ऋग्वेदः सूक्तं १.८७

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं १.८६ ऋग्वेदः - मण्डल १
सूक्तं १.८७
गोतमो राहूगणः
सूक्तं १.८८ →
दे. मरुतः। जगती


प्रत्वक्षसः प्रतवसो विरप्शिनोऽनानता अविथुरा ऋजीषिणः ।
जुष्टतमासो नृतमासो अञ्जिभिर्व्यानज्रे के चिदुस्रा इव स्तृभिः ॥१॥
उपह्वरेषु यदचिध्वं ययिं वय इव मरुतः केन चित्पथा ।
श्चोतन्ति कोशा उप वो रथेष्वा घृतमुक्षता मधुवर्णमर्चते ॥२॥
प्रैषामज्मेषु विथुरेव रेजते भूमिर्यामेषु यद्ध युञ्जते शुभे ।
ते क्रीळयो धुनयो भ्राजदृष्टयः स्वयं महित्वं पनयन्त धूतयः ॥३॥
स हि स्वसृत्पृषदश्वो युवा गणोऽया ईशानस्तविषीभिरावृतः ।
असि सत्य ऋणयावानेद्योऽस्या धियः प्राविताथा वृषा गणः ॥४॥
पितुः प्रत्नस्य जन्मना वदामसि सोमस्य जिह्वा प्र जिगाति चक्षसा ।
यदीमिन्द्रं शम्यृक्वाण आशतादिन्नामानि यज्ञियानि दधिरे ॥५॥
श्रियसे कं भानुभिः सं मिमिक्षिरे ते रश्मिभिस्त ऋक्वभिः सुखादयः ।
ते वाशीमन्त इष्मिणो अभीरवो विद्रे प्रियस्य मारुतस्य धाम्नः ॥६॥


सायणभाष्यम्

‘ प्रत्वक्षसः' इति षडृचं तृतीयं सूक्तं गोतमस्यार्षं जागतं मारुतम् । तथा चानुक्रान्तं -- ‘ प्रत्वक्षसः षड् जागतम्' इति । अग्निष्टोमे आग्निमारुतशस्त्रे इदं सूक्तं मारुतनिविद्धानम् । ‘ अथ यथेतम् ' इति खण्डे सूत्रितं -- ‘ प्रत्वक्षसः प्रतवसो यज्ञा यज्ञा वो अग्नये ' (आश्व. श्रौ. ५. २०) इति ॥


प्रत्व॑क्षस॒ः प्रत॑वसो विर॒प्शिनोऽना॑नता॒ अवि॑थुरा ऋजी॒षिणः॑ ।

जुष्ट॑तमासो॒ नृत॑मासो अ॒ञ्जिभि॒र्व्या॑नज्रे॒ के चि॑दु॒स्रा इ॑व॒ स्तृभिः॑ ॥१

प्रऽत्व॑क्षसः । प्रऽत॑वसः । वि॒ऽर॒प्शिनः॑ । अना॑नताः । अवि॑थुराः । ऋ॒जी॒षिणः॑ ।

जुष्ट॑ऽतमासः । नृऽत॑मासः । अ॒ञ्जिऽभिः॑ । वि । आ॒न॒ज्रे॒ । के । चि॒त् । उ॒स्राःऽइ॑व । स्तृऽभिः॑ ॥१

प्रऽत्वक्षसः । प्रऽतवसः । विऽरप्शिनः । अनानताः । अविथुराः । ऋजीषिणः ।

जुष्टऽतमासः । नृऽतमासः । अञ्जिऽभिः । वि । आनज्रे । के । चित् । उस्राःऽइव । स्तृऽभिः ॥१

