ऋग्वेदः सूक्तं १.१२४

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं १.१२३ ऋग्वेदः - मण्डल १
सूक्तं १.१२४
कक्षीवान् दैर्घतमस औशिजः
सूक्तं १.१२५ →
दे. उषाः। त्रिष्टुप्।


उषा उच्छन्ती समिधाने अग्ना उद्यन्सूर्य उर्विया ज्योतिरश्रेत् ।
देवो नो अत्र सविता न्वर्थं प्रासावीद्द्विपत्प्र चतुष्पदित्यै ॥१॥
अमिनती दैव्यानि व्रतानि प्रमिनती मनुष्या युगानि ।
ईयुषीणामुपमा शश्वतीनामायतीनां प्रथमोषा व्यद्यौत् ॥२॥
एषा दिवो दुहिता प्रत्यदर्शि ज्योतिर्वसाना समना पुरस्तात् ।
ऋतस्य पन्थामन्वेति साधु प्रजानतीव न दिशो मिनाति ॥३॥
उपो अदर्शि शुन्ध्युवो न वक्षो नोधा इवाविरकृत प्रियाणि ।
अद्मसन्न ससतो बोधयन्ती शश्वत्तमागात्पुनरेयुषीणाम् ॥४॥
पूर्वे अर्धे रजसो अप्त्यस्य गवां जनित्र्यकृत प्र केतुम् ।
व्यु प्रथते वितरं वरीय ओभा पृणन्ती पित्रोरुपस्था ॥५॥
एवेदेषा पुरुतमा दृशे कं नाजामिं न परि वृणक्ति जामिम् ।
अरेपसा तन्वा शाशदाना नार्भादीषते न महो विभाती ॥६॥
अभ्रातेव पुंस एति प्रतीची गर्तारुगिव सनये धनानाम् ।
जायेव पत्य उशती सुवासा उषा हस्रेव नि रिणीते अप्सः ॥७॥
स्वसा स्वस्रे ज्यायस्यै योनिमारैगपैत्यस्याः प्रतिचक्ष्येव ।
व्युच्छन्ती रश्मिभिः सूर्यस्याञ्ज्यङ्क्ते समनगा इव व्राः ॥८॥
आसां पूर्वासामहसु स्वसॄणामपरा पूर्वामभ्येति पश्चात् ।
ताः प्रत्नवन्नव्यसीर्नूनमस्मे रेवदुच्छन्तु सुदिना उषासः ॥९॥
प्र बोधयोषः पृणतो मघोन्यबुध्यमानाः पणयः ससन्तु ।
रेवदुच्छ मघवद्भ्यो मघोनि रेवत्स्तोत्रे सूनृते जारयन्ती ॥१०॥
अवेयमश्वैद्युवतिः पुरस्ताद्युङ्क्ते गवामरुणानामनीकम् ।
वि नूनमुच्छादसति प्र केतुर्गृहंगृहमुप तिष्ठाते अग्निः ॥११॥
उत्ते वयश्चिद्वसतेरपप्तन्नरश्च ये पितुभाजो व्युष्टौ ।
अमा सते वहसि भूरि वाममुषो देवि दाशुषे मर्त्याय ॥१२॥
अस्तोढ्वं स्तोम्या ब्रह्मणा मेऽवीवृधध्वमुशतीरुषासः ।
युष्माकं देवीरवसा सनेम सहस्रिणं च शतिनं च वाजम् ॥१३॥


सायणभाष्यम्

‘ उषा उच्छन्ती ' इति त्रयोदशर्चं चतुर्थं सूक्तं दैर्घतमसः कक्षीवत आर्षं त्रैष्टुभमुषस्यम् । ‘ उषा उच्छन्ती ' इत्यनुक्रान्तम् । विनियोगस्तु पूर्वसूक्ते एवोक्तः ॥


उ॒षा उ॒च्छन्ती॑ समिधा॒ने अ॒ग्ना उ॒द्यन्सूर्य॑ उर्वि॒या ज्योति॑रश्रेत् ।

दे॒वो नो॒ अत्र॑ सवि॒ता न्वर्थं॒ प्रासा॑वीद्द्वि॒पत्प्र चतु॑ष्पदि॒त्यै ॥१

उ॒षाः । उ॒च्छन्ती॑ । स॒म्ऽइ॒धा॒ने । अ॒ग्नौ । उ॒त्ऽयन् । सूर्यः॑ । उ॒र्वि॒या । ज्योतिः॑ । अ॒श्रे॒त् ।

दे॒वः । नः॒ । अत्र॑ । स॒वि॒ता । नु । अर्थ॑म् । प्र । अ॒सा॒वी॒त् । द्वि॒ऽपत् । प्र । चतुः॑ऽपत् । इ॒त्यै ॥१

उषाः । उच्छन्ती । सम्ऽइधाने । अग्नौ । उत्ऽयन् । सूर्यः । उर्विया । ज्योतिः। अश्रेत् ।

देवः । नः । अत्र । सविता । नु। अर्थम् । प्र । असावीत् । द्विऽपत् । प्र । चतुःऽपत् । इत्यै ॥१॥

