ऋग्वेदः सूक्तं १.१३६

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं १.१३५ ऋग्वेदः - मण्डल १
सूक्तं १.१३६
परुच्छेपो दैवोदासिः।
सूक्तं १.१३७ →
दे. १-५ मित्रावरुणौ, ६-७ लिङ्गोक्ताः । अत्यष्टिः, ७ त्रिष्टुप्


प्र सु ज्येष्ठं निचिराभ्यां बृहन्नमो हव्यं मतिं भरता मृळयद्भ्यां स्वादिष्ठं मृळयद्भ्याम् ।
ता सम्राजा घृतासुती यज्ञेयज्ञ उपस्तुता ।
अथैनोः क्षत्रं न कुतश्चनाधृषे देवत्वं नू चिदाधृषे ॥१॥
अदर्शि गातुरुरवे वरीयसी पन्था ऋतस्य समयंस्त रश्मिभिश्चक्षुर्भगस्य रश्मिभिः ।
द्युक्षं मित्रस्य सादनमर्यम्णो वरुणस्य च ।
अथा दधाते बृहदुक्थ्यं वय उपस्तुत्यं बृहद्वयः ॥२॥
ज्योतिष्मतीमदितिं धारयत्क्षितिं स्वर्वतीमा सचेते दिवेदिवे जागृवांसा दिवेदिवे ।
ज्योतिष्मत्क्षत्रमाशाते आदित्या दानुनस्पती ।
मित्रस्तयोर्वरुणो यातयज्जनोऽर्यमा यातयज्जनः ॥३॥
अयं मित्राय वरुणाय शंतमः सोमो भूत्ववपानेष्वाभगो देवो देवेष्वाभगः ।
तं देवासो जुषेरत विश्वे अद्य सजोषसः ।
तथा राजाना करथो यदीमह ऋतावाना यदीमहे ॥४॥
यो मित्राय वरुणायाविधज्जनोऽनर्वाणं तं परि पातो अंहसो दाश्वांसं मर्तमंहसः ।
तमर्यमाभि रक्षत्यृजूयन्तमनु व्रतम् ।
उक्थैर्य एनोः परिभूषति व्रतं स्तोमैराभूषति व्रतम् ॥५॥
नमो दिवे बृहते रोदसीभ्यां मित्राय वोचं वरुणाय मीळ्हुषे सुमृळीकाय मीळ्हुषे ।
इन्द्रमग्निमुप स्तुहि द्युक्षमर्यमणं भगम् ।
ज्योग्जीवन्तः प्रजया सचेमहि सोमस्योती सचेमहि ॥६॥
ऊती देवानां वयमिन्द्रवन्तो मंसीमहि स्वयशसो मरुद्भिः ।
अग्निर्मित्रो वरुणः शर्म यंसन्तदश्याम मघवानो वयं च ॥७॥


सायणभाष्यम्

‘ प्र सु ज्येष्ठम् ' इति सप्तर्चं तृतीयं सूक्तम् । ऋषिश्चान्यस्मात् ' इति परिभाषया परुच्छेप ऋषिः । अत्यष्टिश्छन्दः । ऊती देवानाम्' इत्यन्त्या त्रिष्टुप् । अत्र त्रिष्टुबन्तपरिभाषा नाश्रीयते ‘ सर्वमात्यष्टम्' इति विशेषपरिभाषया बाधितत्वात् । मित्रावरुणौ देवता । अन्त्ययोस्तु तन्मन्त्रलिङ्गोक्तदेवता । तथा चानुक्रान्तं - प्र सु सप्त मैत्रावरुणं त्वन्त्ये लिङ्गोक्तदेवते अन्त्या त्रिष्टुप् ' इति । तुशब्दप्रयोगात् इदमादिके द्वे सूक्ते मैत्रावरुणदेवताके । विनियोगो लैङ्गिकः ॥


प्र सु ज्येष्ठं॑ निचि॒राभ्यां॑ बृ॒हन्नमो॑ ह॒व्यं म॒तिं भ॑रता मृळ॒यद्भ्यां॒ स्वादि॑ष्ठं मृळ॒यद्भ्या॑म् ।

