ऋग्वेदः सूक्तं १.१०१

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं १.१०० ऋग्वेदः - मण्डल १
सूक्तं १.१०१
कुत्स आङ्गिरसः
सूक्तं १.१०२ →
दे. इन्द्रः( १ गर्भस्राविण्युपनिषद्)। जगती, ८-११ त्रिष्टुप्


प्र मन्दिने पितुमदर्चता वचो यः कृष्णगर्भा निरहन्नृजिश्वना ।
अवस्यवो वृषणं वज्रदक्षिणं मरुत्वन्तं सख्याय हवामहे ॥१॥
यो व्यंसं जाहृषाणेन मन्युना यः शम्बरं यो अहन्पिप्रुमव्रतम् ।
इन्द्रो यः शुष्णमशुषं न्यावृणङ्मरुत्वन्तं सख्याय हवामहे ॥२॥
यस्य द्यावापृथिवी पौंस्यं महद्यस्य व्रते वरुणो यस्य सूर्यः ।
यस्येन्द्रस्य सिन्धवः सश्चति व्रतं मरुत्वन्तं सख्याय हवामहे ॥३॥
यो अश्वानां यो गवां गोपतिर्वशी य आरितः कर्मणिकर्मणि स्थिरः ।
वीळोश्चिदिन्द्रो यो असुन्वतो वधो मरुत्वन्तं सख्याय हवामहे ॥४॥
यो विश्वस्य जगतः प्राणतस्पतिर्यो ब्रह्मणे प्रथमो गा अविन्दत् ।
इन्द्रो यो दस्यूँरधराँ अवातिरन्मरुत्वन्तं सख्याय हवामहे ॥५॥
यः शूरेभिर्हव्यो यश्च भीरुभिर्यो धावद्भिर्हूयते यश्च जिग्युभिः ।
इन्द्रं यं विश्वा भुवनाभि संदधुर्मरुत्वन्तं सख्याय हवामहे ॥६॥
रुद्राणामेति प्रदिशा विचक्षणो रुद्रेभिर्योषा तनुते पृथु ज्रयः ।
इन्द्रं मनीषा अभ्यर्चति श्रुतं मरुत्वन्तं सख्याय हवामहे ॥७॥
यद्वा मरुत्वः परमे सधस्थे यद्वावमे वृजने मादयासे ।
अत आ याह्यध्वरं नो अच्छा त्वाया हविश्चकृमा सत्यराधः ॥८॥
त्वायेन्द्र सोमं सुषुमा सुदक्ष त्वाया हविश्चकृमा ब्रह्मवाहः ।
अधा नियुत्वः सगणो मरुद्भिरस्मिन्यज्ञे बर्हिषि मादयस्व ॥९॥
मादयस्व हरिभिर्ये त इन्द्र वि ष्यस्व शिप्रे वि सृजस्व धेने ।
आ त्वा सुशिप्र हरयो वहन्तूशन्हव्यानि प्रति नो जुषस्व ॥१०॥
मरुत्स्तोत्रस्य वृजनस्य गोपा वयमिन्द्रेण सनुयाम वाजम् ।
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥११॥


सायणभाष्यम्

प्र मन्दिने' इति एकादशर्चमष्टमं सूक्तमाङ्गिरसस्य कुत्सस्यार्षम् । अष्टम्याद्याश्चतस्रस्त्रिष्टुभः शिष्टाः सप्त जगत्यः । इन्द्रो देवता । तथा चानुक्रान्तं - ' प्रमन्दिन एकादश कुत्स आद्या गर्भस्राविण्युपनिषच्चतुस्त्रिष्टुबन्तम्' इति । दशरात्रस्य नवमेऽहनि मरुत्वतीये एतत्सूक्तम् । विश्वजितः' इति खण्डे सूत्रितं- ‘प्र मन्दिन इमा उ त्वेति मरुत्वतीयम्' (आश्व. श्रौ. ८.७.) इति ॥


प्र मं॒दिने॑ पितु॒मद॑र्चता॒ वचो॒ यः कृ॒ष्णग॑र्भा नि॒रह॑न्नृ॒जिश्व॑ना ।

अ॒व॒स्यवो॒ वृष॑णं॒ वज्र॑दक्षिणं म॒रुत्वं॑तं स॒ख्याय॑ हवामहे ॥१

प्र । म॒न्दिने॑ । पि॒तु॒ऽमत् । अ॒र्च॒त॒ । वचः॑ । यः । कृ॒ष्णऽग॑र्भाः । निः॒ऽअह॑न् । ऋ॒जिश्व॑ना ।

