सामग्री पर जाएँ

ऋग्वेदः सूक्तं १.१३३

विकिस्रोतः तः
← सूक्तं १.१३२ ऋग्वेदः - मण्डल १
सूक्तं १.१३३
परुच्छेपो दैवोदासिः
सूक्तं १.१३४ →
दे. इन्द्रः । १ त्रिष्टुप्, २-४ अनुष्टुप्, ५ गायत्री, ६ धृतिः, ७ अष्टिः ।


उभे पुनामि रोदसी ऋतेन द्रुहो दहामि सं महीरनिन्द्राः ।
अभिव्लग्य यत्र हता अमित्रा वैलस्थानं परि तृळ्हा अशेरन् ॥१॥
अभिव्लग्या चिदद्रिवः शीर्षा यातुमतीनाम् ।
छिन्धि वटूरिणा पदा महावटूरिणा पदा ॥२॥
अवासां मघवञ्जहि शर्धो यातुमतीनाम् ।
वैलस्थानके अर्मके महावैलस्थे अर्मके ॥३॥
यासां तिस्रः पञ्चाशतोऽभिव्लङ्गैरपावपः ।
तत्सु ते मनायति तकत्सु ते मनायति ॥४॥
पिशङ्गभृष्टिमम्भृणं पिशाचिमिन्द्र सं मृण ।
सर्वं रक्षो नि बर्हय ॥५॥
अवर्मह इन्द्र दादृहि श्रुधी नः शुशोच हि द्यौः क्षा न भीषाँ अद्रिवो घृणान्न भीषाँ अद्रिवः ।
शुष्मिन्तमो हि शुष्मिभिर्वधैरुग्रेभिरीयसे ।
अपूरुषघ्नो अप्रतीत शूर सत्वभिस्त्रिसप्तैः शूर सत्वभिः ॥६॥
वनोति हि सुन्वन्क्षयं परीणसः सुन्वानो हि ष्मा यजत्यव द्विषो देवानामव द्विषः ।
सुन्वान इत्सिषासति सहस्रा वाज्यवृतः ।
सुन्वानायेन्द्रो ददात्याभुवं रयिं ददात्याभुवम् ॥७॥


सायणभाष्यम्

‘ उभे पुनामि' इति सप्तर्चं सप्तमं सूक्तं पारुच्छेपमैन्द्रम् । आद्या त्रिष्टुप् । 'अभिव्लग्या' इत्याद्यास्तिस्रोऽनुष्टुभः । ‘ पिशङ्गभृष्टिम्' इत्येषा गायत्री। ‘अवर्महः' इत्येषा धृतिः । “वनोति हि' इत्यनभिधानादत्यष्टिः। अत्रानुक्रमणिका-‘उभे सप्तादौ त्रिष्टुप् तिस्रोऽनुष्टुभो गायत्री धृतिः' इति ॥ अस्य सूक्तस्य विनियोगमाह शौनकः । ‘ उभे" पुनामीति पुरा रिपुघ्न्यस्तु प्रकीर्तिताः । ता जपन् प्रयतो नित्यमिष्टान् कामान्समश्नुते । ता जपन् हन्ति रक्षांसि सपत्नांश्च नियच्छति' (ऋग्वि०१.२५) ॥


उ॒भे पु॑नामि॒ रोद॑सी ऋ॒तेन॒ द्रुहो॑ दहामि॒ सं म॒हीर॑निं॒द्राः ।

अ॒भि॒व्लग्य॒ यत्र॑ ह॒ता अ॒मित्रा॑ वैलस्था॒नं परि॑ तृ॒ळ्हा अशे॑रन् ॥१

उ॒भे इति॑ । पु॒ना॒मि॒ । रोद॑सी॒ इति॑ । ऋ॒तेन॑ । द्रुहः॑ । द॒हा॒मि॒ । सम् । म॒हीः । अ॒नि॒न्द्राः ।

अ॒भि॒ऽव्लग्य॑ । यत्र॑ । ह॒ताः । अ॒मित्राः॑ । वै॒ल॒ऽस्था॒नम् । परि॑ । तृ॒ळ्हाः । अशे॑रन् ॥१

