ऋग्वेदः सूक्तं १.१२३

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं १.१२२ ऋग्वेदः - मण्डल १
सूक्तं १.१२३
कक्षीवान् दैर्घतमस औशिजः
सूक्तं १.१२४ →
दे. उषाः । त्रिष्टुप् ।


पृथू रथो दक्षिणाया अयोज्यैनं देवासो अमृतासो अस्थुः ।
कृष्णादुदस्थादर्या विहायाश्चिकित्सन्ती मानुषाय क्षयाय ॥१॥
पूर्वा विश्वस्माद्भुवनादबोधि जयन्ती वाजं बृहती सनुत्री ।
उच्चा व्यख्यद्युवतिः पुनर्भूरोषा अगन्प्रथमा पूर्वहूतौ ॥२॥
यदद्य भागं विभजासि नृभ्य उषो देवि मर्त्यत्रा सुजाते ।
देवो नो अत्र सविता दमूना अनागसो वोचति सूर्याय ॥३॥
गृहंगृहमहना यात्यच्छा दिवेदिवे अधि नामा दधाना ।
सिषासन्ती द्योतना शश्वदागादग्रमग्रमिद्भजते वसूनाम् ॥४॥
भगस्य स्वसा वरुणस्य जामिरुषः सूनृते प्रथमा जरस्व ।
पश्चा स दघ्या यो अघस्य धाता जयेम तं दक्षिणया रथेन ॥५॥
उदीरतां सूनृता उत्पुरंधीरुदग्नयः शुशुचानासो अस्थुः ।
स्पार्हा वसूनि तमसापगूळ्हाविष्कृण्वन्त्युषसो विभातीः ॥६॥
अपान्यदेत्यभ्यन्यदेति विषुरूपे अहनी सं चरेते ।
परिक्षितोस्तमो अन्या गुहाकरद्यौदुषाः शोशुचता रथेन ॥७॥
सदृशीरद्य सदृशीरिदु श्वो दीर्घं सचन्ते वरुणस्य धाम ।
अनवद्यास्त्रिंशतं योजनान्येकैका क्रतुं परि यन्ति सद्यः ॥८॥
जानत्यह्नः प्रथमस्य नाम शुक्रा कृष्णादजनिष्ट श्वितीची ।
ऋतस्य योषा न मिनाति धामाहरहर्निष्कृतमाचरन्ती ॥९॥
कन्येव तन्वा शाशदानाँ एषि देवि देवमियक्षमाणम् ।
संस्मयमाना युवतिः पुरस्तादाविर्वक्षांसि कृणुषे विभाती ॥१०॥
सुसंकाशा मातृमृष्टेव योषाविस्तन्वं कृणुषे दृशे कम् ।
भद्रा त्वमुषो वितरं व्युच्छ न तत्ते अन्या उषसो नशन्त ॥११॥
अश्वावतीर्गोमतीर्विश्ववारा यतमाना रश्मिभिः सूर्यस्य ।
परा च यन्ति पुनरा च यन्ति भद्रा नाम वहमाना उषासः ॥१२॥
ऋतस्य रश्मिमनुयच्छमाना भद्रम्भद्रं क्रतुमस्मासु धेहि ।
उषो नो अद्य सुहवा व्युच्छास्मासु रायो मघवत्सु च स्युः ॥१३॥



सायणभाष्यम्

'कदित्था' इत्यस्मिन् अष्टादशेऽनुवाके षट् सूक्तानि । तत्र ‘पृथू रथः' इति तृतीयं सूक्तं त्रयोदशर्चम् । अत्रानुक्रमणिका-' पृथुः सप्तोनोपस्यं तु' इति । दीर्घतमसः पुत्रः कक्षीवानृषिः ‘ऋषिश्चान्यस्मादृषेः' इति परिभाषितत्वात् । अनादेशपरिभाषया त्रिष्टुप् छन्दः । तुशब्दप्रयोगात् इदमादिके सूक्ते उषोदेवताके । प्रतिरनुवाके उषस्ये क्रतावस्य चौत्तरस्य च विनियोगः । अथोषम्यः' इति खण्डे सूत्रितं- ' पृथू रथ इति सूक्ते प्रत्यर्चिरित्यष्टौ ' ( आश्व. श्रौ. ४.१४ ) इति । तथाश्विनशस्त्रे इदमादिसूक्तद्वयस्य विनियोगः ‘ प्रातरनुवाकन्यायेन ' ( आश्व. श्रौ. ६. ५) इत्यतिदिष्टत्वात् ।


