ऋग्वेदः सूक्तं १.१४२

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं १.१४१ ऋग्वेदः - मण्डल १
सूक्तं १.१४२
दीर्घतमा औचथ्यः।
सूक्तं १.१४३ →
दे. दे. आप्रीसूक्तं - १ इध्मः समिद्धोऽग्निर्वा, २ तनूनपात्, ३ नराशंसः, ४ इळः, ५ बर्हिः, ६ देवीर्द्वारः, ७ उषासानक्ता, ८ दैव्यौ होतारौ प्रचेतसौ, ९ तिस्रो देव्यः सरस्वतीळाभारत्यः, १० त्वष्टा, ११ वनस्पतिः, १२ स्वाहाकृतयः, १३ इन्द्रः । । अनुष्टुप् ।


समिद्धो अग्न आ वह देवाँ अद्य यतस्रुचे ।
तन्तुं तनुष्व पूर्व्यं सुतसोमाय दाशुषे ॥१॥
घृतवन्तमुप मासि मधुमन्तं तनूनपात् ।
यज्ञं विप्रस्य मावतः शशमानस्य दाशुषः ॥२॥
शुचिः पावको अद्भुतो मध्वा यज्ञं मिमिक्षति ।
नराशंसस्त्रिरा दिवो देवो देवेषु यज्ञियः ॥३॥
ईळितो अग्न आ वहेन्द्रं चित्रमिह प्रियम् ।
इयं हि त्वा मतिर्ममाच्छा सुजिह्व वच्यते ॥४॥
स्तृणानासो यतस्रुचो बर्हिर्यज्ञे स्वध्वरे ।
वृञ्जे देवव्यचस्तममिन्द्राय शर्म सप्रथः ॥५॥
वि श्रयन्तामृतावृधः प्रयै देवेभ्यो महीः ।
पावकासः पुरुस्पृहो द्वारो देवीरसश्चतः ॥६॥
आ भन्दमाने उपाके नक्तोषासा सुपेशसा ।
यह्वी ऋतस्य मातरा सीदतां बर्हिरा सुमत् ॥७॥
मन्द्रजिह्वा जुगुर्वणी होतारा दैव्या कवी ।
यज्ञं नो यक्षतामिमं सिध्रमद्य दिविस्पृशम् ॥८॥
शुचिर्देवेष्वर्पिता होत्रा मरुत्सु भारती ।
इळा सरस्वती मही बर्हिः सीदन्तु यज्ञियाः ॥९॥
तन्नस्तुरीपमद्भुतं पुरु वारं पुरु त्मना ।
त्वष्टा पोषाय वि ष्यतु राये नाभा नो अस्मयुः ॥१०॥
अवसृजन्नुप त्मना देवान्यक्षि वनस्पते ।
अग्निर्हव्या सुषूदति देवो देवेषु मेधिरः ॥११॥
पूषण्वते मरुत्वते विश्वदेवाय वायवे ।
स्वाहा गायत्रवेपसे हव्यमिन्द्राय कर्तन ॥१२॥
स्वाहाकृतान्या गह्युप हव्यानि वीतये ।
इन्द्रा गहि श्रुधी हवं त्वां हवन्ते अध्वरे ॥१३॥