एषा "उषाः "समिधाने "अग्नौ । अग्नित्वसामान्येन एकवचनम् । अग्निषु समिध्यमानेषु सत्सु । कर्मार्थे कर्तृप्रयोगः । उषःकाले हि आहवनीयादयः प्रज्वाल्यन्ते । "उच्छन्ती तमो विवासयन्ती "उर्विया उरु बहुलं "ज्योतिः प्रकाशम् "अश्रेत् सेवते प्रकाशते प्रकाशयति वा सर्वम् । किमिव । “उद्यन् "सूर्यः । उपमाप्रधाननिर्देशः । उदितः सूर्य इव । सूर्यो यथा प्रकाशयति तथेत्यर्थः । “अत्र त्वदुदयानन्तरम् अस्मिन् कर्मणि वा "सविता "देवः सर्वस्य प्रेरकः सूर्यः "नः अस्मदर्थं "नु क्षिप्रम् “अर्थम् । अर्थशब्दोऽत्र विशेषणवाची नपुंसकलिङ्गः । ‘ अयन्नर्थानि कृणवन्नपांसि' ( ऋ. सं. ७. ६३. ४) इत्यादौ तथा दृष्टत्वात् । अरणीयं "द्विपत् पादद्वयोपेतं मनुष्यादिरूपं धनं "प्रासावीत् अनुजानातु ददात्वित्यर्थः। तथा "चतुष्पत् पादचतुष्टयोपेतं गवादिरूपं धनं प्रासावीत् । किमर्थम्। "इत्यै द्विपदां चतुष्पदां च गमनाय । यद्वा । नः इत्यै इति संबन्धः । अस्मद्गमनागमनादिव्यापारायेत्यर्थः ॥


अमि॑नती॒ दैव्या॑नि व्र॒तानि॑ प्रमिन॒ती म॑नु॒ष्या॑ यु॒गानि॑ ।

ई॒युषी॑णामुप॒मा शश्व॑तीनामायती॒नां प्र॑थ॒मोषा व्य॑द्यौत् ॥२

अमि॑नती । दैव्या॑नि । व्र॒तानि॑ । प्र॒ऽमि॒न॒ती । म॒नु॒ष्या॑ । यु॒गानि॑ ।

ई॒युषी॑णाम् । उ॒प॒ऽमा । शश्व॑तीनाम् । आ॒ऽय॒ती॒नाम् । प्र॒थ॒मा । उ॒षाः । वि । अ॒द्यौ॒त् ॥२

अमिनती । दैव्यानि । व्रतानि । प्रऽमिनती। मनुष्या । युगानि ।

ईयुषीणाम् । उपमा । शश्वतीनाम् । आऽयतीनाम् । प्रथमा । उषाः । वि। अद्यौत् ॥ २ ॥

"दैव्यानि व्रतानि देवसंबन्धीनि अग्निहोत्रादीनि कर्माणि । व्रतमिति कर्मनाम, ‘व्रतं कर्वरम्' ( नि. २. १. ७ ) इति तन्नामसु पाठात् । तानि कर्माणि "अमिनती अहिंसन्ती' भानप्रदानेनानुकूलं कुर्वती । तथा "मनुष्या मनुष्याणां "युगानि युगोपलक्षितान् निमेषादिकालावयवान् “प्रमिनती प्रकर्षेण हिंसन्ती आयुः क्षपयन्तीत्यर्थः । यद्वा । युगानि युग्मानि परस्परसंयोगं प्रमिनती हिंसन्ती वियोगं कुर्वतीत्यर्थः । उषःकाले सर्वे यथायथं स्वस्वव्यापाराय गच्छन्तीति प्रसिद्धम् । किंच "ईयुषीणां गच्छन्तीनाम् अतीतानां "शश्वतीनां नित्यानाम् उषसाम् "उपमा । ताभिः सदृशीत्यर्थः । सादृश्यं च * सदृशीरद्य सदृशीरिदु श्वः ' ( ऋ. सं. १. १२३. ८) इत्यत्रोक्तम् । तथा "आयतीनां "प्रथमा आगामिनीनामुषसां प्रथमभाविनी सती “व्यद्यौत् विशेषेण प्रकाशते । यद्वा । ईयुषीणां गमनशीलानां पश्वादीनां शश्वतीनां संततिप्रवाहरूपेण नित्यानामुपमा। तद्वन्नित्येत्यर्थः । तथा आयतीनां रात्र्यवसानसमये उत्पद्यमानानां प्रज्ञावागादीनां प्रथमा प्रथमभाविनी । उषस्यागतायां वाचो बुद्धयश्च स्फुरन्तीति प्रसिद्धम् । तादृशी देवी व्यद्यौत् प्राणिनामनुग्रहाय द्योतते ॥


ए॒षा दि॒वो दु॑हि॒ता प्रत्य॑दर्शि॒ ज्योति॒र्वसा॑ना सम॒ना पु॒रस्ता॑त् ।

ऋ॒तस्य॒ पन्था॒मन्वे॑ति सा॒धु प्र॑जान॒तीव॒ न दिशो॑ मिनाति ॥३

ए॒षा । दि॒वः । दु॒हि॒ता । प्रति॑ । अ॒द॒र्शि॒ । ज्योतिः॑ । वसा॑ना । स॒म॒ना । पु॒रस्ता॑त् ।

ऋ॒तस्य॑ । पन्था॑म् । अनु॑ । ए॒ति॒ । सा॒धु । प्र॒जा॒न॒तीऽइ॑व । न । दिशः॑ । मि॒ना॒ति॒ ॥३

