सामग्री पर जाएँ

ऋग्वेदः सूक्तं १.९७

विकिस्रोतः तः
← सूक्तं १.९६ ऋग्वेदः - मण्डल १
सूक्तं १.९७
कुत्स आङ्गिरसः
सूक्तं १.९८ →
दे. अग्निः, शुचिरग्निर्वा। गायत्री।


अप नः शोशुचदघमग्ने शुशुग्ध्या रयिम् ।
अप नः शोशुचदघम् ॥१॥
सुक्षेत्रिया सुगातुया वसूया च यजामहे ।
अप नः शोशुचदघम् ॥२॥
प्र यद्भन्दिष्ठ एषां प्रास्माकासश्च सूरयः ।
अप नः शोशुचदघम् ॥३॥
प्र यत्ते अग्ने सूरयो जायेमहि प्र ते वयम् ।
अप नः शोशुचदघम् ॥४॥
प्र यदग्नेः सहस्वतो विश्वतो यन्ति भानवः ।
अप नः शोशुचदघम् ॥५॥
त्वं हि विश्वतोमुख विश्वतः परिभूरसि ।
अप नः शोशुचदघम् ॥६॥
द्विषो नो विश्वतोमुखाति नावेव पारय ।
अप नः शोशुचदघम् ॥७॥
स नः सिन्धुमिव नावयाति पर्षा स्वस्तये ।
अप नः शोशुचदघम् ॥८॥


सायणभाष्यम्

‘अप नः' इति अष्टर्चं चतुर्थं सूक्तं कुत्सस्यार्षं गायत्रम् । शुचिगुणकोऽग्निः शुद्धोऽग्निर्वा देवता'। तथा चानुक्रान्तम्-’ अप नोऽष्टौ शुचये गायत्रम् ' इति । विनियोगो लैङ्गिकः । अत्रेदमाख्यानम् । दीर्घजिह्वी नाम राक्षसी सर्वान् यज्ञान् बबाधे । तां हन्तुमिन्द्रोऽशक्तः सन् सर्वस्य मित्रभूतं कुत्समब्रवीदेषा त्वया हन्तव्येति । स चावधीत् । तं वागभ्यवदत् अनुचितमिदं त्वया चरितं यत्त्वं सर्वेषां मित्रभूतः सन् क्रूरमकार्षीरिति । तमृषिं शोकः प्राप्नोत् । स ऋषिरनेन सूक्तेनाग्निं स्तुत्वा शोकमपागमयत् । तथा च ताण्डकम्- दीर्घजिह्वी वा इदं रक्षो यज्ञहा यज्ञानवलिहत्यचरत् तामिन्द्रः कया चन मायया हन्तुं नाशंसत् अथ ह सुमित्रः कुत्सः कल्याण आस तमब्रवीत् ' (तां. १३. ६.९) इत्यादि । तस्मादेतत्सूक्तं शुगपनयनाय विनियोज्यम् । अत एव हि सूत्रकारेण भारद्वाजेन दशमेऽहनि कर्तव्ये शान्तिकर्मणि यजुर्वेदे पठितमेतत्सूक्तं विनियुज्यते - नव च स्रुवाहुतीरप नः शोशुचदघम्' इति ॥


अप॑ नः॒ शोशु॑चद॒घमग्ने॑ शुशु॒ग्ध्या र॒यिं ।

अप॑ नः॒ शोशु॑चद॒घं ॥१

अप॑ । नः॒ । शोशु॑चत् । अ॒घम् । अग्ने॑ । शु॒शु॒ग्धि । आ । र॒यिम् ।

अप॑ । नः॒ । शोशु॑चत् । अ॒घम् ॥१

अप । नः । शोशुचत् । अघम् । अग्ने । शुशुग्धि । आ । रयिम् ।

अप । नः । शोशुचत् । अघम् ॥१

हे "अग्ने "नः अस्माकम् "अघं पापम् "अप "शोशुचत् अस्मत्तो निर्गत्यास्मदीयं शत्रुं शोचयतु । यद्वा । अस्मदीयं पापं शोशुचत् शोकग्रस्तं सद्विनश्यतु । अपि चास्माकं "रयिं धनम् “आ समन्तात् “शुशुग्धि प्रकाशय । उक्तार्थमपि वाक्यमादरातिशयद्योतनाय पुनः पठ्यते । अवश्यमस्माकमघं विनश्यत्विति ॥ शोशुचत् । शुच शोके । अस्मात् यङ्लुगन्तात् लेटि अडागमः ।' अदादिवञ्च ' इति वचनात् शपो लुक् । ‘ अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । अघं शोशुचच्च रयिं शुशुग्धि चेति चार्थप्रतीतेः ‘चादिलोपे विभाषा' इति निघातप्रतिषेधः । शुशुग्धि । शुच दीप्तौ । लोटि ‘बहुलं छन्दसि ' इति शपः श्लुः । “हुझल्भ्यो हेर्धिः । ‘ चोः कुः' इति कुत्वम् ॥