सायणभाष्यम्

समिद्धः ' इति त्रयोदशर्चं तृतीयं सूक्तमानुष्टुभम् । प्रथमायाः समिन्नामकोऽग्निर्देवता समिद्धोऽग्निः । द्वितीयादीनां तनूनपान्नराशंस इळो बर्हिर्देवीर्द्वार उषासानक्ता दैव्यौ होतारौ प्रचेतसौ तिस्रो देव्यः सरस्वतीळाभारत्यस्त्वष्टा वनस्पतिः स्वाहाकृतिरित्येताः क्रमेण देवताः । अन्त्याया इन्द्रः । तिस्रो देव्य इत्यस्य विवरणं सरस्वतीळाभारत्य इति । अत्रानुक्रमणिका - समिद्ध आप्रिय आनुष्टभमन्त्यैन्द्री' इति ।। अत्र इध्मतनूनपादादिभिर्यज्ञावयववाचिभिर्यज्ञ एवोच्यते । अतः स एव देवतेति कात्थक्यस्य मतम् । अग्निरेव समिदादिभिरुच्यते । अतः स एव देवतेति शाकपूणेर्मतम् । निरुक्ते किंदेवताः प्रयाजानुयाजा इति छन्दोदेवता इत्यादिपक्षान्तरं बहुधा प्रदर्श्य तदर्थे ब्राह्मणादि चोदाहृत्य इतरे पक्षी अर्थवादा आग्नेया एवेति सिद्धान्तितम् , ' अथ किंदेवताः प्रयाजानुयाजाः ' ( निरु. ८ . २१) इत्यादिना ॥ पशौ अङ्गिरोगोत्रोत्पन्नानाम् एतदाप्रीसूक्तम् । 'एकादश प्रयाजाः ' इति खण्डे सूत्रितं-’ समिद्धो अद्येति सर्वेषां यथऋषि बा' (आश्व. श्रौ. ३. २) इति । अत्र यथऋषिग्रहणात् ॥ अप्रीसूक्तानि त्रिविधानि । तत्र वासिष्ठात्रेयवाध्र्यश्वगार्त्समदानि चत्वारि नराशंसवन्ति । मैधातिथदैर्घतमसप्रैषिकाणि नराशंसतनूनपादुभयवन्ति । इतराणि तनूनपात्वन्तीति । तत्रैतत्सूक्तं दैर्घतमसत्वादुभयवत् ॥


समि॑द्धो अग्न॒ आ व॑ह दे॒वाँ अ॒द्य य॒तस्रु॑चे ।

तंतुं॑ तनुष्व पू॒र्व्यं सु॒तसो॑माय दा॒शुषे॑ ॥१

सम्ऽइ॑द्धः । अ॒ग्ने॒ । आ । व॒ह॒ । दे॒वान् । अ॒द्य । य॒तऽस्रु॑चे ।

तन्तु॑म् । त॒नु॒ष्व॒ । पू॒र्व्यम् । सु॒तऽसो॑माय । दा॒शुषे॑ ॥१

सम्ऽइद्धः । अग्ने । आ । वह । देवान् । अद्य । यतऽस्रुचे ।

तन्तुम् । तनुष्व । पूर्व्यम् । सुतऽसोमाय । दाशुषे ॥१

हे "अग्ने "समिद्धः सम्यग्दीपितः एतन्नामकस्त्वम् "अद्य अस्मिन् यागदिने "देवान् हविषां भोक्तॄन् अग्न्यादीन् "आ "वह अस्मद्यज्ञं प्रति प्रापय । “यतस्रुचे यागायोद्यतस्रुचे यजमानाय तदर्थम् ।। आवाह्य च "सुतसोमाय यागार्थमभिषुतसोमाय "दाशुषे हविर्दत्तवते । यद्यपि इदानीमेवाहूयन्ते देवाः तथापि पूर्वानुष्ठानापेक्षया भाव्यपेक्षया वा दाशुषे इत्युच्यते । हविर्दात्रे वा यजमानाय तदर्थं “पूर्व्यं पूर्वेभ्यो देवेभ्यो हितं पूर्वकालीनं वा "तन्तुं यज्ञं "तनुष्व विस्तारय ।।


