ऋग्वेदः सूक्तं १.७६

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं १.७५ ऋग्वेदः - मण्डल १
सूक्तं १.७६
गोतमो राहूगणः
सूक्तं १.७७ →
दे. अग्निः। त्रिष्टुप्


का त उपेतिर्मनसो वराय भुवदग्ने शंतमा का मनीषा ।
को वा यज्ञैः परि दक्षं त आप केन वा ते मनसा दाशेम ॥१॥
एह्यग्न इह होता नि षीदादब्धः सु पुरएता भवा नः ।
अवतां त्वा रोदसी विश्वमिन्वे यजा महे सौमनसाय देवान् ॥२॥
प्र सु विश्वान्रक्षसो धक्ष्यग्ने भवा यज्ञानामभिशस्तिपावा ।
अथा वह सोमपतिं हरिभ्यामातिथ्यमस्मै चकृमा सुदाव्ने ॥३॥
प्रजावता वचसा वह्निरासा च हुवे नि च सत्सीह देवैः ।
वेषि होत्रमुत पोत्रं यजत्र बोधि प्रयन्तर्जनितर्वसूनाम् ॥४॥
यथा विप्रस्य मनुषो हविर्भिर्देवाँ अयजः कविभिः कविः सन् ।
एवा होतः सत्यतर त्वमद्याग्ने मन्द्रया जुह्वा यजस्व ॥५॥


सायणभाष्यम्

‘ का ते ' इति पञ्चर्चं तृतीयं सूक्तम् । ‘ का ते' इत्यनुक्रान्तम् । राहूगणो गोतम ऋषिः ।। त्रिष्टुप् छन्दः । अग्निर्देवता । प्रातरनुवाकस्याग्नेये क्रतौ त्रैष्टुभे छन्दसि इदमादिके द्वे सूक्ते । सूत्रितं च -- ’ उप प्र जिन्वन्निति त्रीणि का त उपेतिरिति सूक्ते' (आश्व. श्रौ. ४. १३) इति । आश्विनशस्त्रेऽप्येते प्रातरनुवाकातिदेशात् ।। ।


का त॒ उपे॑ति॒र्मन॑सो॒ वरा॑य॒ भुव॑दग्ने॒ शंत॑मा॒ का म॑नी॒षा ।

को वा॑ य॒ज्ञैः परि॒ दक्षं॑ त आप॒ केन॑ वा ते॒ मन॑सा दाशेम ॥१

का । ते॒ । उप॑ऽइतिः । मन॑सः । वरा॑य । भुव॑त् । अ॒ग्ने॒ । शम्ऽत॑मा । का । म॒नी॒षा ।

कः । वा॒ । य॒ज्ञैः । परि॑ । दक्ष॑म् । ते॒ । आ॒प॒ । केन॑ । वा॒ । ते॒ । मन॑सा । दा॒शे॒म॒ ॥१

का । ते । उपऽइतिः । मनसः । वराय । भुवत् । अग्ने । शम्ऽतमा । का । मनीषा ।

कः । वा । यज्ञैः । परि । दक्षम् । ते । आप । केन । वा । ते । मनसा । दाशेम ॥१

हे “अग्ने “ते तव “मनसो “वराय निवारणाय अस्मास्ववस्थापनाय “का “उपेतिः “भुवत् कीदृशमुपगमनं भवेत् । न काप्यस्ति । तवोचितमुपगमनं वयं कर्तुं न शक्नुमः इति भावः । “मनीषा स्तुतिः “शंतमा तवातिशयेन सुखकरी “का कीदृशी भवेत् तवोचिता स्तुतिरपि नास्तीत्यर्थः । “को “वा यजमानः “यज्ञैः तव संबन्धिभिर्यागैः “दक्षं वृद्धिं बलं वा “परि “आप पर्याप्नोत् । न कोऽपीत्यर्थः । तवोचितान् योगाननुष्ठाय तैः फलं प्राप्यते इत्येतदपि दुर्घटमेवेति भावः । उपगमनादिकं तावदास्तां तस्य सर्वस्य साधनभूतं मन एवास्माकं दुर्लभमित्याह केनेति । हे अग्ने “ते तुभ्यं “केन “मनसा कीदृश्या बुद्ध्या "दाशेम हवींषि प्रयच्छाम । तवोपगमनाद्यनुरूपं मनोऽस्माकं नोत्पद्यते इत्यर्थः ।। उपेतिः । ‘ तादौ च°' इति गतेः प्रकृतिस्वरत्वम् । वराय । “वृञ् वरणे'। अस्मादन्तर्भावितण्यर्थात् ‘ ग्रहवृदृनिश्चिगमश्च ' ( पा. सू. ३. ३. ५८) इति अप् । तस्य पित्त्वादनुदात्तत्वे धातुस्वरः । भुवत् । लेटि अडागमः । बहुलं छन्दसि ' इति शपो लुक् । ‘ भूसुवोस्तिङि' इति गुणप्रतिषेधः । दक्षम् । दक्ष वृद्धौ ' । भावे करणे वा घञ् । ञित्वादाद्युदात्तत्वम् ॥