अ॒व॒स्यवः॑ । वृष॑णम् । वज्र॑ऽदक्षिणम् । म॒रुत्व॑न्तम् । स॒ख्याय॑ । ह॒वा॒म॒हे॒ ॥१

प्र । मन्दिने । पितुऽमत् । अर्चत । वचः । यः । कृष्णऽगर्भाः । निःऽअहन् । ऋजिश्वना ।

अवस्यवः । वृषणम् । वज्रऽदक्षिणम् । मरुत्वन्तम् । सख्याय । हवामहे ॥१

हे ऋत्विजः "मन्दिने स्तुतिमते स्तोतव्यायेन्द्राय “पितुमत् हविर्लक्षणेनान्नेनोपेतं "वचः स्तुतिलक्षणं वचनं “प्र “अर्चत प्रकर्षेणोच्चारयत । "यः इन्द्रः “ऋजिश्वना एतत्संज्ञकेन राज्ञा सख्या सहितः सन् "कृष्णगर्भाः । कृष्णो नाम कश्चिदसुरः । तेन निषिक्तगर्भास्तदीयाः भार्याः "निरहन् अवधीत् । कृष्णमसुरं हत्वा पुत्राणाम् अपि अनुत्पत्त्यर्थं गर्भिणीस्तस्य भार्याः अप्यवधीदित्यर्थः । "अवस्यवः रक्षणेच्छवो वयं “वृषणं कामानां वर्षितारं "वज्रदक्षिणं वज्रयुक्तेन दक्षिणहस्तेनोपेतं तं "मरुत्वन्तम् इन्द्रं "सख्याय सख्युः कर्मणे "हवामहे आह्वयामहे ॥ मन्दिने । मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु' । औणादिकः इनिप्रत्ययः । तदुक्तं यास्केन-’ मन्दी मन्दतेः स्तुतिकर्मणः ' (निरु. ४. २४ ) इति । पितुमत् । ‘ ह्रस्वनुड्भ्यां मतुप् ' इति मतुप उदात्तत्वम् । कृष्णगर्भाः कृष्णेन निषिक्ताः गर्भाः यासु तास्तथोक्ताः। ‘ परादिश्छन्दसि बहुलम् ' इति पूर्वपदान्तोदात्तत्वम् । अवस्यवः । अवेरौणादिको भावेऽसुन्। अवः इच्छति अवस्यति । सुप आत्मनः क्यच् ' । ‘क्याच्छन्दसि ' इति उप्रत्ययः । वृषणम् । वा षपूर्वस्य निगमे ' इति विकल्पनादुपधादीर्घाभावः । सख्याय । सख्युः कर्म सख्यम् ।' सख्युर्यः' इति यप्रत्ययः । हवामहे । ह्वेञो लटि ‘ बहुलं छन्दसि ' इति संप्रसारणम् ॥


यो व्यं॑सं जाहृषा॒णेन॑ म॒न्युना॒ यः शंब॑रं॒ यो अह॒न्पिप्रु॑मव्र॒तं ।

इंद्रो॒ यः शुष्ण॑म॒शुषं॒ न्यावृ॑णङ्म॒रुत्वं॑तं स॒ख्याय॑ हवामहे ॥२

यः । विऽअं॑सम् । ज॒हृ॒षा॒णेन॑ । म॒न्युना॑ । यः । शम्ब॑रम् । यः । अह॑न् । पिप्रु॑म् । अ॒व्र॒तम् ।

इन्द्रः॑ । यः । शुष्ण॑म् । अ॒शुष॑म् । नि । अवृ॑णक् । म॒रुत्व॑न्तम् । स॒ख्याय॑ । ह॒वा॒म॒हे॒ ॥२

यः । विऽअंसम् । जहृषाणेन । मन्युना । यः । शम्बरम् । यः । अहन् । पिप्रुम् । अव्रतम् ।