घृ॒तवं॑त॒मुप॑ मासि॒ मधु॑मंतं तनूनपात् ।

य॒ज्ञं विप्र॑स्य॒ माव॑तः शशमा॒नस्य॑ दा॒शुषः॑ ॥२

घृ॒तऽव॑न्तम् । उप॑ । मा॒सि॒ । मधु॑ऽमन्तम् । त॒नू॒ऽन॒पा॒त् ।

य॒ज्ञम् । विप्र॑स्य । माऽव॑तः । श॒श॒मा॒नस्य॑ । दा॒शुषः॑ ॥२

घृतऽवन्तम् । उप । मासि । मधुऽमन्तम् । तनूऽनपात् ।

यज्ञम् । विप्रस्य । माऽवतः । शशमानस्य । दाशुषः ॥२

हे "तनूनपात् । तनूनपात् आज्यम्' इति कात्थक्यपक्षे तन्वो गावो भोगानां तासु जायमानत्वात्। ताभ्यः उत्पन्नं क्षीरं क्षीरात् सर्पिः इति आज्यस्य नप्तृत्वम् । तद्वान् यज्ञः । अग्निपक्षे आपस्तन्व उच्यन्ते । ताभ्यः ओषधिवनस्पतयः । तेभ्योऽग्निरिति नप्तृत्वम् । अरणीभ्यामिति भावः । एतन्नामक हे अग्ने “विप्रस्य मेधाविनः “शशमानस्य शंसमानस्य त्वां स्तुवतः "दाशुषः हविर्दत्तवतः “मावतः मत्सदृशस्य यजमानस्य ।। ' युष्मदस्मद्भ्यां छन्दसि सादृश्ये ' इति वतुप् । 'आ सर्वनाम्नः' इति आत्वम् ॥ “घृतवन्तं क्षरदाज्योपेतं "मधुमन्तं माधुर्योपेतं सोमादिमधुरद्रव्येण तद्वन्तं "यज्ञम् "उप उपेत्य "मासि निर्मिमीषे मितो भवसि वा । संपूर्तिपर्यन्तं तिष्ठसीत्यर्थः ॥ ‘मा माने' । आदादिकः ॥


शुचिः॑ पाव॒को अद्भु॑तो॒ मध्वा॑ य॒ज्ञं मि॑मिक्षति ।

नरा॒शंस॒स्त्रिरा दि॒वो दे॒वो दे॒वेषु॑ य॒ज्ञियः॑ ॥३

शुचिः॑ । पा॒व॒कः । अद्भु॑तः । मध्वा॑ । य॒ज्ञम् । मि॒मि॒क्ष॒ति॒ ।

नरा॒शंसः॑ । त्रिः । आ । दि॒वः । दे॒वः । दे॒वेषु॑ । य॒ज्ञियः॑ ॥३

शुचिः । पावकः । अद्भुतः । मध्वा । यज्ञम् । मिमिक्षति ।

नराशंसः । त्रिः । आ । दिवः । देवः । देवेषु । यज्ञियः ॥३

“देवेषु मध्ये “शुचिः शुद्धो दीप्तो वा "पावकः अन्नस्य अपूतस्य शोधयिता "अद्भुतः अभूत इव अद्यक्षणे भविता । आश्चर्यभूत इत्यर्थः । "देवः द्योतनशीलः "यज्ञियः यज्ञसंपादनार्हः ईदृशः "नराशंसः नरैः कर्मनेतृभिर्ऋत्विग्भिः शंसनीयोऽग्निः “दिवः द्युलोकादागत्य "मध्वा मधुरेण रसेन "यज्ञम् अस्मदीयं "त्रिः “आ “मिमिक्षति त्रिवारं समन्तात् सिञ्चति स्वदयतीत्यर्थः । यद्वा । मधुरेण फलेन त्रिः आ मिमिक्षति योजयतीत्यर्थः । ‘ नराशंसो यज्ञः' इति कात्थक्यपक्षे यज्ञाभिमानी देवो द्योतमानो द्युलोकादागत्य अनुष्ठीयमानं यज्ञं त्रिः आ मिमिक्षति । अयं नराशंसो देवस्त्रिरा ॥ उपसर्गवशात् योग्यक्रियाध्याहारः ॥ त्रिवारमागच्छति । त्रिः आहरति वा फलम् । अवशिष्टं पूर्ववन्नेयम् ॥


