ऋग्वेदः सूक्तं १.१६२

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं १.१६१ ऋग्वेदः - मण्डल १
सूक्तं १.१६२
दीर्घतमा औचथ्यः।
सूक्तं १.१६३ →
दे. अश्वः । त्रिष्टुप्, ३, ६ जगती।
कुमारगुप्तस्य अश्वमेधः


मा नो मित्रो वरुणो अर्यमायुरिन्द्र ऋभुक्षा मरुतः परि ख्यन् ।
यद्वाजिनो देवजातस्य सप्तेः प्रवक्ष्यामो विदथे वीर्याणि ॥१॥
यन्निर्णिजा रेक्णसा प्रावृतस्य रातिं गृभीतां मुखतो नयन्ति ।
सुप्राङजो मेम्यद्विश्वरूप इन्द्रापूष्णोः प्रियमप्येति पाथः ॥२॥
एष च्छागः पुरो अश्वेन वाजिना पूष्णो भागो नीयते विश्वदेव्यः ।
अभिप्रियं यत्पुरोळाशमर्वता त्वष्टेदेनं सौश्रवसाय जिन्वति ॥३॥
यद्धविष्यमृतुशो देवयानं त्रिर्मानुषाः पर्यश्वं नयन्ति ।
अत्रा पूष्णः प्रथमो भाग एति यज्ञं देवेभ्यः प्रतिवेदयन्नजः ॥४॥
होताध्वर्युरावया अग्निमिन्धो ग्रावग्राभ उत शंस्ता सुविप्रः ।
तेन यज्ञेन स्वरंकृतेन स्विष्टेन वक्षणा आ पृणध्वम् ॥५॥
यूपव्रस्का उत ये यूपवाहाश्चषालं ये अश्वयूपाय तक्षति ।
ये चार्वते पचनं सम्भरन्त्युतो तेषामभिगूर्तिर्न इन्वतु ॥६॥
उप प्रागात्सुमन्मेऽधायि मन्म देवानामाशा उप वीतपृष्ठः ।
अन्वेनं विप्रा ऋषयो मदन्ति देवानां पुष्टे चकृमा सुबन्धुम् ॥७॥
यद्वाजिनो दाम संदानमर्वतो या शीर्षण्या रशना रज्जुरस्य ।
यद्वा घास्य प्रभृतमास्ये तृणं सर्वा ता ते अपि देवेष्वस्तु ॥८॥
यदश्वस्य क्रविषो मक्षिकाश यद्वा स्वरौ स्वधितौ रिप्तमस्ति ।
यद्धस्तयोः शमितुर्यन्नखेषु सर्वा ता ते अपि देवेष्वस्तु ॥९॥
यदूवध्यमुदरस्यापवाति य आमस्य क्रविषो गन्धो अस्ति ।
सुकृता तच्छमितारः कृण्वन्तूत मेधं शृतपाकं पचन्तु ॥१०॥
यत्ते गात्रादग्निना पच्यमानादभि शूलं निहतस्यावधावति ।
मा तद्भूम्यामा श्रिषन्मा तृणेषु देवेभ्यस्तदुशद्भ्यो रातमस्तु ॥११॥
ये वाजिनं परिपश्यन्ति पक्वं य ईमाहुः सुरभिर्निर्हरेति ।
ये चार्वतो मांसभिक्षामुपासत उतो तेषामभिगूर्तिर्न इन्वतु ॥१२॥
यन्नीक्षणं माँस्पचन्या उखाया या पात्राणि यूष्ण आसेचनानि ।
ऊष्मण्यापिधाना चरूणामङ्काः सूनाः परि भूषन्त्यश्वम् ॥१३॥
निक्रमणं निषदनं विवर्तनं यच्च पड्बीशमर्वतः ।
यच्च पपौ यच्च घासिं जघास सर्वा ता ते अपि देवेष्वस्तु ॥१४॥
मा त्वाग्निर्ध्वनयीद्धूमगन्धिर्मोखा भ्राजन्त्यभि विक्त जघ्रिः ।
इष्टं वीतमभिगूर्तं वषट्कृतं तं देवासः प्रति गृभ्णन्त्यश्वम् ॥१५॥
यदश्वाय वास उपस्तृणन्त्यधीवासं या हिरण्यान्यस्मै ।
संदानमर्वन्तं पड्बीशं प्रिया देवेष्वा यामयन्ति ॥१६॥
यत्ते सादे महसा शूकृतस्य पार्ष्ण्या वा कशया वा तुतोद ।
स्रुचेव ता हविषो अध्वरेषु सर्वा ता ते ब्रह्मणा सूदयामि ॥१७॥
चतुस्त्रिंशद्वाजिनो देवबन्धोर्वङ्क्रीरश्वस्य स्वधितिः समेति ।
अच्छिद्रा गात्रा वयुना कृणोत परुष्परुरनुघुष्या वि शस्त ॥१८॥
एकस्त्वष्टुरश्वस्या विशस्ता द्वा यन्तारा भवतस्तथ ऋतुः ।
या ते गात्राणामृतुथा कृणोमि ताता पिण्डानां प्र जुहोम्यग्नौ ॥१९॥
मा त्वा तपत्प्रिय आत्मापियन्तं मा स्वधितिस्तन्व आ तिष्ठिपत्ते ।
मा ते गृध्नुरविशस्तातिहाय छिद्रा गात्राण्यसिना मिथू कः ॥२०॥
न वा उ एतन्म्रियसे न रिष्यसि देवाँ इदेषि पथिभिः सुगेभिः ।
हरी ते युञ्जा पृषती अभूतामुपास्थाद्वाजी धुरि रासभस्य ॥२१॥
सुगव्यं नो वाजी स्वश्व्यं पुंसः पुत्राँ उत विश्वापुषं रयिम् ।
अनागास्त्वं नो अदितिः कृणोतु क्षत्रं नो अश्वो वनतां हविष्मान् ॥२२॥


सायणभाष्यम्

‘मा नो मित्रः' इति द्वाविंशत्यृचं षष्ठं सूक्तं दैर्घतमसम् । तृतीयाषष्ठ्यौ जगत्यौ । शिष्टास्त्रिटुभः । अश्वस्य स्तूयमानत्वात् ' या तेनोच्यते सा देवता' इति न्यायेन अश्वो देवता । अत्रानुक्रमणिका- मानो द्ब्यधिकाश्वस्तुतिस्तु तृतीयाषष्ठ्यो जगत्यौ ' इति । अश्वमेधस्य मध्यमेऽहनि अध्रिगुप्रैषे “ अधिगो शमीध्वम्' इति शिष्ट्वा ‘षड्विंशतिरस्य वङ्क्रयः' इत्यस्मात्पुरस्तात् वा एतत्सूक्तमावपेत् ।' त्रीणि सुत्यानि भवन्ति' इति खण्डे सूत्रितम्-‘ अध्रिगो शमीध्वमिति शिष्ट्वा षड्विंशतिरस्य वङ्क्रय इति वा मा नो मित्र इत्यावपेत ' ( आश्व. श्रौ. १०. ८) इति ।। मा नो॑ मि॒त्रो वरु॑णो अर्य॒मायुरिंद्र॑ ऋभु॒क्षा म॒रुतः॒ परि॑ ख्यन् ।


यद्वा॒जिनो॑ दे॒वजा॑तस्य॒ सप्तेः॑ प्रव॒क्ष्यामो॑ वि॒दथे॑ वी॒र्या॑णि ॥१

मा । नः॒ । मि॒त्रः । वरु॑णः । अ॒र्य॒मा । आ॒युः । इन्द्रः॑ । ऋ॒भु॒क्षाः । म॒रुतः॑ । परि॑ । ख्य॒न् ।

यत् । वा॒जिनः॑ । दे॒वऽजा॑तस्य । सप्तेः॑ । प्र॒ऽव॒क्ष्यामः॑ । वि॒दथे॑ । वी॒र्या॑णि ॥१