इन्द्रः । यः । शुष्णम् । अशुषम् । नि । अवृणक् । मरुत्वन्तम् । सख्याय । हवामहे ॥

"यः इन्द्रः "जहृषाणेन प्रवृद्धेन "मन्युना क्रोधेन "व्यंसं विगतभुजं वृत्रम् "अहन् अवधीत् । अपि च "यः इन्द्रः शम्बरम् एतत्संज्ञमसुरं चावधीत् । तथा “अव्रतं व्रतस्य यागादेः कर्मणो विरोधिनं "पिप्रुम् एतत्संज्ञमसुरं च "यः इन्द्रोऽवधीत् । किंच "यः “इन्द्रः "अशुषं शोषकरहितं "शुष्णं सर्वस्य जगतः शोषकमेतत्संज्ञमसुरं नि "अवृणक् न्यवर्जयत् । समूलं हतवानित्यर्थः । तं "मरुत्वन्तम् इन्द्रं "सख्याय आह्वयामहे ॥ व्यंसम्। विगतः अंसो यस्मात् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । यणः ‘ उदात्तस्वरितयोर्यणः' इति परस्यानुदात्तस्य स्वरितत्वम् । जहृषाणेन । 'हृष तुष्टौ । अत्र वृद्ध्यर्थः । ‘छन्दसि लिट्, ‘ लिटः कानज्वा' इति तस्य कानजादेशः । अन्येषामपि दृश्यते ' इति संहितायामभ्यासस्य दीर्घत्वम् । चित्त्वादन्तोदात्तत्वम् । अशुषम् । शुष शोषणे' । इगुपधलक्षणः कः । शुषाः शोषका न सन्त्यस्येति अशुषः । परादिश्छन्दसि बहुलम् ' इत्युत्तरपदाद्युदात्तत्वम् । अवृणक् । ‘ वृजी वर्जने '। रौधादिकः ॥


यस्य॒ द्यावा॑पृथि॒वी पौंस्यं॑ म॒हद्यस्य॑ व्र॒ते वरु॑णो॒ यस्य॒ सूर्यः॑ ।

यस्येंद्र॑स्य॒ सिंध॑वः॒ सश्च॑ति व्र॒तं म॒रुत्वं॑तं स॒ख्याय॑ हवामहे ॥३

यस्य॑ । द्यावा॑पृथि॒वी इति॑ । पौंस्य॑म् । म॒हत् । यस्य॑ । व्र॒ते । वरु॑णः । यस्य॑ । सूर्यः॑ ।

यस्य॑ । इन्द्र॑स्य । सिन्ध॑वः । सश्च॑ति । व्र॒तम् । म॒रुत्व॑न्तम् । स॒ख्याय॑ । ह॒वा॒म॒हे॒ ॥३

यस्य । द्यावापृथिवी इति । पौंस्यम् । महत् । यस्य । व्रते । वरुणः । यस्य । सूर्यः ।

यस्य । इन्द्रस्य । सिन्धवः । सश्चति । व्रतम् । मरुत्वन्तम् । सख्याय । हवामहे ॥३

"यस्य इन्द्रस्य “महत् विपुलं “पौंस्यं बलं "द्यावापृथिवी द्यावापृथिव्यावनुवर्तेते । “यस्य चेन्द्रस्य “व्रते नियमरूपे कर्मणि "वरुणः वर्तते । वरुणोऽपीन्द्रस्य नियमनं नातिक्रामतीत्यर्थः । अपि च “सूर्यः अपि "यस्य इन्द्रस्य व्रते वर्तते । तथा "यस्य "इन्द्रस्य “व्रतं कर्म “सिन्धवः नद्यः "सश्चति । वचनव्यत्ययः । गच्छन्ति । सश्चतिर्गतिकर्मा । इन्द्रेणानुशिष्टाः प्रवहन्तीत्यर्थः । तं “मरुत्वन्तम् इन्द्रं “सख्याय आह्वयामहे ॥ द्यावापृथिवी । द्यौश्च पृथिवी च द्यावापृथिव्यौ । ‘ दिवो द्यावा ' इति द्यावादेशः । स चाद्युदात्तो निपातितः । पृथिवीशब्दो ङीष्प्रत्ययान्तः अन्तोदात्तः । ‘ देवताद्वन्द्वे च' इत्युभयपदप्रकृतिस्वरत्वम् । “ वा छन्दसि ' इति पूर्वसवर्णदीर्घः ॥