ता स॒म्राजा॑ घृ॒तासु॑ती य॒ज्ञेय॑ज्ञ॒ उप॑स्तुता ।

अथै॑नोः क्ष॒त्रं न कुत॑श्च॒नाधृषे॑ देव॒त्वं नू चि॑दा॒धृषे॑ ॥१

प्र । सु । ज्येष्ठ॑म् । नि॒ऽचि॒राभ्या॑म् । बृ॒हत् । नमः॑ । ह॒व्यम् । म॒तिम् । भ॒र॒त॒ । मृ॒ळ॒यत्ऽभ्या॑म् । स्वादि॑ष्ठम् । मृ॒ळ॒यत्ऽभ्या॑म् ।

ता । स॒म्ऽराजा॑ । घृ॒तासु॑ती॒ इति॑ घृ॒तऽआ॑सुती । य॒ज्ञेऽय॑ज्ञे । उप॑ऽस्तुता ।

अथ॑ । ए॒नोः॒ । क्ष॒त्रम् । न । कुतः॑ । च॒न । आ॒ऽधृषे॑ । दे॒व॒ऽत्वम् । नु । चि॒त् । आ॒ऽधृषे॑ ॥१

प्र । सु । ज्येष्ठम् । निऽचिराभ्याम् । बृहत् । नमः । हव्यम् । मतिम् । भरत । मृळयत्ऽभ्याम् । स्वादिष्ठम् । मृळयत्ऽभ्याम् ।

ता । सम्ऽराजा । घृतासुती इति घृतऽआसुती । यज्ञेऽयज्ञे । उपऽस्तुता ।

अथ । एनोः । क्षत्रम् । न । कुतः । चन । आऽधृषे । देवऽत्वम् । नु । चित् । आऽधृषे ॥१

हे ऋत्विजः मित्रावरुणाभ्यां “ज्येष्ठं प्रशस्यं “बृहत् महदतिप्रवृद्धं “नमः नमस्कारोपलक्षितं स्तोत्रं तदुपलक्षितं हविर्लक्षणमन्नं वा “प्र “भरत संपादयत । नम इत्यन्ननाम, ‘नमः आयुः (नि. २. ७. २२) इति तन्नामसु पाठात् । किंच “हव्यं हव्यां मतिं तत्प्रदानविषयां बुद्धिं भरत । यद्वा मतिं पूज्यं हव्यं हविर्भरत । पूर्वत्र पुरोडाशाद्यदनीयमन्नं इदानीं तु सोमाज्यादिरूपं निपेयं हविः इति विवेकः । कीदृशाभ्यां ताभ्याम् । “निचिराभ्यां नितरां चिरकालाभ्यां नित्याभ्यामित्यर्थः । प्रवाहरूपेणेति भावः । किंच "मृळयद्भ्यां स्तुत्या हविःस्वीकारेण स्वयं मृडित्वा यजमानमपि सुखयद्यांचि तथा “स्वादिष्ठं स्वादुतरं मृळयद्भ्यां हविः सुखयद्यां क भक्षयद्याेणमित्यर्थः । कस्तयोर्विशेषः इति तत्राह । “ता तौ मित्रावरुणौ “सम्राजा सम्यक् राजमानौ॥ राजतेः क्विप् । ‘मो राजि समः क्वौ' इति समो मकारस्य मकारः ॥ “घृतासुती । घृतमासूयते आदीयते याभ्यां तौ तादृशौ। यद्वा । घृतमुदकं वृष्टिलक्षणं प्रसूयते सर्वत्रानुज्ञायते याभ्यां तौ । एतयोः अहोरात्राभिमानिदेवत्वात् अहोरात्रद्वारा वृष्ट्युत्पादकत्वात् ‘अहोरात्रे वै मित्रावरुणावहोरात्राभ्यां खलु वै पर्जन्यो वर्षति' (तै. सं. २. १. ७. ३) इति श्रुतेर्वृष्ट्यनुज्ञाप्रदत्वं प्रसिद्धम् । किंच एतौ “यज्ञेयज्ञे सर्वेष्वपि यज्ञेषु “उपस्तुता सर्वैर्ऋत्विग्भिः स्तूयमानौ ।' गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् ॥ “अथ अपि च “एनोः एनयोः ॥ संज्ञापूर्वकस्य विधेरनित्यत्वात् ‘ ओसि च ' ( पा. सू. ७. ३. १०४ ) इति गुणाभावे । अतो गुणे : इति पररूपत्वम् ॥ “क्षत्रं बलं “कुतश्चन कस्मादपि च शत्रोः राक्षसादेः सकाशात् कस्मादप्युपायाद्वा “न “आधृषे आधर्षितुं शक्यं न भवति ॥ ‘ कृत्यार्थे तवैकेन्' इति केन्प्रत्ययः ।। किंच तयोः देवत्वं “नू “चित् देवभावोऽपि न “आधृषे अधर्षणायोग्यः । यद्वा । पूर्वमिव इदानीमपि । “नू चिदिति निपातः पुराणनवयोः' (निरु. ४. १७ ) इति यास्केनोक्तत्वात् । आधृषे न केनाप्याधर्षणीयो भवति । एतयोर्बलं नाधृष्यं किमु तद्देवत्वमिति भावः ।।