एह्य॑ग्न इ॒ह होता॒ नि षी॒दाद॑ब्ध॒ः सु पु॑रए॒ता भ॑वा नः ।

अव॑तां त्वा॒ रोद॑सी विश्वमि॒न्वे यजा॑ म॒हे सौ॑मन॒साय॑ दे॒वान् ॥२

आ । इ॒हि॒ । अ॒ग्ने॒ । इ॒ह । होता॑ । नि । सी॒द॒ । अद॑ब्धः । सु । पु॒रः॒ऽए॒ता । भ॒व॒ । नः॒ ।

अव॑ताम् । त्वा॒ । रोद॑सी॒ इति॑ । वि॒श्व॒मि॒न्वे इति॑ वि॒श्व॒म्ऽइ॒न्वे । यज॑ । म॒हे । सौ॒म॒न॒साय॑ । दे॒वान् ॥२

आ । इहि । अग्ने । इह । होता । नि । सीद । अदब्धः । सु । पुरःऽएता । भव । नः ।

अवताम् । त्वा । रोदसी इति । विश्वमिन्वे इति विश्वम्ऽइन्वे । यज । महे । सौमनसाय । देवान् ॥२

हे “अग्ने “एहि आगच्छ। "इह अस्मिन् यज्ञे “होता देवानामाह्वाता सन् “नि “षीद उपविश। “नः अस्माकं “पुरएता पुरतो गन्ता "सु “भव सुष्ठु भव । यस्मात्त्वम् “अदब्धः राक्षसादिभिः अहिंस्योऽसि । तादृशं त्वां “विश्वमिन्वे सर्वं व्याप्नुवत्यौ “रोदसी द्यावापृथिव्यौ “त्वा त्वाम् “अवतां रक्षतां । आगत्योपविश्य च द्यावापृथिवीभ्यां रक्षितश्च सन् “महे महते “सौमनसाय सौमनस्याय “देवान् दानादिगुणयुक्तान् इन्द्रादीन् 'यज हविर्भिः पूजय ॥ नि षीद । सदिरप्रतेः ' इति षत्वम् । सौमनसाय । सुमनसो भावः सौमनसम् । तस्येदम् ' इति संबन्धसामान्ये इति अण्प्रत्ययः। स चात्र भावलक्षणे संबन्धविशेषे पर्यवस्यति । यद्वा । ‘ हायनान्तयुवादिभ्योऽण् ' (पा. सू. ५. १. १३० ) इति भावे अण् । युवादिष्वस्य पाठो द्रष्टव्यः ॥


प्र सु विश्वा॑न्र॒क्षसो॒ धक्ष्य॑ग्ने॒ भवा॑ य॒ज्ञाना॑मभिशस्ति॒पावा॑ ।

अथा व॑ह॒ सोम॑पतिं॒ हरि॑भ्यामाति॒थ्यम॑स्मै चकृमा सु॒दाव्ने॑ ॥३

प्र । सु । विश्वा॑न् । र॒क्षसः॑ । धक्षि॑ । अ॒ग्ने॒ । भव॑ । य॒ज्ञाना॑म् । अ॒भि॒श॒स्ति॒ऽपावा॑ ।

अथ॑ । आ । व॒ह॒ । सोम॑ऽपतिम् । हरि॑ऽभ्याम् । आ॒ति॒थ्यम् । अ॒स्मै॒ । च॒कृ॒म॒ । सु॒ऽदाव्ने॑ ॥३