यो अश्वा॑नां॒ यो गवां॒ गोप॑तिर्व॒शी य आ॑रि॒तः कर्म॑णिकर्मणि स्थि॒रः ।

वी॒ळोश्चि॒दिंद्रो॒ यो असु॑न्वतो व॒धो म॒रुत्वं॑तं स॒ख्याय॑ हवामहे ॥४

यः । अश्वा॑नाम् । यः । गवा॑म् । गोऽप॑तिः । व॒शी । यः । आ॒रि॒तः । कर्म॑णिऽकर्मणि । स्थि॒रः ।

वी॒ळोः । चि॒त् । इन्द्रः॑ । यः । असु॑न्वतः । व॒धः । म॒रुत्व॑न्तम् । स॒ख्याय॑ । ह॒वा॒म॒हे॒ ॥४

यः । अश्वानाम् । यः । गवाम् । गोऽपतिः । वशी । यः । आरितः । कर्मणिऽकर्मणि । स्थिरः ।

वीळोः । चित् । इन्द्रः । यः । असुन्वतः । वधः । मरुत्वन्तम् । सख्याय । हवामहे ॥४

"यः इन्द्रः "अश्वानां पतिरधिपतिः । तथा "यः इन्द्रः "गोपतिः । न केवलमेकस्या गोः किंतु सर्वासामित्याह "गवाम् इति । सर्वासां गवाम् अधिपतिर्भवति । "वशी अपराधीनः । स्वतन्त्र इत्यर्थः । अपि च "यः इन्द्रः "कर्मणिकर्मणि सर्वेषु कर्मसु “स्थिरः नैश्चल्येनावतिष्ठमानः "आरितः स्तुतिभिः प्रत्यृतः प्राप्तो भवति । ‘आरितः प्रत्यृतः स्तोमान्' (निरु. ५. १५) इति निरुक्तम् । “यः च "इन्द्रः "असुन्वतः सुन्वतां यागानुष्ठातॄणां विरोधिनः "वीळोश्चित् दृढस्यापि शत्रोः "वधः हन्ता तं “मरुत्वन्तम् इन्द्रं "सख्याय आह्वयामहे ॥ गवाम् । न गोश्वन्साववर्ण° ' इति विभक्त्युदात्तत्वस्य प्रतिषेधः । गोपतिः ।' पत्यावैश्वर्ये ' इति पूर्वपदप्रकृतिस्वरत्वम् । आरितः । ‘ऋ ‘ गतौ । अस्मात् ण्यन्तात् निष्ठा । आगमानुशासनस्यानित्यत्वात् पुगभावः । यद्वा । ‘ सूचिसूत्रिमूञ्यट्यर्त्यशूर्णोतीनाम् ' (पा. म. ३. १. २२. ३) इति विहितस्य यङः ‘यङोऽचि च' इत्यत्र चशब्देन बहुलग्रहणानुकर्षणादनैमित्तिके लुकि प्रत्ययलक्षणेन ‘ सन्यङोः ' इति ऋ इत्येतस्य द्विर्वचने उरदत्वहलादिशेषयोः सतोः ‘ रुग्रिकौ च लुकि ' इति रुक् । ततो निष्ठायां छान्दस इडागमः। ऋकारस्य यणादेशः । ‘रो रि' इति अभ्यासरेफलोपः । ‘ ढ्रलोपे पूर्वस्य दीर्घाऽणः' इति दीर्घत्वम् । वधः । ‘ कृत्यल्युटो बहुलम्' इति बहुलवचनात् ' हनश्च वधः' इति कर्तरि अप् वधादेशश्च । स. चादन्तः । अतो लोपे उदात्तनिवृत्तिस्वरेण प्रत्ययस्य उदात्तत्वम्॥


यो विश्व॑स्य॒ जग॑तः प्राण॒तस्पति॒र्यो ब्र॒ह्मणे॑ प्रथ॒मो गा अविं॑दत् ।

इंद्रो॒ यो दस्यूँ॒रध॑राँ अ॒वाति॑रन्म॒रुत्वं॑तं स॒ख्याय॑ हवामहे ॥५

यः । विश्व॑स्य । जग॑तः । प्रा॒ण॒तः । पतिः॑ । यः । ब्र॒ह्मणे॑ । प्र॒थ॒मः । गाः । अवि॑न्दत् ।

इन्द्रः॑ । यः । दस्यू॑न् । अध॑रान् । अ॒व॒ऽअति॑रत् । म॒रुत्व॑न्तम् । स॒ख्याय॑ । ह॒वा॒म॒हे॒ ॥५