ई॒ळि॒तो अ॑ग्न॒ आ व॒हेंद्रं॑ चि॒त्रमि॒ह प्रि॒यं ।

इ॒यं हि त्वा॑ म॒तिर्ममाच्छा॑ सुजिह्व व॒च्यते॑ ॥४

ई॒ळि॒तः । अ॒ग्ने॒ । आ । व॒ह॒ । इन्द्र॑म् । चि॒त्रम् । इ॒ह । प्रि॒यम् ।

इ॒यम् । हि । त्वा॒ । म॒तिः । मम॑ । अच्छ॑ । सु॒ऽजि॒ह्व॒ । व॒च्यते॑ ॥४

ईळितः । अग्ने । आ । वह । इन्द्रम् । चित्रम् । इह । प्रियम् ।

इयम् । हि । त्वा । मतिः । मम । अच्छ । सुऽजिह्व । वच्यते ॥४

हे "अग्ने "ईळितः सर्वैः स्तुत्यः इण्नामकस्त्वम् "इह अस्मिन् यज्ञे "चित्रं चायनीयं प्रियं प्रीणयितारम् अस्मान् हविःस्वीकर्तुं वा प्रीतियुक्तम् "इन्द्रम् "आ "वह आह्वय । हे "सुजिह्व घृतपानेन शोभनज्वाल “इयं "मम “मतिः मननसाधना स्तुतिरूपा वाक् “त्वा त्वाम् "अच्छ आभिमुख्येन प्राप्तुं “वच्यते मतिरेवास्मदीयोच्यते ।। हिः पूरणार्थः । वचेर्यकि ‘ संप्रसारणाच्च' इति पूर्वरूपस्य ‘ वा छन्दसि' इति विकल्पितत्वात् अभावे यण् ॥ अत्र पुरोडाशादीडभिमानियज्ञपरतया वा व्याख्येयम् । एवमुत्तरत्र यज्ञाङ्गैर्यज्ञसंबन्धिदेवताभिश्च यज्ञः एवोच्यते इति तत्परत्वेन व्याख्येयम् ॥


स्तृ॒णा॒नासो॑ य॒तस्रु॑चो ब॒र्हिर्य॒ज्ञे स्व॑ध्व॒रे ।

वृं॒जे दे॒वव्य॑चस्तम॒मिंद्रा॑य॒ शर्म॑ स॒प्रथः॑ ॥५

स्तृ॒णा॒नासः॑ । य॒तऽस्रु॑चः । ब॒र्हिः । य॒ज्ञे । सु॒ऽअ॒ध्व॒रे ।

वृ॒ञ्जे । दे॒वव्य॑चःऽतमम् । इन्द्रा॑य । शर्म॑ । स॒ऽप्रथः॑ ॥५

स्तृणानासः । यतऽस्रुचः । बर्हिः । यज्ञे । सुऽअध्वरे ।

वृञ्जे । देवव्यचःऽतमम् । इन्द्राय । शर्म । सऽप्रथः ॥५

“स्वध्वरे शोभनप्रायणीयाद्यवान्तरयागवति "यज्ञे सोमयागे “बर्हिः दर्भान् “स्तृणानासः आस्तरन्तः "यतस्रुचः नियमितजुह्वादिपात्रा ऋत्विजः “देवव्यचस्तमम् अतिशयेन देवगामिनं "सप्रथः सर्वतो विस्तीर्णं “शर्म सुखसाधनं गृहम् "इन्द्राय "वृञ्जे विवर्जयन्ति संपादयन्तीत्यर्थः ॥