पृ॒थू रथो॒ दक्षि॑णाया अयो॒ज्यैनं॑ दे॒वासो॑ अ॒मृता॑सो अस्थुः ।

कृ॒ष्णादुद॑स्थाद॒र्या॒३॒॑ विहा॑या॒श्चिकि॑त्सन्ती॒ मानु॑षाय॒ क्षया॑य ॥

पृथुः । रथः । दक्षिणायाः । अयोजि । आ । एनम् । देवासः । अमृतासः । अस्थुः ।

कृष्णात् । उत्। अस्थात् । अर्या। विऽहायाः । चिकित्सन्ती । मानुषाय । क्षयाय ॥ १ ॥

"दक्षिणायाः प्रवृद्धायाः स्वव्यापारकुशलायाः उषोदेवतायाः पृथुः विस्तीर्णः "रथः "अयोजि अश्वैर्युक्तः संनद्धोऽभूत् । अत्र यद्यपि देवताविशेषो न श्रुतः तथापि उषस्यत्वात् उषस इति गम्यते । “एनं संनद्धं रथम् अमृतासः अमरणधर्माणः "देवासः देवनाशीलाः हविर्भाजो देवाः “आ “अस्थुः अस्थितवन्तः देवयजनं गन्तुमारूढाः इत्यर्थः । अनन्तरं सा उषाः "कृष्णात् निकृष्टवर्णात् नैशात् तमसः सकाशात् "उदस्थात् उत्थिता अभूत् । “कृष्णं कृष्यतेर्निकृष्टो वर्णः' (निरु. २. २०) इति यास्कः । कीदृशी सा। "अर्या अरणीया पूजनीया “विहायाः विविधगमनयुक्ता महती वा । विहाया इति महन्नाम ‘विहायाः यह्वः' ( नि. ३. ३. १२) इति तन्नामसु पाठात् । मानुषाय "क्षयाय मनुष्याणां निवासाय “चिकित्सन्ती अन्धकारनिवारणरूपां चिकित्सां कुर्वती तमो निवारयन्तीत्यर्थः॥


पूर्वा॒ विश्व॑स्मा॒द्भुव॑नादबोधि॒ जय॑न्ती॒ वाजं॑ बृह॒ती सनु॑त्री ।

उ॒च्चा व्य॑ख्यद्युव॒तिः पु॑न॒र्भूरोषा अ॑गन्प्रथ॒मा पू॒र्वहू॑तौ ॥

पूर्वा । विश्वस्मात् । भुवनात् । अबोधि । जयन्ती । वाजम् । बृहती । सनुत्री ।

उच्चा। वि । अख्यत् । युवतिः । पुनःऽभूः । आ । उषाः । अगन् । प्रथमा । पूर्वऽहूतौ ॥२॥

“विश्वस्मात् "भुवनात् सर्वस्मात् सुप्ताद्भूतजातात् "पूर्वा प्रथमा सती इयम् उषाः "अबोधि बुद्धा अभूत् । उषःकालमवगत्य हि पश्चात् सर्वे प्राणिनः प्रतिबुध्यन्ते। कीदृशी सा। "वाजं गमनशीलं प्रकाशं निर्वर्त्य अन्धकारं “जयन्ती पराभवं कुर्वती । यद्वा । वाजशब्दोऽअन्ननामसु पठितत्वादन्ननाम । अन्नं वै वाजः' (श. ब्रा. ९. ३. ४. १; तै. ब्रा. १. ३. ६. २ ) इति श्रुतेश्च । यजमानार्थम् अन्नं संपादयन्ती । “बृहती महती “सनुत्री सर्वं जगत्संभजन्ती दात्री वा प्रकाशस्य । किंच सा उषाः “उच्चा उच्चैरुन्नता सती “व्यख्यत् विचष्टे सर्वं जगत् पश्यति' इत्यर्थः । कीदृशी सा । "युवतिः मिश्रणशीला नित्ययौवना वा पुनर्भूः पुनःपुनर्भवनशीला प्रतिदिनं वर्तमानत्वात्। सा "उषाः पूर्वहूतौ सत्यां “प्रथमा मुख्या प्रकृष्टा सती "आ “अगन् देवयजनदेशंप्रत्यागच्छति ।' प्रथम इति मुख्यनाम प्रतमो भवति ' (निरु. २. २२) इति यास्कः । इतरदेवेभ्यः पूर्वमाहूता सती शीघ्रमेवागच्छतीत्यर्थः ॥