यः । विश्वस्य । जगतः । प्राणतः । पतिः । यः । ब्रह्मणे । प्रथमः । गाः । अविन्दत् ।

इन्द्रः । यः । दस्यून् । अधरान् । अवऽअतिरत् । मरुत्वन्तम् । सख्याय । हवामहे ॥५

“यः इन्द्रः “विश्वस्य "जगतः गच्छतः "प्राणतः प्रश्वसतः प्राणिजातस्य “पतिः स्वामी "यः च “ब्रह्मणे ब्राह्मणजातिभ्योऽङ्गिरोभ्यः "प्रथमः अन्येभ्यो देवेभ्यः पूर्वभावी सन् पणिभिरपहृताः “गा: “अविन्दत् अलभत । अन्येभ्यो देवेभ्यः पूर्वमेव तैरसुरैर्युद्ध्वा गाः स्वयमलभतेत्यर्थः । अपि च "यः "इन्द्रः “दस्यून् उपक्षपयितॄनसुरान् "अधरान निकृष्टान् कृत्वा "अवातिरत् अवधीत् । अवतरतिर्वधकर्मा । तं "मरुत्वन्तम् इन्द्रं "सख्याय आह्वयामहे ॥ जगतः । ‘ गम्लृ सप्लृ गतौ' । वर्तमाने पृषद्बृहन्महज्जगच्छतृवच्च' ( उ. सू. २. २४१ ) इति अतिप्रत्ययान्तो निपातितो जगच्छब्द आद्युदात्त: । प्राणतः । ‘ श्वस प्राणने, अन च ' । अस्मात् लटः शतृ । अदादित्वात् शपो लुक् । ‘ शतुरनुमः' इति विभक्तेरुदात्तत्वम् । षष्ठ्याः पतिपुत्र' इति विसर्जनीयस्य सत्वम् ।।


यः शूरे॑भि॒र्हव्यो॒ यश्च॑ भी॒रुभि॒र्यो धाव॑द्भिर्हू॒यते॒ यश्च॑ जि॒ग्युभिः॑ ।

इंद्रं॒ यं विश्वा॒ भुव॑ना॒भि सं॑द॒धुर्म॒रुत्वं॑तं स॒ख्याय॑ हवामहे ॥६

यः । शूरे॑भिः । हव्यः॑ । यः । च॒ । भी॒रुऽभिः॑ । यः । धाव॑त्ऽभिः । हू॒यते॑ । यः । च॒ । जि॒ग्युभिः॑ ।

इन्द्र॑म् । यम् । विश्वा॑ । भुव॑ना । अ॒भि । स॒म्ऽद॒धुः । म॒रुत्व॑न्तम् । स॒ख्याय॑ । ह॒वा॒म॒हे॒ ॥६

यः । शूरेभिः । हव्यः । यः । च । भीरुऽभिः । यः । धावत्ऽभिः । हूयते । यः । च । जिग्युभिः ।

इन्द्रम् । यम् । विश्वा । भुवना । अभि । सम्ऽदधुः । मरुत्वन्तम् । सख्याय । हवामहे ॥६

"यः इन्द्रः "शूरेभिः शौर्योपेतैः पुरुषैः "हव्यः योद्धुमाह्वातव्यः । "यश्च “भीरुभिः भयशीलैः कातरैः पुरुषैः सहायार्थमाह्वातव्यः । अपि च "यः इन्द्रः “धावद्भिः पराजयेन पलायमानैः “हूयते रक्षार्थमाहूयते । "यश्च जिग्युभिः प्राप्तजयैराहूयते । "यं च “इन्द्रं "विश्वा "भुवना सर्वाणि भूतजातानि स्वेषु स्वेषु कार्येषु "अभि "संदधुः आभिमुख्येन स्थापयन्ति । तं "मरुत्वन्तम् इन्द्रं "सख्याय आह्वयामहे ॥ शूरेभिः । ‘ बहुलं छन्दसि ' इति भिस ऐसभावः । हव्यः । ह्वयतेः ‘ अचो यत्' इति यत् । “ ह्वः' इत्यनुवृत्तौ ‘ बहुलं छन्दसि' इति संप्रसारणम् । गुणे ‘ धातोस्तन्निमित्तस्यैव' इति अवादेशः । भीरुभिः । ‘ भियः क्रुक्लुकनौ ' ( पा. सू. ३. २. १७४) इति क्रुप्रत्ययः । धावद्भिः । ‘ सृ गतौ । सर्तेः वेगितायां शपि : पाध्रा०' इत्यादिना धावादेशः। शपः पित्त्वात् अनुदात्तत्वम् । शतुश्च लसार्वधातुकस्वरेण धातुस्वरः शिष्यते । जिग्युभिः ।' जि जये। लिटः क्वसुः । द्विर्वचने ‘ सन्लिटोर्जेः' इति अभ्यासादुत्तरस्य जकारस्य कुत्वम् । भिसि अयस्मयादित्वेन भत्वात् ‘ वसोः संप्रसारणम्' इति संप्रसारणम् । छान्दसोऽन्त्यलोपः ॥ ॥ १२ ॥


