ऋग्वेदः सूक्तं १.१६७

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं १.१६६ ऋग्वेदः - मण्डल १
सूक्तं १.१६७
अगस्त्यो मैत्रावरुणिः
सूक्तं १.१६८ →
दे. १ इन्द्रः, २-११ मरुतः। त्रिष्टुप्, (१० पुरस्ताज्ज्योतिः) ।
अगस्त्यः


सहस्रं त इन्द्रोतयो नः सहस्रमिषो हरिवो गूर्ततमाः ।
सहस्रं रायो मादयध्यै सहस्रिण उप नो यन्तु वाजाः ॥१॥
आ नोऽवोभिर्मरुतो यान्त्वच्छा ज्येष्ठेभिर्वा बृहद्दिवैः सुमायाः ।
अध यदेषां नियुतः परमाः समुद्रस्य चिद्धनयन्त पारे ॥२॥
मिम्यक्ष येषु सुधिता घृताची हिरण्यनिर्णिगुपरा न ऋष्टिः ।
गुहा चरन्ती मनुषो न योषा सभावती विदथ्येव सं वाक् ॥३॥
परा शुभ्रा अयासो यव्या साधारण्येव मरुतो मिमिक्षुः ।
न रोदसी अप नुदन्त घोरा जुषन्त वृधं सख्याय देवाः ॥४॥
जोषद्यदीमसुर्या सचध्यै विषितस्तुका रोदसी नृमणाः ।
आ सूर्येव विधतो रथं गात्त्वेषप्रतीका नभसो नेत्या ॥५॥
आस्थापयन्त युवतिं युवानः शुभे निमिश्लां विदथेषु पज्राम् ।
अर्को यद्वो मरुतो हविष्मान्गायद्गाथं सुतसोमो दुवस्यन् ॥६॥
प्र तं विवक्मि वक्म्यो य एषां मरुतां महिमा सत्यो अस्ति ।
सचा यदीं वृषमणा अहंयु स्थिरा चिज्जनीर्वहते सुभागाः ॥७॥
पान्ति मित्रावरुणाववद्याच्चयत ईमर्यमो अप्रशस्तान् ।
उत च्यवन्ते अच्युता ध्रुवाणि वावृध ईं मरुतो दातिवारः ॥८॥
नही नु वो मरुतो अन्त्यस्मे आरात्ताच्चिच्छवसो अन्तमापुः ।
ते धृष्णुना शवसा शूशुवांसोऽर्णो न द्वेषो धृषता परि ष्ठुः ॥९॥
वयमद्येन्द्रस्य प्रेष्ठा वयं श्वो वोचेमहि समर्ये ।
वयं पुरा महि च नो अनु द्यून्तन्न ऋभुक्षा नरामनु ष्यात् ॥१०॥
एष व स्तोमो मरुत इयं गीर्मान्दार्यस्य मान्यस्य कारोः ।
एषा यासीष्ट तन्वे वयां विद्यामेषं वृजनं जीरदानुम् ॥११॥


[सम्पाद्यताम्]

सायणभाष्यम्

‘सहस्रं ते' इत्येकादशर्चं तृतीयं सूक्तमागस्त्स्यं त्रैष्टुभम् । आद्यैन्द्री शिष्टा मरुदेवताकाः पूर्वत्र हिशब्दात् । ‘सहस्रमेकादशाद्यैन्द्री' इत्यनुक्रमणिका । विशेषविनियोगो लैङ्गिकः ॥