उभे इति । पुनामि । रोदसी इति । ऋतेन । द्रुहः । दहामि । सम् । महीः । अनिन्द्राः ।

अभिऽव्लग्य । यत्र । हताः । अमित्राः । वैलऽस्थानम् । परि । तृळ्हाः । अशेरन् ॥१

हे इन्द्र “ऋतेन त्वदुद्देश्येन यज्ञेन बलेन’ “उभे “रोदसी द्यावापृथिव्यौ “पुनामि लोकद्वयं हिंसकानां तव अयष्टॄणां वा अपगमनेन पावयामि । किंच भूलोके “अनिन्द्राः इन्द्रविरहितानाम् आश्रयभूताः “महीः “उर्वीः अत एव “द्रुहः द्रोहिणामाधारभूतत्वात् स्वयमपि द्रोग्धीः "सं “दहामि संभूय एकहेलया दहामि । पुनस्ता एव विशेष्यन्ते । “यत्र यासु भूमिषु "अमित्राः शत्रवः "अभिव्लग्य अभितो गत्वा “हताः सर्वतः प्राप्ताः अस्माभिर्घातिता वा ॥ व्लगतिर्गतिकर्मा छान्दसो धातुः ॥ ते सर्वे “परि “तृळ्हाः हिंसिताः ॥ तृहू हिंसार्थः । ऊदित्त्वात् “ यस्य विभाषा ' इति इट्प्रतिषेधः ॥ हिंसिताः सन्तः “अशेरन् शयनं प्राप्ताः ॥ शेतेर्व्यत्ययेन परस्मैपदम् ।' शीङो रुट्' (पा. सू. ७. १. ६) । शीङः सार्वधातुके गुणः ।। “वैलस्थानम् । बिलशब्दो गर्तसमानार्थः । स च गर्तः श्मशानवचनः । अतः अयमपि श्मशानवाची । अथवा बिलसंबन्धिस्थानं नागलोकः । तत्र वा अशेरन् । यद्वा । ‘ विल क्षेपे ' इति धातुः । घञर्थे कः। स्वार्थिकः अण् । तत्र शवाः क्षिप्यन्ते इति वैलस्थानं श्मशानम् ॥ तत्र त्वया हताः भूमिं श्मशानवत्कृत्वा सर्वत्र शेरते । तान् दहामीत्यर्थः॥


अ॒भि॒व्लग्या॑ चिदद्रिवः शी॒र्षा या॑तु॒मती॑नां ।

छिं॒धि व॑टू॒रिणा॑ प॒दा म॒हाव॑टूरिणा प॒दा ॥२

अ॒भि॒ऽव्लग्य॑ । चि॒त् । अ॒द्रि॒ऽवः॒ । शी॒र्षा । या॒तु॒ऽमती॑नाम् ।

छि॒न्धि । व॒टू॒रिणा॑ । प॒दा । म॒हाऽव॑टूरिणा । प॒दा ॥२

अभिऽव्लग्य । चित् । अद्रिऽवः । शीर्षा । यातुऽमतीनाम् ।

छिन्धि । वटूरिणा । पदा । महाऽवटूरिणा । पदा ॥२

"अद्रिवः वैरिणां भक्षक । यद्वा अद्रेः मेघस्य आदर्तः इन्द्र त्वं “यातुमतीनां हिंसावतीनां सेनानाम् । यद्वा । यातनसाधनानि आयुधानि यातूनि तद्वतीनाम् । अथवा । यातवो रक्षांसि तद्वतीनां सेनानाम् ।। कर्मणि षष्ठी। शत्रूणां सेनाः। “शीर्षा शीर्षाणि "अभिव्लग्या "चित् अभितः प्राप्यैव “च्छिन्धि चूर्णय। यद्वा । तासां संबन्धीनि रथादीनि च्छिन्धि । केन साधनेनेति तदुच्यते । “वटूरिणा “पदा वेष्टनशीलेन सर्वव्याप्तेन त्वदीयपादेन अतिविस्तृतेनेत्यर्थः । यद्वा । वटूरिणा पदा वेष्टनशीलेन हस्तिनः संबन्धिना पादेन ऐरावतपादेनेत्यर्थः । न केवलेन येन केन पादेनेत्याह । “महावटूरिणा “पदा महावेष्टनवता स्वीयेन ऐरावतसंबन्धिना वा पादेन च्छिन्धि चूर्णय ।। वट वेष्टने '। ‘ खर्जिपिञ्ज्यादिभ्य ऊरोलचौ ' (उ. सू. ४. ५३० ) इति ऊरप्रत्ययः । अत इनिठनौ ' इति इनिः ॥