अद॑र्शि गा॒तुरु॒रवे॒ वरी॑यसी॒ पन्था॑ ऋ॒तस्य॒ सम॑यंस्त र॒श्मिभि॒श्चक्षु॒र्भग॑स्य र॒श्मिभि॑ः ।

द्यु॒क्षं मि॒त्रस्य॒ साद॑नमर्य॒म्णो वरु॑णस्य च ।

अथा॑ दधाते बृ॒हदु॒क्थ्यं१॒॑ वय॑ उप॒स्तुत्यं॑ बृ॒हद्वय॑ः ॥२

अद॑र्शि । गा॒तुः । उ॒रवे॑ । वरी॑यसी । पन्थाः॑ । ऋ॒तस्य॑ । सम् । अ॒यं॒स्त॒ । र॒श्मिऽभिः॑ । चक्षुः॑ । भग॑स्य । र॒श्मिऽभिः॑ ।

द्यु॒क्षम् । मि॒त्रस्य॑ । सद॑नम् । अ॒र्य॒म्णः । वरु॑णस्य । च॒ ।

अथ॑ । द॒धा॒ते॒ इति॑ । बृ॒हत् । उ॒क्थ्य॑म् । वयः॑ । उ॒प॒ऽस्तुत्य॑म् । बृ॒हत् । वयः॑ ॥२

अदर्शि । गातुः । उरवे । वरीयसी । पन्थाः । ऋतस्य । सम् । अयंस्त । रश्मिऽभिः । चक्षुः । भगस्य । रश्मिऽभिः ।

द्युक्षम् । मित्रस्य । सदनम् । अर्यम्णः । वरुणस्य । च ।

अथ । दधाते इति । बृहत् । उक्थ्यम् । वयः । उपऽस्तुत्यम् । बृहत् । वयः ॥२

“गातुः गमनशीला “वरीयसी उरुतरा उषाः “उरवे विस्तीर्णाय यागाय गमनादिव्यापाराय अदर्शि सर्वेर्दृष्टा अभूत्। तथा “ऋतस्य गमनशीलस्यादित्यस्य “पन्थाः मार्गः आकाशलक्षणः “रश्मिभिः “समयंस्त प्रकाशैः संगतोऽभूत् । “भगस्य सर्वैर्भजनीयस्य एतन्नामकस्य देवस्य “रश्मिभिः “चक्षुः सर्वप्राणिनां लोचनं समयंस्त संगतमभूत् । सर्वे स्वस्वद्रव्यदर्शनाय समर्था अभवन्नित्यर्थः । तदेव स्पष्टीक्रियते । "मित्रस्य प्रकाशकारित्वात् सर्वजनमित्रस्य “सदनं गृहमन्तरिक्षं “द्युक्षं दीप्तानां निवासस्थानं रश्मिभिः समयंस्त संगतमभूत् । तथा “अर्यम्णः एतन्नामकस्य देवस्य ॥ उदात्तनिवृत्तिस्वरेण विभक्तेः उदात्तत्वम् ॥ द्युक्षं सदनं रश्मिभिः समयंस्त । किंच “वरुणस्य तमोनिवारकस्य एतन्नामकस्य देवस्य सदनं तथाभूत् । यद्यपि सूर्यस्य एकत्वेऽपि उपाधिभेदेन भेदात् पृथक् स्तुतिः तथा यद्यपि त्रिभिरपि प्रकाश्यमप्यन्तरिक्षमेकं तथापि प्रकाशकानां भेदात् त्रिधा स्तूयते । उदयानन्तरं कर्मानुष्ठानाय प्रकाशः अभवदित्यर्थः। “अथ अतः कारणात् उदितत्वादेव “उक्थ्यं स्तुत्यं "बृहत् प्रभूतं “वयः हविर्लक्षणमन्नं “दधाते धारयतः । किंच “उपस्तुत्यम् उपेत्य स्तोतव्यम् ॥ ‘एतिस्तुशासु' (पा. सू. ३. १. १०९) इत्यादिना क्यप् । “बृहत् स्तोमादिना महत्स्तोत्रं “वयः हविर्लक्षणमन्नं च दधाते ॥