एषा । दिवः । दुहिता । प्रति । अदर्शि । ज्योतिः । वसाना । समना । पुरस्तात् ।

ऋतस्य । पन्थाम् । अनु । एति । साधु । प्रजानतीऽइव । न । दिशः । मिनाति ॥ ३ ॥

“एषा उषाः “दिवः द्योतमानात्मकस्य द्युलोकस्य “दुहिता दुहितृस्थानीया । ततः उत्पद्यमानत्वात् दुहितेत्युपचर्यते । “पुरस्तात् पूर्वस्यां दिशि “प्रति प्रत्येकम् “अदर्शि दृश्यते । सर्वेषामपि प्राणिनामाभिमुख्येन प्रकाशते इत्यर्थः । कीदृशी सा । “ज्योतिर्वसाना तेजोरूपं वस्त्रमाच्छादयन्ती तेजसा प्रकाशयन्ती “समना सम्यगानयित्री चेष्टयित्री । अन्तर्भावितण्यर्थोऽयम् । यद्वा । सह युगपदेव मन्यतेऽवबुध्यते प्राणिभिरिति समना । व्युत्पत्यनवधारणादनवग्रहः ॥ सा तादृशी “ऋतस्य आदित्यस्य "पन्थां पन्थानं मेरोः प्रान्तप्रदेशमनुक्रमेण "साधु सम्यक् “एति गच्छति । सूर्यो यत्र यत्र गच्छति तत्र तत्र पुरस्तात् उषा अपि गच्छतीत्यर्थः । सैव विशेष्यते । “प्रजानतीव प्रियभूतस्य सूर्यस्य मार्गो मयापि गन्तव्यः” इति चेतयन्तीव । यथा लोके प्रियतमे अनुरागयुक्ता काचित् भर्तारं सर्वास्ववस्थासु न विमुञ्चति तथेयमपीत्यर्थः । किंच "दिशः प्रागादिकाः न “मिनाति न हिनस्ति । किंतु उषा यत्र गच्छति सा प्राचीत्येवं प्रागादिव्यवहारं करोतीत्यर्थः ॥


उपो॑ अदर्शि शु॒न्ध्युवो॒ न वक्षो॑ नो॒धा इ॑वा॒विर॑कृत प्रि॒याणि॑ ।

अ॒द्म॒सन्न स॑स॒तो बो॒धय॑न्ती शश्वत्त॒मागा॒त्पुन॑रे॒युषी॑णाम् ॥४

उपो॒ इति॑ । अ॒द॒र्शि॒ । शु॒न्ध्युवः॑ । न । वक्षः॑ । नो॒धाःऽइ॑व । आ॒विः । अ॒कृ॒त॒ । प्रि॒याणि॑ ।

अ॒द्म॒ऽसत् । न । स॒स॒तः । बो॒धय॑न्ती । श॒श्व॒त्ऽत॒मा । आ । अ॒गा॒त् । पुनः॑ । आ॒ऽई॒युषी॑णाम् ॥४

उपो इति । अदर्शि। शुन्ध्युवः । न । वक्षः। नोधाःऽइव । आविः । अकृत। प्रियाणि ।

अद्मऽसत् । न । ससतः । बोधयन्ती। शश्वत्ऽतमा । आ । अगात् । पुनः । आऽईयुषीणाम् ॥४॥

एषा उषाः “उपो इति निपातद्वयसमुदायात्मकः एको निपातः । सर्वैः समीपे एव “अदर्शि दृश्यते । तत्र दृष्टान्तः । शुन्ध्युवो "न 'वक्षः। अत्र नकारः उपमार्थीयः उपरिष्टात् प्रयुज्यमानत्वात् । यत्र तु प्रतिषेधो विवक्षितस्तत्र पुरस्तान्नकारः प्रयुज्यते । तथा च यास्कः--' पुरस्तादुपाचारस्तस्य यत्प्रतिषेधति' (नि. १.४) इति । तस्योदाहरणं- नेन्द्रं देवममंसत' (ऋ. सं.१०, ८६. १) इति उपरिष्टादुपाचारस्तस्य येनोपमिमीते ' (निरु. १. ४) इति । तस्योदाहरणं ‘दुर्मदासो न सुरायाम्' (ऋ. सं. ८.२. १२) इति । शुन्ध्युः आदित्यः सर्वेषां शोधकत्वात् । तस्य वक्षः वक्षःस्थानीयो रश्मिसमूहः । स यथा प्रकाशमानो दृश्यते तथेत्यर्थः । यद्वा । शुन्ध्युरिति जलचरः श्वेतवर्णः पक्षिविशेषः । स यथा स्वकीयं वक्षः प्रकाशयन् दृश्यते तद्वदित्यर्थः । किंच नोधाइव “प्रियाणि “आविरकृत । नवनं स्तोत्रं धारयतीति नोधाः । एतन्नामा महर्षिर्दैवतास्तुतिव्याजेन नानाविधैर्मन्त्रैः प्रियाणि स्वमनीषितान्याविष्कृतवान् । तथैषापि स्वकीयानि सर्वलोकप्रियाणि तेजांस्याविरकरोत् । किंच "अद्मसन्न । अत्राप्युपमार्थीयो नकारः। अद्यते इति अद्म अन्नम् । तस्य पाकाय गृहे सीदति इति अद्मसत् पाचिका योषित् “ससतः बोधयन्ती । सा यथा स्वपतः पुत्रादीन् भोजनाय बोधयति तद्वत् । यद्वा । अद्मेति गृहनाम, * वरूथम् अम्' इति तन्नामसु पाठात् । तत्र सीदतीत्यद्मसत् जननी । सो यथा स्वपतः पुत्रादीन् उषःकाले प्रबोधयति तथा भुवनाख्ये गृहे सीदन्ती तत्रत्यान् प्राणिनः प्रबोधयन्ती इयमुषाः। “एयुषीणाम् आगमनशीलानां स्त्रीणां मध्ये “शश्वत्तमा पुनःपुनरागच्छति । प्रातर्नियतमागच्छन्तीनां वारयोषितां मध्ये स्वयमेका सती नियतम् आगच्छतीत्यभिप्रायः । अत्र निरुक्तम्-' उपादर्शि शुन्ध्युवः शुन्ध्युरादित्यो भवति शोधनात्तस्यैव वक्षो भासोऽध्यूळहमिदमपीतरद्वक्ष एतस्मादेवाध्यूळ्हं काये । शकुनिरपि शुन्ध्युरुच्यते शोधनादेवोदकचरो भवति । आपोऽपि शुन्ध्युव उच्यन्ते शोधनादेव । नोधा ऋषिर्भवति नवनं दधाति स यथा स्तुत्या कामानाविष्कुरुत एवमुषा रूपाण्याविष्कुरुते । अद्मसद्मानं भवत्यद्मसादिनीति वान्नसानिनीति वा । ससतो बोधयन्ती शश्वत्तमागात्पुनरेयुषीणां स्वपतो बोधयन्ती शाश्वतिकतमगात्पुनरागामिनीनाम् ' (निरु. ४, १६ ) इति ॥