मा । नः । मित्रः । वरुणः । अर्यमा । आयुः । इन्द्रः । ऋभुक्षाः । मरुतः । परि । ख्यन् ।

यत् । वाजिनः । देवऽजातस्य । सप्तेः । प्रऽवक्ष्यामः । विदथे । वीर्याणि ॥१

“नः अस्मान् अश्वं स्तोतुं प्रवृत्तान् मित्रादयो देवाः “मा परि “ख्यन् परिख्यानं मा कुर्वन्तु । परिख्यानं नाम निन्दा । महानुभावं देवजातम् अश्वं तुच्छा नराः स्तुवन्तीति मा कुर्वन्तु ।। ख्यातेर्माङि लुङि ‘अस्यतिवक्ति' इत्यादिना च्लेः अङ् ॥ अहरभिमानी देवः “मित्रः रात्र्यभिमानी “वरुणः । “अर्यमा तयोः अन्तरालाभिमानी आदित्यः । “आयुः सततगन्ता वायुः ॥ वकारलोपो वा ॥ “इन्द्रः प्रसिद्धः। “ऋभुक्षाः देवानां निवासभूतः प्रजापतिः। यद्वा । एतन्महन्नाम' इन्द्रविशेषणं ‘ऋभुक्षाः उक्षा ' (नि. ३. ३. १० ) इति तन्नामसु पाठात् । निन्दायाः प्रसक्तिं दर्शयति । “यत् यस्मात् “वाजिनः वेजनवतो बह्वन्नवतो वा “देवजातस्य बहुदेवतास्वरूपेणोत्पन्नस्य । उषआदीनाम् अस्य शिरआद्यवयवत्वादिति भावः । ‘उषा वा अश्वस्य मेध्यस्थ शिरः' (बृ. उ. १. १. १) इत्यादिश्रुतेः । यद्वा । देवेभ्यो जातस्य गन्धर्वकुले उत्पन्नत्वात् । “सप्तेः सर्पणशीलस्य । अश्वनामैतत् । एवंविधस्याश्वस्य महानुभावस्य “वीर्याणि वीरकमणि सामर्थ्यानि “विदथे वेदनसाधने यज्ञे “प्रवक्ष्यामः प्रकर्षेण ब्रूमः । अतो मा परि ख्यन् प्रत्युत अनुगृह्णन्त्वित्यर्थः ॥


यन्नि॒र्णिजा॒ रेक्ण॑सा॒ प्रावृ॑तस्य रा॒तिं गृ॑भी॒तां मु॑ख॒तो नयं॑ति ।

सुप्रा॑ङ॒जो मेम्य॑द्वि॒श्वरू॑प इंद्रापू॒ष्णोः प्रि॒यमप्ये॑ति॒ पाथः॑ ॥२

यत् । निः॒ऽनिजा॑ । रेक्ण॑सा । प्रावृ॑तस्य । रा॒तिम् । गृ॒भी॒ताम् । मु॒ख॒तः । नय॑न्ति ।

सुऽप्रा॑ङ् । अ॒जः । मेम्य॑त् । वि॒श्वऽरू॑पः । इ॒न्द्रा॒पू॒ष्णोः । प्रि॒यम् । अपि॑ । ए॒ति॒ । पाथः॑ ॥२

यत् । निःऽनिजा । रेक्णसा । प्रावृतस्य । रातिम् । गृभीताम् । मुखतः । नयन्ति ।

सुऽप्राङ् । अजः । मेम्यत् । विश्वऽरूपः । इन्द्रापूष्णोः । प्रियम् । अपि । एति । पाथः ॥२

“यत् यस्मात् “निर्णिजा । निर्णिगिति रूपनाम । “रेक्णसा। रेक्ण इति धननाम ।' निर्णिक वव्रिः' (नि. ३. ७. १) इति, ‘रेक्णः रिक्थम् ' (नि. २. १०, २) इति च तन्नामसूक्तत्वात् ॥ उभयत्र मत्वर्थो लुप्यते ॥ रूपवता हिरण्यवताभरणेन “प्रावृतस्य सर्वतो वेष्टितस्य अश्वस्य "मुखतः पुरस्तात् “गृभीतां गृहीतां “रातिं दातव्यां दातव्यत्वेन गृहीताम् अजां नयन्ति ऋत्विजः। स तादृशः “अजः "सुप्राङ् सुष्ठु प्रशस्यागमनः “मेम्यत् हन्यमानः ॥' मीञ् हिंसायाम्' । अस्मात् यङ्लुगन्तात् कर्मणि व्यत्ययेन शतृ ॥ यद्वा । तस्य शब्दानुकरणं मेमेशब्दं कुर्वन् । “विश्वरूपः बहुवर्णोपेतः कृष्णग्रीवः कृष्णललामो वा नैकवर्णः इत्यर्थः । एवंरूपः अयम् “इन्द्रापूष्णोः । इन्द्रः प्रसिद्धः। पूषा पोषको देवोऽग्निः । तयोः "प्रियम् ।' आग्नेयः कृष्णग्रीवः' (तै, सं. ५. ५, २२ ) इत्युक्तत्वादग्नेः प्रियत्वम् । सर्वेऽपीन्द्रस्येतीन्द्रप्रियत्वम् । एवंरूपं “पाथः अन्नम् “अप्येति प्राप्नोतु ॥


ए॒ष छागः॑ पु॒रो अश्वे॑न वा॒जिना॑ पू॒ष्णो भा॒गो नी॑यते वि॒श्वदे॑व्यः ।

अ॒भि॒प्रियं॒ यत्पु॑रो॒ळाश॒मर्व॑ता॒ त्वष्टेदे॑नं सौश्रव॒साय॑ जिन्वति ॥३

ए॒षः । छागः॑ । पु॒रः । अश्वे॑न । वा॒जिना॑ । पू॒ष्णः । भ॒गः । नी॒य॒ते॒ । वि॒श्वऽदे॑व्यः ।

अ॒भि॒ऽप्रिय॑म् । यत् । पु॒रो॒ळाश॑म् । अर्व॑ता । त्वष्टा॑ । इत् । ए॒न॒म् । सौ॒श्र॒व॒साय॑ । जि॒न्व॒ति॒ ॥३

एषः । छागः । पुरः । अश्वेन । वाजिना । पूष्णः । भगः । नीयते । विश्वऽदेव्यः ।

अभिऽप्रियम् । यत् । पुरोळाशम् । अर्वता । त्वष्टा । इत् । एनम् । सौश्रवसाय । जिन्वति ॥३

“एषः “छागः शृङ्गरहितोऽजः “अश्वेन “वाजिना शीघ्रव्यापकेनाश्वेन सह “पूष्णः पोषकस्याग्नेः “भागः भजनीयः “विश्वदेव्यः सर्वदेवार्हः । अग्नेः सर्वदेवात्मकत्वात् तदर्हत्वेन सर्वदेवप्रियत्वम् । एवंविधः अजः “पुरः पुरस्तात् “नीयते प्राप्यते । “यत् यस्मात् एवं क्रियते तस्मात् "प्रियं प्रीणयितारं पुरोडाशं पुरस्ताद्दातव्यम् “एनम् अजं “त्वष्टा सर्वस्योत्पादको देवः। ‘त्वष्टा रूपाणि विकरोति' ( तै. सं. १. ५. ९.२) इति श्रुतेः । तूर्णव्यापकोऽग्निर्वा। ‘उभे त्वष्टुर्बिभ्यतुः ' (ऋ. सं. १. ९५.५) इत्युक्तत्वात् ' अहोरात्रे इति वारणी इति वा ' ( निरु. ८. १५) इति यास्केन अरणी बिभ्यतुरित्युक्तत्वात् अरणिसंबन्धः अग्नेरेवेति गम्यते । “अर्वता अरणवता अश्वेन सह “सौश्रवसाय देवानां शोभनान्ननिमित्तम् "अभि "जिन्वति प्रीतिहेतुकं करोति ॥