प्र । सु । विश्वान् । रक्षसः । धक्षि । अग्ने । भव । यज्ञानाम् । अभिशस्तिऽपावा ।

अथ । आ । वह । सोमऽपतिम् । हरिऽभ्याम् । आतिथ्यम् । अस्मै । चकृम । सुऽदाव्ने ॥३

हे “अग्ने “विश्वान् सर्वान् “रक्षसः राक्षसान् “प्र “सु “धक्षि प्रकर्षेण दह । दग्ध्वा च “यज्ञानाम् अस्माभिरनुष्ठेयानां यागानाम् “अभिशस्तिपावा अभिशस्तेर्हिसायाः पाता रक्षिता “भव । “अथ अनन्तरं “सोमपतिं सर्वेषां सोमानां पालकमिन्द्रं “हरिभ्यां तदीयाश्वाभ्याम् “आ “वह अस्मयज्ञं प्राप्य । आगताय “अस्मै सुदाव्ने शोभनस्य फलस्य दात्रे इन्द्राय “आतिथ्यम् अतिथ्यर्हं सत्कारं “चकृम कुर्मः ॥ धक्षि । ' दह भस्मीकरणे'। ‘ बहुलं छन्दसि ' इति शपो लुक् । ढत्वभष्भावकत्वषत्वानि । अभिशस्तिपावा । ‘शसु हिंसायाम्' । अस्मादभिपूर्वात् भावे क्तिन् । अभिशस्तेः पातीति अभिशस्तिपावा। “ पा रक्षणे'। ‘ आतो मनिन् ' इति वनिप् । सोमपतिम् । “ पत्यावैश्वर्ये ' इति पूर्वपदप्रकृतिस्वरत्वम् । सुदाव्ने । पूर्ववद्ददातेर्वनिप् । ‘अल्लोपोऽनः' इति अकारलोपः ।।


प्र॒जाव॑ता॒ वच॑सा॒ वह्नि॑रा॒सा च॑ हु॒वे नि च॑ सत्सी॒ह दे॒वैः ।

वेषि॑ हो॒त्रमु॒त पो॒त्रं य॑जत्र बो॒धि प्र॑यन्तर्जनित॒र्वसू॑नाम् ॥४

प्र॒जाऽव॑ता । वच॑सा । वह्निः॑ । आ॒सा । आ । च॒ । हु॒वे । नि । च॒ । स॒त्सि॒ । इ॒ह । दे॒वैः ।

वेषि॑ । हो॒त्रम् । उ॒त । पो॒त्रम् । य॒ज॒त्र॒ । बो॒धि । प्र॒ऽय॒न्तः॒ । ज॒नि॒तः॒ । वसू॑नाम् ॥४

प्रजाऽवता । वचसा । वह्निः । आसा । आ । च । हुवे । नि । च । सत्सि । इह । देवैः ।

वेषि । होत्रम् । उत । पोत्रम् । यजत्र । बोधि । प्रऽयन्तः । जनितः । वसूनाम् ॥४

“प्रजावता यजमानेभ्यो दातव्यापत्यादिफलोपेतेन “वचसा स्तोत्रेण स्तुतः सन् योऽग्निः "आसा आस्यस्थानीयया ज्वालया “वह्निः देवेभ्यो हविषां वोढा तमग्निम् “आ “च “हुवे आह्वयामि । आहूतः सन् त्वम् “इह अस्मिन् कर्मणि "देवैः अन्यैः सह “नि सत्सि “च निषीद च । निषद्य च हे “यजत्र यजनीयाग्ने "होत्रं होत्रा क्रियमाणं कर्म "उत अपि च "पोत्रं पोत्रा कृतं कर्म च “वेशि कामयस्व । “वसूनां धनानां “प्रयन्तः प्रकर्षेण नियन्तः वसून्यस्मदायत्तानि कुर्वन् "जनितः आहुतिद्वारा सर्वस्य जनयितरग्ने “बोधि अस्मान् बोधय ॥ आसा । ‘पद्दन् ' इत्यादिना आस्यशब्दस्य आसन्नादेशः । ‘सुपां सुलक्° ' इति तृतीयाया डादेशः । टिलोपे उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् । हुवे । ह्वेञो लटि ‘ बहुलं छन्दसि ' इति संप्रसारणम् । ‘ बहुलं छन्दसि ' इति शपो लुक् । ‘चवायोगे प्रथमा ' इति निघातप्रतिषेधः । बोधि । ‘ बुध अवगमने' । अस्मात् ण्यन्तात् छन्दस्युभयथा' इति हेः आर्धधातुकत्वात् ‘णेरनिटि' इति णिलोपः । हुझल्भ्यो हेर्धिः'। धातोः अन्त्यलोपश्छान्दसः । हेरपित्त्वात् तस्यैव स्वरः शिष्यते ॥