पूर्वे॒ अर्धे॒ रज॑सो अ॒प्त्यस्य॒ गवां॒ जनि॑त्र्यकृत॒ प्र के॒तुम् ।

व्यु॑ प्रथते वित॒रं वरी॑य॒ ओभा पृ॒णन्ती॑ पि॒त्रोरु॒पस्था॑ ॥५

पूर्वे॑ । अर्धे॑ । रज॑सः । अ॒प्त्यस्य॑ । गवा॑म् । जनि॑त्री । अ॒कृ॒त॒ । प्र । के॒तुम् ।

वि । ऊं॒ इति॑ । प्र॒थ॒ते॒ । वि॒ऽत॒रम् । वरी॑यः । आ । उ॒भा । पृ॒णन्ती॑ । पि॒त्रोः । उ॒पऽस्था॑ ॥५

पूर्वे । अर्धे । रजसः । अप्त्यस्य । गवाम् । जनित्री । अकृत । प्र । केतुम् ।

वि। ऊँ इति । प्रथते। विऽतरम् । वरीयः। आ । उभा । पृणन्ती । पित्रोः । उपऽस्था ॥ ५॥

"अप्त्स्यस्य व्यापनशीलस्य विस्तृतस्य "रजसः रञ्जकस्यान्तरिक्षलोकस्य । रजःशब्दोऽन्तरिक्षलोकवाची ' लोका रजांस्युच्यन्ते' (निरु. ४. १९) इति यास्केनोक्तत्वात् । तस्य “पूर्वे "अर्धे पूर्वस्मिन् भागे "जनित्री उत्पन्ना सती “गवां दिशां रश्मीनां वा "केतुं प्रज्ञानं “प्र “अकृत प्रकर्षेण करोति । यद्वा । रजसः रञ्जकस्याह्नः । रजःशब्दोऽहर्वाची ' असृगहनी रजसी उच्येते ' ( निरु. ४. १९) इति यास्केनोक्तत्वात् । तस्य पूर्वेऽर्धे पूर्वस्मिन् भागे उषःकाले गवां वाचां जनित्री जनयित्री उत्पादयित्री। उषःकाले सर्वेषां प्राणिनां वाचः स्फुरन्तीति प्रसिद्धम् । यद्वा । अस्यस्य कर्मसु स्थितस्य जन्तोः केतुं गमनागमनादिरूपं कर्म । केतुरिति कर्मनाम, ‘ केतः केतुः' इति तन्नामसु पाठात् । प्राकृत । प्रकर्षेण करोति । किंच "पित्रोः पालयित्र्योर्द्यावापृथिव्योः "उपस्था उपस्थे उत्सङ्गे अन्तरालप्रदेशे स्थित्वा “उभा उभे द्यावापृथिव्यौ “पृणन्ती स्वतेजसा पूरयन्ती। यद्वा । उभा उभयोः पित्रोरिति संबन्धः । “वितरं विशिष्टतरं “वरीयः उरुतरमतिविस्तीर्णं यथा भवति तथा "व्यु "प्रथते विशेषेणैव प्रख्याता भवति प्रकाशते इत्यर्थः । उशब्दः अवधारणार्थः पादपूरणो वा ‘ मिताक्षरेष्वनर्थकाः कमीमिद्विति' इति यास्केनोक्तत्वात् ॥ ॥ ७ ॥


ए॒वेदे॒षा पु॑रु॒तमा॑ दृ॒शे कं नाजा॑मिं॒ न परि॑ वृणक्ति जा॒मिम् ।

अ॒रे॒पसा॑ त॒न्वा॒३॒॑ शाश॑दाना॒ नार्भा॒दीष॑ते॒ न म॒हो वि॑भा॒ती ॥६

ए॒व । इत् । ए॒षा । पु॒रु॒ऽतमा॑ । दृ॒शे । कम् । न । अजा॑मिम् । न । परि॑ । वृ॒ण॒क्ति॒ । जा॒मिम् ।