“प्रत्वक्षसः शत्रूणां प्रकर्षेण तनूकर्तारः शत्रुघातिन इत्यर्थः । यतः “प्रतवसः प्रकृष्टबलोपेताः अत एव “विरप्शिनः विविधेन जयघोषेणोपेताः । यद्वा । महन्नामैतत् । महान्तो हि विविधैः शब्दैः प्रशस्यन्ते । अत एव "अनानताः आनतिरहिताः सर्वोत्कृष्टा इत्यर्थः । “अविथुराः अवियुक्ताः । सप्तगणरूपेण संघीभूता इत्यर्थः । “ऋजीषिणः । तृतीयसवने ऋजीषस्याभिषवात् तत्र च मरुतः स्तूयन्ते इति तेषामृजीषित्वम् । यद्वा । ऋजीषिणः प्रार्जयितारो रसानाम् । “जुष्टतमासः अतिशयेन यष्टृभिः सेविताः “नृतमासः अतिशयेन मेघादेर्नेतारः एवंभूता मरुतः “स्तृभिः स्वशरीरस्याच्छादकैः “अञ्जिभिः रूपाभिव्यञ्जकैराभरणैः “व्यानज्रे नभसि व्यक्ता दृश्यन्ते । तत्र दृष्टान्तः । “के “चित् “उस्राइव। ये केचन सूर्यरश्मयो यथा नभसि दीप्यन्ते तद्वत् ॥ प्रत्वक्षसः । प्रकर्षेण त्वक्षन्ते तनूकुर्वन्तीति प्रत्वक्षसः । ‘ तक्षु त्वक्षू तनूकरणे । गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं च ' इति असुन् पूर्वपदप्रकृतिस्वरत्वं च । प्रतवसः । तवः इति बलनाम । प्रकृष्टं तवो येषाम् । बहुव्रीहौ पूर्वेपदप्रकृतिस्वरत्वम् । विरप्शिनः । ‘ रप लप व्यक्तायां वाचि' । विरपणं विरप्शः । औणादिकः शक्प्रत्ययः । तद्वन्तो विरप्शिनः । अनानताः । आनता अवनताः प्रह्वीभूताः । न आनता अनानताः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । अविथुराः । ‘ व्यथ भयचलनयोः । ‘ व्यथेः संप्रसारणं धः किञ्च । ( उ. सू . १, ३९ ) इति उरच्प्रत्ययः । अत्र तु बहुलवचनात् धत्वं न क्रियते । पूर्ववत् समासस्वरौ । जुष्टतमासः । ‘ नित्यं मन्त्रे ' इति जुष्टशब्दः आद्युदात्तः। तत आतिशायनिकस्य तमपः पित्त्वादनुदात्तत्वे स एव स्वरः शिष्यते । आनज्रे ।' अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु ' । कर्मणि ‘ छन्दसि लुङ्लङ्लिटः' इति वर्तमाने लिट्। ‘ अत आदेः' इति अभ्यासस्य आत्वम् । तस्मान्नुड् द्विहलः । ( पा. सू. ७, ४, ७१ ) इति नुट् । व्यत्ययेन उपधालोपः। ‘ इरयो रे ' । स्तृभिः । ‘ स्तृञ् आच्छादने ' । क्विप् । आगमानुशासनस्यानित्यत्वात् तुगभावः ॥


उ॒प॒ह्व॒रेषु॒ यदचि॑ध्वं य॒यिं वय॑ इव मरुत॒ः केन॑ चित्प॒था ।

श्चोत॑न्ति॒ कोशा॒ उप॑ वो॒ रथे॒ष्वा घृ॒तमु॑क्षता॒ मधु॑वर्ण॒मर्च॑ते ॥२

उ॒प॒ऽह्व॒रेषु॑ । यत् । अचि॑ध्वम् । य॒यिम् । वयः॑ऽइव । म॒रु॒तः॒ । केन॑ । चि॒त् । प॒था ।

श्चोत॑न्ति । कोशाः॑ । उप॑ । वः॒ । रथे॑षु । आ । घृ॒तम् । उ॒क्ष॒त॒ । मधु॑ऽवर्ण॑म् । अर्च॑ते ॥२