एकादशिनस्याग्नेयस्य पशोः ‘ यथा विप्रस्य ' इत्येषा पशुपुरोडाशस्य याज्या । सूत्रितं च ‘ प्रदानानाम् ' इति खण्डे - यथा विप्रस्य मनुषो हविर्भिः प्र कारवो मनना वच्यमानाः ' ( आश्व. श्रौ. ३. ७ ) इति ।।

यथा॒ विप्र॑स्य॒ मनु॑षो ह॒विर्भि॑र्दे॒वाँ अय॑जः क॒विभिः॑ क॒विः सन् ।

ए॒वा हो॑तः सत्यतर॒ त्वम॒द्याग्ने॑ म॒न्द्रया॑ जु॒ह्वा॑ यजस्व ॥५

यथा॑ । विप्र॑स्य । मनु॑षः । ह॒विःऽभिः॑ । दे॒वान् । अय॑जः । क॒विऽभिः॑ । क॒विः । सन् ।

ए॒व । हो॒त॒रिति॑ । स॒त्य॒ऽत॒र॒ । त्वम् । अ॒द्य । अग्ने॑ । म॒न्द्रया॑ । जु॒ह्वा॑ । य॒ज॒स्व॒ ॥५

यथा । विप्रस्य । मनुषः । हविःऽभिः । देवान् । अयजः । कविऽभिः । कविः । सन् ।

एव । होतरिति । सत्यऽतर । त्वम् । अद्य । अग्ने । मन्द्रया । जुह्वा । यजस्व ॥५

"कविः क्रान्तदर्शी “सन् “कविभिः मेधाविभिर्ऋत्विग्भिः सह “विप्रस्य मेधाविनः “मनुषः मनोर्यज्ञे “हविर्भिः चरुपुरोडाशादिभिः हे अग्ने “यथा “देवान् “अयजः एवमेव “होतः होमनिष्पादक “सत्यतर अतिशयेन सत्सु साधो “अग्ने “त्वम् “अद्य अस्मिन् यज्ञे “मन्द्रया हर्षयित्र्या “जुह्वा होमसाधनभूतया स्रुचा “यजस्व देवान् हविर्भिः पूजय ॥ मनुषः । ‘ मन ज्ञाने । ‘ बहुलमन्यत्रापि ' इति मनेः उसिन्प्रत्ययः ॥ ॥ २४ ॥


[सम्पाद्यताम्]

टिप्पणी

विनियोगः- प्रातरनुवाकस्याग्नेये क्रतौ। आश्विन् शस्त्रे अपि

१.७६.४ वेषि - कामयस्व, प्रयन्तः - प्रकर्षेण नियन्तः

१.७६.५ जुह्वा। आरोह पथो जुहु देवयानान्यत्रर्षयः प्रथमजा ये पुराणाः। हिरण्यपक्षाजिरा संभृताङ्गा वहासि मा सुकृतां यत्र लोकाः। जुहूरसि घृताची गायत्रीयाम्नी कविभिर्जुषाणा। अव्यथमाना यज्ञमनुयच्छस्व सुनीती यज्ञं नयास्युप देवानाग्नेयेन शर्मणा दैव्येनेति जुहूम्। - आप.श्रौ.सू. ४.७.२। ब्रह्मयज्ञस्य वागेव जुहूर्मन उपभृच्चक्षुर्ध्रुवा मेधा स्रुवः सत्यमवभृथः स्वर्गो लोक उदयनं - मा.श. ११.५.६.[३]।जुहूर्दाधार द्यामुपभृदन्तरिक्षं ध्रुवा दाधार पृथिवीं प्रतिष्ठाम् । (१८.४.५ ) प्रतीमां लोका घृतपृष्ठाः स्वर्गाः कामंकामं यजमानाय दुह्राम् ॥शौ.अ. १८.४.५॥


मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.७६&oldid=207717" इत्यस्माद् पुनः प्राप्तिः