ज्योति॑ष्मती॒मदि॑तिं धार॒यत्क्षि॑तिं॒ स्व॑र्वती॒मा स॑चेते दि॒वेदि॑वे जागृ॒वांसा॑ दि॒वेदि॑वे ।

ज्योति॑ष्मत्क्ष॒त्रमा॑शाते आदि॒त्या दानु॑न॒स्पती॑ ।

मि॒त्रस्तयो॒र्वरु॑णो यात॒यज्ज॑नोऽर्य॒मा या॑त॒यज्ज॑नः ॥३

ज्योति॑ष्मतीम् । अदि॑तिम् । धा॒र॒यत्ऽक्षि॑तिम् । स्वः॑ऽवतीम् । आ । स॒चे॒ते॒ इति॑ । दि॒वेऽदि॑वे । जा॒गृ॒ऽवांसा॑ । दि॒वेऽदि॑वे ।

ज्योति॑ष्मत् । क्ष॒त्रम् । आ॒शा॒ते॒ इति॑ । आ॒दि॒त्या । दानु॑नः । पती॒ इति॑ ।

मि॒त्रः । तयोः॑ । वरु॑णः । या॒त॒यत्ऽज॑नः । अ॒र्य॒मा । या॒त॒यत्ऽज॑नः ॥३

ज्योतिष्मतीम् । अदितिम् । धारयत्ऽक्षितिम् । स्वःऽवतीम् । आ । सचेते इति । दिवेऽदिवे । जागृऽवांसा । दिवेऽदिवे ।

ज्योतिष्मत् । क्षत्रम् । आशाते इति । आदित्या । दानुनः । पती इति ।

मित्रः । तयोः । वरुणः । यातयत्ऽजनः । अर्यमा । यातयत्ऽजनः ॥३

अयं यजमानः “ज्योतिष्मतीम् आहवनीयाग्नेस्तेजोयुक्ताम् “अदितिम् अदीनां संपूर्णलक्षणां “क्षितिम् अग्नेर्निवासयोग्यां भूमिम् उत्तरवेदिलक्षणां “धारयत् धारयति स्वयं कृतवानित्यर्थः। एतावती वै पृथिवी यावती वेदिः' (तै. सं २. ६, ४, १) इति श्रुतेः । तथा “स्वर्वतीं यज्ञनिष्पत्तिद्वारा स्वर्गवतीं ईदृशीं ताम् “आ “सचेते मित्रावरूणौ संगतौ भवतः । न केवलम् एतस्मिन् एव अहनि किंतु “दिवेदिवे सर्वेष्वप्यहःसु । कीदृशौ तौ । “दिवेदिवे प्रतिदिनं "जागृवांसा प्रबोधं कुर्वाणौ । यज्ञं गन्तुम् अनलसौ इत्यर्थः । किंच वेदिमागत्य “ज्योतिष्मत् आज्यादिस्वीकारेण अतिशयेन तेजोयुक्तं “क्षत्रं बलम् “आशाते अश्नुवाते प्राप्नुतः ॥ अश्नोतेश्छान्दसे लिटि ‘अनित्यमागमशासनम्' इति वचनात् नुडभावः । लटि वा छान्दसः शपः श्लुः । कीदृशौ इति तावाह। "आदित्या अदितेः पुत्रौ "दानुनस्पती दानस्य आज्यादिप्रदानस्य स्वामिनौ अभिमतदानस्य पालयितारौ वा ॥ ‘ षष्ठ्याः पतिपुत्र' इति संहितायां सत्वम् ॥ “मित्रः च “वरुणः च तावुभौ देवौ । अर्यमाख्यस्तु देवः “तयोः मित्रावरुणयोः “यातयज्जनः । तयोरेव संबन्धादुभयोर्मध्ये स्थितो यातयज्जनः स्वस्वव्यापारनियोजितसर्वजनः। मित्रावरुणौ अहोरात्रदेवौ। अर्यमा तु तयोरेव सामर्थ्यात् सर्वप्राणिनः प्रेरयतीत्यर्थः। किंच “यातयज्जनः । यातयन्ति लोकं यदीया जनाः प्रेष्याः स तादृशः । यद्वा । यात्यमाना नरके निपात्यमाना जनाः प्राणिनः अयष्टारो येन स तादृशः । कर्मसाक्षित्वात् स्वस्वकर्मानुरोधेन प्राणिनः सुकृते यातयतीत्यर्थः । तादृशः अर्यमा मित्रावरुणयोरधीनो वर्तते इति शेषः ॥