रु॒द्राणा॑मेति प्र॒दिशा॑ विचक्ष॒णो रु॒द्रेभि॒र्योषा॑ तनुते पृ॒थु ज्रयः॑ ।

इंद्रं॑ मनी॒षा अ॒भ्य॑र्चति श्रु॒तं म॒रुत्वं॑तं स॒ख्याय॑ हवामहे ॥७

रु॒द्राणा॑म् । ए॒ति॒ । प्र॒ऽदिशा॑ । वि॒ऽच॒क्ष॒णः । रु॒द्रेभिः॑ । योषा॑ । त॒नु॒ते॒ । पृ॒थु । ज्रयः॑ ।

इन्द्र॑म् । म॒नी॒षा । अ॒भि । अ॒र्च॒ति॒ । श्रु॒तम् । म॒रुत्व॑न्तम् । स॒ख्याय॑ । ह॒वा॒म॒हे॒ ॥७

रुद्राणाम् । एति । प्रऽदिशा । विऽचक्षणः । रुद्रेभिः । योषा । तनुते । पृथु । ज्रयः ।

इन्द्रम् । मनीषा । अभि । अर्चति । श्रुतम् । मरुत्वन्तम् । सख्याय । हवामहे ॥७

“विचक्षणः सूर्यात्मना प्रकाशमान इन्द्रः "रुद्राणां रुद्रपुत्राणाम् अध्यात्मं प्राणरूपेण वर्तमानानां मरुताम् । यद्वा । रोदयितॄणां प्राणानाम् । प्राणा हि शरीरात् निर्गताः सन्तो बन्धुजनान् रोदयन्ति । “प्रदिशा प्रदेशनेन मनुष्येभ्यः प्रदानेन सह “एति अन्तरिक्षे गच्छति। तथा चाम्नायते- योऽसौ तपन्नुदेति स सर्वेषां भूतानां प्राणानादायोदेति ' ( तै. आ. १. १४. १ ) इति । अपि च "रुद्रेभिः अधिभूतं वर्तमानैः रुद्रपुत्रैर्मरुद्भिः "योषा माध्यमिका वाक् "पृथु विस्तीर्णं “ज्रयः वेगं "तनुते विस्तारयति । प्रसंगादत्र मरुतां स्तुतिः । तैर्मरुद्भिः सह वर्तमानं “श्रुतं प्रख्यातं सूर्यात्मानम् "इन्द्रं मनीषा स्तुतिलक्षणा वाक् “अभ्यर्चति आभिमुख्येन स्तौति । तं मरुत्वन्तम् इन्द्रं "सख्याय आह्वयामहे ॥ प्रदिशा । ‘ दिश अतिसर्जने' । संपदादिलक्षणो भावे क्विप्। ज्रयः । ‘ जि ज्रि अभिभवे । ज्रीयतेऽभिभूयतेऽजेनेति ज्रयो वेगः । करणे असुन् । मनीषा । ईषाअक्षादित्वात् प्रकृतिभावः ।।


यद्वा॑ मरुत्वः पर॒मे स॒धस्थे॒ यद्वा॑व॒मे वृ॒जने॑ मा॒दया॑से ।

अत॒ आ या॑ह्यध्व॒रं नो॒ अच्छा॑ त्वा॒या ह॒विश्च॑कृमा सत्यराधः ॥८

यत् । वा॒ । म॒रु॒त्वः॒ । प॒र॒मे । स॒धऽस्थे॑ । यत् । वा॒ । अ॒व॒मे । वृ॒जने॑ । मा॒दया॑से ।

