ऋग्वेदः सूक्तं १.१७६
← सूक्तं १.१७५ | ऋग्वेदः - मण्डल १ सूक्तं १.१७६ अगस्त्यो मैत्रावरुणिः |
सूक्तं १.१७७ → |
दे. इन्द्रः । अनुष्टुप्, ६ त्रिष्टुप् । |
मत्सि नो वस्यइष्टय इन्द्रमिन्दो वृषा विश ।
ऋघायमाण इन्वसि शत्रुमन्ति न विन्दसि ॥१॥
तस्मिन्ना वेशया गिरो य एकश्चर्षणीनाम् ।
अनु स्वधा यमुप्यते यवं न चर्कृषद्वृषा ॥२॥
यस्य विश्वानि हस्तयोः पञ्च क्षितीनां वसु ।
स्पाशयस्व यो अस्मध्रुग्दिव्येवाशनिर्जहि ॥३॥
असुन्वन्तं समं जहि दूणाशं यो न ते मयः ।
अस्मभ्यमस्य वेदनं दद्धि सूरिश्चिदोहते ॥४॥
आवो यस्य द्विबर्हसोऽर्केषु सानुषगसत् ।
आजाविन्द्रस्येन्दो प्रावो वाजेषु वाजिनम् ॥५॥
यथा पूर्वेभ्यो जरितृभ्य इन्द्र मय इवापो न तृष्यते बभूथ ।
तामनु त्वा निविदं जोहवीमि विद्यामेषं वृजनं जीरदानुम् ॥६॥
सायणभाष्यम्
मत्सि॑ नो॒ वस्य॑इष्टय॒ इन्द्र॑मिन्दो॒ वृषा वि॑श ।
ऋ॒घा॒यमा॑ण इन्वसि॒ शत्रु॒मन्ति॒ न वि॑न्दसि ॥१
मत्सि॑ । नः॒ । वस्यः॑ऽइष्टये । इन्द्र॑म् । इ॒न्दो॒ इति॑ । वृषा॑ । आ । वि॒श॒ ।
ऋ॒घा॒यमा॑णः । इ॒न्व॒सि॒ । शत्रु॑म् । अन्ति॑ । न । वि॒न्द॒सि॒ ॥१
मत्सि। नः । वस्यःऽइष्टये । इन्द्रम् । इन्दो इति। वृषा । आ । विश ।
ऋघायमाणः । इन्वसि । शत्रुम् । अन्ति। न । विन्दसि ॥ १ ॥
हे “इन्दो क्लेदयितः सोम त्वं नो “वस्यइष्टये वसीयसो धनस्य प्राप्तये उक्तलक्षणाय यागाय वा “इन्द्रं “मत्सि मादयस्व । तदर्थं त्वमेवेन्द्रं “वृषा कामानां वर्षिता “आ “विश । अथ तथा पीतः सन् “ऋघायमाणः शत्रून् हिंसयन “इन्वसि व्याप्नोषि । अतः “अन्ति अन्तिके "शत्रुं न “विन्दसि न लभसे । यतः शत्रवस्त्वत्सामर्थ्येन पलायिताः अतो न विन्दसि । यद्वा । उत्तरार्धं इन्द्रपरतया व्याख्येयः । हे इन्द्र त्वं तं सोमं पीत्वा ऋघायमाणः सन् इन्वसि । अन्तिके शत्रुं न विन्दसि ॥
तस्मि॒न्ना वे॑शया॒ गिरो॒ य एक॑श्चर्षणी॒नाम् ।
अनु॑ स्व॒धा यमु॒प्यते॒ यवं॒ न चर्कृ॑ष॒द्वृषा॑ ॥२
तस्मि॑न् । आ । वे॒श॒य॒ । गिरः॑ । यः । एकः॑ । च॒र्ष॒णी॒नाम् ।
अनु॑ । स्व॒धा । यम् । उ॒प्यते॑ । यव॑म् । न । चर्कृ॑षत् । वृषा॑ ॥२
तस्मिन् । आ । वेशय । गिरः । यः । एकः । चर्षणीनाम् ।
अनु। स्वधा । यम् । उप्यते । यवम् । न । चर्कृषत् । वृषा ॥ २ ॥