अवा॑सां मघवञ्जहि॒ शर्धो॑ यातु॒मती॑नां ।

वै॒ल॒स्था॒न॒के अ॑र्म॒के म॒हावै॑लस्थे अर्म॒के ॥३

अव॑ । आ॒सा॒म् । म॒घ॒ऽव॒न् । ज॒हि॒ । शर्धः॑ । या॒तु॒ऽमती॑नाम् ।

वै॒ल॒ऽस्था॒न॒के । अ॒र्म॒के । म॒हाऽवै॑लस्थे । अ॒र्म॒के ॥३

अव । आसाम् । मघऽवन् । जहि । शर्धः । यातुऽमतीनाम् ।

वैलऽस्थानके । अर्मके । महाऽवैलस्थे । अर्मके ॥३

हे इन्द्र “मघवन् धनवन् "आसां “यातुमतीनाम् । यातनसाधनानि आयुधानि यातूनि तद्वतीनां यातुधानवतां वा सेनानां “शर्धः बलम् “अव "जहि चूर्णय। तथा कृत्वा च "अर्मके कुत्सिते शवैः अरणीये "वैलस्थानके कुत्सिते पूर्वोक्तलक्षणे श्मशाने क्षपय इति शेषः । यद्वा । वैलस्थानके बिलसंबन्धिनि कुत्सिते स्थाने अन्धकारावृते अधोलोके स्थापयेति शेषः। ननु यत्र क्वचित् क्षुद्रे न इत्याह । “महावैलस्थे सर्वैर्गन्तव्ये महाश्मशाने नागलोके वा । पुनः कीदृशे । “अर्मके कुत्सिते गतासुभिः अरणीये ॥


यासां॑ ति॒स्रः पं॑चा॒शतो॑ऽभिव्लं॒गैर॒पाव॑पः ।

तत्सु ते॑ मनायति त॒कत्सु ते॑ मनायति ॥४

यासा॑म् । ति॒स्रः । प॒ञ्चा॒शतः॑ । अ॒भि॒ऽव्ल॒ङ्गैः । अ॒प॒ऽअव॑पः ।

तत् । सु । ते॒ । म॒ना॒य॒ति॒ । त॒कत् । सु । ते॒ । म॒ना॒य॒ति॒ ॥४

यासाम् । तिस्रः । पञ्चाशतः । अभिऽव्लङ्गैः । अपऽअवपः ।

तत् । सु । ते । मनायति । तकत् । सु । ते । मनायति ॥४

हे इन्द्र “यासां पूर्वमन्त्रोक्तलक्षणानां सेनानां “तिस्रः “पञ्चाशतः त्रिगुणितपञ्चाशत्संख्यां सार्धशतम् “अभिव्लङ्गैः अभिगमनैः ॥ व्लङ्गतिर्गतिकर्मेत्युक्तम् । अभिगम्य “अपावपः नाशितवानसि । हे इन्द्र “तत् तादृशं सेनावधादिरूपं कर्म "सु" “मनायति सुष्ठु संभावयतीत्यर्थः। किंच हे इन्द्र “ते तव अध्यर्धशतशत्रुसेनाजयरूपं महदपि “तकत् इति "सु मनायति अत्यल्पमिदमिति सुष्ठु मन्यते ॥