अ॒रे॒पसा॑ । त॒न्वा॑ । शाश॑दाना । न । अर्भा॑त् । ईष॑ते । न । म॒हः । वि॒ऽभा॒ती ॥६

एव । इत् । एषा । पुरुऽतमा । दृशे । कम्। न । अजामिम् । न । परि। वृणक्ति। जामिम् ।

अरेपसा । तन्वा । शाशदाना । न । अर्भात् । ईषते । न । महः । विऽभाती ॥ ६ ॥

“एषा उषाः "एवेत् । इच्छब्दः एवकारार्थः । एवमेव इदानीं भासमानप्रकारेणैव "पुरुतमा विपुलतमा अत्यन्तविस्तृता सती "अजामिं विजातीयं मनुष्यादिजातिं “न “परि "वृणक्ति परितः सर्वतो न वर्जयति । तथा "जामिं सजातीयं देवजाति “न परि वृणक्ति "न परिवर्जयति । मनुष्यादिकं देवादिकं च तदुपलक्षितं लोकद्वयं वा कार्त्स्येन प्रकाशयतीत्यर्थः । किमर्थमिति तदुच्यते । "दृशे "कं सुखेन सर्वेषां दर्शनाय । सुखं यथा भवति तथा सर्वान् दर्शयितुं वा । किंच "अरेपसा अपापया निर्मलया “तन्वा शरीरेण “शाशदाना शाशाद्यमाना। शाशदानः शाशाद्यमानः ' ( निरु. ६. १६ ) इति यास्कः । स्पष्टतां गच्छन्तीत्यर्थः । "विभाती विशेषेण प्रकाशयन्ती सा "अर्भात् अल्पात् पुत्तिकादेः सकाशात् "न “ईषते न गच्छति । तमपि प्रकाशयति । तथा “मह: महतो मेर्वादेः सकाशात् न ईषते न गच्छति। तमपि प्रकाशयति । पूर्वं लोकद्वयं प्रकाशते इत्युक्तम् । इदानीम् अस्मिंल्लोके परमाण्वादि पर्वतपर्यन्तं कृत्स्नं प्रकाशयतीत्यर्थः ॥


अ॒भ्रा॒तेव॑ पुं॒स ए॑ति प्रती॒ची ग॑र्ता॒रुगि॑व स॒नये॒ धना॑नाम् ।

जा॒येव॒ पत्य॑ उश॒ती सु॒वासा॑ उ॒षा ह॒स्रेव॒ नि रि॑णीते॒ अप्सः॑ ॥७

अ॒भ्रा॒ताऽइ॑व । पुं॒सः । ए॒ति॒ । प्र॒ती॒ची । ग॒र्त॒ऽआ॒रुगि॑॑व । स॒नये॑ । धना॑नाम् ।

जा॒याऽइ॑व । पत्ये॑ । उ॒श॒ती । सु॒ऽवासाः॑ । उ॒षाः । ह॒स्राऽइ॑व । नि । रि॒णी॒ते॒ । अप्सः॑ ॥७

अभ्राताऽव । पुंसः । एति । प्रतीची । गर्तऽआरुर्गिव । सनये । धनानाम् ।

जायाऽइव । पत्ये । उशती । सुऽवासः । उषाः । हस्राऽइव । नि । रिणते । अप्सः ॥ ७ ॥

“अभ्रातेव भ्रातृरहितेव “पुंसः पित्रादीन् प्रति प्रतीची स्वकीयस्थानात् प्रतिनिवृत्तमुखी सती “ऐति गच्छति । यथा लोके भ्रातृरहिता योषित् स्वोचितवासोऽलंकारादिलाभाय पितॄन् एति । सति भ्रातरि स एव उचितप्रदानादिना सम्यक् तोषयति । तदभावात् पितरमेव प्राप्नोति । यद्वा । सति स्वभ्रातरि स एव पितुः पिण्डदानादिकं संतानकृत्यं करोति । तस्याभावात् स्वयमेव तत्कर्तुं पित्रादीन् गच्छति । तद्वदियम् उषा अपि स्वोचितप्रकाशादिलाभाय स्वप्रकाशदानाय वा पितृभूतं सूर्यम् आभिमुख्येन गच्छति । अयमेको दृष्टान्तः । तथा “धनानां “सनये “गर्तारुगिव इत्यपरो दृष्टान्तः । गर्त इति गृहनाम ‘कृदरो गर्तः ' (नि. ३. ४. ३ ) इति तन्नामसु पाठात् । अत्रौचित्येन राजपुरुषैः न्यायनिर्णेतृभिश्च अधिष्ठितं स्थानमुच्यते तदारोहतीति गर्तारुक् । यथा लोके काचित् गतभर्तृका योषित् धनानां स्वकीयरिक्थानां सनये लाभाय गर्तमागच्छति । तां तु सभ्याः विचार्य यदीयं रिक्थं लभते चेत् अक्षैः संताड्य तदीयं धनं वितरन्ति । तथेयमपि धनानां प्रीणनसाधनानां प्रकाशानां सनये लाभाय गर्तमाकाशं सूर्यनिवासस्थानमारोहति । देशविशेषाचारमपेक्ष्यैवं दृष्टान्तितम् । किंच “पत्ये "उशती कामयमाना "सुवासाः "जायेव । अयमपरः दृष्टान्तः । यथा च लोके सुवासा दुकूलादिशोभनवसना स्वलंकृता पूर्वं रजोदर्शनसमये मलिनवस्त्रा सती स्नानानन्तरं शोभनवस्त्राभरणादिना शोभमाना विशेषेण पतिं भोगाय कांक्षन्ती तेन सह संक्रीडते तथा इयम्” “उषा: अतिनैशेन अन्धकारेणावृतत्वात् मलिनवसनापि प्रभाते स्वतेजसावृतत्वात् सुवसना सती पतिस्थानीयेन सूर्येण साकं संक्रीडमाना “हस्रेव हसनेव’ “अप्सः दन्तस्थानीयानि रूपाणि नीलपीतादीनि । यद्वा । निरूप्यमाणानि पदार्थजातानि । “नि "रिणीते नितरां रिणीते गमयति प्रकाशयतीत्यर्थः । यथा लोके काचित् रमणीया योषित् स्मितव्याजेन दन्तान् विवृणुते तथेयमपि सर्वाणि रूपाणि प्रकाशयतीत्यर्थः । अयं मन्त्रो निरुक्ते स्पष्टं व्याख्यातः-* अभ्रातृकेव पुंसः पितॄनेत्यभिमुखी संतानकर्मणे पिण्डदानाय न पतिं गर्तारोहिणीव धनलाभाय दाक्षिणाजी । गर्तः सभास्थाणुर्गृणातेः सत्यसंगरो भवति । तं तत्र यापुत्रा यापतिका सारोहति तां तत्राक्षैराघ्नन्ति मा रिक्थं लभते ' इति, “ जायेव पत्ये कामयमाना सुवासा ऋतुकालेषूषा हसनेव दन्तान्विवृणुते ' (निरु. ३. ५) इति च ॥