अ॒यं मि॒त्राय॒ वरु॑णाय॒ शंत॑म॒ः सोमो॑ भूत्वव॒पाने॒ष्वाभ॑गो दे॒वो दे॒वेष्वाभ॑गः ।

तं दे॒वासो॑ जुषेरत॒ विश्वे॑ अ॒द्य स॒जोष॑सः ।

तथा॑ राजाना करथो॒ यदीम॑ह॒ ऋता॑वाना॒ यदीम॑हे ॥४

अ॒यम् । मि॒त्राय॑ । वरु॑णाय । शम्ऽत॑मः । सोमः॑ । भू॒तु॒ । अ॒व॒ऽपाने॑षु । आऽभ॑गः । दे॒वः । दे॒वेषु॑ । आऽभ॑गः ।

तम् । दे॒वासः॑ । जु॒षे॒र॒त॒ । विश्वे॑ । अ॒द्य । स॒ऽजोष॑सः ।

तथा॑ । रा॒जा॒ना॒ । क॒र॒थः॒ । यत् । ईम॑हे । ऋत॑ऽवाना । यत् । ईम॑हे ॥४

अयम् । मित्राय । वरुणाय । शम्ऽतमः । सोमः । भूतु । अवऽपानेषु । आऽभगः । देवः । देवेषु । आऽभगः ।

तम् । देवासः । जुषेरत । विश्वे । अद्य । सऽजोषसः ।

तथा । राजाना । करथः । यत् । ईमहे । ऋतऽवाना । यत् । ईमहे ॥४

“अयम् अस्माभिर्हूयमानः “सोमः “मित्राय “वरुणाय च “शंतमः पीयमानः सन् सुखतमः “भूतु भवतु ॥ छान्दसः शपो लुक् । ‘ भूसुवोस्तिङि' इति गुणाभावः ॥ “अवपानेषु अवाङ्मुखचमसपानेषु विषयेषु “आ सर्वतः “भगः भजनीयः ताभ्याम् । किंच “देवः दीप्यमानः “देवेषु मित्रावरुणानुचरेषु इतरदेवेषु तैः “आभगः आभजनीयः । यद्वा । देवेषु स्तोतृषु यजमानेषु मध्ये देवो दीप्यमानः । तथा आभगस्तैरेव आ सर्वतो भजनीयः । किंच “तं सोमं “विश्वे सर्वे “देवासः देवाः “अद्य अस्मिन्नहनि “जुषेरत सेवन्ते ॥ छान्दसो झस्य रन्नादेशाभावः। ‘ बहुलं छन्दसि ' इति रुडागमः ॥ कीदृशास्ते । “सजोषसः समानप्रीतियुक्ताः । “तथा “राजाना राजमाना मित्रावरुणौ युवां “करथः कुरुतं सेवेथे इत्यर्थः। व्यत्ययेन शप्॥ “यत् यस्मात् कारणात् “यत् “ईमहे यत् प्राप्नुमः तत् देवान् याचामहे ।। ‘ ईङ् गतौ'। दैवादिकः । छान्दसो विकरणस्य लुक् ।। तस्मात् जुषेरत । तथा “ऋतावाना ऋतवन्तौ सत्यवन्तौ यज्ञवन्तौ वा मित्रावरुणौ “ईमहे अभिमतफलं तयोः पानं वा याचामहे ॥


यो मि॒त्राय॒ वरु॑णा॒यावि॑ध॒ज्जनो॑ऽन॒र्वाणं॒ तं परि॑ पातो॒ अंह॑सो दा॒श्वांसं॒ मर्त॒मंह॑सः ।

तम॑र्य॒माभि र॑क्षत्यृजू॒यन्त॒मनु॑ व्र॒तम् ।

उ॒क्थैर्य ए॑नोः परि॒भूष॑ति व्र॒तं स्तोमै॑रा॒भूष॑ति व्र॒तम् ॥५

यः । मि॒त्राय॑ । वरु॑णाय । अवि॑धत् । जनः॑ । अ॒न॒र्वाण॑म् । तम् । परि॑ । पा॒तः॒ । अंह॑सः । दा॒श्वांस॑म् । मर्त॑म् । अंह॑सः ।