यद्ध॑वि॒ष्य॑मृतु॒शो दे॑व॒यानं॒ त्रिर्मानु॑षाः॒ पर्यश्वं॒ नयं॑ति ।

अत्रा॑ पू॒ष्णः प्र॑थ॒मो भा॒ग ए॑ति य॒ज्ञं दे॒वेभ्यः॑ प्रतिवे॒दय॑न्न॒जः ॥४

यत् । ह॒वि॒ष्य॑म् । ऋ॒तु॒ऽशः । दे॒व॒ऽयान॑म् । त्रिः । मानु॑षाः । परि॑ । अश्व॑म् । नय॑न्ति ।

अत्र॑ । पू॒ष्णः । प्र॒थ॒मः । भा॒गः । ए॒ति॒ । य॒ज्ञम् । दे॒वेभ्यः॑ । प्र॒ति॒ऽवे॒दय॑न् । अ॒जः ॥४

यत् । हविष्यम् । ऋतुऽशः । देवऽयानम् । त्रिः । मानुषाः । परि । अश्वम् । नयन्ति ।

अत्र । पूष्णः । प्रथमः । भागः । एति । यज्ञम् । देवेभ्यः । प्रतिऽवेदयन् । अजः ॥४

“हविष्यं हविर्योग्यं “देवयानं देवानां प्रापणीयम् “अश्वं “यत् यदा “मानुषाः ऋत्विजः “ऋतुशः ऋतौ ऋतौ काले काले “त्रिः “परि "नयन्ति पर्यग्निकुर्वन्तीत्यर्थः । “अत्र अस्मिन् समये ॥ ‘ऋचि तुनुघ' इति दीर्घः ॥ "पूष्णः पोषकस्याग्नेः “भागः "अजः "प्रथमः “एति पुरोगामी सन् गच्छति । किं कुर्वन् । “यज्ञं "देवेभ्यः “प्रतिवेदयन् प्रख्यापयन् ॥


होता॑ध्व॒र्युराव॑या अग्निमिं॒धो ग्रा॑वग्रा॒भ उ॒त शंस्ता॒ सुवि॑प्रः ।

तेन॑ य॒ज्ञेन॒ स्व॑रंकृतेन॒ स्वि॑ष्टेन व॒क्षणा॒ आ पृ॑णध्वं ॥५

होता॑ । अ॒ध्व॒र्युः । आऽव॑याः । अ॒ग्नि॒म्ऽइ॒न्धः । ग्रा॒व॒ऽग्रा॒भः । उ॒त । शंस्ता॑ । सुऽवि॑प्रः ।

तेन॑ । य॒ज्ञेन॑ । सुऽअ॑रङ्कृतेन । सुऽइ॑ष्टेन । व॒क्षणाः॑ । आ । पृ॒ण॒ध्व॒म् ॥५

होता । अध्वर्युः । आऽवयाः । अग्निम्ऽइन्धः । ग्रावऽग्राभः । उत । शंस्ता । सुऽविप्रः ।

तेन । यज्ञेन । सुऽअरङ्कृतेन । सुऽइष्टेन । वक्षणाः । आ । पृणध्वम् ॥५

“होता देवानामाह्वाता एतन्नामकः ऋत्विक् “अध्वर्युः अध्वरयुः अध्वरस्य नेता सोऽपि आवयाः आभिमुख्येन हविषां गमयिता । अध्वर्योर्विशेषणमेतत् ॥ आङ्पूर्वात् वेतेः असुन पूर्वपदप्रकृतिस्वरत्वं च ॥ यद्वा । आभिमुख्येन अवयष्टा प्रतिप्रस्थाता उच्यते ॥ • अवे यजः ' (पा. सू. ३. २. ७२) इति ण्विन् ।' अवाप्योरुपसर्गयोः' इति अल्लोपः ॥ अग्निमिन्धः अग्नीत् ॥ ‘भ्राष्टाग्न्योरिन्धे' ( पा. सू. ६. ३. ७०. ६) इति मुम् ॥ "ग्रावग्राभः । ग्राव्णः स्तुत्या गृह्णातीति ग्रावस्तुत् ।। कर्मण्यण् ॥ "उत अपि च "शंस्ता प्रशास्ता। “सुविप्रः इति मेधाविनाम । शोभनमेधोपेतो ब्रह्मोच्यते। ‘ब्रह्मा त्वो वदति जातविद्याम्' (ऋ. सं. १०. ७१. ११) इत्यत्र ‘ब्रह्मैको जातेजाते विद्यां वदति ब्रह्मा सर्वविद्यः सर्वं वेदितुमर्हति' ( निरु. १. ८) इत्युक्तत्वात् ब्रह्मा एव सुविप्रशब्देनाभिधेयः । स चानुक्तर्त्विगुपलक्षकः । एते सर्वे "तेन प्रसिद्धेन “स्वरंकृतेन सुष्ठ्वरणीयं कृतेन स्वलंकृतेन वा उच्चारसौष्ठवादिना सुष्ठु संपादितेन “स्विष्टेन सुष्ठु इष्टेन “यज्ञेन “वक्षणाः अभितो घृतकुल्यादीन्' प्रवहणस्वभावाः प्रसिद्धा नदीर्वा “आ "पृणध्वं सर्वतः पूरयत यज्ञं सम्यग्निर्वत्यै फलं साधयतेत्यर्थः ॥ ॥ ७ ॥


यू॒प॒व्र॒स्का उ॒त ये यू॑पवा॒हाश्च॒षालं॒ ये अ॑श्वयू॒पाय॒ तक्ष॑ति ।

ये चार्व॑ते॒ पच॑नं सं॒भरं॑त्यु॒तो तेषा॑म॒भिगू॑र्तिर्न इन्वतु ॥६

यू॒प॒ऽव्र॒स्काः । उ॒त । ये । यू॒प॒ऽवा॒हाः । च॒षाल॑म् । ये । अ॒श्व॒ऽयू॒पाय॑ । तक्ष॑ति ।

ये । च॒ । अर्व॑ते । पच॑नम् । स॒म्ऽभर॑न्ति । उ॒तो इति॑ । तेषा॑म् । अ॒भिऽगू॑र्तिः । नः॒ । इ॒न्व॒तु॒ ॥६

यूपऽव्रस्काः । उत । ये । यूपऽवाहाः । चषालम् । ये । अश्वऽयूपाय । तक्षति ।

ये । च । अर्वते । पचनम् । सम्ऽभरन्ति । उतो इति । तेषाम् । अभिऽगूर्तिः । नः । इन्वतु ॥६

"यूपव्रस्काः यूपार्हवृक्षस्य व्रश्चनकर्तार्श्छेत्तारः । "उत "ये च "यूपवाहाः छिन्नस्य वोढारः । “ये च “चषालम् । यूपस्योपरिस्थाप्यं यूपाग्रभागं चषालमाहुः । तत् ये “अश्वयूपाय अश्वबन्धनयूपाय “तक्षति ॥ तक्षतीति वचनव्यत्ययः ॥ साधु संपादयन्ति । “ये “च "अर्वते अरणवते अश्वाय "पचनं पाकसाधनं काष्ठभाण्डादिकं “संभरन्ति । "उतो अपि च “नः अस्मत्संबन्धिनां “तेषाम् ऋत्विजाम् “अभिगूर्तिः संकल्पः सर्वथा करणीयमिति बुद्धिः "इन्वतु व्याप्नोतु ॥ इन्वतिर्व्याप्तिवचनः ‘इन्वति ननक्ष' इति तद्वचनेषु पाठात् ॥ यद्वा । तेषामभिगूर्तिः नः अस्मानिन्वतु । यागं साधुपारं प्रापय्य फलेन योजयत्वित्यर्थः ।