स॒हस्रं॑ त इन्द्रो॒तयो॑ नः स॒हस्र॒मिषो॑ हरिवो गू॒र्तत॑माः ।

स॒हस्रं॒ रायो॑ माद॒यध्यै॑ सह॒स्रिण॒ उप॑ नो यन्तु॒ वाजा॑ः ॥

सहस्रम् । ते । इन्द्र । ऊतयः । नः । सहस्रम् । इषः । हरिऽवः । गूर्तऽतमाः ।।

सहस्रम् । रायः । मादयध्यै । सहस्रिणः । उप । नः । यन्तु । वाजाः ॥ १ ॥

हे “इन्द्र "ते तव “ऊतयः रक्षाप्रकाराः सहस्रम् । अपरिमिता इत्यर्थः । “नः अस्मभ्यम् उप यन्तु इति सर्वत्र योज्यम् । तथा हे “हरिवः । हरी इन्द्रस्याश्वौ । ताभ्यां तद्वन्निन्द्र “गूर्ततमाः अत्यन्तं गूर्णानि “इषः एषणीयाः अन्नानि “सहस्रं बहूनि त्वदीयानि । तथा “सहस्रं “रायः अपरिमितानि धनानि मणिमुक्तादीनि “मादयध्यै अस्मान् मादयितुं यानि सन्ति तानि अस्मान् उप यन्तु । तथा “सहस्रिणः “वाजाः गमनवन्तश्चतुष्पाद्रूपाः पशवोऽपि “नः अस्मान् “उप “यन्तु समीपं प्राप्नुवन्तु ॥


आ नोऽवो॑भिर्म॒रुतो॑ या॒न्त्वच्छा॒ ज्येष्ठे॑भिर्वा बृ॒हद्दि॑वैः सुमा॒याः ।

अध॒ यदे॑षां नि॒युत॑ः पर॒माः स॑मु॒द्रस्य॑ चिद्ध॒नय॑न्त पा॒रे ॥

आ। नः । अवःऽभिः । मरुतः । यान्तु । अच्छ । ज्येष्ठेभिः । वा । बृहत्ऽदिवैः । सुऽमायाः ।

अध । यत् । एषाम् । निऽयुतः । परमाः । समुद्रस्य । चित् । धनयन्त । पारे ॥ २ ॥

ते मरुतः “अवोभिः रक्षणैः सहिताः “नः अस्मान “अच्छ अभिमुख्येन “आ “यान्तु आगच्छन्तु । “सुमायाः । मायेति प्रज्ञानाम । शोभनप्रज्ञा एव मरुतः “ज्येष्ठेभिः “बृहद्दिवैः “वा ज्येष्ठैः प्रशस्यतमैः मणिमुक्तादिधनैश्च सहिता आ यान्तु । वाशब्दः समुच्चये। आगमने कथमेषां सामर्थ्यमिति अत आह । “अध अथ “एषां मरुतां यत् यस्मात् “नियुतः एतन्नामकाः परमाः उत्कृष्टा अश्वाः “समुद्रस्य “चित् । चिच्छब्दोऽप्यर्थे । समुद्रस्यापि “पारे परस्मिंस्तीरे “धनयन्त धनधारणं वहनं कुर्वन्ति । तस्मात् रक्षणैर्धनैश्चायान्त्वित्यर्थः ॥