स्वसा॒ स्वस्रे॒ ज्याय॑स्यै॒ योनि॑मारै॒गपै॑त्यस्याः प्रति॒चक्ष्ये॑व ।

व्यु॒च्छन्ती॑ र॒श्मिभि॒ः सूर्य॑स्या॒ञ्ज्य॑ङ्क्ते समन॒गा इ॑व॒ व्राः ॥८

स्वसा॑ । स्वस्रे॑ । ज्याय॑स्यै । योनि॑म् । अ॒रै॒क् । अप॑ । ए॒ति॒ । अ॒स्याः॒ । प्र॒ति॒चक्ष्य॑ऽइव ।

वि॒ऽउ॒च्छन्ती॑ । र॒श्मिऽभिः॑ । सूर्य॑स्य । अ॒ञ्जि । अ॒ङ्क्ते॒ । स॒म॒न॒गाःऽइ॑व । व्राः ॥८

स्वसा । स्वस्रे । ज्यायस्यै । योनिम् । अरैक् । अप । एति । अस्याः । प्रतिचक्ष्यऽइव ।

विऽउच्छन्ती । रश्मिऽभिः । सूर्यस्य । अञ्जि । अङ्क्ते । समनगाःऽइव । व्राः ॥ ८ ॥

एकस्मादेवान्तरिक्षादुपन्नत्वात् परस्परं स्वसृभावः । तथाप्यह्नः प्राथम्यात् तेजस्वित्वाच्च ज्यायस्त्वम् । स्वयमेव सरतीति वा "स्वसी । रात्रिः "स्वस्रे “ज्यायस्यै उक्तरीत्या ज्येष्ठायै "योनिम् उत्पत्तिस्थानम् अपररात्ररूपम् "अरैक् अरिचन् प्रादात् प्ररेचयतीत्यर्थः । तथा च पूर्वत्राम्नातं-‘रात्र्युषसे योनिमारैक्' (ऋ. सं. १. ११३. १ ) इति। दत्त्वा च "अस्याः उत्पन्नाया उषसः प्रतिचक्ष्येव । ज्ञापयित्वेव स्वयमपसृत्यैव गच्छति । ज्यायस्यामागतायां तस्यै स्वस्थानं दत्त्वा स्वयं तत्संनिधौ स्थातुमनुचितमिति विज्ञायैवापगच्छतीति भावः । एवमुत्पन्ना एषा "सूर्यस्य "रश्मिभिः “व्युच्छन्ती तमो विवासयन्ती “अञ्जि व्यञ्जकं तेजः । यद्वा । अञ्जि व्यक्तं जगत् । "अङ्क्ते अनक्ति प्रकाशयति । किमिव । "समनगाइव । सम्यगननहेतव आपः समनाः । ता गच्छन्तीति समनगाः विद्युतः । "व्राः व्राताः । विद्युसंघा इव । यद्वा। सम्यगननाय गच्छन्तीति समनगाः सूर्यरश्मयः । ते इव व्रा व्राताः संधीभूताः । ते यथाञ्जते जगत्प्रकाशयन्ति तथेत्यर्थः ॥ व्रात इत्यत्र तकारलोपश्छान्दसः ॥


आ॒सां पूर्वा॑सा॒मह॑सु॒ स्वसॄ॑णा॒मप॑रा॒ पूर्वा॑म॒भ्ये॑ति प॒श्चात् ।

ताः प्र॑त्न॒वन्नव्य॑सीर्नू॒नम॒स्मे रे॒वदु॑च्छन्तु सु॒दिना॑ उ॒षासः॑ ॥९

आ॒साम् । पूर्वा॑साम् । अह॑ऽसु । स्वसॄ॑णाम् । अप॑रा । पूर्वा॑म् । अ॒भि । ए॒ति॒ । प॒श्चात् ।

ताः । प्र॒त्न॒ऽवत् । नव्य॑सीः । नू॒नम् । अ॒स्मे इति॑ । रे॒वत् । उ॒च्छ॒न्तु॒ । सु॒ऽदिनाः॑ । उ॒षसः॑ ॥९

आसाम् । पूर्वासाम् । अहऽसु । स्वसॄणाम् । अपरा । पूर्वीम् । अभि । एति । पश्चात् ।

ताः । प्रत्नऽवत् । नव्य॑सीः । नूनम् । अस्मे इति । रेवत् । उच्छन्तु । सुऽदिनाः । उषसः ॥९॥

“स्वसॄणां परस्परं स्वसृभावमापन्नानां स्वयं सरन्तीनां वा "पूर्वासां पुरातनीनाम् "आसाम् उषसां मध्ये "अहसु अहःसु प्रतिदिनम् "अपरा अन्या अद्यतन्युषाः “पूर्वाम् अतीतदिवससंबन्धिनीमुषसं पश्चात् अनुसृत्य "अभ्येति । अभिमुखं गच्छति अव्यवधानेन गच्छतीत्यर्थः । सर्वेश्वहःसु एवमेवाभ्येति । "नव्यसीः नवीयस्यो नवतरा आगामिन्यः “ताः "उषासः उषसः अपि "नूनं निश्चयं “प्रत्नवत् पुरातन्य इव सुदिनाः शोभनकर्मानुष्ठानसाधनदिवसाः शोभनदिनमुखा वा सत्यः अस्मे अस्माकं “रेवत् बहुधनविशिष्टं यथा भवति तथा “उच्छन्तु प्रकाशयन्तु । पूर्वतन्यो यथौच्छन् तथा आगामिन्योऽपि उच्छन्तु इत्यर्थः ॥