उप॒ प्रागा॑त्सु॒मन्मे॑ऽधायि॒ मन्म॑ दे॒वाना॒माशा॒ उप॑ वी॒तपृ॑ष्ठः ।

अन्वे॑नं॒ विप्रा॒ ऋष॑यो मदंति दे॒वानां॑ पु॒ष्टे च॑कृमा सु॒बंधुं॑ ॥७

उप॑ । प्र । अ॒गा॒त् । सु॒ऽमत् । मे॒ । अ॒धा॒यि॒ । मन्म॑ । दे॒वाना॑म् । आशाः॑ । उप॑ । वी॒तऽपृ॑ष्ठः ।

अनु॑ । ए॒न॒म् । विप्राः॑ । ऋष॑यः । म॒द॒न्ति॒ । दे॒वाना॑म् । पु॒ष्टे । च॒कृ॒म॒ । सु॒ऽबन्धु॑म् ॥७

उप । प्र । अगात् । सुऽमत् । मे । अधायि । मन्म । देवानाम् । आशाः । उप । वीतऽपृष्ठः ।

अनु । एनम् । विप्राः । ऋषयः । मदन्ति । देवानाम् । पुष्टे । चकृम । सुऽबन्धुम् ॥७

“मन्म मननीयं फलं "सुमत् "उप “प्रागात् उपप्रैतु । ‘सुमत्स्वयमित्यर्थः' ( निरु. ६.२२ ) इति यास्कः । यद्वा । स्वयमेव मादयितृतमे मयि “अधायि धीयते । फलभूतः अश्वः आगतः स च मया धृतः इत्यर्थः । किमर्थम् । “वीतपृष्ठः साधुपोषणेन प्राप्तपश्चाद्भागः कान्तपृष्ठो वा । अत्यन्तं दृप्तः इत्यर्थः। तादृशोऽयं “देवानामाशाः पूरयितुम् “उप गच्छतु । यागार्थमागतम् “एनं “सुबन्धुं शोभनबन्धनमश्वं “देवानाम् आशास्यमानानां “पुष्टे पोषणाय “चकृम कुर्मः । तं च “विप्राः मेधाविन ऋत्विजः "ऋषयः अतीन्द्रियद्रष्टारोऽन्ये वा विप्रा ऋषयश्च “अनु “मदन्ति अनुमोदन्ताम् । सम्यक् कृतमिति परितुष्यन्तु ॥


यद्वा॒जिनो॒ दाम॑ सं॒दान॒मर्व॑तो॒ या शी॑र्ष॒ण्या॑ रश॒ना रज्जु॑रस्य ।

यद्वा॑ घास्य॒ प्रभृ॑तमा॒स्ये॒३॒॑ तृणं॒ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु ॥८

यत् । वा॒जिनः॑ । दाम॑ । स॒म्ऽदान॑म् । अर्व॑तः । या । शी॒र्ष॒ण्या॑ । र॒श॒ना । रज्जुः॑ । अ॒स्य॒ ।

यत् । वा॒ । घ॒ । अ॒स्य॒ । प्रऽभृ॑तम् । आ॒स्ये॑ । तृण॑म् । सर्वा॑ । ता । ते॒ । अपि॑ । दे॒वेषु॑ । अ॒स्तु॒ ॥८

यत् । वाजिनः । दाम । सम्ऽदानम् । अर्वतः । या । शीर्षण्या । रशना । रज्जुः । अस्य ।

यत् । वा । घ । अस्य । प्रऽभृतम् । आस्ये । तृणम् । सर्वा । ता । ते । अपि । देवेषु । अस्तु ॥८

"वाजिनः गमनवतोऽश्वस्य “यत् "दाम ग्रीवाबद्धा रज्जुः । यच्च “संदानं सम्यगवच्छेदकं बन्धकं पादबन्धनं दाम अस्ति । "या च "अस्य “शीर्षण्या शिरसि बद्धा खलीनरज्जुः अस्ति ॥ शिरःशब्दात् ‘भवे छन्दसि' इति यत् । “ ये च तद्धिते' (पा. सू. ६. १. ६१ ) इति शीर्षन्भावः। तित्स्वरितः ॥ "यद्वा “घ “अस्य अश्वस्य "आस्ये मुखे “प्रभृतं प्रहृतं प्रक्षिप्तं “तृणम् अस्ति । घशब्दो हार्थे स च प्रसिद्ध्यर्थः । “सर्वा सर्वाणि “ता तानि सर्वाणि “अपि हे अश्व "ते तव संबन्धीनि “देवेष्वस्तु सन्तु देवेषु मध्ये भवन्तु । देवत्वं प्राप्नुवन्तु वा ॥ वचनव्यत्ययः । अत्रोपयुक्तानां सर्वेषां देवत्वं किल अश्वस्य तत्प्राप्तिः न आशासनीया ।।


यदश्व॑स्य क्र॒विषो॒ मक्षि॒काश॒ यद्वा॒ स्वरौ॒ स्वधि॑तौ रि॒प्तमस्ति॑ ।

यद्धस्त॑योः शमि॒तुर्यन्न॒खेषु॒ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु ॥९

यत् । अश्व॑स्य । क्र॒विषः॑ । मक्षि॑का । आश॑ । यत् । वा॒ । स्वरौ॑ । स्वऽधि॑तौ । रि॒प्तम् । अस्ति॑ ।

यत् । हस्त॑योः । श॒मि॒तुः । यत् । न॒खेषु॑ । सर्वा॑ । ता । ते॒ । अपि॑ । दे॒वेषु॑ । अ॒स्तु॒ ॥९

यत् । अश्वस्य । क्रविषः । मक्षिका । आश । यत् । वा । स्वरौ । स्वऽधितौ । रिप्तम् । अस्ति ।

यत् । हस्तयोः । शमितुः । यत् । नखेषु । सर्वा । ता । ते । अपि । देवेषु । अस्तु ॥९

“अश्वस्य तदवयवभूतस्य “क्रविषः आममांसस्य “यत् यदङ्गं “मक्षिका “आश अभक्षयत् ॥ ‘अश भोजने '। यद्वा । कर्मणि षष्ठी ॥ अश्वस्य यन्मांसं भक्षयति। "वा अथवा "स्वरौ पश्वञ्जनकाले “यत् "रिप्तं लिप्तम् “अस्ति ।' स्वरुणा पशुमनक्ति' इति श्रुतेः । अथवा “स्वधितौ छेदनकाले व अवदानकाले यत् रिप्तमस्ति “शमितुः “हस्तयोः लिप्तमस्ति । विशसनकाले “यत् च "नखेषु लिप्तम् “ता “सर्वा तानि सर्वाणि हे अश्व “ते तव संबन्धीनि “देवेष्वस्तु देवेषु संतोषार्थाय भवन्तु ॥


यदूव॑ध्यमु॒दर॑स्याप॒वाति॒ य आ॒मस्य॑ क्र॒विषो॑ गं॒धो अस्ति॑ ।

सु॒कृ॒ता तच्छ॑मि॒तारः॑ कृण्वंतू॒त मेधं॑ शृत॒पाकं॑ पचंतु ॥१०

यत् । ऊव॑ध्यम् । उ॒दर॑स्य । अ॒प॒ऽवाति॑ । यः । आ॒मस्य॑ । क्र॒विषः॑ । ग॒न्धः । अस्ति॑ ।

सु॒ऽकृ॒ता । तत् । श॒मि॒तारः॑ । कृ॒ण्व॒न्तु॒ । उ॒त । मेध॑म् । शृ॒त॒ऽपाक॑म् । प॒च॒न्तु॒ ॥१०