मि॒म्यक्ष॒ येषु॒ सुधि॑ता घृ॒ताची॒ हिर॑ण्यनिर्णि॒गुप॑रा॒ न ऋ॒ष्टिः ।

गुहा॒ चर॑न्ती॒ मनु॑षो॒ न योषा॑ स॒भाव॑ती विद॒थ्ये॑व॒ सं वाक् ॥

मिम्यक्ष । येषु । सुऽधिता। घृताची । हिरण्यऽनिर्निक् । उपरा । न । ऋष्टिः ।

गुहा । चरन्ती । मनुषः । न । योषा । सभाऽवती । विदथ्याऽइव । सम् । वाक् ॥ ३ ॥

“सुधिता सुष्ठु निहिता सुष्ठु हिता वा लोके "घृताची घृतं क्षरणशीलमुदकमञ्चन्ती “हिरण्यनिर्णिक् हितरमणीयरूपा । निर्णिगिति रूपनाम । एवंरूपा “ऋष्टिः विद्युदाख्यायुधविशेषो वा “उपरा “न मेघमालेव “येषु मरुत्सु “सं “मिम्यक्ष। म्यक्षतिर्गतिकर्मा। संगताभूत् । मेघपङ्क्तिविद्युतौ इमे अपि संगते इत्यर्थः । मेघपङ्क्तिर्विद्युच्चोभे दृष्टान्तेन विशेष्येते । "गुहा निगूढा गुहायां वा अन्तरिक्षे “चरन्ती। तत्र दृष्टान्तः । “मनुषो “न “योषा मनुष्यस्य परिवृढादेर्महिषीवत् । सा यथा सुवेषा अन्तःपुरे एव मध्ये चरति तद्वत् । किं सर्वदैवमिति नेत्याह । “सभावती । सभा जनसंघः। तद्वती। वर्षकाले आविर्भवन्तीत्यर्थः । तत्र दृष्टान्तः। “विदथ्या “वाक् इव । विदथो यज्ञ: । तदर्हतीति विदथ्यो प्रैषस्तोत्रादिरूपा वाक् । सा यथा यज्ञसभां प्राप्याविर्भवति तद्वत् । यद्वा । विदथ्या वेदनार्हा विवदमानयोर्वाक् । सा यथा सभावती तद्वत् । सैवंरूपा येषु मिम्यक्ष ते मरुतो देवयजनमागच्छन्त्वियर्थः ।


परा॑ शु॒भ्रा अ॒यासो॑ य॒व्या सा॑धार॒ण्येव॑ म॒रुतो॑ मिमिक्षुः ।

न रो॑द॒सी अप॑ नुदन्त घो॒रा जु॒षन्त॒ वृधं॑ स॒ख्याय॑ दे॒वाः ॥

परा । शुभ्राः । अयासः । यव्या । साधारण्याऽइव । मरुतः । मिमिक्षुः ।।

न । रोदसी इति । अप। नुदन्त । घोराः । जुषन्त । वृधम् । सख्याय । देवाः ॥ ४ ॥

“शुभ्राः शोभनालंकाराः “अयासः अभिगन्तारः “मरुतः "यव्या मिश्रणशीलया विद्युता "परा “मिमिक्षुः । प्रकर्षेण सिञ्चन्त्युदकसंस्त्यायम् । "साधारण्येव । यथा लोके साधारण्या स्त्रिया संगता युवानो रेतो मुञ्चन्ति तद्वत् । एवं कुर्वन्तः “घोराः अतिवृष्टिप्रदानेन भयंकरास्ते "रोदसी द्यावापृथिव्यौ “न "अप “नुदन्त । अपनोदनं वर्षणरूपं तिरस्कारं न कुर्वन्ति । द्यावापृथिवीवचनो रोदसीशब्दः सर्वत्राद्युदात्तः । अत्र तु व्यत्ययेनान्तोदात्तत्वमिति द्रष्टव्यम् । यद्वा । रोदसा शब्देन रोदनस्वभावो रुद्रः । तस्य स्त्री रोदसीति केचिदाहुः । अपरे तु मरुतां स्त्रियो रोदसीति नामधेयमित्याहुः । अयमेव पक्षो युक्त उत्तरत्रैवं व्यवहारात् । तत्पक्षे रोदसी रोदस्याम् ॥ ङीषन्तात् सप्तम्या ईंकारो लुक् वा । ‘ईदूतौ च सप्तम्यर्थे ' इति प्रगृह्यसंज्ञा । तस्यां प्रियं धनं मुञ्चन्ति। किंतु “देवाः मोदयितारो मादयितारो बा मरुतः “सख्याय “वृधं वृद्धिं “जुषन्त सेवन्ते । द्यावापृथिवीपक्षे सख्याय जगतां सखिभावाय तयोर्वृद्धिं कुर्वन्तीत्यर्थः ॥