तम् । अ॒र्य॒मा । अ॒भि । र॒क्ष॒ति॒ । ऋ॒जु॒ऽयन्त॑म् । अनु॑ । व्र॒तम् ।

उ॒क्थैः । यः । ए॒नोः॒ । प॒रि॒ऽभूष॑ति । व्र॒तम् । स्तोमैः॑ । आ॒ऽभूष॑ति । व्र॒तम् ॥५

यः । मित्राय । वरुणाय । अविधत् । जनः । अनर्वाणम् । तम् । परि । पातः । अंहसः । दाश्वांसम् । मर्तम् । अंहसः ।

तम् । अर्यमा । अभि । रक्षति । ऋजुऽयन्तम् । अनु । व्रतम् ।

उक्थैः । यः । एनोः । परिऽभूषति । व्रतम् । स्तोमैः । आऽभूषति । व्रतम् ॥५

“यः “जनः यजमानः “मित्राय वरुणाय च ॥ कर्मणः संप्रदानत्वाच्चतुर्थी । मित्रं वरुणं च “अविधत् परिचरति "तं जनं युष्मत्परिचारकम् “अनर्वाणम् अद्वेषिणम् । ‘भ्रातृव्यो वा अर्वा ' (तै. सं. ६. ३. ८. ४ )इति श्रुतेः । अनल्पं वा अनन्यसेविनं “परि “पातः परितो रक्षताम्। कस्मादिति तदुच्यते । अंहसः न्यूनातिरेकजनितात् पापात् । न केवलं सामान्यं जनम् अपि तु “दाश्वांसं हविर्दत्तवन्तं "मर्तं मरणधर्माणम् “अंहसः सर्वस्मादपि पापात् । न केवलं भवन्तावेव अपि तु “अर्यमा सर्वेषां नियन्ता देव: “ऋजूयन्तं देवेष्वार्जवमाचरन्तं यजमानम् “अनु “व्रतं तदीयं कर्मानुलक्ष्य “अभि “रक्षति अभितो रक्षति । कोऽस्य जनस्य विशेषः इति तत्राह । “यः यजमानः “उक्थैः शस्त्रैः “एनोः एनयोर्मित्रावरुणयोः “व्रतं कर्म “परिभूषति परिगृह्णाति तथा यजमानो युष्मदीयं “व्रतं कर्म “स्तोमैः स्तोत्रैर्गानयुक्तमन्त्रसाध्यैः “आभूषति सर्वतोऽलंकरोति ॥ ‘ भूष अलंकारे । भौवादिकः ॥ तम् अभिरक्षति इत्यन्वयः ॥


नमो॑ दि॒वे बृ॑ह॒ते रोद॑सीभ्यां मि॒त्राय॑ वोचं॒ वरु॑णाय मी॒ळ्हुषे॑ सुमृळी॒काय॑ मी॒ळ्हुषे॑ ।

इन्द्र॑म॒ग्निमुप॑ स्तुहि द्यु॒क्षम॑र्य॒मणं॒ भग॑म् ।

ज्योग्जीव॑न्तः प्र॒जया॑ सचेमहि॒ सोम॑स्यो॒ती स॑चेमहि ॥६

नमः॑ । दि॒वे । बृ॒ह॒ते । रोद॑सीभ्याम् । मि॒त्राय॑ । वो॒च॒म् । वरु॑णाय । मी॒ळ्हुषे॑ । सु॒ऽमृ॒ळी॒काय॑ । मी॒ळ्हुषे॑ ।

इन्द्र॑म् । अ॒ग्निम् । उप॑ । स्तु॒हि॒ । द्यु॒क्षम् । अ॒र्य॒मण॑म् । भग॑म् ।

ज्योक् । जीव॑न्तः । प्र॒ऽजया॑ । स॒चे॒म॒हि॒ । सोम॑स्य । ऊ॒ती । स॒चे॒म॒हि॒ ॥६

नमः । दिवे । बृहते । रोदसीभ्याम् । मित्राय । वोचम् । वरुणाय । मीळ्हुषे । सुऽमृळीकाय । मीळ्हुषे ।