यद॒द्य भा॒गं वि॒भजा॑सि॒ नृभ्य॒ उषो॑ देवि मर्त्य॒त्रा सु॑जाते ।

दे॒वो नो॒ अत्र॑ सवि॒ता दमू॑ना॒ अना॑गसो वोचति॒ सूर्या॑य ॥

यत् । अद्य । भागम् । विऽभजासि । नृऽभ्यः । उषः । देवि । मर्त्यऽत्रा । सुऽजाते ।

देवः । नः । अत्र । सविता । दमूनाः । अनागसः । वोचति । सूर्याय ॥ ३ ॥

“सुजाते शोभनजनने "देवि देवनशीले हे उषः उषःकालाभिमानिदेवते "मर्त्यत्रा मनुष्याणां पालयित्री त्वम् अद्य अस्मिन् काले "नृभ्यः मनुष्येभ्यः यत् यं “भागं भजनीयं स्वकीयप्रकाशस्यांशं "विभजासि विभज्य ददासि । यद्वा । मर्त्यत्रा मर्त्येषु मध्ये नृभ्यः यजमानेभ्यः देवानां भागं विभज्य ददासि । उषसि प्रवृत्तायां हविषो दीयमानत्वात् उषसो दातृत्वमुपचर्यते । "अत्र अस्मिन् भागविषये "दमूनाः यजमानेभ्यः अभिमतफलदानमनाः। दमूना दममना वा दाममना वा दान्तमना वा' (निरु. ४. ४ ) इति निरुक्तवचनम् । तादृशः "सविता प्रेरकः "देवः “नः अस्मान् "अनागसः "वोचति अपापान् यागयोग्यान् ब्रवीतु अनुगृह्णातु इत्यर्थः। किमर्थम्। "सूर्याय अस्मद्यागदेशं प्रति सूर्यस्यागमनार्थम् ॥


गृ॒हंगृ॑हमह॒ना या॒त्यच्छा॑ दि॒वेदि॑वे॒ अधि॒ नामा॒ दधा॑ना ।

सिषा॑सन्ती द्योत॒ना शश्व॒दागा॒दग्र॑मग्र॒मिद्भ॑जते॒ वसू॑नाम् ॥

गृहम्ऽगृहम् । अहना । याति । अच्छ। दिवेऽदिवे । अधि । नाम । दधाना ।

सिसासन्ती । द्योतना । शश्वत् । आ । अगात् । अग्रम्ऽअग्रम् । इत् । भजते । वसूनाम्॥४॥

"अह्ना। उषो नामैतत् । ‘अहना द्योतना' (नि. १.८.११) इति तन्नामसु पाठात् । सा देवी “दिवेदिवे प्रत्यहम्। 'दिवेदिवे द्यविद्यवि' (नि. १.९.११) इति अहर्नामसु पाठात्। "गृहंगृहं तत्तद्यज्ञगृहम् "अच्छ आभिमुख्येन याति गच्छति। कीदृशी। "अधि अधिकं "नाम नमनं प्रह्वत्वं प्रतिगृहम् उद्योगं प्रकाशनरूपं दधाना धारयन्ती । यद्वा । अधि दधाना अधिकं धारयन्ती । किंच “सिषासन्ती संभक्तुमिच्छन्ती “द्योतना कृत्स्नं जगत् द्योतनशीला "शश्वत् प्रतिदिनम् "आगात् आगच्छति । पूर्वं यातीत्युक्तत्वात् पुनः आगादिति वचनमावश्यकत्वद्योतनार्थम् । आगत्य च “वसूनां धनानां हविर्लक्षणानाम् अग्रमग्रमित् तत्तच्छ्रेष्ठभागं “भजते सेवते स्वीकरोतीत्यर्थः ॥