जोष॒द्यदी॑मसु॒र्या॑ स॒चध्यै॒ विषि॑तस्तुका रोद॒सी नृ॒मणा॑ः ।

आ सू॒र्येव॑ विध॒तो रथं॑ गात्त्वे॒षप्र॑तीका॒ नभ॑सो॒ नेत्या ॥

जोषत् । यत् । ईम् । असुर्या । सचध्यै । विसितऽस्तुका । रोदसी । नृऽमनाः ।

आ। सूर्याऽइव । विधतः । रथम् । गात् । त्वेषऽप्रतीका। नभसः । न । इत्या ॥ ५

“रोदसी मरुत्पत्नी विद्युत् वा एतन्नामिकेयमपि “ईम् एनं मरुत्संघं “जोषत् सेवते ॥ जुषेर्लेटि अडागमः ।। किमर्थम् । “सचध्यै संगमनार्थम् । कीदृशी सा । “असुर्या । असुराः क्षेप्तारो मरुतः । तेषां स्वभूता “विषितस्तुका विशिष्टकेशसंघा विप्रकीर्णकेशसंघा वा संभोगवशेन तथा “नृमणाः नृषु नेतृषु मरुत्सु मननवती मनुष्येषु वा वृष्टिप्रदानमनोयुक्ता “त्वेषप्रतीका दीप्तोपक्रमा दीप्तावयवा । ईदृशी देवी “विधतः परिचरतो मरुत्संघस्य “रथम् “आ “गात् आगच्छति व्याप्नोति । यागदेशं गन्तुं रथमारुह्य वा यज्ञमागच्छति । केव । विधतः सूर्यस्य रथं त्वेषप्रतीका “सूर्येव सूर्यपत्नीव । यद्वा । सूर्यस्य दुहिता अश्विनोः रथमिव सा यथा आरोहति तद्वत् आगमने दृष्टान्तः। “नभसः “इत्या “न । अन्तरिक्षादित्ययोः साधारणोऽयं नभःशब्दः ‘नभ इति षट् साधारणानि ' ( नि. १. ४. ६ ) इत्युक्तत्वात् । अत्र आदित्यवचनः । तस्य गतिरिव । सा यथा शीघ्रा तद्वत् ॥ ॥ ४ ॥


आस्था॑पयन्त युव॒तिं युवा॑नः शु॒भे निमि॑श्लां वि॒दथे॑षु प॒ज्राम् ।

अ॒र्को यद्वो॑ मरुतो ह॒विष्मा॒न्गाय॑द्गा॒थं सु॒तसो॑मो दुव॒स्यन् ॥

आ। अस्थापयन्त । युवतिम् । युवानः । शुभे । निऽमिश्लाम् । विदथेषु । पज्राम् ।

अर्कः । यत् । वः । मरुतः । हविष्मान् । गायत् । गाथम् । सुतऽसोमः । दुवस्यन् ॥ ६ ॥

“युवानः मिश्रयन्तो नित्यतरुणा वा मरुतः “युवतिं मिश्रयन्तीं नित्यतरुणीं वा विद्युद्रूपां रोदस्यां स्त्रियम् “आस्थापयन्त आस्थापयन्ति । देवतात्वेन रथे धारयन्ति । कीदृशीं ताम् । “निमिश्लां नियमेन मिश्रयन्तीं “पज्राम् । पज्रो बलम् । तद्वतीम् । “शुभे । शोभते दीप्यते इति शुबुदकम् । वृष्ट्युदकार्थम् । शुभे रथ इति वा योज्यम् । किंनिमित्तम् । “विदथेषु यागेषु निमित्तभूतेषु । कदा । “यत् यदा हे “मरुतः “वः युष्मान् “अर्कः ॥ मत्वर्थों लुप्यते ॥ अर्चनसाधनमन्त्रोपेतः स्तोता वा “हविष्मान् प्रदेयाज्यादिहविर्युक्तः “सुतसोमः होमाय अभिषुतसोमोऽयं यजमानः “दुवस्यन् परिचरन् “गाथं गातव्यं स्तोत्रं “गायत् गायति । तदेत्यर्थः ।।