पि॒शंग॑भृष्टिमंभृ॒णं पि॒शाचि॑मिंद्र॒ सं मृ॑ण ।

सर्वं॒ रक्षो॒ नि ब॑र्हय ॥५

पि॒शङ्ग॑ऽभृष्टिम् । अ॒म्भृ॒णम् । पि॒शाचि॑म् । इ॒न्द्र॒ । सम् । मृ॒ण॒ ।

सर्व॑म् । रक्षः॑ । नि । ब॒र्ह॒य॒ ॥५

पिशङ्गऽभृष्टिम् । अम्भृणम् । पिशाचिम् । इन्द्र । सम् । मृण ।

सर्वम् । रक्षः । नि । बर्हय ॥५

हे “इन्द्र "पिशङ्गभृष्टिम् ईषद्रक्तवर्णम् “अम्भृणम् अतिभयंकरं शब्दायमानम् ॥ ‘ भ्रण शब्दे । यङ्लुगन्तात् पचाद्यचि छान्दसो भलोपश्च॥ यद्वा । महान्तम् अतिप्रवृद्धमित्यर्थः । अम्भृण इति महन्नाम, अम्भृणः माहिनः' (नि. ३. ३. १६ ) इति तत्र पाठात् । उक्तविधिं “पिशाचिं पिशाचविशेषं जरामित्येके। “सं “मृण सम्यग्हिंसय । न केवलं तमेकं किंतु “सर्वं “रक्षः रक्षणनिमित्तभूतं राक्षसादिकं “नि “बर्हय निषूदय ।। बृह हिंसायाम् । चौरादिकः ॥ नामय। वधकर्मैतत्। ‘ नितोशयति निबर्हयति' (नि. २. १९. ३०) इति तत्रोक्तत्वात् ॥


दशरात्रस्य षष्ठेऽहनि प्रउगशस्त्रे ऐन्द्रतृचस्य ‘अवर्मह इन्द्र' इत्यादिके प्रथमाद्वितीये । “षष्ठस्य' इति खण्डे सूत्रितम्- अवर्मह इन्द्र वृषन्निन्द्र' ( आश्व. श्रौ. ८. १ ) इति ॥

अ॒वर्म॒ह इं॑द्र दादृ॒हि श्रु॒धी नः॑ शु॒शोच॒ हि द्यौः क्षा न भी॒षाँ अ॑द्रिवो घृ॒णान्न भी॒षाँ अ॑द्रिवः ।

शु॒ष्मिंत॑मो॒ हि शु॒ष्मिभि॑र्व॒धैरु॒ग्रेभि॒रीय॑से ।

अपू॑रुषघ्नो अप्रतीत शूर॒ सत्व॑भिस्त्रिस॒प्तैः शू॑र॒ सत्व॑भिः ॥६

अ॒वः । म॒हः । इ॒न्द्र॒ । द॒दृ॒हि । श्रु॒धि । नः॒ । शु॒शोच॑ । हि । द्यौः । क्षाः । न । भी॒षा । अ॒द्रि॒ऽवः॒ । घृ॒णात् । न । भी॒षा । अ॒द्रि॒ऽवः॒ ।

शु॒ष्मिन्ऽत॑मः । हि । शु॒ष्मिऽभिः॑ । व॒धैः । उ॒ग्रेभिः॑ । ईय॑से ।

अपु॑रुषऽघ्नः । अ॒प्र॒ति॒ऽइ॒त॒ । शू॒र॒ । सत्व॑ऽभिः । त्रि॒ऽस॒प्तैः । शू॒र॒ । सत्व॑ऽभिः ॥६

अवः । महः । इन्द्र । ददृहि । श्रुधि । नः । शुशोच । हि । द्यौः । क्षाः । न । भीषा । अद्रिऽवः । घृणात् । न । भीषा । अद्रिऽवः ।

