सामग्री पर जाएँ

ऋग्वेदः सूक्तं १.१२

विकिस्रोतः तः
← सूक्तं १.११ ऋग्वेदः - मण्डल १
सूक्तं १.१२
मेधातिथिः काण्वः
सूक्तं १.१३ →
दे. अग्निः, ६ प्रथमपादस्य (निर्मथ्याहवनीयौ) अग्नी। गायत्री।
नारदीयपुराणम् १.५१.४८ अनुसारेण अग्नेः स्वरूपम्।चत्वारि शृङ्गेति वेदा वा एत उक्तास् त्रयो अस्य पादा इति सवनान्य् एव द्वे शीर्षे इति ब्रह्मौदनप्रवर्ग्याव् एव सप्त हस्तासो अस्येति छन्दांस्य् एव त्रिधा बद्ध इति मन्त्रः कल्पो ब्राह्मणम् - गो.ब्रा. १.२.१६


अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् ।
अस्य यज्ञस्य सुक्रतुम् ॥१॥
अग्निमग्निं हवीमभिः सदा हवन्त विश्पतिम् ।
हव्यवाहं पुरुप्रियम् ॥२॥
अग्ने देवाँ इहा वह जज्ञानो वृक्तबर्हिषे ।
असि होता न ईड्यः ॥३॥
ताँ उशतो वि बोधय यदग्ने यासि दूत्यम् ।
देवैरा सत्सि बर्हिषि ॥४॥
घृताहवन दीदिवः प्रति ष्म रिषतो दह ।
अग्ने त्वं रक्षस्विनः ॥५॥
अग्निनाग्निः समिध्यते कविर्गृहपतिर्युवा ।
हव्यवाड्जुह्वास्यः ॥६॥
कविमग्निमुप स्तुहि सत्यधर्माणमध्वरे ।
देवममीवचातनम् ॥७॥
यस्त्वामग्ने हविष्पतिर्दूतं देव सपर्यति ।
तस्य स्म प्राविता भव ॥८॥
यो अग्निं देववीतये हविष्माँ आविवासति ।
तस्मै पावक मृळय ॥९॥
स नः पावक दीदिवोऽग्ने देवाँ इहा वह ।
उप यज्ञं हविश्च नः ॥१०॥
स न स्तवान आ भर गायत्रेण नवीयसा ।
रयिं वीरवतीमिषम् ॥११॥
अग्ने शुक्रेण शोचिषा विश्वाभिर्देवहूतिभिः ।
इमं स्तोमं जुषस्व नः ॥१२॥


सायणभाष्यम्

चतुर्थानुवाके षट्सूक्तानि । तत्र • अग्नि दूतम्' इत्यादिकस्य द्वादशर्चस्य प्रथमस्य सूक्तस्य कण्वपुत्रो मेधातिथिर्ऋषिः । अपवादाभावादनुवर्तमानं प्राग्घिरण्यस्तूपात् ' ( अनु. १२. १४ ) इत्युक्तं गायत्रमेव छन्दः । अग्निदेवताकत्वं विस्पष्टम् । अत एवानुक्रम्यते-’ अग्निं द्वादश मेधातिथिः काण्व आग्नेयमग्निनेति पदो द्व्यग्निदैवतो निर्मथ्य आहवनीयश्च' इति । विनियोगस्तु प्रातरनुवाके आग्नेये क्रतौ गायत्रे छन्दसि ‘ अग्निं दूतम् ' इति सूक्तम् । अथैतस्या रात्रेर्विवासकाले ' इति खण्डे 'अग्निमीळेऽग्निं दूतम्' (आश्व.श्रौ.. ४. १३ ) इति सूत्रितम् । तथा पृष्ठ्यषडहस्य द्वितीयेऽहनि इदमेव सूक्तमाज्यशस्त्रम् । ‘पृष्ठ्यस्याभिप्लवेनोक्ते अहनी' इति खण्डे सूत्रितम्- अग्निं दूतमिति द्वितीये' (आश्व. श्रौ. ७. १० ) इति । दर्शपूर्णमासयोः सामिधेनीषु ‘अग्निं दूतम्' इत्येका। ‘नमः प्रवक्त्रे' इति खण्डे सूत्रितम्- ईळेन्यो नमस्यस्तिरोऽग्निं दूतं वृणीमहे ' ( आश्व. श्रौ. १. २) इति ॥