प्र बो॑धयोषः पृण॒तो म॑घो॒न्यबु॑ध्यमानाः प॒णयः॑ ससन्तु ।

रे॒वदु॑च्छ म॒घव॑द्भ्यो मघोनि रे॒वत्स्तो॒त्रे सू॑नृते जा॒रय॑न्ती ॥१०

प्र । बो॒ध॒य॒ । उ॒षः॒ । पृ॒ण॒तः । म॒घो॒नि॒ । अबु॑ध्यमानाः । प॒णयः॑ । स॒स॒न्तु॒ ।

रे॒वत् । उ॒च्छ॒ । म॒घव॑त्ऽभ्यः । म॒घो॒नि॒ । रे॒वत् । स्तो॒त्रे । सू॒नृ॒ते॒ । ज॒रय॑न्ती ॥१०

प्र। बोधय । उषः । पृणतः । मघोनि । अबुध्यमानाः । पणयः । ससन्तु ।

रेवत् । उच्छ । मघवत्ऽभ्यः । मघोनि । रेवत् । स्तोत्रे । सूनृते । जरयन्ती ॥ १० ॥

हे "मघोनि मघवति अस्मभ्यं दातव्यैर्बहुभिर्धनैस्तद्वति "उषः हे उषोदेवि पृणतः हविष्प्रदान् अस्मान् यजमानान् "प्रबोधय प्रज्ञापय प्रतिबुद्धान् कुरु । किंच "पणयः व्ययासहिष्णवो वणिजः । 'पणिर्वणिग्भवति ' (निरु. २. १७) इति यास्कः । पणय इव लुब्धकाः "अबुध्यमानाः यागादीन् अकुर्वाणा अदानशीला अस्मच्छत्रवः "ससन्तु स्वपन्तु दीर्घनिद्रा भवन्तु म्रियन्तामित्यर्थः । तथा च मन्त्रान्तरं- ससन्तु त्या अरातयो बोधन्तु शूर रातयः' (ऋ. सं. १. २९. ४) इति । किंच हे मघोनि अस्मद्दत्तहविर्भिस्तद्वति हे उषः मघवद्भ्यः हविर्लक्षणान्नवद्भ्यो यजमानेभ्यस्तेषामर्थं "रेवत् धनवत् समृद्धिमत् "उच्छ विभाहि । किंच हे "सूनुते सुष्ठु मनुष्याणां नेत्रि देवि जरयन्ती सर्वप्राणिनः क्षपयन्ती त्वं स्तोत्रे स्तुतिकर्त्रे यजमानाय तदर्थं "रेवत् धनवत् समृद्धयर्थम् उच्छेति शेषः ॥ ॥ ८ ॥


अवे॒यम॑श्वैद्युव॒तिः पु॒रस्ता॑द्यु॒ङ्क्ते गवा॑मरु॒णाना॒मनी॑कम् ।

वि नू॒नमु॑च्छा॒दस॑ति॒ प्र के॒तुर्गृ॒हंगृ॑ह॒मुप॑ तिष्ठाते अ॒ग्निः ॥११

अव॑ । इ॒यम् । अ॒श्वै॒त् । यु॒व॒तिः । पु॒रस्ता॑त् । यु॒ङ्क्ते । गवा॑म् । अ॒रु॒णाना॑म् । अनी॑कम् ।

वि । नू॒नम् । उ॒च्छा॒त् । अस॑ति । प्र । के॒तुः । गृ॒हम्ऽगृ॑हम् । उप॑ । ति॒ष्ठा॒ते॒ । अ॒ग्निः ॥११

अव । इयम् । अश्वैत् । युवतिः । पुरस्तात् । युङ्क्ते । गवाम् । अरुणानाम् । अनीकम् ।।

वि । नूनम् । उच्छात् । असति। प्र। केतुः । गृहम्ऽगृहम् । उप । तिष्ठाते । अग्निः ॥ ११ ॥

"इयम् उषाः युवतिः यौवनोपेतयोषित्स्थानीया । यद्वा । सर्वेषु भावेषु मिश्रयन्ती। "पुरस्तात् पूर्वस्यां दिशि "अव “अश्वैत् अत्यर्थमागच्छति वर्धते वा । अत्र अवशब्दो विनिग्रहार्थीयः ‘न्यवेति विनिग्रहार्थीयौ ' ( निरु. १. ३) इति यास्केनोक्तत्वात् । तत्कथमवगम्यते इति तत्राह । इयम् “अरुणानाम् अरुणवर्णानां "गवां प्रसिद्धानाम् एतन्नामकानामश्वानां वा "अनीकं समूहं "युङ्क्ते रथे योजयति।' अरुण्यो गाव उषसाम् । श्यावाः सवितुः '(नि. १. १५. ७-८) इति । यथा लोके वाहनसंनाहं दृष्ट्वा प्रयाणमनुमीयते तथा अत्रापि अरुणरश्मीनामश्वानां दर्शनात् उषा आगच्छतीत्यध्यवसीयते । यद्वा । अरुणानां रश्मीनां समूहं युङ्क्ते । तथा "नूनं निश्चयमेषा “वि “उच्छात् तमो विवर्जयिष्यति । यत इयं गा युनक्ति अत एव कारणात् यथा लोकेऽश्वसंनाहं दृष्ट्वा उदयोऽनुमीयते तथात्रापीत्यर्थः । तादृशी सा "असति असत्प्राये नीरूपेऽन्तरिक्षे तिरोधायकत्वात् अशोभने तमसि वा "केतुः केतुस्थानीया ज्ञापयित्री प्रकर्षेण विविधं भासते इति शेषः । उपसर्गवशाद्योग्यक्रियाध्याहारः । यद्वा । असति तमोरूपेऽन्धकारे “प्र केतुः प्रकर्षेण ज्ञापयित्री सती नूनं व्युच्छादिति पूर्वान्वयः । तस्मिन् काले “अग्निः आहवनीयादिरूपः "गृहंगृहं सर्वयजमानगृहम् अग्निहोत्राद्यर्थम् "उप तिष्ठाते उपतिष्ठते दीप्यते इत्यर्थः ॥