भग॑स्य॒ स्वसा॒ वरु॑णस्य जा॒मिरुषः॑ सूनृते प्रथ॒मा ज॑रस्व ।

प॒श्चा स द॑घ्या॒ यो अ॒घस्य॑ धा॒ता जये॑म॒ तं दक्षि॑णया॒ रथे॑न ॥

भगस्य । स्वसा । वरुणस्य । जामिः । उषः । सूनृते । प्रथमा । जरस्व ।

पश्चा । सः । दध्याः । यः । अघस्य । धाता । जयेम । तम् । दक्षिणया । रथेन ॥ ५ ॥

"सूनृते सुष्ठु मनुष्याणां नेत्रि "उषः हे उषोदेवते "भगस्य सर्वैर्भजनीयस्य आदित्यस्य “स्वसा असि स्वसृस्थानीयसि । तेन सहोत्पद्यमानत्वात् तद्वत्पूज्येत्यर्थः। तथा “वरुणस्य तमोवारकस्य सवितुर्देवस्य "जामिः असि भगिनीस्थानीयासि। एकस्मिन्नेव स्थाने उत्पद्यमानत्वात्।जनयन्त्युत्पादयन्ति अस्यामपत्यम् अन्ये इति जामिः। यद्वा । जमति गच्छति स्वोत्पत्तिस्थानात् अन्यत्रेति । उक्तनिर्वचनद्वयम् अभिप्रेत्य यास्क आह-' न जामये भगिन्यै जामिरन्येऽस्यां जनयन्ति जामपत्यं जमतेर्वा स्याद्गतिकर्मणो निर्गमनप्राया भवति ' (निरु. ३. ६ ) इति । तादृशी त्वं “प्रथमा इतरदेवेभ्यः पूर्वा उत्कृष्टा वा सती “जरस्व स्तुता भव । जरतिः स्तुत्यर्थः । ‘ जरा स्तुतिर्जरतेः स्तुतिकर्मणः ' ( निरु. १०. ८) इति यास्कः । “पश्चा पश्चात् त्वत्प्रीत्यनन्तरं “यः "अघस्य “धाता यः कश्चिद्दुःखस्य तदुत्पादकपापस्य वा धारयितास्ति "सः "दध्याः गच्छतु । वचनव्यत्ययः । दध्यतिर्गत्यर्थः ।' दृध्यति दभ्नोति ' ( नि. २. १४. ६१) इति गत्यर्थेषु पाठात् । यदि स पापी बलीयान् तं दक्षिणया प्रवृद्धया सहायभूतया त्वया “रथेन अस्मदीयरथादिसाधनेन च “जयेम ॥ ॥ ४ ॥


उदी॑रतां सू॒नृता॒ उत्पुरं॑धी॒रुद॒ग्नयः॑ शुशुचा॒नासो॑ अस्थुः ।

स्पा॒र्हा वसू॑नि॒ तम॒साप॑गूळ्हा॒विष्कृ॑ण्वन्त्यु॒षसो॑ विभा॒तीः ॥

उत् । ईरताम् । सूनृताः । उत् । पुरम्ऽधीः । उत् । अग्नयः । शुशुचानासः । अस्थुः ।

स्पार्हा । वसूनि । तमसा । अपऽगूळ्हा । आविः । कृण्वन्ति । उषसः । विऽभातीः ॥ ६ ॥

“सूनृताः प्रियसत्यात्मिकाः वाचः' “उदीरताम् उद्गच्छन्तु । हे ऋत्विजः उत्कृष्टं यथा भवति तथा स्तोत्रं प्रवर्तयध्वम् । तथा “पुरंधीः पुरंधयः । पुरं शरीरं यासु धीयते याभिर्वा ताः पुरंधयः प्रज्ञाः प्रयोगविषयाः । ताः अपि उन्मिषन्तु । प्रज्ञोपलक्षितानि कर्माणि प्रवर्तन्तामित्यर्थः । यद्यपि प्राणवायुना शरीरं धार्यते तथापि ' यो वै प्राणः सा प्रज्ञा या वा प्रज्ञा स प्राणः ' ( कौ. उ. ३. ३) इति श्रुतेः प्राणप्रज्ञयोरेकत्वात् प्रज्ञायाः शरीरधारणमविरुद्धम् । तथा अग्नयः आहवनीयाद्याः “शुशुचानासः अत्यन्तं दीप्यमानाः "उत् "अस्थुः उत्तिष्ठन्तु प्रज्वलयन्तु इत्यर्थः । किमर्थमेवमिति तदुच्यते । यतः “विभातीः विविधं भासमानाः “उषसः उषोदेवताः “तमसा अपगूळ्हानि अन्धकारेणात्यन्तं गोपितानि स्पार्हा स्पृहणीयानि वसूनि वासयोग्यानि यज्ञसाधनभूतहविरादीनि “आविष्कृण्वन्ति यथावस्तु प्रकटीकुर्वन्ति तस्मात् स्तोत्रादिकं कुर्वन्वित्यर्थः ॥


अपा॒न्यदेत्य॒भ्य१॒॑न्यदे॑ति॒ विषु॑रूपे॒ अह॑नी॒ सं च॑रेते ।

प॒रि॒क्षितो॒स्तमो॑ अ॒न्या गुहा॑क॒रद्यौ॑दु॒षाः शोशु॑चता॒ रथे॑न ॥

अप । अन्यत् । एति । अभि । अन्यत् । एति । विषुरूपे इति विषुऽरूपे । अहनी इति । सम् । चरेते इति ।।