अ॒ग्निं दू॒तं वृ॑णीमहे॒ होता॑रं वि॒श्ववे॑दसम् ।

अ॒स्य य॒ज्ञस्य॑ सु॒क्रतु॑म् ॥१

अ॒ग्निम् । दू॒तम् । वृ॒णी॒म॒हे॒ । होता॑रम् । वि॒श्वऽवे॑दसम् ।

अ॒स्य । य॒ज्ञस्य॑ । सु॒ऽक्रतु॑म् ॥१

अग्निम् । दूतम् । वृणीमहे । होतारम् । विश्वऽवेदसम् ।

अस्य । यज्ञस्य । सुऽक्रतुम् ॥१

अग्नेर्दूतत्वम् एतन्मन्त्रव्याख्याने तैत्तिरीयब्राह्मणे समाम्नायते- अग्निर्देवानां दूत आसीदुशनाः काव्योऽसुराणाम् ' ( तै. सं. २. ५. ८. ५) इति । तादृशं देवदूतम् “अग्निम् अस्मिन् कर्मणि “वृणीमहे संभजामः । कीदृशम् । “होतारं देवानामाह्वातारं “विश्ववेदसं सर्वधनोपेतम् “अस्य प्रवर्तमानस्य “यज्ञस्य निष्पादकत्वेन “सुक्रतुं शोभनकर्माणं शोभनप्रज्ञं वा । ' मघम्' इत्यादिष्वष्टाविंशतिसंख्याकेषु धननामसु वेदस् शब्दः (नि. २. १०. ४) पठितः । होतारम् । ह्वेञ् स्पर्धायां शब्दे च'। ताच्छील्यादिषु तृन् । 'बहुलं छन्दसि ' ( पा. सू. ६. १. ३४ ) इति संप्रसारणे परपूर्वत्वे गुणः । नित्त्वादाद्युदात्तः। विश्ववेदसम्। ‘बहुव्रीहौ विश्वं संज्ञायाम् ' ( पा. सू. ६. २. १०६ ) इति पूर्वपदान्तोदात्तत्वम् । अस्य । ‘ ऊडिदम् ' ( पा. सू. ६. १. १७१ ) इत्यादिना विभक्तेरुदात्तत्वम् । सुक्रतुम् । ‘क्रत्वादयश्च' (पा. सू. ६. २. ११८) इत्याद्युदात्तत्वम् ॥


अ॒ग्निम॑ग्निं॒ हवी॑मभि॒ः सदा॑ हवन्त वि॒श्पति॑म् ।

ह॒व्य॒वाहं॑ पुरुप्रि॒यम् ॥२

अ॒ग्निम्ऽअ॑ग्निम् । हवी॑मऽभिः । सदा॑ । ह॒व॒न्त॒ । वि॒श्पति॑म् ।

ह॒व्य॒ऽवाह॑म् । पु॒रु॒ऽप्रि॒यम् ॥२

अग्निम्ऽअग्निम् । हवीमऽभिः । सदा । हवन्त । विश्पतिम् ।

हव्यऽवाहम् । पुरुऽप्रियम् ॥२

यद्यप्यग्निः स्वरूपेणैक एव तथापि प्रयोगभेदात् आहवनीयादिस्थानभेदात् पावकादिविशेषणभेदाद्वा बहुविधत्वमभिप्रेत्य ‘अग्निमग्निम्' इति वीप्सा । तं “हवीमभिः आह्वानकरणैर्मन्त्रैः “सदा “हवन्त निरन्तरमनुष्ठातार आह्वयन्ति। कीदृशम् । “विश्पतिं विशां प्रजानां होत्रादीनां पालकं “हव्यवाहं यजमानसमर्पितस्य हविषो देवान् प्रति वोढारम् । अत एव “पुरुप्रियं बहूनां प्रीत्यास्पदम् ॥ अग्निमग्निम् । नित्यवीप्सयोः' (पा. सू. ८. १. ४ ) इति वीप्सायां द्विर्भावः । तस्य परमाम्रेडितम् ' ( पा. सू. ८. १. २ ) इत्युत्तरस्य आम्रेडितसंज्ञायाम् ‘ अनुदात्तं च ' ( पा. सू. ८. १. ३) इत्यनुदात्तत्वम् । हवीमभिः । ‘ह्वेञ् स्पर्धायां शब्दे च । आह्वानकरणभूतेषु मन्त्रेषु स्वव्यापारस्वातन्त्र्यात् कर्तृत्वविवक्षया “ अन्येभ्योऽपि दृश्यन्ते ' ( पा. सू. ३. २. ७५) इति कर्तरि मनिन् । तस्य छान्दस ईडगमः । ‘ बहुलं छन्दसि ' ( पा. सू. ६. १. ३४) इति धातोः संप्रसारणं परपूर्वत्वं गुणावादेशौ । नित्त्वादाद्युदात्तत्वम् । सदा । सर्वैकान्य' (पा. सू. ५. ३. १५) इत्यादिना सर्वशब्दात् दाप्रत्ययः । ‘सर्वस्य सोऽन्यतरस्यां दि ' ( पा. सू. ५, ३. ६) इति सभावः । व्यत्ययेनाद्युदात्तत्वम् । हवन्त । ह्वेञो लट् । झस्य अन्तादेशः । टेः एत्वाभावश्छान्दसः । शपि ' बहुलं छन्दसि' इति संप्रसारणम् । ‘ तिङ्ङतिङः' इति निघातः । विश्पतिम् । ‘ पत्यावैश्वर्ये ' ( पा. सू. ६. २. १८) इति पूर्वपदप्रकृतिस्वरे प्राप्ते ‘परादिश्छन्दसि बहुलम् ' इत्युत्तरपदाद्युदात्तत्वम् । हव्यवाहम् । “ वह प्रापणे'। ‘ वहश्च ' (पा. सू. ३. २. ६४ ) इति ण्विप्रत्ययः । कृदुत्तरपदप्रकृतिस्वरत्वम् । पुरुप्रियम् । पुरूणां प्रियम् । समासान्तोदात्तत्वम् ॥