यत् । ऊवध्यम् । उदरस्य । अपऽवाति । यः । आमस्य । क्रविषः । गन्धः । अस्ति ।

सुऽकृता । तत् । शमितारः । कृण्वन्तु । उत । मेधम् । शृतऽपाकम् । पचन्तु ॥१०

"उदरस्य संबन्धि “यत् "ऊवध्यम् ईषज्जीर्णं तृणं पुरीषम् "अपवाति अपगच्छति । “यः च “आमस्य अपक्वस्य “क्रविषः मांसस्य “गन्धः अस्ति लेशोऽस्ति । पाकस्य समये यत्किंचिदूवध्यमपक्वस्य च लेशोऽस्ति आमगन्धोऽस्ति । “तत् सर्वं “शमितारः विशसनकर्तारः “सुकृता “कृण्वन्तु सुकृतम्' उक्तदोषरहितं कुर्वन्तु । "उत अपि च "मेधं मेध्यं यज्ञार्हं पश्ववयवं “शृतपाकं देवयोग्यपाकोपेतं यथा भवति तथा “पचन्तु पितृमनुष्यादियोग्यम् अतिपक्वम् ईषत्पक्वं च मा कुर्वन्त्वित्यर्थः ॥ ॥ ८ ॥


यत्ते॒ गात्रा॑द॒ग्निना॑ प॒च्यमा॑नाद॒भि शूलं॒ निह॑तस्याव॒धाव॑ति ।

मा तद्भूम्या॒मा श्रि॑ष॒न्मा तृणे॑षु दे॒वेभ्य॒स्तदु॒शद्भ्यो॑ रा॒तम॑स्तु ॥११

यत् । ते॒ । गात्रा॑त् । अ॒ग्निना॑ । प॒च्यमा॑नात् । अ॒भि । शूल॑म् । निऽह॑तस्य । अ॒व॒ऽधाव॑ति ।

मा । तत् । भूम्या॑म् । आ । श्रि॒ष॒त् । मा । तृणे॑षु । दे॒वेभ्यः॑ । तत् । उ॒शत्ऽभ्यः॑ । रा॒तम् । अ॒स्तु॒ ॥११

यत् । ते । गात्रात् । अग्निना । पच्यमानात् । अभि । शूलम् । निऽहतस्य । अवऽधावति ।

मा । तत् । भूम्याम् । आ । श्रिषत् । मा । तृणेषु । देवेभ्यः । तत् । उशत्ऽभ्यः । रातम् । अस्तु ॥११

हे अश्व "ते तव "अग्निना “पच्यमानात् गात्रात् “यत् ऊष्मरूपं रसो वा यत्किंचित् “अवधावति । तथा “निहतस्य निःशेषेण हतस्य तव यदङ्गं रसरूपं "शूलम् अभिलक्ष्य अवधावति निर्गच्छति। “तत् तदङ्गं "भूम्यां “मा “आ “श्रिषत् आश्लिष्टं मा भूत् ॥ श्रिषेः पुषादित्वात् अङ्॥ पाकसमये तथा “मा “तृणेषु विशसनसमये दर्भेषु मा अपगच्छतु । तर्हि तत्पतितं कुत्र गच्छत्विति चेत् उच्यते। “तत् तादृशम् "उशद्भ्यः कृत्स्नं हविः कामयमानेभ्यः "देवेभ्यः “रातं दत्तम् “अस्तु ।।


ये वा॒जिनं॑ परि॒पश्यं॑ति प॒क्वं य ई॑मा॒हुः सु॑र॒भिर्निर्ह॒रेति॑ ।

ये चार्व॑तो मांसभि॒क्षामु॒पास॑त उ॒तो तेषा॑म॒भिगू॑र्तिर्न इन्वतु ॥१२

ये । वा॒जिन॑म् । प॒रि॒ऽपश्य॑न्ति । प॒क्वम् । ये । ई॒म् । आ॒हुः । सु॒र॒भिः । निः । ह॒र॒ । इति॑ ।

ये । च॒ । अर्व॑तः । मां॒स॒ऽभि॒क्षाम् । उ॒प॒ऽआस॑ते । उ॒तो इति॑ । तेषा॑म् । अ॒भिऽगू॑र्तिः । नः॒ । इ॒न्व॒तु॒ ॥१२

ये । वाजिनम् । परिऽपश्यन्ति । पक्वम् । ये । ईम् । आहुः । सुरभिः । निः । हर । इति ।

ये । च । अर्वतः । मांसऽभिक्षाम् । उपऽआसते । उतो इति । तेषाम् । अभिऽगूर्तिः । नः । इन्वतु ॥१२

“ये "पक्वं “वाजिनम् अश्वम् अश्वावयवं “परिपश्यन्ति परितः पावनबुद्ध्या ईक्षन्ते । “य “ईं ये चैनं “सुरभिः शोभनगन्धः अतः “निर्हर किंचिदप्यस्मभ्यं देहि "इति "आहुः । यद्वा । निःशेषेण देवेभ्यो हरेत्याहुः । यतः सुरभिः अतो देवयोग्यमिति । किंच "ये “चार्वतो "मांसभिक्षामुपासते ये नराः अस्य अर्वतः अश्वस्य हुतशिष्टमांसयाचनामुपासते कांक्षन्ते । “उतो अपि च “तेषाम् उक्तविधानाम् "अभिगूर्तिः अभितः उद्यमनं "नः अस्मान् “इन्वतु व्याप्नोतु । यथा अस्माभिः अश्वे उपालब्धे एवं स्पृहयन्ति तथा यज्ञो निर्वाहयतु इत्यर्थः । यद्वा । मन्त्रः देवपरो व्याख्येयः । ये देवाः वाजिनं पक्वं परिपश्यन्ति कदा होष्यतीति विलम्बं दृष्ट्वा ये च सुरभिरीमेनं निर्हर निःशेषेणास्मभ्यं देहीत्याहुः ये चार्वतोऽश्वस्य मांसभिक्षामुपासते तेषामभिगूर्तिर्न इन्वतु तेषाम् उद्यमः सफलो भवत्वित्यर्थः ॥


यन्नीक्ष॑णं माँ॒स्पच॑न्या उ॒खाया॒ या पात्रा॑णि यू॒ष्ण आ॒सेच॑नानि ।

ऊ॒ष्म॒ण्या॑पि॒धाना॑ चरू॒णामं॒काः सू॒नाः परि॑ भूषं॒त्यश्वं॑ ॥१३

यत् । नि॒ऽईक्ष॑णम् । मां॒स्पच॑न्याः । उ॒खायाः॑ । या । पात्रा॑णि । यू॒ष्णः । आ॒ऽसेच॑नानि ।

ऊ॒ष्म॒ण्या॑ । अ॒पि॒ऽधाना॑ । च॒रू॒णाम् । अ॒ङ्काः । सू॒नाः । परि॑ । भू॒ष॒न्ति॒ । अश्व॑म् ॥१३

यत् । निऽईक्षणम् । मांस्पचन्याः । उखायाः । या । पात्राणि । यूष्णः । आऽसेचनानि ।

ऊष्मण्या । अपिऽधाना । चरूणाम् । अङ्काः । सूनाः । परि । भूषन्ति । अश्वम् ॥१३

“मांस्पचन्याः मांसपचन्याः ॥ पचतेः अधिकरणे ल्युट् । मांसस्य पचि युड्घञोः ' (का. ६. १. १४४ ) इत्यन्तलोपः ॥ "उखायाः स्थाल्याः “नीक्षणं पाकपरीक्षासाधनं काष्ठं तथा “या यानि “पात्राणि "यूष्णः रसस्य क्वथितस्य “आसेचनानि असेचनसाधनानि तथा “ऊष्मण्या ऊष्मनिवारणार्हाणि पात्राणि तथा “चरूणां पात्राणां मांसपूर्णानाम् “अपिधाना अपिधानानि तत्साधनानि तथा “अङ्काः हृदयाद्यवयवाङ्कनसाधनाः वेतसशाखाः “सूनाः अवदानसाधनाः स्वधित्यादयः एतम् “अश्वम् अश्वावयवं “परि “भूषन्ति परितो भूषयन्ति स्वस्वव्यापारेण साधयन्तीत्यर्थः ॥ ‘भूष अलंकारे'। भौवादिकः ।।


नि॒क्रम॑णं नि॒षद॑नं वि॒वर्त॑नं॒ यच्च॒ पड्बी॑श॒मर्व॑तः ।

यच्च॑ प॒पौ यच्च॑ घा॒सिं ज॒घास॒ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु ॥१४