इन्द्रम् । अग्निम् । उप । स्तुहि । द्युक्षम् । अर्यमणम् । भगम् ।

ज्योक् । जीवन्तः । प्रऽजया । सचेमहि । सोमस्य । ऊती । सचेमहि ॥६

“दिवे द्योतमानाय सूर्याय “नमः "वोचं नमस्कारोपलक्षितं स्तोत्रं वोचं ब्रवीमि स्तौमीत्यर्थः । कीदृशाय तस्मै । "बृहते महते ॥ ‘ बृहन्महतोरुपसंख्यानम्' इति विभक्तिरुदाता ॥ स्तुत्याय । तथा “रोदसीभ्यां द्यावापृथिवीभ्यां तदभिमानिदेवाभ्यां नमो वोचम् । तथा “मित्राय सर्वजनहिताय अहरभिमानिदेवाय नमः वोचम् । तथा “वरुणाय आवरकाय रात्र्यभिमानिदेवाय । तथा “मीळ्हुषे अभिमतफलस्य सेक्त्रे रुद्राय । कीदृशाय तस्मै । “सुमृळीकाय शोभनसुखयित्रे । पुनः स एव विशेष्यते । मीळ्हुषे सुमृळीकाय इति द्वे प्रत्येकविशेषणभूते । इदानीं यजमानः ऋत्विजं स्वात्मानं वा प्रति ब्रवीति । हे होतः हे आत्मन् वा “इन्द्रम् “अग्निं “द्युक्षं दीप्तिमन्तम् “अर्यमणं “भगं च “उप उपेत्य बुद्ध्या प्राप्य “स्तुहि स्तुतिं कुरु । युष्मदनुग्रहात् “ज्योक् चिरकालं “जीवन्तः जीवनोपेता वयं “प्रजया पुत्रभृत्यादिना “सचेमहि संगता भूयास्म । किंच “सोमस्य इन्दोः “ऊती ऊत्या "सचेमहि तमपि स्तुत्वा तत्कारितेन रक्षणेन सहिता भूयास्मेत्यर्थः ॥


ऊ॒ती दे॒वानां॑ व॒यमिन्द्र॑वन्तो मंसी॒महि॒ स्वय॑शसो म॒रुद्भि॑ः ।

अ॒ग्निर्मि॒त्रो वरु॑ण॒ः शर्म॑ यंस॒न्तद॑श्याम म॒घवा॑नो व॒यं च॑ ॥७

ऊ॒ती । दे॒वाना॑म् । व॒यम् । इन्द्र॑ऽवन्तः । मं॒सी॒महि॑ । स्वऽय॑शसः । म॒रुत्ऽभिः॑ ।

अ॒ग्निः । मि॒त्रः । वरु॑णः । शर्म॑ । यं॒स॒न् । तत् । अ॒श्या॒म॒ । म॒घऽवा॑नः । व॒यम् । च॒ ॥७

ऊती । देवानाम् । वयम् । इन्द्रऽवन्तः । मंसीमहि । स्वऽयशसः । मरुत्ऽभिः ।

अग्निः । मित्रः । वरुणः । शर्म । यंसन् । तत् । अश्याम । मघऽवानः । वयम् । च ॥७

"इन्द्रवन्तः प्रीतेनेन्द्रेण तद्वन्तः वयं “देवानां देवान् ॥ कर्मणि षष्ठी ॥ "उती ऊत्या तर्पणेन हविरादिना "मंसीमहि मन्येमहि । कीदृशा वयम् । “स्वयशसः स्वायत्तकीर्तयः “मरुद्भिः स्तुत्या हृद्यैर्मरुद्देवैरनुगृहीताः । यद्वा । देवानाम् ऊत्या रक्षणेन रक्षिता मंसीमहि ज्ञातारो भवेम सामर्थ्यात् तेषामेव महत्त्वस्य । किंच अग्निमित्रवरुणाः देवाः “शर्म "यंसन् अस्माकं सुखं प्रायच्छन् तं तं वरम् । “मघवानः वयं च तैर्दत्तान्नवन्तः सन्तः “तत् सुखम् “अश्याम व्याप्नुयाम ॥ अश्नोतेराशिषि लिङि ‘ छन्दस्युभयथा ' इति सार्वधातुकत्वात् सलोपः ॥ ॥ २६ ॥


वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।

पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक्संहिताभाष्ये द्वितीयाष्टके प्रथमोऽध्यायः समाप्तः ॥



मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१३६&oldid=205410" इत्यस्माद् पुनः प्राप्तिः