हे अन्तरात्मन् होतर्वा “तस्मिन् प्रसिद्धं इन्द्रे “गिरः स्तुतिरूपाः वाचः "आ "वेशय स्थापय तं स्तुहीत्यर्थः । “य इन्द्रः “चर्षणीनां ज्ञानवतां मनुष्याणाम् “एकः एक एव स्थानीयः । “यम् “अनु यमेवेन्द्रमनु “स्वधा हविर्लक्षणमन्नम् “उप्यते दीयत इत्यर्थः । स चेन्द्रः “वृषा वर्षकः सन् “यवं “न यवमिव पक्कं यवं यथा “चर्कृषत् क्रमेण अददते कर्षकाः तद्वदादत्ते । यद्वा । अनु स्वधा अन्नसाधनं व्रीह्यादिकमुप्यते भूमौ । यस्येन्द्रस्य वृष्टिरूपमनुग्रहमपेक्ष्योप्यते इत्यर्थः । स च वृषा वृष्टेर्वर्षिता स इन्द्रो यवं न यवमिव सर्वबीजमपि चर्कृषत् पुनःपुनः करोति अङ्कुरयति । हविःसाधनत्वप्राशस्त्यमपेक्ष्य यवशब्दः प्रयुक्तः । एवंमहानुभावे इन्द्रे गिर आ वेशयेति ॥
यस्य॒ विश्वा॑नि॒ हस्त॑यो॒ः पञ्च॑ क्षिती॒नां वसु॑ ।
स्पा॒शय॑स्व॒ यो अ॑स्म॒ध्रुग्दि॒व्येवा॒शनि॑र्जहि ॥३
यस्य॑ । विश्वा॑नि । हस्त॑योः । पञ्च॑ । क्षि॒ती॒नाम् । वसु॑ ।
स्पा॒शय॑स्व । यः । अ॒स्म॒ऽध्रुक् । दि॒व्याऽइ॑व । अ॒शनिः॑ । ज॒हि॒ ॥३
यस्य । विश्वानि । हस्तयोः । पञ्च । क्षितीनाम् । वसु ।
स्पाशयस्व । यः । अस्मऽध्रुक् । दिव्याऽइव । अशनिः । जहि ॥ ३ ॥
"यस्य इन्द्रस्य “हस्तयोः “पञ्च “क्षितीनाम् । क्षियन्ति निवसन्ति गच्छन्ति वा क्षितयो मनुष्याः । पञ्चानां मनुष्याणां प्रीणयितॄणि “विश्वानि सर्वाणि "वसु वसूनि धृतानि भवन्ति । देवा मनुष्याः पितरः पशवः पक्षिणश्चेति पञ्च जनाः । चत्वारो वर्णाः निषादपञ्चमाः पञ्च जना इत्यन्ये । स तादृशेन्द्र त्वं “स्पाशयस्व बाधस्व । “यो “अस्मध्रुक् अस्मभ्यं द्रुह्यति तम् । केन प्रकारेणेति स उच्यते । "दिव्या दिवि भवा “अशनिः “इव अशनिर्भूत्वा अस्मद्द्वेष्टॄन् "जहि ॥
असु॑न्वन्तं समं जहि दू॒णाशं॒ यो न ते॒ मय॑ः ।
अ॒स्मभ्य॑मस्य॒ वेद॑नं द॒द्धि सू॒रिश्चि॑दोहते ॥४
असु॑न्वन्तम् । स॒म॒म् । ज॒हि॒ । दुः॒ऽनश॑म् । यः । न । ते॒ । मयः॑ ।
अ॒स्मभ्य॑म् । अ॒स्य॒ । वेद॑नम् । द॒द्धि । सू॒रिः । चि॒त् । ओ॒ह॒ते॒ ॥४
असुन्वन्तम् । समम् । जहि । दुःऽनशम् । यः । न । ते। मयः । ।
अस्मभ्यम् । अस्य । वेदनम् । दद्धि । सूरिः । चित् । ओहते ॥ ४ ॥