अग्ने॑ दे॒वाँ इ॒हा व॑ह जज्ञा॒नो वृ॒क्तब॑र्हिषे ।

असि॒ होता॑ न॒ ईड्य॑ः ॥३

अग्ने॑ । दे॒वान् । इ॒ह । आ । व॒ह॒ । ज॒ज्ञा॒नः । वृ॒क्तऽब॑र्हिषे ।

असि॑ । होता॑ । नः॒ । ईड्यः॑ ॥३

अग्ने । देवान् । इह । आ । वह । जज्ञानः । वृक्तऽबर्हिषे ।

असि । होता । नः । ईड्यः ॥३

हे अग्ने "जज्ञानः अरण्योरुत्पन्नस्त्वं वृक्तबर्हिषे अस्तरणार्थं छिन्नेन बर्हिषा युक्ताय तं यजमानमनुग्रहीतुम् “इह कर्मणि हविर्भुजः "देवान् “आ “वह । “नः अस्मदर्थं “होता देवानामाह्वाता त्वम् “ईड्यः स्तुत्यः “असि ॥ देवान् इत्यत्र संहितायां ' दीर्घादटि समानपादे' (पा. सू. ८. ३. ९) इति रुत्वम् । आतोऽटि नित्यम् ' ( पा. सू. ८. ३. ३) इत्यनुनासिकभावः । जज्ञानः । ‘ जनी प्रादुर्भावे । लिटः कानच् । ‘ गमहन° ' ( पा. सू. ६. ४.९८ ) इत्युपधालोपः। ‘ द्विर्वचनेऽचि' (पा. सू. १. १. ५९ ) इति तस्य स्थानिवद्भावात् द्विर्वचनम् । चित्त्वादन्तोदात्तः । वृक्तबर्हिषे । ‘ ओव्रश्चू छेदने'। 'निष्ठा' (पा. सू. ३. २. १०२ ) इति क्तप्रत्ययः । ‘ यस्य विभाषा ' ( पा. सू. ७. २. १५) इति इट्प्रतिषेधः । वृक्तं बर्हिर्यस्मै यजमानाय येन वा ऋत्विजा । बहुव्रीहौ पूर्वपदप्रकृतिस्वरः । असि । अस्तेः सिप् । अदिप्रभृतिभ्यः शपः' इति शपो लुक् । ' तासस्त्योर्लोपः ' ( पा. सू. ७. ४. ५० ) इति सकारस्य लोपः। पादादित्वात् न निघातः । होता । ह्वयतेस्ताच्छील्यादिषु तृन्। ‘ बहुलं छन्दसि ' ( पा. सू. ६. १. ३४ ) इति संप्रसारणम् । नित्त्वादाद्युदात्तः । ईड्यः । ‘ईड स्तुतौ । ‘ ऋहलोर्ण्यत् ' ( पा. सू. ३. १. १२४ )। तित्स्वरिते प्राप्ते ईडवन्दवृशंसदुहां ण्यतः ' ( पा. सू. ६. १. २१४ ) इत्याद्युदात्तत्वम् ।।


ताँ उ॑श॒तो वि बो॑धय॒ यद॑ग्ने॒ यासि॑ दू॒त्य॑म् ।

दे॒वैरा स॑त्सि ब॒र्हिषि॑ ॥४

तान् । उ॒श॒तः । वि । बो॒ध॒य॒ । यत् । अ॒ग्ने॒ । यासि॑ । दू॒त्य॑म् ।

दे॒वैः । आ । स॒त्सि॒ । ब॒र्हिषि॑ ॥४

तान् । उशतः । वि । बोधय । यत् । अग्ने । यासि । दूत्यम् ।

देवैः । आ । सत्सि । बर्हिषि ॥४

हे “अग्ने यत् यस्मात् कारणात् “दूत्यं “यासि देवानां दूतकर्म प्राप्नोषि तस्मात् कारणात् "उशतः हविः कामयमानान “तान् देवान् हविःस्वीकारार्थं “वि “बोधय । विबोध्य च “बर्हिषि अस्मिन् कर्मणि तैः “देवैः सह “आ “सत्सि आसीद आगत्योपविश ॥ तान् ।' दीर्घादटि समानपादे ' इति संहितायां रुत्वम् । आतोऽटि नित्यम्' इत्यनुनासिकभावः । उशतः । ‘ वश कान्तौ । लटः शतृ । ‘अदिप्रभृतिभ्यः शपः' इति शपो लुक् । ‘ ग्रहिज्या° ' (पा. सू. ६. १. १६ ) इत्यादिना संप्रसारणम् । ‘ शतुरनुमो नद्यजादी ' (पा. सू. ६. १. १७३) इति विभक्तेरुदात्तत्वम् । यासि । ‘ यद्वृत्तान्नित्यम् ' ( पा. सू. ८. १. ६६ ) इति निघातप्रतिषेधः । दूतस्य भागः कर्म वा दूत्यम् । दूतस्य भागकर्मणी ' ( पा. सू. ४. ४. १२० ) इति यत् । तस्य तित्स्वरितापवादत्वेन यतोऽनावः ' इति प्राप्तमाद्युदात्तत्वं सर्वे विधयश्छन्दसि विकल्प्यन्ते' इति निवर्तते । अतः ‘तित्स्वरितम् ' (पा. सू. ६. १. १८५) इत्येव भवति । शेषनिघातः । सत्सि सीदसि । षद्लृ विशरणगत्यवसादनेषु'। लटः सिपि शपो ‘बहुलं छन्दसि' इति लुक् । “न लुमताङ्गस्य ' (पा. सू. १. १. ६३) इति प्रत्ययलक्षणप्रतिषेधात् ‘पाघ्रा' (पा. सू. ७. ३. ७८ ) इत्यादिना सीदादेशो न भवति । बर्हिषि। ‘ बृह बृहि वृद्धौ'। बृंहेर्नलोपश्च' ( उ. सू. २. २६६ ) इति इसिप्रत्ययः । प्रत्ययस्वरेण इकार उदात्तः ॥