वि श्र॑यंतामृता॒वृधः॑ प्र॒यै दे॒वेभ्यो॑ म॒हीः ।

पा॒व॒कासः॑ पुरु॒स्पृहो॒ द्वारो॑ दे॒वीर॑स॒श्चतः॑ ॥६

वि । श्र॒य॒न्ता॒म् । ऋ॒त॒ऽवृधः॑ । प्र॒ऽयै । दे॒वेभ्यः॑ । म॒हीः ।

पा॒व॒कासः॑ । पु॒रु॒ऽस्पृहः॑ । द्वारः॑ । दे॒वीः । अ॒स॒श्चतः॑ ॥६

वि । श्रयन्ताम् । ऋतऽवृधः । प्रऽयै । देवेभ्यः । महीः ।

पावकासः । पुरुऽस्पृहः । द्वारः । देवीः । असश्चतः ॥६

“द्वारो "देवीः यज्ञस्य द्वाराभिमानिन्यो देवताः "वि “श्रयन्तां विविधं श्रयन्तु विवृता भवन्तु । किमर्थम् । “देवेभ्यः "प्रयै प्रयातुं देवानां प्रापणाय ।। ' प्रयै रोहिष्यै अव्यथिष्यै '(पा. सू. ३. ४. १०) इति निपातितः ॥ कीदृश्यस्ताः । “ऋतवृधः यज्ञस्य वर्धयित्र्यः पूज्याः “महीः महत्यः "पावकासः शोधयित्र्यः "पुरुस्पृहः बहुस्पृहणीयाः "असश्चतः असज्यमानाः । परस्परविप्रकृष्टा इत्यर्थः ॥ ॥ १० ॥


आ भंद॑माने॒ उपा॑के॒ नक्तो॒षासा॑ सु॒पेश॑सा ।

य॒ह्वी ऋ॒तस्य॑ मा॒तरा॒ सीद॑तां ब॒र्हिरा सु॒मत् ॥७

आ । भन्द॑माने॒ इति॑ । उपा॑के॒ इति॑ । नक्तो॒षसा॑ । सु॒ऽपेश॑सा ।

य॒ह्वी इति॑ । ऋ॒तस्य॑ । मा॒तरा॑ । सीद॑ताम् । ब॒र्हिः । आ । सु॒ऽमत् ॥७

आ । भन्दमाने इति । उपाके इति । नक्तोषसा । सुऽपेशसा ।

यह्वी इति । ऋतस्य । मातरा । सीदताम् । बर्हिः । आ । सुऽमत् ॥७

"भन्दमाने सर्वैः स्तूयमाने "उपाके परस्परं संनिहिते "सुपेशसा शोभनरूपे। पेश इति रूपनाम । "यह्वी महत्यौ अपत्यरूपे वा प्रतिदिनं जायमानत्वात् । यहुरित्यपत्यनाम, ‘यहुः सूनुः ' (नि. २. २. ११ ) इति तन्नामसु पाठात् । "ऋतस्य "मातरा यज्ञस्य निर्मात्र्यौ । ताभ्यामागमनात् यज्ञस्य संपूर्तेर्यज्ञमातृत्वम् उपचर्यते । यद्वा । अतिरात्रादीनाम् अहोरात्रसाध्यत्वात्। "नक्तोषासा उक्तगुणविशिष्टे अहोरात्रदेवते "सुमत् स्वयमेव । अस्माभिरप्रार्थिते इत्यर्थः । यद्वा । सुमत् "बर्हिः आस्तृतं दर्भम् "आ समन्तात् "आ “सीदताम् उपविशताम् । यद्वा । ऋतस्य इति कर्मणि षष्ठी । यज्ञमासीदताम् । आसाद्य च बर्हिरास्तृतं दर्भं स्वयमेव सीदताम् ।।