प्र तं वि॑वक्मि॒ वक्म्यो॒ य ए॑षां म॒रुतां॑ महि॒मा स॒त्यो अस्ति॑ ।

सचा॒ यदीं॒ वृष॑मणा अहं॒युः स्थि॒रा चि॒ज्जनी॒र्वह॑ते सुभा॒गाः ॥

प्र। तम् । विवक्मि । वक्म्यः । यः । एषाम् । मरुताम् । महिमा । सत्यः । अस्ति ।।

सचा। यत्। ईम्। वृषऽमनाः। अहम्ऽयुः । स्थिरा । चित् । जनीः । वहते। सुऽभागाः ॥७॥

“एषां “मरुतां “यः “महिमा महत्त्वातिशयः “वक्म्यः सर्वैः स्तुत्यः “सत्यः अबाध्योऽमोघः “अस्ति “तं “प्र “विवक्मि प्रवच्मि वर्णयामि । कथमेषां महिमा प्राप्त इति उच्यते । “यत् यस्मात् “ईम् एतेषां संबन्धिनी रोदसी “वृषमणाः वृष्ट्यादिवर्षणमनस्का “अहंयुः अहंकारवती । जगदुपकारकर्त्री न कदाचिदस्तीत्यहंकारः । “स्थिरा “चित् । चिदिति पूजायाम् । अत्यन्तमविनश्वरा ईदृशी देवी “सुभागाः शोभनभाग्योपेताः “जनीः जननशीला: प्रजाः वृष्ट्युत्पत्तीर्वा “वहते धारयति । वृष्टौ सत्यां सर्वे प्राणिन उत्पद्यन्ते । यस्मादेवं तस्मात् महिमास्ति । तं महिमानं स्तौमीत्यर्थः ।।


पान्ति॑ मि॒त्रावरु॑णावव॒द्याच्चय॑त ईमर्य॒मो अप्र॑शस्तान् ।

उ॒त च्य॑वन्ते॒ अच्यु॑ता ध्रु॒वाणि॑ वावृ॒ध ईं॑ मरुतो॒ दाति॑वारः ॥

पान्ति । मित्रावरुणौ । अवद्यात् । चयते । ईम् । अर्यमो इति । अप्रऽशस्तान् ।

उत । च्यवन्ते । अच्युता । ध्रुवाणि । ववृधे । ईम् । मरुतः । दातिऽवारः ॥ ८ ॥

हे मरुतः युष्मत्संबन्धिनो देवाः “मित्रावरुणौ अहोरात्र्यभिमानिदेवौ “अर्यमो । अर्यमा उ इति निपातसमुदायात्मकम् एकं पदम्। उ शब्दोऽपिशब्दार्थे । अर्यमापि । एते त्रयोऽपि “ईम् अमुं लोकं यज्ञं वा “अवद्यात् गर्ह्यात् अयथानुष्ठानात् जगत्पक्षे व्यवहारप्रतिबन्धरूपात् "पान्ति रक्षन्ति । तथा एतेषाम् “अप्रशस्तान् क्षीणानपि पदार्थान् “चयते चातयन्ति नाशयन्ति । “उत अपि च एतैः प्रेरितानि “अच्युता अच्युतान्यस्रावीणि अत एव “ध्रुवाणि अविचलानि मेघस्थोदकानि “च्यवन्ते च्यावयन्ति वा एते । “अहोरात्रे वै मित्रावरुणावहोरात्राभ्यां खलु वै पर्जन्यो वर्षति ' इति श्रुतेः । यद्वा । अच्युतानि ध्रुवाणि धनानि च्यवन्ते । कदेति उच्यते । हे मरुतः युष्मदीयः “ईम् अयं कालः “दातिवारः प्रदेयजलः खण्डितमेघो वा यदा “ववृधे वर्धते । तदा मित्रादयो देवा युष्मदनुकूलव्यापारेण जगत् रक्षन्तीत्यर्थः । यद्वा । दातिवारो दत्तवरणीयहविर्लक्षणधनो यजमानः हे मरुतः ईम् एनान्युष्मान्ववृधे वर्धयति यदा तदेत्यर्थः ॥


न॒ही नु वो॑ मरुतो॒ अन्त्य॒स्मे आ॒रात्ता॑च्चि॒च्छव॑सो॒ अन्त॑मा॒पुः ।

ते धृ॒ष्णुना॒ शव॑सा शूशु॒वांसोऽर्णो॒ न द्वेषो॑ धृष॒ता परि॑ ष्ठुः ॥

नहि। नु। वः। मरुतः। अन्ति। अस्मे इति । आरात्तात् । चित् । शवसः। अन्तम् । आपुः ।

ते । धृष्णुना । शव॑सा । शूशुऽवांसः । अर्णः । न । द्वेषः । धृषता । परि । स्थुः ॥ ९ ॥