अतः॑ । आ । या॒हि॒ । अ॒ध्व॒रम् । नः॒ । अच्छ॑ । त्वा॒ऽया । ह॒विः । च॒कृ॒म॒ । स॒त्य॒ऽरा॒धः॒ ॥८

यत् । वा । मरुत्वः । परमे । सधऽस्थे । यत् । वा । अवमे । वृजने । मादयासे ।

अतः । आ । याहि । अध्वरम् । नः । अच्छ । त्वाऽया । हविः । चकृम । सत्यऽराधः ॥८

हे “मरुत्वः मरुद्भिर्युक्तेन्द्र "परमे उत्कृष्टे "सधस्थे सहस्थाने गृहे "यद्वा यदि वा "मादयासे । तृप्तो वर्तसे । "यद्वा यदि वा "अवमे अर्वाचीने “वृजने । वृज्यते रिक्तीक्रियतेऽस्मिन् धनमिति वृजनं गृहम् । तस्मिन् मादयासे । "अतः अस्मादुभयविधात् स्थानात् "नः अस्माकं "अध्वरं यज्ञम् “अच्छ आभिमुख्येन “आ “याहि आगच्छ । हे "सत्यराधः सत्यधन" “त्वाया त्वत्कामनया वयं “हविश्चकृम कृतवन्तः ।। मरुत्वः । ‘ मतुवसो रुः० ' इति संबुद्धौ नकारस्य रुत्वम् । सधस्थे । ‘ सुपि स्थः' इति कप्रत्ययः । ‘ सध मादस्थयोश्छन्दलि' इति सहस्य सधादेशः । मादयासे । ‘ मद तृप्तियोगे'। चुरादिरात्मनेपदी । लेटि आडागमः । त्वाया । त्वामात्मन इच्छति । ‘ सुप आत्मनः क्यच् ' । ‘ प्रत्ययोत्तरपदयोश्च ' इति मपर्यन्तस्य त्वादेशः । व्यत्ययेन दकारस्य आत्वम् । 'अ प्रत्ययात्' इति अकारप्रत्ययः । सुपां सुलुक्' इति तृतीयाया लुक् ॥


त्वा॒येंद्र॒ सोमं॑ सुषुमा सुदक्ष त्वा॒या ह॒विश्च॑कृमा ब्रह्मवाहः ।

अधा॑ नियुत्वः॒ सग॑णो म॒रुद्भि॑र॒स्मिन्य॒ज्ञे ब॒र्हिषि॑ मादयस्व ॥९

त्वा॒ऽया । इ॒न्द्र॒ । सोम॑म् । सु॒सु॒म॒ । सु॒ऽद॒क्ष॒ । त्वा॒ऽया । ह॒विः । च॒कृ॒म॒ । ब्र॒ह्म॒ऽवा॒हः॒ ।

अध॑ । नि॒यु॒त्वः॒ । सऽग॑णः । म॒रुत्ऽभिः॑ । अ॒स्मिन् । य॒ज्ञे । ब॒र्हिषि॑ । मा॒द॒य॒स्व॒ ॥९

त्वाऽया । इन्द्र । सोमम् । सुसुम । सुऽदक्ष । त्वाऽया । हविः । चकृम । ब्रह्मऽवाहः ।

अध । नियुत्वः । सऽगणः । मरुत्ऽभिः । अस्मिन् । यज्ञे । बर्हिषि । मादयस्व ॥९

हे "सुदक्ष शोभनबल “इन्द्र “त्वाया त्वत्कामनया "सोमं "सुषुम अभिषुतवन्तो वयम् । हे “ब्रह्मवाहः ब्रह्मणा मन्त्ररूपेण स्तोत्रेणोह्यमान प्राप्यमाणेन्द्र “त्वाया त्वत्कामनया आहवनीये पुरोडाशलक्षणं “हविश्चकृम कृतवन्तः। हे “नियुत्वः । नियुतोऽश्वाः । तद्वन्निन्द्र "अधा अनन्तरं "मरुद्भिः सप्तगणरूपैरेतत्संज्ञैर्देवैः "सगणः गणसहितः सन् 'अस्मिन् वर्तमाने "यज्ञे “बर्हिषि आस्तीर्णे दर्भे उपविश्य "मादयस्व तृप्तो भव ॥ सुषुम ।' षुञ् अभिषवे'। लिटि क्रादिनियमप्राप्तस्य इटः “ अनित्यमागमशासनम्' इति वचनादभावः ॥