परिऽक्षितः । तमः । अन्या । गुह। अकः। अद्यौत् । उषाः। शोशुचता । रथेन ॥७॥

इदानीम् अहोरात्रस्तुतिद्वारा उषाः स्तूयते । “विषुरूपे वक्ष्यमाणप्रकारेण नानारूपे “अहनी अहश्च रात्रिश्चोभे “सं "चरेते । समित्येकीभावे । सहैव अव्यवधानेन चरतः । अत्राह्नः साहचर्यात् तत्प्रतियोगित्वाच्च रात्रिरपि अहः इत्युच्यते । उत्तरत्र मन्त्रान्तरे अयमेवार्थः स्पष्टः आम्नातः ‘अहश्च कृष्णमहर्जुनं च वि वर्तेते रजसी वेद्याभिः ' ( ऋ. सं. ६. ९. १ ) इति । तयोर्मध्ये अन्यत् रात्रिरूपमहः "अप "एति अपगच्छति प्रतिलोमं गच्छति वा । ‘ अपेत्येतस्य प्रतिलोम्यम्' (निरु. १. ३) इति यास्कः । "अन्यत् च दिवसाख्यमहः “अभि “एति अभिमुख्येन गच्छति । ‘ अभीत्याभिमुख्यम्' (निरु. १. ३) इति यास्कः । रात्र्यां प्रतिनिवृत्तायाम् अहः अभिमुखमागच्छतीत्यर्थः । विषुरूपे सं चरेते इति यदुक्तं तदेव स्पष्टीक्रियते । "परिक्षितोः पर्यायेण निवसतोः परिक्षपयतोर्वा । प्राणिनाम् अहःसु अतीतेषु आयुषः क्षयात् परिक्षपणं प्रसिद्धम् । तयोर्मध्ये "अन्या रात्रिः “तमः तमोरूपा "गुहा पदार्थानां गूहनम् "अकः करोति । अन्या अहरेकदेशभूता च "उषाः शोशुचता भृशं दीप्तेन "रथेन "अद्यौत् । द्योतते प्रकाशते प्रकाशयति वा सर्वम् । रात्रिः तमोरूपत्वात् सर्वं जगत् आवृणोति । उषास्तु सर्वान् भावान् प्रकाशयति इत्युषसः स्तुतिः ॥


स॒दृशी॑र॒द्य स॒दृशी॒रिदु॒ श्वो दी॒र्घं स॑चन्ते॒ वरु॑णस्य॒ धाम॑ ।

अ॒न॒व॒द्यास्त्रिं॒शतं॒ योज॑ना॒न्येकै॑का॒ क्रतुं॒ परि॑ यन्ति स॒द्यः ॥

सऽदृशीः । अद्य । सऽदृशीः । इत् । ऊँ इति । श्वः । दीर्घम् । सचन्ते । वरुणस्य । धाम ।