मं॒द्रजि॑ह्वा जुगु॒र्वणी॒ होता॑रा॒ दैव्या॑ क॒वी ।

य॒ज्ञं नो॑ यक्षतामि॒मं सि॒ध्रम॒द्य दि॑वि॒स्पृशं॑ ॥८

म॒न्द्रऽजि॑ह्वा । जु॒गु॒र्वणी॒ इति॑ । होता॑रा । दैव्या॑ । क॒वी इति॑ ।

य॒ज्ञम् । नः॒ । य॒क्ष॒ता॒म् । इ॒मम् । सि॒ध्रम् । अ॒द्य । दि॒वि॒ऽस्पृश॑म् ॥८

मन्द्रऽजिह्वा । जुगुर्वणी इति । होतारा । दैव्या । कवी इति ।

यज्ञम् । नः । यक्षताम् । इमम् । सिध्रम् । अद्य । दिविऽस्पृशम् ॥८

“मन्द्रजिह्वा देवानां मादनज्वालौ "जुगुर्वणी भृशं गृणतां स्तुवतां यजमानानां संभक्तारौ ॥ गृणतेर्यङ्लुगन्तात् क्विपि छान्दसी रूपसिद्धिः । तस्मिन्नुपपदे वनतेः ‘छन्दसि वनसनरक्षिमथाम् ' इति इन्प्रत्ययः ॥ "कवी मेधाविनौ क्रान्तदर्शिनौ "दैव्या "होतारा देवसंबन्धिनौ होतारौ अयं च मध्यमस्थानश्चेत्युभौ "सिध्रं फलसाधनभूतम् ॥ सिधेः ‘स्फायितञ्चि°' इत्यादिना रक् ॥ “दिविस्पृशं द्युलोकवासिदेवान् स्पृशन्तम् तैर्हविषः स्वीक्रियमाणत्वादिति भावः। ईदृशं "नः अस्मदीयम् “इमं "यज्ञम् "अद्य "यक्षताम् अनुतिष्ठतां पूजयतां वा सम्यक् निर्वाहयतामित्यर्थः ॥


शुचि॑र्दे॒वेष्वर्पि॑ता॒ होत्रा॑ म॒रुत्सु॒ भार॑ती ।

इळा॒ सर॑स्वती म॒ही ब॒र्हिः सी॑दंतु य॒ज्ञियाः॑ ॥९

शुचिः॑ । दे॒वेषु॑ । अर्पि॑ता । होत्रा॑ । म॒रुत्ऽसु॑ । भार॑ती ।

इळा॑ । सर॑स्वती । म॒ही । ब॒र्हिः । सी॒द॒न्तु॒ । य॒ज्ञियाः॑ ॥९

शुचिः । देवेषु । अर्पिता । होत्रा । मरुत्ऽसु । भारती ।

इळा । सरस्वती । मही । बर्हिः । सीदन्तु । यज्ञियाः ॥९

“शुचिः शुद्धा "मरुत्सु विरूद्धलक्षणया अमरणेषु "देवेषु द्योतनशीलेषु स्तोतृषु मरुत्सु ऋत्विक्षु वा “अर्पिता नियता "होत्रा होमनिष्पादिका भारती भरतस्यादित्यस्य संबन्धिनी द्युस्थाना वाक् । तथा “इळा पार्थिवी प्रैषादिरूपा "मही महती "सरस्वती । सर इत्युदकनाम । तद्वती स्तनितादिरूपा माध्यमिका च वाक् एतास्तिस्रः त्रिस्थानवागभिमानिदेवताः "यज्ञियाः यज्ञार्हाः सत्यः “बर्हिः स्तीर्णं “सीदन्तु उपविशन्तु ।।