मा॒दय॑स्व॒ हरि॑भि॒र्ये त॑ इंद्र॒ वि ष्य॑स्व॒ शिप्रे॒ वि सृ॑जस्व॒ धेने॑ ।

आ त्वा॑ सुशिप्र॒ हर॑यो वहंतू॒शन्ह॒व्यानि॒ प्रति॑ नो जुषस्व ॥१०

मा॒दय॑स्व । हरि॑ऽभिः । ये । ते॒ । इ॒न्द्र॒ । वि । स्य॒स्व॒ । शिप्रे॒ इति॑ । वि । सृ॒ज॒स्व॒ । धेने॒ इति॑ ।

आ । त्वा॒ । सु॒ऽशि॒प्र॒ । हर॑यः । व॒ह॒न्तु॒ । उ॒शन् । ह॒व्यानि॑ । प्रति॑ । नः॒ । जु॒ष॒स्व॒ ॥१०

मादयस्व । हरिऽभिः । ये । ते । इन्द्र । वि । स्यस्व । शिप्रे इति । वि । सृजस्व । धेने इति ।

आ । त्वा । सुऽशिप्र । हरयः । वहन्तु । उशन् । हव्यानि । प्रति । नः । जुषस्व ॥१०

हे "इन्द्र "हरिभिः अश्वैः सह "मादयस्व तृप्तो भव । "ये "ते तव स्वभूतास्तदर्थं "शिप्रे हनू संहते “वि “ष्यस्व सोमपानार्थं विवृते कुरु । तथा “धेने पानसाधनभूते जिह्वोपजिह्विके "वि "सृजस्व सोमपानार्थं विश्लिष्टे कुरु । हे "सुशिप्र । शिप्रे हनू नासिके वा '। शोभनशिप्रेन्द्र “त्वा त्वां "हरयः अश्वाः "आ “वहन्तु अस्मदीयं यज्ञं प्रापयन्तु । त्वं च "उशन् अस्मान् कामयमानः "नः अस्माकं “हव्यानि हवींषि “प्रति "जुषस्व प्रत्येकं सेवस्व मा उदासिष्ठाः ॥ वि ष्यस्व । षो अन्तकर्मणि '। व्यत्ययेन आत्मनेपदम् । दिवादित्वात् श्यन् । ‘ओतः श्यनि ' ( पा. सू. ७. ३. ७१ ) इति ओकारलोपः ।' उपसर्गात्सुनोति° ' इति षत्वम् ॥


म॒रुत्स्तो॑त्रस्य वृ॒जन॑स्य गो॒पा व॒यमिंद्रे॑ण सनुयाम॒ वाजं॑ ।

तन्नो॑ मि॒त्रो वरु॑णो मामहंता॒मदि॑तिः॒ सिंधुः॑ पृथि॒वी उ॒त द्यौः ॥११

म॒रुत्ऽस्तो॑त्रस्य । वृ॒जन॑स्य । गो॒पाः । व॒यम् । इन्द्रे॑ण । स॒नु॒या॒म॒ । वाज॑म् ।

तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥११

मरुत्ऽस्तोत्रस्य । वृजनस्य । गोपाः । वयम् । इन्द्रेण । सनुयाम । वाजम् ।

तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः ॥११

“मरुत्स्तोत्रस्य । मरुद्भिः सह स्तोत्रं यस्य स मरुत्स्तोत्रः। तस्य "वृजनस्य शत्रूणां क्षेप्तुरिन्द्रस्य संबन्धिनः “गोपाः गोपायनीयाः रक्षणीयाः “वयं तेन "इन्द्रेण “वाजम् अन्नं "सनुयाम लभेमहि । यदेतदस्माभिः प्रार्थितं "नः अस्मदीयं "तत् मित्रादयो द्यावापृथिव्यौ च "ममहन्तां पूजितं कुर्वन्तु ॥ वृजनस्य । ‘वृजी वर्जने'। ‘कॄपॄवृजिमन्दिनिधाञ्भ्यः क्युः' इति क्युप्रत्ययः ॥ ॥ १३ ॥

[सम्पाद्यताम्]

कुत्सोपरि टिप्पणी


मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१०१&oldid=183172" इत्यस्माद् पुनः प्राप्तिः