हे मरुतः “वः “शवसः युष्माकं संबन्धिनो बलस्य “अन्तम् अवसानम् “अन्ति अन्तिके “आरात्ताच्चित् दूरादपि । यद्वा । चिदिति कुत्सायाम् । अत्यन्तदूरात् । “अस्मे अस्मासु मध्ये एकेऽपि “नु क्षिप्रं “नहि “आपुः नैव खलु प्राप्नुवन्ति । संनिधावसंनिधौ च न प्राप्नुवन्तीत्यर्थः । अथ परोक्षे प्राप्तबलत्वमाह। “ते खलु मरुतः “धृष्णुना धर्षकेण “शवसा बलेन “शूशुवांसः वर्धमानाः अत एव “धृषता पराभिभावकेन सामर्थ्येन द्वेषः द्वेष्टृन् परि “ष्ठुः परिभवन्ति वशीकुर्वन्ति । तत्र दृष्टान्तः । “अर्णो “न उदकमिव । यथोदकं स्वविरोधि रजआदिकमभिभवति तद्वत् । यस्मादेवं तस्मात् शवसोऽन्तं नापुः ॥


‘वयमद्य ' इत्येतां दशमीमस्तमिते आदित्ये जपेत् । तथा च सूत्रं- वयमद्येन्द्रस्य प्रेष्ठा इत्यस्तं यात्यादित्ये ' ( आश्व. गृ. २. ६. १४ ) इति ।।

व॒यम॒द्येन्द्र॑स्य॒ प्रेष्ठा॑ व॒यं श्वो वो॑चेमहि सम॒र्ये ।

व॒यं पु॒रा महि॑ च नो॒ अनु॒ द्यून्तन्न॑ ऋभु॒क्षा न॒रामनु॑ ष्यात् ॥

वयम् । अद्य । इन्द्रस्य । प्रेष्ठाः । वयम् । श्वः । वोचेमहि । सऽमर्ये ।

वयम् । पुरा । महि । च । नः । अनु । द्यून् । तत् । नः । ऋभुक्षाः । नराम् । अनु । स्यात् ॥१०॥

“अद्य अस्मिन् दिने “वयं यष्टारः “इन्द्रस्य देवस्य “प्रेष्ठाः प्रियतमा भवेम । यद्वा । प्रियतमा वयम् इन्द्रस्य महत्वं “वोचेमहि स्तोतुं समर्था भूयास्म । किंच “वयं “श्वः परस्मिन्नपि दिने “समर्ये । सह मर्याः मर्त्याः ऋत्विजो यस्मिन् स समर्यो यज्ञः तस्मिन् । संग्रामे वा । इन्द्रस्य महत्त्वं वोचेमहि । किंच “वयं “पुरा पूर्वस्मिन्नतीतेऽपि काले “महि महद्बलं “नः अस्मदर्थं वोचेमहि । तथा “द्यून् दिवसान “अनु प्रतिदिवसमित्यर्थः । अतीते आगामिनि च दिवसे सर्वदा वोचेमहि । “तत् तस्मात् “ऋभुक्षाः । महन्नामैतत् । ‘ऋभुक्षाः उक्षा' (नि. ३. ३. १०) इति तन्नामसु पाठात् । महानिन्द्रः “नरां मनुष्याणां मध्ये "नः अस्मान् “अनु “स्यात् अनु भवतु अनुकूलमभिमतप्रदो वा भवतु ॥


ए॒ष व॒ः स्तोमो॑ मरुत इ॒यं गीर्मा॑न्दा॒र्यस्य॑ मा॒न्यस्य॑ का॒रोः ।

एषा या॑सीष्ट त॒न्वे॑ व॒यां वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥

एषः । वः । स्तोमः । मरुतः । इयम् । गीः । मान्दार्यस्य । मान्यस्य । कारोः ।

आ। इषा । यासीष्ट । तन्वे । वयाम् । विद्याम । इषम् । वृजनम् । जीरऽदानुम् ॥ ११ ॥

‘एषः' इत्येकादशी व्याख्याता ॥ ॥ ५ ॥



मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१६७&oldid=182709" इत्यस्माद् पुनः प्राप्तिः