शुष्मिन्ऽतमः । हि । शुष्मिऽभिः । वधैः । उग्रेभिः । ईयसे ।

अपुरुषऽघ्नः । अप्रतिऽइत । शूर । सत्वऽभिः । त्रिऽसप्तैः । शूर । सत्वऽभिः ॥६

हे “इन्द्र “महः महतो मेघस्य ॥ कर्मणि षष्ठी ।। महान्तं जलधारिणं मेघं महान्तं वृत्रं वा “अवः अवस्तात् अवाङ्मुखम् ॥ ‘पूर्वाधरा' इत्यादिना असिप्रत्ययोऽवादेशश्च । ‘अम्नरूधरवरित्युभयथा छन्दसि ' ( पा. सू. ८. २. ७० ) इति रेफः ॥ “ददृहि विदारय । किंच “नः अस्मद्वाक्यं “श्रुधि शृणु । हे "अद्रिवः । अद्रिर्मेघः । तद्वन्निन्द्र “हि यस्मात् कारणात् “द्यौः द्युलोको देवानामाश्रयभूतः “शुशोच शोचति । वृष्ट्यभावेन हविराद्यभावादिति भावः । तत्र दृष्टान्तः। “क्षाः “न । क्षेति भूनाम । क्षायन्ति निवसन्त्यस्यामिति क्षाः । क्षै जै षै क्षये '। अधिकरणे क्विप् ॥ क्षाः न सर्वनिवासाश्रयभूमिरिव । सा यथा “भीषा वृष्ट्यभावात् सस्यादिशोषभीत्या शोचति तद्वत् । लोकद्वयमपि वृष्ट्यभावेन शोचतीत्यर्थः। असुरपक्षं लोकद्वयमावृत्य प्रवर्धमानं धर्तुम् असहमाने द्यावापृथिव्यौ शोचतः इत्यर्थः। तस्माच्छ्रुधीति पूर्वत्रान्वयः। भीतौ दृष्टान्तः । हे “अद्रिवः शत्रूणां भक्षक । यद्वा । अद्रिर्वज्रः तेन तद्वन् । हे इन्द्र “घृणात् “भीषा “न दीप्तात् अग्नेर्मूर्त्यन्तरात् त्वष्टुर्भीत्येव । त्वष्टुर्भीत्या पूर्वं यथा द्यावापृथिव्यौ शोचतः तद्वत्। अत्रेतिहासमाहुः। पूर्वं जगति महान्धकारेण आवृते सति देवा विचिन्त्य अग्निं प्रार्थितवन्तः । स च त्वष्टृरूपेण द्यावापृथिवीभ्यां सकाशात् तमो व्युदस्यन् उदपद्यत । तं दृष्ट्वा द्यावापृथिव्यौ बिभ्यतुरिति । स च ‘उभे त्वष्टुर्बिभ्यतुः' (ऋ. सं. १. ९५. ५) इत्यादिश्रुतितोऽवगन्तव्यः । यद्वा । घृणः केवलोऽग्निः । तस्माद्यथा बिभीतस्तद्वत् । सा च भीतिः ‘अरेजेतां रोदसी' ( ऋ. सं. १. ३१. ३ ) इत्यादिश्रुतितोऽवगन्तव्या । तादृशभीतिं वृष्टिप्रदानेन परिहरेत्यर्थः । हे इन्द्र त्वं “शुष्मिभिः बलैः “शुष्मिन्तमो “हि अतिशयेन बलवान् खलु । अतः कारणात् “उग्रेभिः उद्गूर्णैरतिक्रूरैः “वधैः तदुपायैः सहितः त्वम् “ईयसे शत्रून् मेघान् वा गच्छसि ॥ ‘ ईङ् गतौ'। देवादिकत्वात् श्यन् ॥ यद्वा । शुष्मिभिर्वधैरिति संबन्धः । हे “शूर विक्रान्त “सत्वभिः "अप्रतीत अवसन्नैः रक्षःप्रभृतिभिः अप्रतिगत युद्धे शत्रुभिः अनाक्रान्त । यद्वा । सत्वभिः प्राणिभिः असंस्कृतमनस्कैः अनधिगत । अपुरुषघ्नः पौरुषोपेतानां यजनसमर्थानाम् अहननः त्वम् । “त्रिसप्तैः “सत्वभिः त्रिभिः सप्तभिर्वा सत्वभिः अनुचरैरुपेतः सन् ईयसे इत्यन्वयः ॥