अनवद्याः । त्रिशतम् । योजनानि । एकाऽएका । क्रतुम् । परि । यन्ति । सद्यः ॥ ८ ॥

“अद्य अस्मिन्नहनि. "सदृशीः "इत् परस्परं सदृश्यः एव । तथा “श्वः इत् परस्मिन्नप्यहनि “सदृशीः परस्परं सदृश्य एव। उशब्दोऽपिशब्दार्थः। इच्छब्द एवार्थः । अद्यतन्योऽपि श्वस्तनीभिः सदृश्यः श्वस्तन्यश्च अद्यतनीभिः। एवम् अहरन्तरेण सादृश्यम् । कथं सादृश्यमिति तदुपपद्यते । यदा नक्षत्राणि न दृश्यन्ते सूर्यश्च नोदेति उषःकालः। स चैकविंशतिघटिकाभिः षड्विंशितिपराभिश्च संमितः । सूर्यो हि प्रतिदिनम् एकोनषष्ट्यधिकपञ्चसहस्रयोजनानि मेरुं प्रादक्षिण्येन परिभ्रमति । तथा सति यत्र यत्र लङ्कादिभूप्रदेशे सूर्यो गच्छति तस्य तस्य पुरस्तात् त्रिंशयोजनम् उषाः अपि गच्छति । सूर्यो यस्मिन् देशे गच्छति तत्र त्रिंशद्योजनं पुरस्ताद्देशस्थितानामुदितो दृश्यते । एवं सर्वप्रदेशेष्वपि । तथा उषाः अपि यत्र गच्छति ततः पुरस्तात् त्रिंशद्योजनभूभागवर्तिनामुदिता दृश्यते । एवं लङ्कादिसर्वप्रदेशस्थितानामप्युषस उदयोऽवगन्तव्यः । एवं च सति एकस्मिन् भूभागे यावत्कालं यथोषाः प्रकाशयति तथा भूभागान्तरेऽपि तावन्तं कालं प्रकाशयति । एवम् उक्तरीत्या एकस्मिन्नेवाहनि सर्वप्रदेशवर्तिनामप्युषसः सदृश्यः । प्रदेशबाहुल्यमपेक्ष्य उषसां बहुत्वात् बहुवचनम् । एवमेकरूपाः उषसः "अनवद्याः शुद्धाः। तासामुदयात् सवें भावा अनवद्या भविष्यन्ति किमु वक्तव्यं तासामनवद्यत्वे । "दीर्घम् उक्तरीत्या अत्यन्तमायतं "वरुणस्य तमोनिवारकस्य सूर्यस्य “धाम स्थानं मेरुवलयं "सचन्ते प्रतिदिनं सेवन्ते । कियद्दूरमिति तदुच्यते । "त्रिंशतं "योजनानि त्रिंशद्योजनानि पुरतः । सूर्यो यत्र यत्रोदेति ततस्ततस्त्रिंशद्योजनं पुरस्तादुद्यन्तीत्यर्थः । किंच आसां मध्ये "एकैका उषा लङ्काद्येकैकभूभागवर्तिनां "क्रतुं गमनागमनादिरूपं कर्म तद्विषयां प्रज्ञां वा । तथा च निरुक्तं- क्रतुं दधिक्राः कर्म वा प्रज्ञां वा ' ( निरु. २. २८ ) इति । सद्यः तदानीमेव स्वोदयकाले एव "परि “यन्ति परितो गच्छन्ति । निर्वहन्तीत्यर्थः । तत्तद्भूभागविशेषेण सूर्यस्योदयो ज्योतिःशास्त्रे प्रदर्शितः । ‘ उदयो यो लङ्कायां सोऽस्तमयः सवितुरेव सिद्धपुरे । मध्याह्नो यवकोट्यां रोमकविषयेऽर्धरात्रः स्यात् ' ( आर्य. ४. १३) इति ।।


जा॒न॒त्यह्नः॑ प्रथ॒मस्य॒ नाम॑ शु॒क्रा कृ॒ष्णाद॑जनिष्ट श्विती॒ची ।

ऋ॒तस्य॒ योषा॒ न मि॑नाति॒ धामाह॑रहर्निष्कृ॒तमा॒चर॑न्ती ॥

जानती । अह्नः । प्रथमस्य । नाम । शुक्रा । कृष्णात् । अजनिष्ट । श्वितीची ।

ऋतस्य । योषा । न । मिनाति । धाम । अहःऽअहः । निःऽकृतम् । आऽचरन्ती ।। ९ ।।

उषाः "प्रथमस्य मुख्यस्य प्रथमानस्य वा "अह्नः दिवसस्य "नाम नमनमागमनं "जानती अवगच्छन्ती प्राणिनां प्रज्ञापयन्तीत्यर्थः। सा उषाः "शुक्रा स्वतो दीप्ता अत एव "श्वितीची श्वैत्यं गच्छन्ती प्रकाशं प्राप्नुवती कृष्णात् निकृष्टात् तमसः सकाशात् "अजनिष्ट प्रादुर्भवति । यद्यपि तमसः सकाशान्नोत्पद्यते तथापि तदनन्तरभावित्वात् तत उत्पद्यते इत्युपचर्यते । उत्पन्ना सा “ऋतस्य सत्यभूतस्यादित्यस्य “धाम तेजोयुक्तं स्थानं "योषा मिश्रयन्ती “न "मिनाति न हिनस्ति तदीयं तेजो न पराभवति । अपि तु "अहरहः सर्वेष्वहःसु "निष्कृतमाचरन्ती अलंकारशोभां कुर्वती । यद्वा । ऋतस्य सत्यभूतस्य यज्ञस्य धाम देवयजनाख्यं स्थानं योषा मिश्रणशीला सती न मिनाति न हिनस्ति। किंतु अहरहः सर्वेषु यागदिवसेषु निष्कृतं हविरादीनां प्रकाशनरूपमलंकारम् आचरन्ती कुर्वती तादृश्युषा अजनिष्टेति पूर्वत्रान्वयः ॥