घृता॑हवन दीदिव॒ः प्रति॑ ष्म॒ रिष॑तो दह ।

अग्ने॒ त्वं र॑क्ष॒स्विन॑ः ॥५

घृत॑ऽआहवन । दी॒दि॒ऽवः॒ । प्रति॑ । स्म॒ । रिष॑तः । द॒ह॒ ।

अग्ने॑ । त्वम् । र॒क्ष॒स्विनः॑ ॥५

घृतऽआहवन । दीदिऽवः । प्रति । स्म । रिषतः । दह ।

अग्ने । त्वम् । रक्षस्विनः ॥५

हे घृताहवन घृतेनाहूयमान “दीदिवः दीप्यमान “अग्ने “त्वं “रक्षस्विनः रक्षोयुक्तान “रिषतः हिंसकान् शत्रून् “प्रति अस्माकं प्रतिकूलान् "दह "स्म सर्वथा भस्मीकुरु ॥ घृतेनाहूयतेऽस्मिन्निति ‘ करणाधिकरणयोश्च ' ( पा. सू. ३. ३. ११७ ) इत्यधिकरणे ल्युट् । अत्र जुहोतेः अविवक्षितकर्मत्वेन अकर्मकत्वात् घृतस्य करणत्वमेव न तु कर्मत्वम् । अतो नैषा तृतीया च होश्छन्दसि ' ( पा. सू. २. ३. ३) इति कर्मणि तृतीया । किंतु ' कर्तृकरणयोस्तृतीया ' ( पा. सू. २. ३. १८) इति करणवाचिन्येव । अतः ‘ कर्तृकरणे कृता बहुलम् ' ( पा. सू. २. १. ३२ ) इति समासः । तत्र पूर्वपदप्रकृतिस्वरापवादे कृदुत्तरपदप्रकृतिस्वरे प्रातिपदिकावस्थायामेव कृते सति पश्चात् विभक्तावुत्पन्नायाम् ' आमन्त्रितस्य च ' ( पा. सू. ६. १. १९८) इत्याद्युदात्तत्वम् । दीदिवः । दीव्यतेर्लिटः क्वसुः । तस्य ' वस्वेकाजाद्धसाम्' ( पा. सू. ७. २. ६७ ) इति नियमात् इडभावः । द्विर्वचनम्। हलादिशेषः । उत्तरवकारस्य लोपो व्योर्वलि ' ( पा. सू. ६. १. ६६) इति लोपः । क्वसुः । कित्त्वात् गुणाभावः । ‘ तुजादीनां दीर्घोऽभ्यासस्य ' ( पा. सू. ६. १. ७ ) इति दीर्घत्वमभ्यासस्य । संबुद्धौ ‘उगिदचाम्° ' ( पा. सू. ७. १. ७० ) इति नुम् । संयोगान्तस्य लोपः ' ( पा. सू. ८. २. २३ ) इति सकारलोपे नकारस्य मतुवसो रु संबुद्धौ छन्दसि ' (पा. सू. ८. ३. १ ) इति रुत्वम् । विसर्गः । पदात् परत्वात् आमन्त्रितनिघातः । ननु पूर्वामन्त्रितस्य अविद्यमानवत्त्वात् पादादित्वेन न निघातोपपत्तिः । न च ' नामन्त्रिते समानाधिकरणे सामान्यवचनम् ' ( पा. सू. ८. १. ७३ ) इत्यविद्यमानवत्त्वप्रतिषेधः; उभयोरग्निपदविशेषणत्वेन विशेषवचनत्वात् । अत एव परस्परमनन्वयेन असामर्थ्यात् ‘ समर्थः पदविधिः ' ( पा. सू. २. १. १ ) इति च नियमात् पूर्वस्य न पराङ्गवद्भावो येन ऐकपद्येन निघातः स्यात् । अत एव हि ‘ इडे रन्तेऽदिते सरस्वति' (तै. सं. ७. १. ६. ८) इत्यादौ पृथक् पृथक् आद्युदात्तत्वमिति । उच्यते–अत्र ' दीदिवः' इति नाग्निपदस्य विशेषणं किंतु घृताहवनपदस्यैव द्योतनार्थम् ; घृताहवन इति विशेष्यत्वेन विवक्षितत्वात् । विशिष्टस्य तु पश्चादग्निविशेषणता । तत्र दीदिवःपदं प्रति घृताहवनपदस्य विशेष्यत्वात् नामन्त्रिते समानाधिकरणे ! ( पा. सू. ८. १.७३ ) इत्यविद्यमानवत्वप्रतिषेधात् निघातोपपत्तिः । अत एव परस्परविशेषणविशेष्यभावेन सामर्थ्यात् “ सुबामन्त्रिते (पा. सू. २. १. २) इति पराङ्गवद्भावे शेषनिघातेनापि स्वरोपपत्तिरिति । इडे रन्ते' इत्यादौ तु नैवं परस्परान्वय इति वैषम्यम् । रिषतः । ‘ रुष रिष हिंसार्थाः ' इति । भौवादिकस्य लटः शत्रादेशे शपि छान्दसो गुणाभावः। तौदादिकस्य वा “ रुश रिश हिंसायाम् । इत्यस्य छान्दसं षत्वम् । विकरणस्य शस्य ङित्वाद्गुणाभावः । रक्षस्शब्दात् ' अस्मायामेधास्रजो विनिः' ( पा. सू. ५. २. १२१ ) इति मत्वर्थीयो विनिः । तस्य प्रत्ययाद्युदात्तत्वम् ॥