उत्ते॒ वय॑श्चिद्वस॒तेर॑पप्त॒न्नर॑श्च॒ ये पि॑तु॒भाजो॒ व्यु॑ष्टौ ।

अ॒मा स॒ते व॑हसि॒ भूरि॑ वा॒ममुषो॑ देवि दा॒शुषे॒ मर्त्या॑य ॥१२

उत् । ते॒ । वयः॑ । चि॒त् । व॒स॒तेः । अ॒प॒प्त॒न् । नरः॑ । च॒ । ये । पि॒तु॒ऽभाजः॑ । विऽउ॑ष्टौ ।

अ॒मा । स॒ते । व॒ह॒सि॒ । भूरि॑ । वा॒मम् । उषः॑ । दे॒वि॒ । दा॒शुषे॑ । मर्त्या॑य ॥१२

उत् । ते । वयः । चित् । वसतेः । अपप्तन् । नरः । च । ये । पितुऽभाजः। विऽउष्टौ ।

अमा । सते । वहसि । भूरि । वामम् । उषः । देवि । दाशुषे । मर्त्याय ॥ १२ ॥

“ते तव “व्युष्टौ सत्यां “वयश्चित् गमनवन्तः पक्षिणोऽपि । चिदित्येष अपिशब्दार्थः निपातानामनेकार्थत्वात् ।' उच्चावचेष्वर्थेषु निपतन्ति ' ( निरु. १. ४ ) इति यास्केनोक्तत्वात् । “वसतेः निवासस्थानान्नीडादेः "उत् ऊर्ध्वम् "अपप्तन् पतन्ति । पूर्ववाक्ये ‘गृहं गृहमुपतिष्ठातेऽग्निः' इत्युक्तत्वात्तदपेक्षया अपिशब्दः'। किंच नरश्च मनुष्याश्च “पितुभाजः अन्नवन्तोऽन्नार्थिनः कृषिवाणिज्यादिकर्तारः स्वस्वव्यापारार्थम् उदुन्मुखा अपप्तन् गच्छन्ति । तथा मन्त्रान्तरं- पद्वदीयत उत्पातयति पक्षिणः ' ( ऋ. सं. १. ४८.५) इति । एवं सत्यां हे “देवि देवनशीले उषोदेवते “अमा गृहे देवयजनाये “सते तिष्ठते यजमानाय तदर्थम् । अमेति गृहनाम 'अमा दमे' (नि. ३. ४. ११ ) इति तन्नामसु पठितत्वात् । यद्वा । अमा सह हूयमानेनाग्निना सह निवसते यजमानाय । अमा वसेतामित्यादौ सहार्थे प्रयोगात् । “मर्त्याय मनुष्याय “दाशुषे हविर्दत्तवते यजमानाय “भूरि “वामं बहु शोभनं धनं "वहसि प्रापयसि ॥


अस्तो॑ढ्वं स्तोम्या॒ ब्रह्म॑णा॒ मेऽवी॑वृधध्वमुश॒तीरु॑षासः ।

यु॒ष्माकं॑ देवी॒रव॑सा सनेम सह॒स्रिणं॑ च श॒तिनं॑ च॒ वाज॑म् ॥१३

अस्तो॑ढ्वम् । स्तो॒म्याः॒ । ब्रह्म॑णा । मे॒ । अवी॑वृधध्वम् । उ॒श॒तीः । उ॒ष॒सः॒ ।

यु॒ष्माक॑म् । दे॒वीः॒ । अव॑सा । स॒ने॒म॒ । स॒ह॒स्रिण॑म् । च॒ । श॒तिन॑म् । च॒ । वाज॑म् ॥१३

अस्तोढ्वम् । स्तोम्याः । ब्रह्मणा । मे। अवीवृधध्वम् । उशतीः । उषसः ।

युष्माकम् । देवीः । अवसा । सनेम । सहस्रिणम् । च । शतिनम् । च । वाजम् ॥ १३ ॥

एवं सूक्तद्वयोक्तरीत्या बहुधा स्तुत्वा तां च स्तुतिमनया निवेदयित्वा स्वाभीष्टं प्रार्थयते । हे "स्तोम्याः । स्तोमः स्तोत्रम् । तदर्हन्तीति स्तोम्याः स्तुत्यर्हा उषसः । यतो यूयं तादृश्यः अतः मे मत्स्वभूतेन "ब्रह्मणा सूक्तद्वयगतमन्त्ररूपेण स्तोत्रेण "अस्तोढ्वम् स्तुता भवत। किंच हे उषासः उषसः "उशतीः स्तोतॄन् अस्मान् अस्मत्समृद्धिं वा कामयमाना यूयम् “अवीवृधध्वम् अस्मान् प्रवर्धयत । किंच हे “देवीः देव्यो देवनशीलाः "युष्माकम् अवसा युष्मत्संबन्धिना रक्षणेन वयं “सहस्रिणं सहस्रसंख्याकम् अभीष्टं धनं "सनेम लभेमहि । तथा “शतिनं “च “वाजं शतसंख्याकम् अपरिमितं धनं सनेम । युष्मत्कृतेन शतसहस्रपरिमितधनादिरूपरक्षणेन वयमपि अर्थिभ्यः शतसहस्रपरिमितस्य धनस्य सनितारो भवेमेत्यर्थः । ॥ ९ ॥


मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१२४&oldid=207758" इत्यस्माद् पुनः प्राप्तिः