नि॒ऽक्रम॑णम् । नि॒ऽसद॑नम् । वि॒ऽवर्त॑नम् । यत् । च॒ । पड्बी॑शम् । अर्व॑तः ।

यत् । च॒ । प॒पौ । यत् । च॒ । घा॒सिम् । ज॒घास॑ । सर्वा॑ । ता । ते॒ । अपि॑ । दे॒वेषु॑ । अ॒स्तु॒ ॥१४

निऽक्रमणम् । निऽसदनम् । विऽवर्तनम् । यत् । च । पड्बीशम् । अर्वतः ।

यत् । च । पपौ । यत् । च । घासिम् । जघास । सर्वा । ता । ते । अपि । देवेषु । अस्तु ॥१४

यत् “निक्रमणम् । नितरां क्रमते यत्र तन्निक्रमणं स्थानम् । नितरां सीदत्यत्रेति “निषदनम् । “विवर्तनं विविधवर्तनम् इतस्ततो लुण्ठनं यत्र तत् ॥ सर्वत्राधिकरणे ल्युट् ॥ “यच्च “अर्वतः “अश्वस्य “पडबीशं पदबन्धनम् । यद्वा । बन्धनं पट् तद्वान् प्रदेशः। अत्र सर्वत्र देवार्थस्याश्वस्य रोमादीनामपि निरर्थकत्वाभावाय तत्स्थानमपि स्वीक्रियते । यद्वा । क्रियापरावगन्तव्या । आलम्भसमये निग्रहेण या निक्रमणादयश्चेष्टाः सन्ति ता इत्यर्थः । “यच्च “पपौ यदुदकमपिबत् । “यच्च “घासिम् अदनीयं तृणादिकं “जघास अभक्षयत् । हे अश्व "ते तव “ता तानि सर्वाणि निक्रमणादीनि "देवेष्वस्तु सन्तु देवेषु व्याप्नोतु तान्यपि निरर्थकानि मा भूवन्नित्यर्थः ॥


मा त्वा॒ग्निर्ध्व॑नयीद्धू॒मगं॑धि॒र्मोखा भ्राजं॑त्य॒भि वि॑क्त॒ जघ्रिः॑ ।

इ॒ष्टं वी॒तम॒भिगू॑र्तं॒ वष॑ट्कृतं॒ तं दे॒वासः॒ प्रति॑ गृभ्णं॒त्यश्वं॑ ॥१५

मा । त्वा॒ । अ॒ग्निः । ध्व॒न॒यी॒त् । धू॒मऽग॑न्धिः । मा । उ॒खा । भ्राज॑न्ती । अ॒भि । वि॒क्त॒ । जघ्रिः॑ ।

इ॒ष्टम् । वी॒तम् । अ॒भिऽगू॑र्तम् । वष॑ट्ऽकृतम् । तम् । दे॒वासः॑ । प्रति॑ । गृ॒भ्ण॒न्ति॒ । अश्व॑म् ॥१५

मा । त्वा । अग्निः । ध्वनयीत् । धूमऽगन्धिः । मा । उखा । भ्राजन्ती । अभि । विक्त । जघ्रिः ।

इष्टम् । वीतम् । अभिऽगूर्तम् । वषट्ऽकृतम् । तम् । देवासः । प्रति । गृभ्णन्ति । अश्वम् ॥१५

हे अश्व “त्वा त्वां “धूमगन्धिः धूमेन व्याप्तः “अग्निः “मा “ध्वनयीत् मा ध्वनयत् । धूमं दृष्ट्वा शब्दं मा कुर्वित्यर्थः । अश्वस्य शब्दने प्रायश्चित्तविधानात् । यद्वा । हे पच्यमानाश्ववयव त्वा त्वां धूमगन्धिरग्निर्मा ध्वनयीत् । ध्वना सति भाण्डभङ्गः स्यात् । ‘नोनयति । (पा. सू. ३. १. ५१ ) इत्यादिना चङ्प्रतिषेधः । ‘ह्व्यन्तक्षण' इति वृद्ध्यभावः ॥ किंच “भ्राजन्ती अत्यन्ताग्निसंयोगेन दीप्ता “उखा स्थाली “मा “अभि "विक्त अभितो मा चीचलत्तापातिशयेन मा नीनशदित्यर्थः ॥ ‘ओविजी भयचलनयोः' । छान्दसो विकरणस्य लुक् । लुङि वा ‘झलो झलि' इति सलोपः ॥ स्थाली विशेष्यते । जघ्रिः जिघ्रन्ती तापेन ।' घ्रा गन्धोपादाने'। ‘आदृगमहन ' इति किन्प्रत्ययः ॥ तं तादृशम् “अश्वम् “इष्टं होतुमिषितं "वीतं होमाय आनीतम् "अभिगूर्तम् आभिमुख्येन प्रदानाय उद्यतम् । यद्वा । इष्टं प्रयाजैराप्रीतं वीतं पर्यग्निकृतमभिगूर्तं ये यजामहे ' इत्यागूर्युक्तम् । “वषट्कृतं वषट्कारेण देवसंस्कृतम्" एवंभूतं तं “देवासः देवाः “प्रति “गृभ्णन्ति प्रतिगृह्णन्ति ॥ ॥ ९ ॥


यदश्वा॑य॒ वास॑ उपस्तृ॒णंत्य॑धीवा॒सं या हिर॑ण्यान्यस्मै ।

सं॒दान॒मर्वं॑तं॒ पड्बी॑शं प्रि॒या दे॒वेष्वा या॑मयंति ॥१६

यत् । अश्वा॑य । वासः॑ । उ॒प॒ऽस्तृ॒णन्ति॑ । अ॒धी॒वा॒सम् । या । हिर॑ण्यानि । अ॒स्मै॒ ।

स॒म्ऽदान॑म् । अर्व॑न्तम् । पड्बी॑शम् । प्रि॒या । दे॒वेषु॑ । आ । य॒म॒य॒न्ति॒ ॥१६

यत् । अश्वाय । वासः । उपऽस्तृणन्ति । अधीवासम् । या । हिरण्यानि । अस्मै ।

सम्ऽदानम् । अर्वन्तम् । पड्बीशम् । प्रिया । देवेषु । आ । यमयन्ति ॥१६

"अश्वाय संज्ञप्यमानाय "अधीवासम् उपर्याच्छादनयोग्यं यत् "वासः "उपस्तृणन्ति सर्वतः आच्छादयन्ति ।। ' स्तृञ् आच्छादने' । क्रैयादिकः ॥ तथा “अस्मै अश्वाय “या यानि “हिरण्यानि सौवर्णराजतकांस्यानि कल्पयन्ति । तथा “अर्वन्तम् ॥ षष्य्ार्थे द्वितीया ॥ अर्वतोऽश्वस्य “संदानं शिरोबन्धनं पड्बीशं पादेषु प्रविष्टं पदबन्धनम् । एतानि "प्रिया देवानां प्रियतराणि चात्वाले बद्ध्वा स्थापितानि “देवेषु “आ "यामयन्ति प्रापयन्ति ।।


यत्ते॑ सा॒दे मह॑सा॒ शूकृ॑तस्य॒ पार्ष्ण्या॑ वा॒ कश॑या वा तु॒तोद॑ ।

स्रु॒चेव॒ ता ह॒विषो॑ अध्व॒रेषु॒ सर्वा॒ ता ते॒ ब्रह्म॑णा सूदयामि ॥१७

यत् । ते॒ । सा॒दे । मह॑सा । शूकृ॑तस्य । पार्ष्ण्या॑ । वा॒ । कश॑या । वा॒ । तु॒तोद॑ ।

स्रु॒चाऽइ॑व । ता । ह॒विषः॑ । अ॒ध्व॒रेषु॑ । सर्वा॑ । ता । ते॒ । ब्रह्म॑णा । सू॒द॒या॒मि॒ ॥१७