उपऽह्वरेषु । यत् । अचिध्वम् । ययिम् । वयःऽइव । मरुतः । केन । चित् । पथा ।

श्चोतन्ति । कोशाः । उप । वः । रथेषु । आ । घृतम् । उक्षत । मधुऽवर्णम् । अर्चते ॥२

हे “मरुतः “उपह्वरेषु उपह्वर्तव्येषु गन्तव्येष्वस्माकं संनिकृष्टेषु नभसः प्रदेशेषु “यत् यदा “ययिं गतिमन्तं मेघम् “अचिध्वं वर्षणसामर्थ्येनोपचितं कुरुथ । किं कुर्वन्तः । “वयइव पक्षिण इव “केन “चित् “पथा केनचिदाकाशमार्गेण शीघ्रं गच्छन्तः । नभसि शीघ्रं वर्षणार्थं प्रवर्तमानैर्मरुद्भिर्मेघा उपचीयन्ते इत्यर्थः । तदानीं “कोशाः । मेघनामैतत् । “वः युष्माकं “रथेषु आसक्ता मेघाः “श्चोतन्ति जलं मुञ्चन्ति । यस्मादेवं तस्मात् हे मस्तो यूयम् “अर्चते युष्मान् हविर्भिः पूजयते मह्यं यजमानाय "मधुवर्णं मधुसदृशरूपं स्वच्छं “घृतं वृष्ट्युदकम् “आ समन्तात् “उक्षत सिञ्चत । अस्मदभिलषितां वृष्टिं कुरुतेत्यर्थः ।। उपहृरेषु । ‘ ह्वृ कौटिल्ये '। उपह्वरन्ति कौटिल्येन तिर्यग्गच्छन्त्येष्विति उपह्वरा नभःप्रदेशाः। ‘पुंसि संज्ञायां घः प्रायेण ' इति अधिकरणे घः। अचिध्वम् । चिनोतेः वर्तमाने लङ् । ‘बहुलं छन्दसि' इति विकरणस्य लुक् । ययिम् । ' या प्रापणे '। ‘ आदृगमहनजनः । इति किप्रत्ययः । पथा । आङि ‘ भस्य टेर्लोपः' इति दिलोपः। उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् । श्चोतन्ति । श्च्युतिर् क्षरणे ' । छान्दसो यलोपः । उक्षत । उक्ष सेचने '। लोटि तशब्दस्य ङित्त्वे सति ऋचि तुनुघ' ' इत्यादिना सांहितिको दीर्घः ॥


प्रैषा॒मज्मे॑षु विथु॒रेव॑ रेजते॒ भूमि॒र्यामे॑षु॒ यद्ध॑ यु॒ञ्जते॑ शु॒भे ।

ते क्री॒ळयो॒ धुन॑यो॒ भ्राज॑दृष्टयः स्व॒यं म॑हि॒त्वं प॑नयन्त॒ धूत॑यः ॥३

प्र । ए॒षा॒म् । अज्मे॑षु । वि॒थु॒राऽइ॑व । रे॒ज॒ते॒ । भूमिः॑ । यामे॑षु । यत् । ह॒ । यु॒ञ्जते॑ । शु॒भे ।

ते । क्री॒ळयः॒ । धुन॑यः । भ्राज॑त्ऽऋष्टयः । स्व॒यम् । म॒हि॒ऽत्वम् । प॒न॒य॒न्त॒ । धूत॑यः ॥३

प्र । एषाम् । अज्मेषु । विथुराऽइव । रेजते । भूमिः । यामेषु । यत् । ह । युञ्जते । शुभे ।