क॒न्ये॑व त॒न्वा॒३॒॑ शाश॑दानाँ॒ एषि॑ देवि दे॒वमिय॑क्षमाणम् ।

सं॒स्मय॑माना युव॒तिः पु॒रस्ता॑दा॒विर्वक्षां॑सि कृणुषे विभा॒ती ॥

कन्याऽइव । तन्वा । शाशदाना । एष् । देवि । देवम् । इयक्षमाणम् ।।

सम्ऽस्मयमाना। युवतिः । पुरस्तात् । आविः । वक्षॆसि । कृणुषे । विऽभाती ॥ १० ॥

"तन्वा शरीरेण “शाशदाना शाशाद्यमाना स्पष्टतां प्राप्नुवती । ‘ शाशदानः शाशाद्यमानः ' (निरु. ६. १६ ) इति यास्कः । "कन्येव कमनीया कन्यकेव। ' कन्या कमनीया भवति क्वेयं नेतव्येति वा ' ( निरु. ४, १५) इति यास्कः । सा यथा जनान्तिके विवसना संचरति तथा हे उषस्त्वं कन्या कमनीया अप्रगल्भा सती तन्वा शरीरेण शाशदाना स्पष्टतां गच्छन्ती दृश्यसे । पश्चात् प्रगल्भा सती हे "देवि देवनशीले “इयक्षमाणं यष्टुमिच्छन्तम् अभिमतं दातुमिच्छन्तं वा "देवं द्योतनस्वभावं सूर्यरूपं प्रियम् “एषि गच्छसि । ततः पश्चात् "युवतिः यौवनोपेता सती पुरस्तात् पत्युः सूर्यस्य पुरतः "संस्मयमाना सम् ईषत् हसन्ती हास्यं कुर्वती विभाती अत्यन्तं भासमाना “वक्षांसि वक्षसोपलक्षितानवयवान् "आविः "कृणुषे प्रकटीकरोषि । यद्वा । युवतिरिति लुप्तोपमा । यथा लोके प्रगल्भा योषित् पुरस्तात् प्रियतमस्य पुरतः संस्मयमाना दन्तप्रदर्शनाय ईषद्धसनं कुर्वती वक्षांसि वक्षसोपलक्षितानि गोप्यानि बाहुमूलस्तनादीनि आविष्करोति तथा त्वमपीत्यर्थः । यद्वा । पुरस्तात् पूर्वस्यां दिशि संस्मयमाना स्मितोपमप्रकाशं कुर्वती युवतिः सर्वेषु भावेषु मिश्रणशीला वक्षांसि । वक्ष इति रूपनाम । दन्तस्थानीयानि नीलपीतादीनि रूपाण्याविष्करोषि ।। ।। ५ ।।


सु॒सं॒का॒शा मा॒तृमृ॑ष्टेव॒ योषा॒विस्त॒न्वं॑ कृणुषे दृ॒शे कम् ।

भ॒द्रा त्वमु॑षो वित॒रं व्यु॑च्छ॒ न तत्ते॑ अ॒न्या उ॒षसो॑ नशन्त ॥

सुऽसंकाशा । मातृमृष्टाऽइव । योषा । आविः । तन्वम् । कृणुषे । दृशे । कम् ।

भद्रा । त्वम्। उषः। विऽतरम् । वि। उच्छ। न । तत् । ते। अन्याः । उषसः । नशन्त ॥११॥

हे उषोदेवि "मातृमृष्टा मातृभिर्जननीभिः शुद्धीकृता "योषा इव "सुसंकाशा अत्यर्थं प्रकाशमाना एवं तन्वं स्वकीयां तनुं "दृशे सर्वेषां दर्शनाय "आविः "कृणुषे प्रकटयसि । यथा लोके मात्रादिना स्वलंकृता अत्यन्तं शोभना सती स्वकीयं लावण्योपेतं सर्वशरीरं दर्शनायाविष्करोति तद्वत्त्वमपीत्यर्थः । अत्र "कम् इति पादपूरणः अत्र विशेषस्याभावात् • शिशिरं जीवनय कम्' इतिवत् । तथा च यास्काचार्यः-’ मिताक्षरेष्वनर्थकाः कमीमिद्विति' (निरु. १. ९) इति । यद्वा । कमिति सुखवचनः । सुखं यथा भवति तथा आविष्कृणुषे इत्यर्थः । हे उषः यत एवं करोषि अतः “भद्रा कल्याणशीला स्तुत्या “त्वं "वितरं "व्युच्छ आवरकमन्धकारं विप्रकृष्टं यथा भवति तथा विवासय । अत्र यद्यपि विशेषो न श्रुतस्तथापि प्रकाशनिवर्त्यत्वात् परिहरणीयत्वाच्च व्युदसनीयं तम एव इति गम्यते । किंच "ते तव "तत् व्युदसनम् "अन्याः "उषसः अतीताः आगामिन्यश्च "न "नशन्त न व्याप्नुवन्ति तथा व्युच्छेति भावः । नशिर्व्याप्तिकर्मा।' इन्वति ननक्ष' इति व्याप्तिकर्मसु पाठात् ॥