अग्निमन्थने ‘अग्निनाग्निः समिध्यते' इत्येषानुवचनीया । ‘ प्रातर्वैश्वदेव्यां प्रेषितः' इति खण्डे सूत्रितम्- अग्निनाग्निः समिध्यते त्वं ह्यग्ने अग्निना ' ( आश्व. श्रौ. २. १६) इति । एषैव अग्निमत इत्यस्य अनुवाक्या । ‘ अथाग्नेय्यः' इति खण्डे ‘ अग्नावग्निप्रणयने ' इत्युपक्रम्य सूत्रितं-’ यद्वो वयं प्रमिनाम व्रतान्यग्निनाग्निः समिध्यते ' ( आश्व. श्रौ. ३. १३ ) इति ।।

अ॒ग्निना॒ग्निः समि॑ध्यते क॒विर्गृ॒हप॑ति॒र्युवा॑ ।

ह॒व्य॒वाड्जु॒ह्वा॑स्यः ॥६

अ॒ग्निना॑ । अ॒ग्निः । सम् । इ॒ध्य॒ते॒ । क॒विः । गृ॒हऽप॑तिः । युवा॑ ।

ह॒व्य॒ऽवाट् । जु॒हुऽआ॑स्यः ॥६

अग्निना । अग्निः । सम् । इध्यते । कविः । गृहऽपतिः । युवा ।

हव्यऽवाट् । जुहुऽआस्यः ॥६

“अग्निः आहवनीयाख्यः तस्मिन् प्रक्षिप्यमाणेन “अग्निना निर्मथ्येन प्रणीतेन वा सह “समिध्यते सम्यक् दीप्यते । कीदृशोऽग्निः । "कविः मेधावी “गृहपतिः यजमानगृहस्य पालकः “युवा नित्यतरुणः हव्यवाट् हविषो वोढा "जुह्वास्यः जुहूरूपेण मुखेन युक्तः ॥ गृहपतिः ।' पत्यावैश्वर्ये' (पा. सू. ६. २. १८) इति पूर्वपदप्रकृतिस्वरत्वम् । युवा । ‘ यु मिश्रणे । ‘ कनिन्युवृषितक्षिराजधन्विद्युप्रतिदिवः ' ( उ. सू. १. १५४ ) इति कनिन् । नित्त्वादाद्युदात्तः । हव्यं वहतीति हव्यवाट् । “वहश्च (पा. सू. ३. २. ६४) इति ण्विप्रत्ययः। णित्वादुपधावृद्धिः । गतिकारकोपपदात् कृदुत्तरपदप्रकृतिस्वरत्वम् । जुह्वास्यः । हूयतेऽनयेति जुहूः । ‘ हुवः श्लुवच्च' (उ. सू. २. २१८) इति क्विप् । तत्संनियोगात् दीर्घः । श्लुवद्भावात् द्विर्भावः । चुत्वजश्त्वे । प्रातिपदिकस्वरेणान्तोदात्तः । जुहूः आस्यं यस्येति बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वेन स एव शिष्यते । शेषनिघातः । यणादेशे ‘ उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य ' ( पा. सू. ८. २. ४ ) इति आकारः स्वरितः ॥ ॥ २२ ॥