प्रातःसवने ब्राह्मणाच्छंसिनः प्रस्थितयाज्यायाः पुरस्तात् ' वनोति हि' इत्येषा प्रक्षेपणीया । तत्रैव खण्डे सूत्रितं- वनोति हि सुन्वन्क्षयं परीणसो मो षु वो अस्मदभि तानि पौंस्या ' ( आश्व. श्रौ. ८, १) इति ॥

व॒नोति॒ हि सु॒न्वन्क्षयं॒ परी॑णसः सुन्वा॒नो हि ष्मा॒ यज॒त्यव॒ द्विषो॑ दे॒वाना॒मव॒ द्विषः॑ ।

सु॒न्वा॒न इत्सि॑षासति स॒हस्रा॑ वा॒ज्यवृ॑तः ।

सु॒न्वा॒नायेंद्रो॑ ददात्या॒भुवं॑ र॒यिं द॑दात्या॒भुवं॑ ॥७

व॒नोति॑ । हि । सु॒न्वन् । क्षय॑म् । परी॑णसः । सु॒न्वा॒नः । हि । स्म॒ । यज॑ति । अव॑ । द्विषः॑ । दे॒वाना॑म् । अव॑ । द्विषः॑ ।

सु॒न्वा॒नः । इत् । सि॒सा॒स॒ति॒ । स॒हस्रा॑ । वा॒जी । अवृ॑तः ।

सु॒न्वा॒नाय॑ । इन्द्रः॑ । द॒दा॒ति॒ । आ॒ऽभुव॑म् । र॒यिम् । द॒दा॒ति॒ । आ॒ऽभुव॑म् ॥७

वनोति । हि । सुन्वन् । क्षयम् । परीणसः । सुन्वानः । हि । स्म । यजति । अव । द्विषः । देवानाम् । अव । द्विषः ।

सुन्वानः । इत् । सिसासति । सहस्रा । वाजी । अवृतः ।

सुन्वानाय । इन्द्रः । ददाति । आऽभुवम् । रयिम् । ददाति । आऽभुवम् ॥

हे इन्द्र “सुन्वन् त्वामुद्दिश्य अभिषवं कुर्वन् यजमानः “क्षयं सर्वेर्वस्तव्यं गन्तव्यं वा गृहं “वनोति “हि त्वत्प्रसादात् संभजते । हिः प्रसिद्ध्यर्थः । किंच “सुन्वानो हि सोमयागं कुर्वाणः एव “परीणसः परितो नद्धान् संबद्धान् “द्विषः द्वेष्टॄन् “अव “यजति नाशयति । न केवलं यागद्वेषिणः देवानां “द्विषः अपि “अव यजति । किंच "सुन्वान “इत् अभिषवोपलक्षितं यागं कुर्वाणो हे इन्द्र त्वत्प्रसादात् “वाजी वाजवान् अन्नवान् "अवृतः परैरनाक्रान्तः सन् 'सहस्रा सहस्राण्यपरिमितानि गवादिधनानि 'सिषासति साधयितुं संभक्तुं वा इच्छति ॥ सनेः सनि सनीवन्तर्ध' इति विकल्पनात् इडभावे ‘ जनसनखन' इति आत्वम् ।। केनेदं लभ्यते इति तत्राह । "सुन्वानाय इन्द्रमुद्दिश्य सोमयागं कुर्वाणाय यजमानाय वा अयम् “इन्द्रः “आभुवं समन्ताद्भवनशीलं तथा “आभुवं पुनर्भवनशीलम् अतिसमृद्धं “रयिं गवादिरूपं धनं “ददाति प्रयच्छति । तस्मात् सुन्वानः सिषासतीत्यर्थः ॥ ॥ २२ ॥ ॥ १९ ॥


मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१३३&oldid=182878" इत्यस्माद् प्रतिप्राप्तम्