यत् । ते । सादे । महसा । शूकृतस्य । पार्ष्ण्या । वा । कशया । वा । तुतोद ।

स्रुचाऽइव । ता । हविषः । अध्वरेषु । सर्वा । ता । ते । ब्रह्मणा । सूदयामि ॥१७

"महसा बलेन “शूकृतस्य । शब्दानुकरणमेतत् । शूत्कारं कुर्वतः "ते तव “सादे सदने अगमने निमित्तभूते सति ।। सदेर्भावे घञ्। 'कर्षात्वतः' इत्यन्तोदात्तत्वम् ॥ अर्थतो गमनं कुर्वन् शूत्कारं कुर्वतः ते त्वां पार्ष्ण्या “वा “कशया “वा “तुतोद व्यथयति “यत् यस्मात् तस्मात् “ते तव “ता तानि "सर्वा सर्वाणि “अध्वरेषु यागेषु "ब्रह्मणा मन्त्रेण सूदयामि क्षरामि आहुतित्वेन कल्पयामीत्यर्थः । तत्र दृष्टान्तः । अध्वरेषु यागेषु “हविषः हविः आज्यादिकं "स्रुचेव स्रुचा यथा सूदयन्ति तद्वत् ॥


चतु॑स्त्रिंशद्वा॒जिनो॑ दे॒वबं॑धो॒र्वंक्री॒रश्व॑स्य॒ स्वधि॑तिः॒ समे॑ति ।

अच्छि॑द्रा॒ गात्रा॑ व॒युना॑ कृणोत॒ परु॑ष्परुरनु॒घुष्या॒ वि श॑स्त ॥१८

चतुः॑ऽत्रिंशत् । वा॒जिनः॑ । दे॒वऽब॑न्धोः । वङ्क्रीः॑ । अश्व॑स्य । स्वऽधि॑तिः । सम् । ए॒ति॒ ।

अच्छि॑द्रा । गात्रा॑ । व॒युना॑ । कृ॒णो॒त॒ । परुः॑ऽपरुः । अ॒नु॒ऽघुष्य॑ । वि । श॒स्त॒ ॥१८

चतुःऽत्रिंशत् । वाजिनः । देवऽबन्धोः । वङ्क्रीः । अश्वस्य । स्वऽधितिः । सम् । एति ।

अच्छिद्रा । गात्रा । वयुना । कृणोत । परुःऽपरुः । अनुऽघुष्य । वि । शस्त ॥१८

“वाजिनः “अश्वस्य "देवबन्धोः देवानां प्रियस्य चतुस्त्रिंशत् "वङ्क्रीः एतत्संख्यानि उभयपार्श्वास्थीनि “स्वधितिः छेदनसाधनोऽसिः "समेति सम्यग्गच्छति छेदनाय। इतरेषामजादीनां षड्विंशतिरेव, ‘ षड्विंशतिरस्य वङ्क्रयः' (ऐ. ब्रा. २. ६ ) इति प्रैषात् । हे विशसनस्य कर्तारः अस्याश्वस्य गात्राणि शरीरावयवान् “अच्छिद्रा अच्छिद्राणि यथा भवन्ति तथा “वयुना वयुनानि प्रज्ञानानि । वयुनमिति प्रज्ञानाम, ‘वयुनम् अभिख्या ' ( नि. ३. ९. १०) इति तन्नामसूक्तत्वात् । “कृणोत कुरुत ॥ तप्तनप्तनथनाश्च' इति तबादेशः ।। हृदयजिह्वावक्षःप्रभृतीनि प्रज्ञाथ मध्ये छिन्नानि मा कुरुतेत्यर्थः । तदर्थं “परुःपरुः प्रतिपर्व प्रतिहृदयाद्यवयवम् “अनुघुष्य इदमवद्यमिति संशब्द्यैव “वि “शस्त विशसनं कुरुत ॥ ‘शस् हिंसायाम् ' । छान्दसः शपो लुक् ॥ ' गात्रंगात्रमस्यानूनं कृणुतात्' (ऐ. ब्रा. २.६ ) इति प्रैषात् ॥


एक॒स्त्वष्टु॒रश्व॑स्या विश॒स्ता द्वा यं॒तारा॑ भवत॒स्तथ॑ ऋ॒तुः ।

या ते॒ गात्रा॑णामृतु॒था कृ॒णोमि॒ ताता॒ पिंडा॑नां॒ प्र जु॑होम्य॒ग्नौ ॥१९

एकः॑ । त्वष्टुः॑ । अश्व॑स्य । वि॒ऽश॒स्ता । द्वा । य॒न्तारा॑ । भ॒व॒तः॒ । तथा॑ । ऋ॒तुः ।

या । ते॒ । गात्रा॑णाम् । ऋ॒तु॒ऽथा । कृ॒णोमि॑ । ताऽता॑ । पिण्डा॑नाम् । प्र । जु॒हो॒मि॒ । अ॒ग्नौ ॥१९

एकः । त्वष्टुः । अश्वस्य । विऽशस्ता । द्वा । यन्तारा । भवतः । तथा । ऋतुः ।

या । ते । गात्राणाम् । ऋतुऽथा । कृणोमि । ताऽता । पिण्डानाम् । प्र । जुहोमि । अग्नौ ॥१९

“त्वष्टुः अस्य दीप्तस्य “अश्वस्य “विशस्ता विशसनस्य कर्ता “एकः । एक एव । स कः। “ऋतुः एतदुपलक्षितः कालात्मा तस्यैव सर्वेषामपि पर्यवसितृत्वात् । यद्वा । ऋतुः निःशङ्कविशसनाय गन्ता शमिता । “तथा “द्वा “यन्तारा नियमयितारौ अहोरात्रे देवौ द्यावापृथिव्यौ वा ऋत्विक्षु “भवतः ॥ तथ ऋतुः इत्यत्र ‘ऋत्यकः' इति प्रकृतिभावो ह्रस्वत्वं च ॥ हे अश्व “ते तव “गात्राणां मध्ये “या यानि हृदयाद्यवयवानि “ऋतुथा काले “कृणोमि छिनद्मि संपादयामि “पिण्डानां मध्ये “ताता तानि तानि प्रज्ञानानुरोधेन “अग्नौ "प्र “जुहोमि प्रकर्षेण हुतं करोमि ॥


मा त्वा॑ तपत्प्रि॒य आ॒त्मापि॒यंतं॒ मा स्वधि॑तिस्त॒न्व१॒॑ आ ति॑ष्ठिपत्ते ।

मा ते॑ गृ॒ध्नुर॑विश॒स्ताति॒हाय॑ च्छि॒द्रा गात्रा॑ण्य॒सिना॒ मिथू॑ कः ॥२०

मा । त्वा॒ । त॒प॒त् । प्रि॒यः । आ॒त्मा । अ॒पि॒ऽयन्त॑म् । मा । स्वऽधि॑तिः । त॒न्वः॑ । आ । ति॒स्थि॒प॒त् । ते॒ ।

मा । ते॒ । गृ॒ध्नुः । अ॒वि॒ऽश॒स्ता । अ॒ति॒ऽहाय॑ । छि॒द्रा । गात्रा॑णि । अ॒सिना॑ । मिथु॑ । क॒रिति॑ कः ॥२०

मा । त्वा । तपत् । प्रियः । आत्मा । अपिऽयन्तम् । मा । स्वऽधितिः । तन्वः । आ । तिस्थिपत् । ते ।

मा । ते । गृध्नुः । अविऽशस्ता । अतिऽहाय । छिद्रा । गात्राणि । असिना । मिथु । करिति कः ॥२०