ते । क्रीळयः । धुनयः । भ्राजत्ऽऋष्टयः । स्वयम् । महिऽत्वम् । पनयन्त । धूतयः ॥३

“यद्ध यदा खलु एते मरुतः “शुभे शोभनाय वृष्ट्युदकाय “युञ्जते मेघान् सज्जीकुर्वन्ति तदानीम् "अज्मेषु मेघानामुत्क्षेपकेषु “एषां मरुतां संबन्धिषु "यामेषु मेघानां नियमनेषु सत्सु “भूमिः पृथिवी “प्र “रेजते प्रकर्षेण कम्पते । यद्वा । यदा खलु मरुतः स्वकीयान् रथान् युञ्जते अश्वैर्योजयन्ति तदानीमेषां रथानां संबन्धिषु पर्वतादेरुत्क्षेपकेषु यामेषु गमनेषु भूमिर्भीत्या कम्पते । तत्र दृष्टान्तः। “विथुरेव । यथा भर्त्रा वियुक्ता जाया राजोपद्रवादिषु सत्सु निरालम्बा सती कम्पते तद्वत् । "ते तादृशाः “क्रीळयः विहारशीलाः “धुनयः चलनस्वभावाः “भ्राजदृष्टयः दीप्यमानायुधाः एवंभूता मरुतः “धूतयः पर्वतादीन् धुन्वन्तः सन्तः “महित्वं स्वकीयं महिमानं स्वयमेव “पनयन्त व्यवहरन्ति प्रकटयन्तीत्यर्थः ।। अज्मेषु ।“ अज गतिक्षेपणयोः'। अर्तिस्तुसु° ' इत्यादिना विधीयमानो मन् बहुलवचनादस्मादपि द्रष्टव्यः । ‘ वलादावार्धधातुके विकल्प इष्यते ' ( का. २. ४, ५६. २) इति वचनात् ‘ अजेर्व्यघञपोः' इति वीभावाभावः । नित्त्वादाद्युदात्तत्वम् । रेजते । रेजृ कम्पने '। भ्यसते रजत इति भयवेपनयोः ' (निरु. ३. २१) इति यास्कः । यामेषु । ‘यम उपरमे' । भावे घञ् । 'कर्षात्वतः इत्यन्तोदात्तत्वे प्राप्ते वृषादिषु पाठादाद्युदात्तत्वम् । यद्वा । ‘ या प्रापणे ' इत्यस्मात् 'अर्तिस्तुसु° इत्यादिना मन्प्रत्ययः । शुभे । 'शुभ दीप्तौ । संपदादिलक्षणः कर्मणि क्विप् । 'सावेकाचः । इति विभक्तेरुदात्तत्वम् । पनयन्त । “ पन व्यवहारे' । गुपूधूपविच्छि°' (पा. सू. ३. १. २८) इति आयः । अस्मात् छान्दसो लङ् । व्यत्ययेन ह्रस्वत्वम् ।।


स हि स्व॒सृत्पृष॑दश्वो॒ युवा॑ ग॒णो॒३॒॑ऽया ई॑शा॒नस्तवि॑षीभि॒रावृ॑तः ।

असि॑ स॒त्य ऋ॑ण॒यावाने॑द्यो॒ऽस्या धि॒यः प्रा॑वि॒ताथा॒ वृषा॑ ग॒णः ॥४

सः । हि । स्व॒ऽसृत् । पृष॑त्ऽअश्वः । युवा॑ । ग॒णः । अ॒या । ई॒शा॒नः । तवि॑षीभिः । आऽवृ॑तः ।

असि॑ । स॒त्यः । ऋ॒ण॒ऽयावा॑ । अने॑द्यः । अ॒स्याः । धि॒यः । प्र॒ऽअ॒वि॒ता । अथ॑ । वृषा॑ । ग॒णः ॥४

सः । हि । स्वऽसृत् । पृषत्ऽअश्वः । युवा । गणः । अया । ईशानः । तविषीभिः । आऽवृतः ।