सु॒क्षे॒त्रि॒या सु॑गातु॒या व॑सू॒या च॑ यजामहे ।

अप॑ नः॒ शोशु॑चद॒घं ॥२

सु॒ऽक्षे॒त्रि॒या । सु॒गा॒तु॒ऽया । व॒सु॒ऽया । च॒ । य॒जा॒म॒हे॒ ।

अप॑ । नः॒ । शोशु॑चत् । अ॒घम् ॥२

सुऽक्षेत्रिया । सुगातुऽया । वसुऽया । च । यजामहे ।

अप । नः । शोशुचत् । अघम् ॥२

“सुक्षेत्रिया शोभनक्षेत्रेच्छया "सुगातुया शोभनमार्गेच्छया "वसूया "च धनेच्छया निमितभूतया च "यजामहे अग्निं हविर्भिः पूजयामः । यद्वा सुक्षेत्रिया देवयजनलक्षणशोभनदेशसंबन्धिना हविषा अग्निं यजामहे। "नः अस्माकम् "अघम् “अप "शोशुचत् विनश्यतु ॥ सुक्षेत्रिया। शोभनं क्षेत्रं सुक्षेत्रम् । तद्विषयेच्छा सुक्षेत्रिया ।' सुप आत्मनः क्यच् '। न च्छन्दस्यपुत्रस्य' इति ईत्वदीर्घयोर्निषेधः । व्यत्ययेन इत्वम् । क्यजन्तात् ' अ प्रत्ययात्' इति भावे अकारप्रत्ययः । ततः टाप् । ‘ सुपां सुलुक् ' इति तृतीयाया लुक् । एवमुत्तरत्रापि । यद्वा । शोभनं क्षेत्रमस्यास्तीति सुक्षेत्रम् । इयाडियाजीकाराणामुपसंख्यानम् ' ( पा. सू. ७. १. ३९. १) इति तृतीयाया डियाजादेशः ॥


प्र यद्भंदि॑ष्ठ एषां॒ प्रास्माका॑सश्च सू॒रयः॑ ।

अप॑ नः॒ शोशु॑चद॒घं ॥३

प्र । यत् । भन्दि॑ष्ठः । ए॒षा॒म् । प्र । अ॒स्माका॑सः । च॒ । सू॒रयः॑ ।

अप॑ । नः॒ । शोशु॑चत् । अ॒घम् ॥३

प्र । यत् । भन्दिष्ठः । एषाम् । प्र । अस्माकासः । च । सूरयः ।

अप । नः । शोशुचत् । अघम् ॥३

“यत् यथा “एषां स्तोतॄणां मध्येऽयं कुत्सः “प्र “भन्दिष्ठः प्रकर्षेण स्तोतृतमः एवम् "अस्माकासः आस्माकीनाः "सूरयः स्तोतारः “च प्रकर्षेण स्तोतृतमा भवन्ति । अन्यत् समानम् ॥ भन्दिष्ठः । भन्दतिः स्तुतिकर्मा । भदि कल्याणे सुखे च ' इति तु धातुः । अस्मात् तृजन्तात् ‘तुश्छन्दसि ' इति इष्ठन् । तुरिष्ठेमेयःसु ' इति तृलोपः । अस्माकासः । अस्माकं संबन्धिनः आस्माकाः । तस्मिन्नणि च युष्माकास्माकौ ' ( पा. सू. ४. ३. २ ) इति आस्माकादेशः । छान्दसोऽण्प्रत्ययस्य लोपः । संज्ञापूर्वकस्य विधेरनित्यत्वात् वृद्ध्यभावः। आजसेरसुक्' स्थानिवदादेशेऽपि मकारात् परस्य आकारस्य उदात्तत्वम् । यद्वा । षष्ठीबहुवचनेऽस्माकंशब्दस्य मध्योदात्तस्य दृष्टत्वात् स एव आचार्येण अतिदिश्यते ॥


प्र यत्ते॑ अग्ने सू॒रयो॒ जाये॑महि॒ प्र ते॑ व॒यं ।

अप॑ नः॒ शोशु॑चद॒घं ॥४

प्र । यत् । ते॒ । अ॒ग्ने॒ । सू॒रयः॑ । जाये॑महि । प्र । ते॒ । व॒यम् ।

अप॑ । नः॒ । शोशु॑चत् । अ॒घम् ॥४

प्र । यत् । ते । अग्ने । सूरयः । जायेमहि । प्र । ते । वयम् ।

अप । नः । शोशुचत् । अघम् ॥४

हे "अग्ने "यत् यस्मात् "ते तव "सूरयः स्तोतारः प्रजायन्ते पुत्रपौत्रादिरूपेण बहुविधा भवन्ति ततः “वयं च "ते तव स्तोतारः सन्तः “प्र “जायेमहि पुत्रपौत्रादिभिरुपेता भवेम ॥ जायेमहि । प्रार्थनायां लिङ्। श्यनि ‘ ज्ञाजनोर्जा ' इति जादेशः । अदुपदेशात् लसार्वधातुकानुदात्तत्वे श्यनो नित्त्वादाद्युदात्तत्वम् ॥