क॒विम॒ग्निमुप॑ स्तुहि स॒त्यध॑र्माणमध्व॒रे ।

दे॒वम॑मीव॒चात॑नम् ॥७

क॒विम् । अ॒ग्निम् । उप॑ । स्तु॒हि॒ । स॒त्यऽध॑र्माणम् । अ॒ध्व॒रे ।

दे॒वम् । अ॒मी॒व॒ऽचात॑नम् ॥७

कविम् । अग्निम् । उप । स्तुहि । सत्यऽधर्माणम् । अध्वरे ।

देवम् । अमीवऽचातनम् ॥७

हे स्तोतृसंघ “अध्वरे क्रतौ “अग्निम् “उप “स्तुहि उपेत्य स्तुतिं कुरु । कीदृशम् । “कविं मेधाविनं "सत्यधर्मार्ण सत्यवदनरूपेण धर्मेणोपेतं देवं द्योतमानम् “अमीवचातनम् अमीवानां हिंसकानां शत्रूणां रोगाणां वा घातकम् ॥ सत्यं धर्मो यस्येति सत्यधर्मा । ‘ धर्मादनिच् केवलात् ' ( पा. सू. ५. ४. १२४) इति अनिच् समासान्तः । अन्तःपदेन तस्य समासत्वाभिधानात् बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वे शेषनिघातेनानुदात्तत्वम् । अमीवशब्दः ‘ अम रोगे' इत्यस्मात् ‘शेवयह्वजिह्वाग्रीवाप्वामीवाः' (उ. सू. १. १५२ ) इति वन्प्रत्यये ईडागमे च निपातितः । नित्त्वादाद्युदात्तः । ‘चते चदे याचने च ' इत्यस्मात् हिंसार्थात् णिजन्तात् नन्द्यादित्वात् ल्युः ( पा. सू. ३. १. १३४ ) । योरनादेशः (पा. सू. ७. १. १ )। ‘णेरनिटि' (पा. ६. ४. ५१ ) इति णेर्लोपः । ‘लिति' (पा. सू. ६. १. १९३) इति धातोः अकारस्योदात्तत्वम् । न च स्वरे कर्तव्ये णिलोपस्य स्थानिवद्भावः; ‘न पदान्तद्विर्वचन (पा. सू. १. १. ५८) इत्यादिना प्रतिषेधात् । अमीवानां चातनः इति समासे कृदुत्तरपदप्रकृतिस्वरेण स एव शिष्यते ॥


यस्त्वाम॑ग्ने ह॒विष्प॑तिर्दू॒तं दे॑व सप॒र्यति॑ ।

तस्य॑ स्म प्रावि॒ता भ॑व ॥८

यः । त्वाम् । अ॒ग्ने॒ । ह॒विःऽप॑तिः । दू॒तम् । दे॒व॒ । स॒प॒र्यति॑ ।

तस्य॑ । स्म॒ । प्र॒ऽअ॒वि॒ता । भ॒व॒ ॥८

यः । त्वाम् । अग्ने । हविःऽपतिः । दूतम् । देव । सपर्यति ।

तस्य । स्म । प्रऽअविता । भव ॥८

हे “अग्ने “देव "यः "हविष्पतिः यजमानः देवदूतं “त्वां “सपर्यति परिचरति “तस्य यजमानस्य प्राविता "भव “स्म अवश्यं रक्षको भव ॥ हूयते इति हविः । ‘ अर्चिशुचि' (उ. सू. २. २६५) इत्यादिना इसिः । प्रत्ययस्वरेण इकार उदात्तः । हविषः पतिर्ह विष्पतिः । ‘ नित्यं समासेऽनुत्तरपदस्थस्य ' (पा. सू. ८. ३. ४५) इति षत्वम् । “ पत्यावैश्वर्ये' (पा. सू. ६. २. १८) इति पूर्वपदप्रकृतिस्वरत्वम् । सपरशब्दात् ‘कण्ड्वादिभ्यो यक्' ( पा. सू. ३. १. २७) इति यक् । धातुप्रकरणात् गुणप्रतिषेधाद्यर्थात् यकः कित्वाच्च सपरशब्दस्य धातुत्वात् ततो विहितस्य यकः आर्धधातुकत्वे सति अतो लोपः' (पा. सू. ६. ४. ४८) इति लोपः। ‘सनाद्यन्ता धातवः' (पा. सू. ३. १. ३२) इति धातुसंज्ञायां तिप् । कर्तरि शप् । तस्मिन् पूर्वस्य ‘ अतो गुणे' (पा. सू. ६. १. ९७) इति परपूर्वत्वम् । यकः प्रत्ययस्वरेणोदात्तत्वम् । शपा सह एकादेशरय एकादेश उदात्तेनोदात्तः' (पा. सू. ८. २. ५) इत्युदात्तत्वम् । तिङ्ङतिङः' इति निघातो न भवति । यद्वृत्तान्नित्यम्' (पा. सू. ८. १. ६६ ) इति प्रतिषेधात् ॥


गार्हपत्याहवनीययोः परस्परसंसर्गे विहितस्य हविषो याज्या ‘ यो अग्निं देववीतये । इत्येषा । ‘ अथाग्नेय्य इष्टयः' इति खण्डे सूत्रितं-’ यो अग्निं देववीतये कुवित्सु नो गविष्टये ( आश्व. श्रौ. ३. १३) इति ।