तन्न॑स्तु॒रीप॒मद्भु॑तं पु॒रु वारं॑ पु॒रु त्मना॑ ।

त्वष्टा॒ पोषा॑य॒ वि ष्य॑तु रा॒ये नाभा॑ नो अस्म॒युः ॥१०

तत् । नः॒ । तु॒रीप॑म् । अद्भु॑तम् । पु॒रु । वा॒ । अर॑म् । त्मना॑ ।

त्वष्टा॑ । पोषा॑य । वि । स्य॒तु॒ । रा॒ये । नाभा॑ । नः॒ । अ॒स्म॒ऽयुः ॥१०

तत् । नः । तुरीपम् । अद्भुतम् । पुरु । वा । अरम् । त्मना ।

त्वष्टा । पोषाय । वि । स्यतु । राये । नाभा । नः । अस्मऽयुः ॥१०

“नः अस्मदर्थं "तत् तादृशं "तुरीयं तूर्णं व्यापि “अद्भुतं सद्य आविर्भवत् अभूतमिव सत् । यद्वा । महन्नामैतत् । सारतो महत् । "पुरु “वारं बहूनां प्राणिनामर्थाय एव “अरम् अलं समर्थम् । यद्वा । पुरु वारं बहु प्रभूतं च । वाशब्दश्चार्थे । अरम् अलम् । “त्मना आत्मना "पुरु । बहुक्रियाविशेषणमेतत् । ईदृशमुदकं "त्वष्टा वृष्ट्यादेः कर्ता । त्वष्टृशब्दो यास्केनैवं व्याख्यातः-’ त्वष्टा तूर्णमश्नुत इति नैरुक्तास्त्विषेर्वा स्याद्वृद्धिकर्मणस्त्वक्षतेर्वा स्यात्करोतिकर्मणः' (निरु. ८. १३) इति । तन्नामको वैद्युतोऽग्निः "अस्मयुः अस्मान् कामयमानो देवः "नः “पोषाय अस्मत्पुष्टये "राये समृद्धये च “नाभा नाभौ वृष्टेर्बन्धके मेघस्य नाभिस्थाने अवस्थितम् उक्तलक्षणमुदकं “वि “ष्यतु विविधं गमयतु ॥ षोऽन्तकर्मणि'। ‘ओतः श्यनि' इति ओकारलोपः । उपसर्गात्सुनोति' इति षत्वम् । यद्वा । न: नाभा अस्मत्संबन्धियज्ञनाभौ उत्तरवेद्यां राये।। षष्ठ्यर्थे चतुर्थी । रायो गवादिधनस्य पोषाय पुष्टये ।। स्यतिरुपसृष्टो विमोचनार्थः ॥ उक्तलक्षणां वृष्टिं मुञ्चतु ।।


अ॒व॒सृ॒जन्नुप॒ त्मना॑ दे॒वान्य॑क्षि वनस्पते ।

अ॒ग्निर्ह॒व्या सु॑षूदति दे॒वो दे॒वेषु॒ मेधि॑रः ॥११

अ॒व॒ऽसृ॒जन् । उप॑ । त्मना॑ । दे॒वान् । य॒क्षि॒ । व॒न॒स्प॒ते॒ ।

अ॒ग्निः । ह॒व्या । सु॒सू॒द॒ति॒ । दे॒वः । दे॒वेषु॑ । मेधि॑रः ॥११

अवऽसृजन् । उप । त्मना । देवान् । यक्षि । वनस्पते ।

अग्निः । हव्या । सुसूदति । देवः । देवेषु । मेधिरः ॥११

हे "वनस्पते वनानां पालक यूपाभिमानिदेव अग्ने "अवसृजन् स्वैरं वर्तयन् ऋत्विजः स्वस्वकर्मसु व्यापारयन् "त्मना आत्मना "देवान् हविर्भुजः "उप "यक्षि उपेत्य यज ।। ‘ बहुलं छन्दसि' इति शपो लुक् ॥ "देवः द्योतमानः "मेधिरः मेधावान् "अग्निः आहवनीयः "देवेषु उभयेषां मध्ये "हव्या हवींषि "सुसूदति प्रेरयति, स्वीकरोति । 'षूद क्षरणे '। ‘ बहुलं छन्दसि ' इति शपः श्लुः । ‘ लेटोऽडाटौ ' इति अडागमः ॥ यद्वा । यूपाग्निरेव परोक्षेणोच्यते । सोऽग्निर्हवींषि सुष्ठु स्वीकरोति ॥


पू॒ष॒ण्वते॑ म॒रुत्व॑ते वि॒श्वदे॑वाय वा॒यवे॑ ।

स्वाहा॑ गाय॒त्रवे॑पसे ह॒व्यमिंद्रा॑य कर्तन ॥१२

पू॒ष॒ण्ऽवते॑ । म॒रुत्व॑ते । वि॒श्वऽदे॑वाय । वा॒यवे॑ ।

स्वाहा॑ । गा॒य॒त्रऽवे॑पसे । ह॒व्यम् । इन्द्रा॑य । क॒र्त॒न॒ ॥१२

पूषण्ऽवते । मरुत्वते । विश्वऽदेवाय । वायवे ।

स्वाहा । गायत्रऽवेपसे । हव्यम् । इन्द्राय । कर्तन ॥१२

“पूषण्वते पूष्णा तद्वते ।। ‘ अनो नुट् ' इति नुट् । ‘ह्रस्वनुड्भ्यां मतुप्' इति मतुप उदात्तत्वम्॥ “मरुत्वते मरुद्भिस्तद्वते "विश्वदेवाय सर्वदेवसंघाय "वायवे गमनशीलाय वायुदेवाय च तथा “गायत्रवेपसे । वेप इति रूपनाम। गायत्रशब्दः इतरसामोपलक्षणः। गायत्रं वेपो रूपं यस्य तादृशाय “इन्द्राय “हव्यं हविः प्रदातुं "स्वाहा "कर्तन स्वाहाकारं कुरुत ऋत्विजः । करोतेर्लोटि' तप्तनप्तनथनाश्च ' इति तनबादेशः ।।