प्र यद॒ग्नेः सह॑स्वतो वि॒श्वतो॒ यंति॑ भा॒नवः॑ ।

अप॑ नः॒ शोशु॑चद॒घं ॥५

प्र । यत् । अ॒ग्नेः । सह॑स्वतः । वि॒श्वतः॑ । यन्ति॑ । भा॒नवः॑ ।

अप॑ । नः॒ । शोशु॑चत् । अ॒घम् ॥५

प्र । यत् । अग्नेः । सहस्वतः । विश्वतः । यन्ति । भानवः ।

अप । नः । शोशुचत् । अघम् ॥५

“सहस्वतः सहनवतः शत्रूनभिभवतः "अग्नेः "भानवः दीप्तयः "विश्वतः सर्वतः सर्वस्मादपि प्रदेशात् "प्र "यन्ति प्रकर्षेणोद्गच्छन्ति। "यत् यस्मादेवं तस्मात्तेनाग्नितेजसा अस्मदीयम् "अघं नश्यतु । यन्ति । ' इणो यण् ' (पा. सू. ६. ४. ८१ ) इति यणादेशः ॥


त्वं हि वि॑श्वतोमुख वि॒श्वतः॑ परि॒भूरसि॑ ।

अप॑ नः॒ शोशु॑चद॒घं ॥६

त्वम् । हि । वि॒श्व॒तः॒ऽमु॒ख॒ । वि॒श्वतः॑ । प॒रि॒ऽभूः । असि॑ ।

अप॑ । नः॒ । शोशु॑चत् । अ॒घम् ॥६

त्वम् । हि । विश्वतःऽमुख । विश्वतः । परिऽभूः । असि ।

अप । नः । शोशुचत् । अघम् ॥६

हे अग्ने “त्वं "हि त्वं खलु विश्वतोमुखः सर्वतोज्वालः । तव मुखस्थानीयानां ज्वालानां न कुत्रापि प्रतिहतिरस्ति । अतो हे "विश्वतोमुख अग्ने "विश्वतः सर्वतः सर्वस्मादप्युपद्रवजातात् "परिभूरसि अस्माकं परिग्रहीता भव । रक्षको भवेत्यर्थः । अन्यत् समानम् ।।


द्विषो॑ नो विश्वतोमु॒खाति॑ ना॒वेव॑ पारय ।

अप॑ नः॒ शोशु॑चद॒घं ॥७

द्विषः॑ । नः॒ । वि॒श्व॒तः॒ऽमु॒ख॒ । अति॑ । ना॒वाऽइ॑व । पा॒र॒य॒ ।

अप॑ । नः॒ । शोशु॑चत् । अ॒घम् ॥७

द्विषः । नः । विश्वतःऽमुख । अति । नावाऽइव । पारय ।

अप । नः । शोशुचत् । अघम् ॥७

हे "विश्वतोमुख सर्वतोमुखाग्ने "नावेव नावा नदीमिव "द्विषः शत्रून् "नः अस्मान् "अति “पारय अतिक्रमय्य शत्रुरहितं प्रदेशं प्रापय ॥ नावेव । ‘सावेकाचः' इति विभक्तेरुदात्तत्वम् । पारय । ‘ पार तीर कर्मसमाप्तौ ॥


स नः॒ सिंधु॑मिव ना॒वयाति॑ पर्षा स्व॒स्तये॑ ।

अप॑ नः॒ शोशु॑चद॒घं ॥८

सः । नः॒ । सिन्धु॑म्ऽइव । ना॒वया॑ । अति॑ । प॒र्ष॒ । स्व॒स्तये॑ ।

अप॑ । नः॒ । शोशु॑चत् । अ॒घम् ॥८

सः । नः । सिन्धुम्ऽइव । नावया । अति । पर्ष । स्वस्तये ।

अप । नः । शोशुचत् । अघम् ॥८

पूर्वोक्त एवार्थः पुनरपि दार्ढ्याय प्रार्थ्यते । हे अग्ने "सः त्वं "नः अस्मान् "नावया नावा “सिन्धुमिव नदीमिव "स्वस्तये क्षेमार्थम् "अति "पर्ष शत्रून् अतिक्रमय्य पालय । शत्रुरहितं प्रदेशम् अस्मान् प्रापयेत्यर्थः । त्वत्प्रसादात् "नः अस्माकम् “अघं पापं च “अप “शोशुचत् अस्मत्तोऽपक्रम्यास्मच्छत्रुः शोकयुक्तो भवतु ॥ नावया । आङ्याजयारां चोपसंख्यानम् ' (पा. म. ७. १. ३९. १ ) इति तृतीयाया अयारादेशः ।' उपोत्तमं रिति' ( पा. सू. ६. १. २१७ ) इति अकारस्य उदात्तत्वम् । पर्ष । ‘पॄ पालनपूरणयोः '। लोटि ‘बहुलं छन्दसि ' इति शपः श्लोरभावः। ‘ सिब्बहुलं लेटि' इति बहुलवचनात् सिप् । गुणः । द्व्यचोऽतस्तिङः ‘ इति दीर्घत्वम् ॥ ॥ ५ ॥


मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.९७&oldid=207726" इत्यस्माद् प्रतिप्राप्तम्