हे अश्व “त्वा त्वाम् “अपियन्तं देवान् प्रति गच्छन्तं “प्रियः "आत्मा भोगायतनत्वात् तव प्रियतरो देहः “मा “तपत् तप्तं मा कार्षीत् वियोगजनिता व्यथा मा भूदित्यर्थः । “स्वधितिः शस्त्रं “ते तव “तन्वः तनूः अङ्गानि “मा “आ “तिष्ठिपत् त्वयि चिरमास्थितानि मा कार्षीत् ॥ स्थापयतेर्लुङि ‘तिष्ठतेरित् '(पा. सू. ७. ४. ५) इति इत्वम् ॥ तथा “ते तव “गात्राणि "गृध्नुः केवलमांसग्रहणेप्सुः "अविशस्ता विशसने अकुशलः शमिता "अतिहाय न्यूनातिरेकभावेन तत्तदङ्गमतिक्रम्य मध्ये “मिथु मिथ्या व्यर्थम् “असिना “छिद्रा छिद्राणि तिर्यक्छिन्नानि “मा “कः मा कार्षीत् ॥ करोतेर्लुङि। ‘मन्त्रे घस' इति च्लेर्लुक् । गुणः । “हल्यङ्याब्भ्यः' इति तलोपः ॥


न वा उ॑ ए॒तन्म्रि॑यसे॒ न रि॑ष्यसि दे॒वाँ इदे॑षि प॒थिभिः॑ सु॒गेभिः॑ ।

हरी॑ ते॒ युंजा॒ पृष॑ती अभूता॒मुपा॑स्थाद्वा॒जी धु॒रि रास॑भस्य ॥२१

न । वै । ऊं॒ इति॑ । ए॒तत् । म्रि॒य॒से॒ । न । रि॒ष्य॒सि॒ । दे॒वान् । इत् । ए॒षि॒ । प॒थिऽभिः॑ । सु॒ऽगेभिः॑ ।

हरी॒ इति॑ । ते॒ । युञ्जा॑ । पृष॑ती॒ इति॑ । अ॒भू॒ता॒म् । उप॑ । अ॒स्था॒त् । वा॒जी । धु॒रि । रास॑भस्य ॥२१

न । वै । ऊं इति । एतत् । म्रियसे । न । रिष्यसि । देवान् । इत् । एषि । पथिऽभिः । सुऽगेभिः ।

हरी इति । ते । युञ्जा । पृषती इति । अभूताम् । उप । अस्थात् । वाजी । धुरि । रासभस्य ॥२१

“न “वा “उ नैव खलु “एतन्म्रियसे । वैशब्दः एवकारार्थः । उ इत्यवधारणे । नैव इदानीम् इतराश्ववत् मृतो भवसि देवत्वप्राप्तेर्वक्ष्यमाणत्वात्। अत एव “न “रिष्यसि न हिंस्यसे । व्यर्थहिंसायाः अभावात् । ननु प्रत्यक्ष्यतो मृतिः अवयवनाशश्च दृश्यते कथमेवमुच्यते इति । उच्यते। “सुगेभिः “पथिभिः शोभनगमनसाधनैर्मार्गैः देवयानलक्षणैः "देवान “इत् “एषि देवानेव प्राप्नोषि। अतो युक्तैषोक्तिः। कैः साधनैरिति तत्राह। “ते त्वां वोढुं “हरी एतन्नामानौ इन्द्रस्याश्वौ ते तव “युञ्जा रथे युक्तौ "अभूतां भविष्यतः । आशंसारूपत्वात् भूतार्थनिर्देशः । ‘हरी इन्द्रस्य' (नि. १. १५. १) इति निरुक्तम् । तथा “पृषती पृषत्यौ मरुतां वाहनभूतौ युञ्जा' अभूतां युक्तौ भविष्यतः । ‘पृषत्यो मरुताम् ' (नि. १. १५. ६) इति च निरुक्तम् ॥ युजेः ‘ऋत्विक् ' इत्यादिना क्विन् । 'युजेरसमासे' (पा. सू. ७. १. ७१ ) इति नुम् । ‘सुपां सुलुक्' इति आकारः॥ तथा “रासभस्य अश्विवाहनस्य एतन्नामकस्याश्वस्य “धुरि स्थाने वर्तमानः कश्चित् “वाजी “उपास्थात् उपस्थास्यति वहतीत्यर्थः। यद्वा । रासभस्य भानोः धुरि वर्त्मनि युक्तो वाजी अश्वः उपस्थास्यति देवस्वं गच्छतस्तव गमनाय इन्द्रादयः स्वस्ववाहनानि प्रेषयन्तीत्यर्थः । यद्वा । तत्तद्देवभावमापन्नं त्वां तानि तानि वाहनानि वहन्ति ।।


उपाकरणकाले अवघ्राणावर्तने यद्यश्वो न कुर्यात् तदैषा नैमित्तिकी यजमानवाचनार्था भवति । तथा च सूत्रितं- सुगव्यं नो वाजी स्वश्व्यमिति यजमानं वाचयेत्' (आश्व. श्रौ. १०. ८) इति ।

सु॒गव्यं॑ नो वा॒जी स्वश्व्यं॑ पुं॒सः पु॒त्राँ उ॒त वि॑श्वा॒पुषं॑ र॒यिं ।

अ॒ना॒गा॒स्त्वं नो॒ अदि॑तिः कृणोतु क्ष॒त्रं नो॒ अश्वो॑ वनतां ह॒विष्मा॑न् ॥२२

सु॒ऽगव्य॑म् । नः॒ । वा॒जी । सु॒ऽअश्व्य॑म् । पुं॒सः । पु॒त्रान् । उ॒त । वि॒श्व॒ऽपुष॑म् । र॒यिम् ।

अ॒ना॒गाः॒ऽत्वम् । नः॒ । अदि॑तिः । कृ॒णो॒तु॒ । क्ष॒त्रम् । नः॒ । अश्वः॑ । व॒न॒ता॒म् । ह॒विष्मा॑न् ॥२२

सुऽगव्यम् । नः । वाजी । सुऽअश्व्यम् । पुंसः । पुत्रान् । उत । विश्वऽपुषम् । रयिम् ।

अनागाःऽत्वम् । नः । अदितिः । कृणोतु । क्षत्रम् । नः । अश्वः । वनताम् । हविष्मान् ॥२२

"वाजी अश्वः आलभ्यमानः “नः अस्माकं "सुगव्यं शोभनेन गोसमूहेन युक्तं "विश्वापुषं “रयिं विश्वस्य पोषकं धनं “कृणोतु करोतु ।। ‘खलगोरथात्' (पा. सू. ४. २. ५०) इति समूहार्थे यत् । छान्दसमुत्तरपदाद्युदात्तत्वम् । यद्वा । सामूहिकस्याणः प्रसङ्गे ‘सर्वत्र गोरजादिप्रत्ययप्रसङ्गे' (का. ४. ३. १६०) इति यत् । तदन्तस्य ' आद्युदात्तं द्व्यच्छन्दसि' इत्युत्तरपदाद्युदात्तत्वम् ।। तथा स्वश्व्यं शोभनाश्वसमूहयुक्तम् । तथा “पुंसः “पुत्रान् । पुत्रशब्दः स्त्रीपुमपत्यसाधारणः । अतः पुमपत्यानीत्यर्थः । यद्वा। पुंसो वध्वादीन् पुत्रान् पुरुरक्षकान् आत्मजान्। स्त्र्यपत्यानि" पुमपत्यानि च इत्यर्थः । "उत अपि च विश्वापुषं रयिं विश्वपोषणसमर्थं धनम्। किंच “नः अस्मान् "अदितिः अदीनः अश्वः "अनागास्त्वं कृणोतु सर्वतो निष्पापत्वं करोतु । उक्तानां फलानां न्यूनातिरेकजनितपापक्षयाभावे असंभवात् अपापत्वं प्रार्थ्यते । किंच 'हविष्मान् हविर्भूतावयवोपेतः “अश्वः नः अस्माकं “क्षत्रं बलं क्षात्रं तेजः “वनतां संभजतां कुरुताम् ॥ ॥ १० ॥


मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१६२&oldid=207831" इत्यस्माद् पुनः प्राप्तिः