सू. ७.२.४८) इति इटः विकल्पितत्वात् ‘यस्य विभाषा' इति इट्प्रतिषेधः । ढत्वधत्वष्टुत्वढलोपेषु ‘सहिवहोरोदवर्णस्य' इति ओत्वे प्राप्ते ‘साढ्यै साढ़्वा साढेति निगमे ' (पा. सू. ६. ३. ११३) इति निपातनात् आत्वम् । यदुक्तं साढेति तृजन्तमेतदिति तदुपलक्षणार्थं द्रष्टव्यम् । तन्वि। ‘जसादिषु च्छन्दसि वावचनम् । इति • अञ्च घेः' (पा.सू. ७. ३. ११९) इति अत्वौत्वयोरभावे यणादेशः । ‘उदात्तस्वरितयोर्यणः । इति विभक्तेः स्वरितत्वम्। ‘उदात्तयणो हल्पूर्वात्' इति उदात्तत्वं तु छान्दसत्वात् न प्रवर्तते ॥ ॥२०॥
मण्डल १ | ||||||
---|---|---|---|---|---|---|
|