यो अ॒ग्निं दे॒ववी॑तये ह॒विष्माँ॑ आ॒विवा॑सति ।

तस्मै॑ पावक मृळय ॥९

यः । अ॒ग्निम् । दे॒वऽवी॑तये । ह॒विष्मा॑न् । आ॒ऽविवा॑सति ।

तस्मै॑ । पा॒व॒क॒ । मृ॒ळ॒य॒ ॥९

यः । अग्निम् । देवऽवीतये । हविष्मान् । आऽविवासति ।

तस्मै । पावक । मृळय ॥९

हविष्मान् हविर्युक्तः “यः यजमानः देववीतये देवानां हविर्भक्षणहेतुयोगार्थम् “अग्निम् “आविवासति अग्नेः समीपे विशेषेणागत्य परिचर्यां करोति । हे “पावक अग्ने “तस्मै “मृळय तं यजमानं सुखय । देववीतये। ‘वी गतिप्रजनकान्त्यशनखादनेषु' इत्यस्मात् अशनार्थात् क्तिन् । देवानां वीतिर्यस्मिन् यागे स देववीतिः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । हविष्मान् । ‘ नब्विषयस्यानिसन्तस्य ' (फि. सू. २६) इति पर्युदासात् हविःशब्दोऽन्तोदात्तः । मतुपः सर्वानुदात्तत्वात् स एव शिष्यते । आविवासति । ‘वा गतिगन्धनयोः' । अस्मात् अन्तर्भावितण्यर्थात् आगमयितुमिच्छतीत्यर्थे सन् । आह्वानेच्छा परिचर्यायां पर्यवस्यतीति विवासतिशब्दः परिचर्यार्थे निघण्टौ (नि.३.५.१०) पठितः। द्विर्भावः । अभ्यासस्य ह्रस्वः। ‘ सन्यतः '(पा. सू. ७.४.७९) इति इत्वम् । ‘नित्यादिर्नित्यम् ( पा. सू. ६. १. १९७ ) इत्याद्युदात्तत्वम् । तिङ्ङतिङः' इति निघातो न भवति ‘यद्वृत्तान्नित्यम् ' (पा. सू. ८, १. ६६ ) इति प्रतिषेधात् । ‘तिङि चोदात्तवति' (पा. सू. ८. १, ७१ ) इति आङो निघातः । ‘सह सुपा' (पा. सू. २. १. ४) इत्यत्र सहेति योगविभागात् आङस्तिङासह समासे समासान्तोदात्तत्वे प्राप्ते परादिश्छन्दसि बहुलम् ' ( पा. सू. ६. २. १९९) इत्युत्तरपदाद्युदात्तत्वम् । तस्मै । ‘ क्रियाग्रहणं कर्तव्यम्' (पा. म. १. ४. ३२. १ ) इति संप्रदाने चतुर्थी ॥


पवमानेष्टौ अग्नेः पावकस्यानुवाक्या ‘ स नः पावक दीदिवः' इति । ' पौर्णमासेनेष्टिपशुसोमा उपदिष्टाः' इति खण्डे सूत्रितं- स नः पावक दीदिवोऽग्ने पावक रोचिषा' (आश्व. श्रौ. २. १) इति ।।

स न॑ः पावक दीदि॒वोऽग्ने॑ दे॒वाँ इ॒हा व॑ह ।

उप॑ य॒ज्ञं ह॒विश्च॑ नः ॥१०

सः । नः॒ । पा॒व॒क॒ । दी॒दि॒ऽवः॒ । अग्ने॑ । दे॒वान् । इ॒ह । आ । व॒ह॒ ।

उप॑ । य॒ज्ञम् । ह॒विः । च॒ । नः॒ ॥१०

सः । नः । पावक । दीदिऽवः । अग्ने । देवान् । इह । आ । वह ।

उप । यज्ञम् । हविः । च । नः ॥१०

हे "दीदिवः दीप्यमान “पावक शोधक “अग्ने “सः त्वं “नः अस्मदर्थम् “इह देवयजनदेशे "देवान् “आ “वह । ततः “नः अस्मदीयं यज्ञं तत्रत्यं "हविश्च “उप देवसमीपे प्रापयेति शेषः ॥ दीदिवः । ‘ दिवु क्रीडादौ । छन्दसि लुङ्लङ्लिटः ' ( पा. सू. ३. ४. ६ ) इति वर्तमाने लिट् । क्वसुः ।। द्विर्भावो हलादिशेषः । ‘ तुजादीनां दीर्घोऽभ्यासस्य ' (पा. सू. ६. १. ७) इत्यभ्यासस्य दीर्घत्वम्। ‘वस्वेकाजाद्धसाम् ' ( पा. सू. ७. २. ६७ ) इति नियमात वसोः इट्प्रतिषेधः । लोपो व्योर्वलि ' ( पा. सू. ६. १. ६६ ) इति वकारलोपः । संबुद्धौ । उगिदचां° ' ( पा. सू. ७. १. ७० ) इत्यादिना नुम् । हल्या सदिलोपः संयोगान्तलोपः । ‘ मतुवसोः' इति रुत्वम् । विसर्गः । अग्ने । पादादित्वात् न निघातः । देवाँ इहेत्यत्र ‘ दीर्घादटि समानपादे ' ( पा. सू. ८. ३. ९ ) इति रुत्वम् । अतोऽटि नित्यम्' इति आकारस्यानुनासिकः । ‘ भोभगोअघोअपूर्वस्य योऽशि ( पा. सू. ८. ३. १७ ) इति रोर्यकारः। ‘ लोपः शाकल्यस्य ' (पा. सू. ८. ३. १९ ) इति यकारलोपः । तस्यासिद्धत्वात् आद्गुणो न भवति । इह । इदमो हः' (पा. सू. ५. ३. ११ ) इति सप्तम्यन्तात् हप्रत्ययः । इदम इश्' (पा. सू. ५. ३. ३)। तद्धितान्तत्वात् प्रातिपदिकत्वे ‘सुपो धातुप्रातिपदिकयोः ' ( पा. सू. २. ४. ७१ ) इति सप्तम्या लुक् । तद्धितश्चासर्वविभक्तिः ' ( पा. सू. १. १. ३८) इत्यव्ययसंज्ञायाम् अव्ययादाप्सुपः ' ( पा. सू. २. ४. ८२ ) इत्युत्तरस्याः सप्तम्या लुक् । अकारः प्रत्ययस्वरेणोदात्तः ॥