अश्वा॑वती॒र्गोम॑तीर्वि॒श्ववा॑रा॒ यत॑माना र॒श्मिभि॒ः सूर्य॑स्य ।

परा॑ च॒ यन्ति॒ पुन॒रा च॑ यन्ति भ॒द्रा नाम॒ वह॑माना उ॒षासः॑ ॥

अश्वऽवतीः । गोऽमतीः । विश्वऽवाराः । यतमानाः । रश्मिऽभिः । सूर्यस्य ।

परा । च । यन्ति । पुनः । आ । च । यन्ति । भद्रा । नाम । वहमानाः। उषसः ॥ १२ ॥

"अश्वावतीः अश्ववत्यो बहुभिरश्वैस्तद्वत्यः तथा “गोमतीः बहुभिर्गोभिस्तद्वत्यः "विश्ववाराः विश्वे वाराः वरणीयाः कालाः यासां ताः तथोक्ताः । सार्वकालीन इत्यर्थः । यद्वा । विश्वे वरितारो यासु ताः विश्ववाराः। विश्वैर्वरणीया इत्यर्थः । सूर्यस्य रश्मिभिः यतमानाः सूर्यरश्मिभिः साकं तमोनिवारणाय प्रयत्नं कुर्वाणाः । यद्यपि सूर्यरश्मय एव जगत्प्रकाशनाय प्रभवन्ति तथापि सूर्योदयात् पूर्वं तमोनिवारणस्यापेक्षितत्वात् तासामपि प्रयत्नमविरुद्धम् । रश्मिदेवताः अपि प्रकाशिकाः इत्यर्थः । किंच “भद्रा भद्रं कल्याणं स्तुत्यं वा “नाम नमनं सर्वजनानुकूल्यं वहमानाः धारयमाणाः “उषासः उषोदेवताः "परा “च "यन्ति परायन्ति च । तथा “पुनरा च "यन्ति पुनरायन्ति च । परस्परापेक्षया उभयत्र चशब्दः । या एवातीतेषु दिनेषु गताः ता एव पुनःपुनर्दिनान्तरेषु अपि आयन्ति । जगन्निर्वाहाय प्रतिदिनं गतागतं कुर्वन्तीत्यर्थः ।।


ऋ॒तस्य॑ र॒श्मिम॑नु॒यच्छ॑माना भ॒द्रम्भ॑द्रं॒ क्रतु॑म॒स्मासु॑ धेहि ।

उषो॑ नो अ॒द्य सु॒हवा॒ व्यु॑च्छा॒स्मासु॒ रायो॑ म॒घव॑त्सु च स्युः ॥

ऋतस्य । रश्मिम् । अनुऽयच्छमाना । भद्रम्ऽभद्रम् । क्रतुम् । अस्मासु । धेहि ।

उषः। नः । अद्य । सुऽहवा । वि। उच्छ । अस्मासु । रायः। मघवत्ऽसु । च । स्युरिति स्युः ॥१३॥

हे उषः "ऋतस्य सत्यभूतस्यादित्यस्य "रश्मिं रश्मीन् अनुयच्छमाना अनुकूल्येन प्रवर्तमाना त्वं “भदभद्रं "क्रतुं तत्तत्कल्याणं स्तुत्यं वा लौकिकं वैदिकं कर्म तद्विषयां प्रज्ञां वा “धेहि स्थापय । हे उषः "नः अस्मदर्थं "सुहवा सुष्ठु आहूता सती व्युच्छ तमो विवासय प्रकाशं कुर्वित्यर्थः। किमर्थमिति तदुच्यते । "मघवत्सु । मघमिति धननाम । हविर्लक्षणधनयुक्तेषु “अस्मासु यजमानेषु "रायः “च "स्युः बहुविधानि धनानि संभवन्त्विति पूर्वोक्तेन क्रतुना सह समुच्चयार्थः शब्दः ॥ ॥ ६ ॥



मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१२३&oldid=182603" इत्यस्माद् पुनः प्राप्तिः