स्वाहा॑कृता॒न्या ग॒ह्युप॑ ह॒व्यानि॑ वी॒तये॑ ।

इंद्रा ग॑हि श्रु॒धी हवं॒ त्वां ह॑वंते अध्व॒रे ॥१३

स्वाहा॑ऽकृतानि । आ । ग॒हि॒ । उप॑ । ह॒व्यानि॑ । वी॒तये॑ ।

इन्द्र॑ । आ । ग॒हि॒ । श्रु॒धि । हव॑म् । त्वाम् । ह॒व॒न्ते॒ । अ॒ध्व॒रे ॥१३

स्वाहाऽकृतानि । आ । गहि । उप । हव्यानि । वीतये ।

इन्द्र । आ । गहि । श्रुधि । हवम् । त्वाम् । हवन्ते । अध्वरे ॥१३

हे इन्द्र "स्वाहाकृतानि । स्वाहा इत्येवंपूर्वां कृतिः करणमुच्चारणं यक्ष्यमाणदेवतानां ताः स्वाहाकृतयः । तद्वन्ति “हव्यानि हवींषि । अत्र प्रयाजेषु वषट्कारप्रदानात् स्वाहाकृतं हविरित्यर्थः । तद्धविः उपेत्य "वीतये भक्षणाय “आ “गहि आगच्छ। गमेश्छान्दसः शपो लुक् । ‘अनुदात्तोपदेश इत्यादिना अनुनासिकलोपः । तथा हे "इन्द्र “आ “गहि स्तोत्राण्यभिलक्ष्य आगच्छ । आगत्य “हवम् अस्मदीयमाह्वानं “श्रुधि शृणु । यतः “त्वाम् अध्वरे अहिंसात्मके यागे "हवन्ते आह्वयन्ति ऋत्विजः अतः श्रुधि । ह्वयतेः ‘ बहुलं छन्दसि ' इति संप्रसारणम् ॥ ॥ ११ ॥

[सम्पाद्यताम्]

टिप्पणी

According to Sayana (RV I.13), there are 12 āprī sukta. Of the ten āprī sukta, R̥gveda commented by Gargya Narayana, RV I.13 and I.142 invoke Narāśaṁsa and Tanūnapāt manifestations of Agni. RV I.188, III.4, IX.5 and X.110 invoke only Tanūnapāt manifestation. RV II.3, V.5, VII.2 and X.70 invoke only Narāśaṁsa manifestation.

इध्मः

ध्मा प्रपूरणशब्दो य इध्मा नाम प्रकीर्त्यते । पूरितस्यागतिर्येन तेनेध्मस्त्वं भविष्यसि ।। वराहपुराणम् १८.२६ ।। ध्मा शब्दस्य विनियोजनं प्रायः अयसः ध्मानाय एव भवति। किन्तु अत्र प्रपूरणे अस्ति। यथा उल्लिखितमस्ति, इध्मस्य उन्नतं रूपं समित् अस्ति। समित् अर्थात् समिति, सममिति। अस्मिन् जगते सममितेः ह्रासं अस्ति, येन कारणेन सममितेः प्रपूरणाय वयं भोजनं कुर्वामः। सममितेः आधुनिकं व्याख्या श्री गोवान कृतमस्ति। विष्णु पुराणस्य १.८.१९ कथनमस्ति - लक्ष्मी इध्मा, विष्णुः कुशः। कुशोपरि टिप्पणी

मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१४२&oldid=207808" इत्यस्माद् पुनः प्राप्तिः