असि । सत्यः । ऋणऽयावा । अनेद्यः । अस्याः । धियः । प्रऽअविता । अथ । वृषा । गणः ॥४

“स “हि स खलु मरुद्गणः "अया अस्य सर्वस्य जगतः “ईशानः ईशनशीलः भवति। कीदृशः । “स्वसृत् स्वयमेव सरन् । न ह्यन्यः कश्चिदस्य मरुद्गणस्य प्रेरकोऽस्ति । “पृषदश्वः । पृषत्यः श्वेतबिन्द्वङकिताः मृग्यः अश्वस्थानीयाः यस्य स तथोक्तः । “युवा नित्यतरुणः “तविषीभिः अन्येषामसाधारणैर्बलैः “आवृतः परिवेष्टितः “सत्यः सत्कर्मार्हः “ऋणयावा स्तोतॄणामृणस्यापगमयिता बहुलस्य धनस्य दातेत्यर्थः । “अनेद्यः । प्रशस्यनामैतत् । सर्वैरनिन्दितः “वृषा जलानां वर्षिता । एवंभूतो मरुद्गणः “अस्याः “धियः अस्मदीयस्यास्य कर्मणः “अथ अनन्तरं "प्राविता “असि प्रकर्षेण रक्षिता भवति ॥ अया। ‘सुपां सुलुक् ' इति षष्ठ्याः याजादेशः । ‘ हलि लोपः' ( पा. सू. ७. २. ११३ ) इति इदम इद्रूपस्य लोपः । ईशानः । ‘ ईश ऐश्वर्ये' इत्यस्मात् ताच्छीलिकः चानश् । तस्य लसार्वधातुकत्वाभावेन चित्स्वरेणान्तोदात्तत्वम् । अया ईशान इत्यत्र ईषाअक्षादित्वात् प्रकृतिभावः । असि । पुरुषव्यत्ययः । ऋणयावा । ‘ या प्रापणे ' इत्यस्मात् अन्तर्भावितण्यर्थात् “ आतो मनिन् । इति वनिप् । अनेद्यः । ‘ णिदि कुत्सायाम् । ऋहलोर्ण्यत्' इति ण्यत् । आगमानुशासनस्यानित्यत्वात् नुमभावे लघूपधगुणः । नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् ।।


पि॒तुः प्र॒त्नस्य॒ जन्म॑ना वदामसि॒ सोम॑स्य जि॒ह्वा प्र जि॑गाति॒ चक्ष॑सा ।

यदी॒मिन्द्रं॒ शम्यृक्वा॑ण॒ आश॒तादिन्नामा॑नि य॒ज्ञिया॑नि दधिरे ॥५

पि॒तुः । प्र॒त्नस्य॑ । जन्म॑ना । व॒दा॒म॒सि॒ । सोम॑स्य । जि॒ह्वा । प्र । जि॒गा॒ति॒ । चक्ष॑सा ।

यत् । ई॒म् । इन्द्र॑म् । शमि॑ । ऋक्वा॑णः । आश॑त । आत् । इत् । नामा॑नि । य॒ज्ञिया॑नि । द॒धि॒रे॒ ॥५

पितुः । प्रत्नस्य । जन्मना । वदामसि । सोमस्य । जिह्वा । प्र । जिगाति । चक्षसा ।

यत् । ईम् । इन्द्रम् । शमि । ऋक्वाणः । आशत । आत् । इत् । नामानि । यज्ञियानि । दधिरे ॥५

“प्रत्नस्य चिरंतनस्य “पितुः अस्माकं जनकस्य रहूगणस्य सकाशात् यत् जन्म तेन वयं “वदामसि ब्रूमः । वक्ष्यमाणं वृत्तान्तम् अस्माकं पितोपदिष्टवान् अतो वयं ब्रूम इत्यर्थः । कोऽसौ वृत्तान्तः इति चेत् उच्यते । “सोमस्य यज्ञेष्वभिषुतस्य सोमद्रव्यस्य “चक्षसा प्रकाशमानयाहुत्या सहिता “जिह्वा स्तुतिरूपा वाक् “प्र “जिगाति मरुद्गणं प्रकर्षेण गच्छति । यज्ञेषु सोमाहुतिः स्तुतिश्च मरुद्भ्यः क्रियते । यस्मात् “ईम् एनम् “इन्द्रं “शमि वृत्रवधादिरूपे कर्मणि “ऋक्वाणः ‘ प्रहर भगवो जहि वीरयस्व ' इत्येवंरूपया स्तुत्या युक्ताः सन्तः “आशत प्राप्नुवन् न पर्यत्याक्षुः । "आदित् एवमिन्द्रप्राप्त्यनन्तरमेव “यज्ञियानि यज्ञार्हाणि ‘ ईदृङ् चान्यादृङ् च ' इत्येवमादीनि “नामानि इन्द्रसकाशात् लब्ध्वा “दधिरे धृतवन्तः तस्मादेषां यज्ञे सोमाहुतिः स्तुतिश्च क्रियते ।। शमि । शमी इति कर्मनाम। सप्तम्येकवचने छान्दसः ईकारलोपः । ऋक्वाणः । ‘ ऋच स्तुतौ '। संपदादिलक्षणो भावे क्विप् । छन्दसीवनिपौ' इति मत्वर्थीयो वनिप् । अन्त्यविकारश्छान्दसः । यद्वा । अयस्मयादिषु क्वचिदुभयं भवति ( का. १. ४. २० ) इत्युक्तत्वात् ‘स सुष्टुभा स ऋक्वता' इत्यादाविव पदत्वात् कुत्वं भत्वात् जश्त्वाभावः । आशत । लङि ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् । यज्ञियानि । ‘ यज्ञर्त्विग्यां घखञौ ' इति अर्हार्थे घः ॥