स न॒ः स्तवा॑न॒ आ भ॑र गाय॒त्रेण॒ नवी॑यसा ।

र॒यिं वी॒रव॑ती॒मिष॑म् ॥११

सः । नः॒ । स्तवा॑नः । आ । भ॒र॒ । गा॒य॒त्रेण॑ । नवी॑यसा ।

र॒यिम् । वी॒रऽव॑तीम् । इष॑म् ॥११

सः । नः । स्तवानः । आ । भर । गायत्रेण । नवीयसा ।

रयिम् । वीरऽवतीम् । इषम् ॥११

हे अग्ने "नवीयसा नवतरेण पूर्वकैरप्यसंपादितेन “गायत्रेण गायत्रीच्छन्दस्केनानेन सूक्तेन “स्तवानः स्तूयमानः “सः त्वं “नः अस्मदर्थं “रयिं धनं वीरवतीं शूरपुत्रप्रभृत्यपत्ययुक्ताम् “इषम् अन्नं च “आ “भर संपादय ॥ स्तवानः । ‘ष्टुञ् स्तुतौ । ‘ धात्वादेः षः सः । ‘ स्वरितञितः०' (पा. सू. १. ३. ७२ ) इत्यात्मनेपदम् । लटः शानच् । कर्तरि शप् । 'बहुलं छन्दसि ' ( पा. सू. २. ४. ७३ ) इति लुगभावः । गुणावादेशौ । ‘ आने मुक्' (पा. सू. ७. २.८२ ) इति मुक् न भवति, ‘ अनित्यमागमशासनम् ' ( परिभा. ९६ ) इत्यागमानुशासनस्य अनित्यत्वात् । शपः पित्त्वादनुदात्तत्वम् । शानचश्चित्वादन्तोदात्तस्य अदुपदेशात् शपः परत्वात् लसार्वधातुकानुदात्तत्वम् । धातुस्वर एव शिष्यते । भर । ‘ हृग्रहोर्भश्छन्दसि ' (पा. सू. ८. २. ३२. १ ) इति भत्वम् । गायत्रेण । गायत्र्याः संबन्धि गायत्रम् । तस्येदम् ' ( पा. सू. ४. ३. १२० ) इति अण्प्रत्ययः । प्रत्ययस्वरः । नवीयसा । नवशब्दात् आतिशायनिकः ईयसुन्प्रत्ययः । नित्त्वादाद्युदात्तः । वीरवतीम् । मतुब्ङीपोः पित्त्वादनुदात्तत्वम् । अकारः प्रातिपदिकस्वरेणोदात्तः ॥


अग्ने॑ शु॒क्रेण॑ शो॒चिषा॒ विश्वा॑भिर्दे॒वहू॑तिभिः ।

इ॒मं स्तोमं॑ जुषस्व नः ॥१२

अग्ने॑ । शु॒क्रेण॑ । शो॒चिषा॑ । विश्वा॑भिः । दे॒वहू॑तिऽभिः ।

इ॒मम् । स्तोम॑म् । जु॒ष॒स्व॒ । नः॒ ॥१२

अग्ने । शुक्रेण । शोचिषा । विश्वाभिः । देवहूतिऽभिः ।

इमम् । स्तोमम् । जुषस्व । नः ॥१२

हे “अग्ने “शुक्रेण “शोचिषा त्वदीयश्वेतवर्णदीप्त्या “विश्वाभिर्देवहूतिभिः त्वत्कृतसर्वदेवताह्वानसाधनस्तोत्रैश्च युक्तस्त्वं “नः अस्मदीयम् “इमं “स्तोमं स्तोत्रविशेषं “जुषस्व सेवस्व ॥ विश्वशब्दो विशेः क्वनन्तो नित्त्वादाद्युदात्तः । देवहूतिभिः । देवशब्दः पचाद्यजन्तः । चित्त्वादन्तोदात्तः । देवानां हूतय आह्वानान्यासु स्तुतिष्विति देवहूतयः स्तुतयः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । स्तूयतेऽनेनेति स्तोमः। ‘ अर्तिस्तुसु° ' ( उ. सू. १. १३७ ) इत्यादिना मन् । नित्त्वादाद्युदात्तः ॥ ॥ २३ ॥

मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१२&oldid=303811" इत्यस्माद् प्रतिप्राप्तम्