हे इन्द्र "असुन्वन्तं सोमाभिषवमकुर्वाणम् । त्वामयजन्तमित्यर्थः । “दूणाश दुःखेन नाशनीयं "समम् । अयं सर्वानुदात्त: सर्वशब्दपर्यायः । अयष्टॄन् सर्वान् । यद्वा । सममेकोद्योगेनाविशेषण वा “जहि । तेन किमपराद्धमिति अत आह । “यः “ते तव “मयः । मय इति सुखनाम। तव सुखहेतुः "न भवति । यो होमेन स्तुत्या वा न प्रीणाति तं जहि। किंच “अस्य वेदनं धनम् “अस्मभ्यं “दद्धि देहि ।। ‘दद दाने ' इत्यस्मात् व्यत्ययेन परस्मैपदम् । छान्दसः शपो लुक् ॥ “सूरिश्चिदोहते । चित् एवार्थे । सूरिस्तव स्तोता एव ओहते । वहति प्राप्नोति धनम् ।।
आवो॒ यस्य॑ द्वि॒बर्ह॑सो॒ऽर्केषु॑ सानु॒षगस॑त् ।
आ॒जाविन्द्र॑स्येन्दो॒ प्रावो॒ वाजे॑षु वा॒जिन॑म् ॥५
आवः॑ । यस्य॑ । द्वि॒ऽबर्ह॑सः । अ॒र्केषु॑ । सा॒नु॒षक् । अस॑त् ।
आ॒जौ । इन्द्र॑स्य । इ॒न्दो॒ इति॑ । प्र । आ॒वः॒ । वाजे॑षु । वा॒जिन॑म् ॥५
आवः । यस्य । द्विऽबर्हसः । अर्केषु । सानुषक् । असत् ।।
आजौ । इन्द्रस्य । इन्दो इति । प्र । आवः । वाजेषु । वाजिनम् ॥ ५॥
हे “इन्दो सोम तव “यस्य “द्विबर्हसः स्तोत्रहवीरूपद्विविधपरिवृढकर्मवतो यजमानस्य “अर्केषु मन्त्रेषु “सानुषक् सानुषङ्गः सातत्यम् असत् भवेत् तम् आवः । तं यजमान रक्षसि तर्पयसि वा । यद्वा ॥ कर्मणि षष्ठी ॥ यं द्वयोः स्थानयोः परिवृढं यमिन्द्रं हे इन्दो यदार्केषु सानुषगसत् भवेः तदावः अरक्षः अतर्पयो वा । तस्यैव “इन्द्रस्य “आजौ संग्रामे हे सोम “वाजिनं तथान्नवन्तं तमिन्द्रं “वाजेषु बलेष्वन्नेषु वा निमित्तभूतेषु “प्रावः प्रकर्षेण अरक्षयः । पानसमये तर्पयित्वा संग्रामसमये बलवर्धनेन जयप्राप्तशत्रुधनतर्पणेन वा अरक्षः इत्यर्थः ॥
यथा॒ पूर्वे॑भ्यो जरि॒तृभ्य॑ इन्द्र॒ मय॑ इ॒वापो॒ न तृष्य॑ते ब॒भूथ॑ ।
तामनु॑ त्वा नि॒विदं॑ जोहवीमि वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥६
यथा॑ । पूर्वे॑भ्यः । ज॒रि॒तृऽभ्यः॑ । इ॒न्द्र॒ । मयः॑ऽइव । आपः॑ । न । तृष्य॑ते । ब॒भूथ॑ ।
ताम् । अनु॑ । त्वा॒ । नि॒ऽविद॑म् । जो॒ह॒वी॒मि॒ । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥६
यथा । पूर्वेभ्यः । जरितृऽभ्यः । इन्द्र । मयःऽइव । आपः । न । तृष्यते । बभूथ ।
ताम् । अनु। त्वा। निऽविदम् । जोहवीमि । विद्याम । इषम् । वृजनम् । जीरऽदानुम् ॥६॥
‘ यथा पूर्वेभ्यः' इति षष्ठी व्याख्याता ॥ ॥ १९ ॥
मण्डल १ | ||||||
---|---|---|---|---|---|---|
|