श्रि॒यसे॒ कं भा॒नुभि॒ः सं मि॑मिक्षिरे॒ ते र॒श्मिभि॒स्त ऋक्व॑भिः सुखा॒दयः॑ ।

ते वाशी॑मन्त इ॒ष्मिणो॒ अभी॑रवो वि॒द्रे प्रि॒यस्य॒ मारु॑तस्य॒ धाम्नः॑ ॥६

श्रि॒यसे॑ । कम् । भा॒नुऽभिः॑ । सम् । मि॒मि॒क्षि॒रे॒ । ते । र॒श्मिऽभिः॑ । ते । ऋक्व॑ऽभिः । सु॒ऽखा॒दयः॑ ।

ते । वाशी॑ऽमन्तः । इ॒ष्मिणः॑ । अभी॑रवः । वि॒द्रे । प्रि॒यस्य॑ । मारु॑तस्य । धाम्नः॑ ॥६

श्रियसे । कम् । भानुऽभिः । सम् । मिमिक्षिरे । ते । रश्मिऽभिः । ते । ऋक्वऽभिः । सुऽखादयः ।

ते । वाशीऽमन्तः । इष्मिणः । अभीरवः । विद्रे । प्रियस्य । मारुतस्य । धाम्नः ॥६

“ते पूर्वोक्ता मरुतः “भानुभिः भानुशीलैर्दीप्यमानैः सूर्यरश्मिभिः सह “कं वृष्ट्युदकं “श्रियसे श्रयितुं प्राणिभिः सेवितुं “सं “मिमिक्षिरे सम्यग्मेढुमिच्छन्ति । पृथिवीं वृष्ट्युदकेन सम्यक् सेक्तुमिच्छन्ति । एवं वृष्टिमुत्पाद्य “ते मरुतः “ऋक्वभिः स्तुतिमद्भिर्ऋत्विग्भिः सह "सुखादयः शोभनस्य हविषो भक्षयितारो भवन्ति । “वाशीमन्तः । वाशी इति वाङ्नाम। शोभनया स्तुतिलक्षणया वाचोपेताः “इष्मिणः गतिमन्तः “अभीरवः भयरहिताः “ते मरुतः “प्रियस्य सर्वाभिमतस्य “मारुतस्य मरुत्संबन्धिनः “धाम्नः स्थानस्य सर्वाभिमतं मरुत्संबद्धं विशिष्टं स्थानं “विद्रे लब्धवन्तः ॥ श्रियसे । ‘तुमर्थे सेसेन्” इति कसेन्प्रत्ययः । मिमिक्षिरे । ‘मिह सेचने'। अस्मात् इच्छासनन्तात् लिटि °अमन्त्रे' इति निषेधात् आमभावः । व्यत्ययेन आत्मनेपदम् । सुखादयः । खादृ भक्षणे'। औणादिकः इप्रत्ययः । शोभना खादिर्भक्षणं येषाम् । नञ्सुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् । इष्मिणः। इष गतौ' । इषियुधीन्धि ' इत्यादिना मक् । ततो मत्वर्थीय इनिः । विद्रे । ‘ विद्लृ लाभे '। लिटि द्विर्वचनप्रकरणे ‘ छन्दसि वेति वक्तव्यम्' इति द्विर्वचनाभावः । ‘ इरयो रे ' इति इरयो रेभावः ॥ ॥ १३ ॥

[सम्पाद्यताम्]

टिप्पणी

१.८७.१

अविथुरा - विथुरशब्दोपरि टिप्पणी


मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.८७&oldid=323625" इत्यस्माद् प्रतिप्राप्तम्