ऋग्वेदः सूक्तं १.१५३
← सूक्तं १.१५२ | ऋग्वेदः - मण्डल १ सूक्तं १.१५३ दीर्घतमा औचथ्यः |
सूक्तं १.१५४ → |
दे. मित्रावरुणौ । त्रिष्टुप् । |
यजामहे वां महः सजोषा हव्येभिर्मित्रावरुणा नमोभिः ।
घृतैर्घृतस्नू अध यद्वामस्मे अध्वर्यवो न धीतिभिर्भरन्ति ॥१॥
प्रस्तुतिर्वां धाम न प्रयुक्तिरयामि मित्रावरुणा सुवृक्तिः ।
अनक्ति यद्वां विदथेषु होता सुम्नं वां सूरिर्वृषणावियक्षन् ॥२॥
पीपाय धेनुरदितिरृताय जनाय मित्रावरुणा हविर्दे ।
हिनोति यद्वां विदथे सपर्यन्स रातहव्यो मानुषो न होता ॥३॥
उत वां विक्षु मद्यास्वन्धो गाव आपश्च पीपयन्त देवीः ।
उतो नो अस्य पूर्व्यः पतिर्दन्वीतं पातं पयस उस्रियायाः ॥४॥
सायणभाष्यम्
‘ यजामहे वाम्' इति चतुर्ऋचं चतुर्दशं सूक्तं दैर्घतमसं त्रैष्टुभं मैत्रावरुणम् । ‘ यजामहे चतुष्कम्' इत्यनुक्रमणिका । विनियोगो लैङ्गिकः ।।
यजा॑महे वां म॒हः स॒जोषा॑ ह॒व्येभि॑र्मित्रावरुणा॒ नमो॑भिः ।
घृ॒तैर्घृ॑तस्नू॒ अध॒ यद्वा॑म॒स्मे अ॑ध्व॒र्यवो॒ न धी॒तिभि॒र्भर॑न्ति ॥१
यजा॑महे । वा॒म् । म॒हः । स॒ऽजोषाः॑ । ह॒व्येभिः॑ । मि॒त्रा॒व॒रु॒णा॒ । नमः॑ऽभिः ।
घृ॒तैः । घृ॒त॒स्नू॒ इति॑ घृतऽस्नू । अध॑ । यत् । वा॒म् । अ॒स्मे इति॑ । अ॒ध्व॒र्यवः॑ । न । धी॒तिऽभिः॑ । भर॑न्ति ॥१
यजामहे । वाम् । महः । सऽजोषाः । हव्येभिः । मित्रावरुणा । नमःऽभिः ।
घृतैः । घृतस्नू इति घृतऽस्नू । अध । यत् । वाम् । अस्मे इति । अध्वर्यवः । न । धीतिऽभिः । भरन्ति ॥१
हे “घृतस्नू घृतस्य स्रावयितारौ मित्रावरुणौ “महः महान्तौ “वां “यजामहे पूजयामो यजमानाः ऋत्विजश्च । कीदृशाः । “सजोषाः समानप्रीतियुक्ताः । केन साधनेनेति तदुच्यते । “हव्येभिः पुरोडाशादिभिः “नमोभिः नमस्कारोपलक्षितैः। “अध अपि च “यत् यस्मात् कारणात् “वां युवाम् “अध्वर्यवः अस्मदीया अध्वर्यवोऽपि । अत्र नशब्दोऽप्यर्थे । तेऽपि “धीतिभिः कर्मभिः स्वकीयैः “भरन्ति पोषयन्ति तस्मात् यजामहे । ।
प्रस्तु॑तिर्वां॒ धाम॒ न प्रयु॑क्ति॒रया॑मि मित्रावरुणा सुवृ॒क्तिः ।
अ॒नक्ति॒ यद्वां॑ वि॒दथे॑षु॒ होता॑ सु॒म्नं वां॑ सू॒रिर्वृ॑षणा॒विय॑क्षन् ॥२
प्रऽस्तु॑तिः । वा॒म् । धाम॑ । न । प्रऽयु॑क्तिः । अया॑मि । मि॒त्रा॒व॒रु॒णा॒ । सु॒ऽवृ॒क्तिः ।
अ॒नक्ति॑ । यत् । वा॒म् । वि॒दथे॑षु । होता॑ । सु॒म्नम् । वा॒म् । सू॒रिः । वृ॒ष॒णौ॒ । इय॑क्षन् ॥२
प्रऽस्तुतिः । वाम् । धाम । न । प्रऽयुक्तिः । अयामि । मित्रावरुणा । सुऽवृक्तिः ।
अनक्ति । यत् । वाम् । विदथेषु । होता । सुम्नम् । वाम् । सूरिः । वृषणौ । इयक्षन् ॥२
हे मित्रावरुणौ “वां युवयोः संबन्धिनो यागस्य “प्रस्तुतिः प्रस्तावना करोमीति संकल्प एव “न “प्रयुक्तिः कृत्स्नप्रयोगो न संपन्नः । तावतैव युवयोः “धाम तेजःस्थानम् “अयामि प्राप्नोमि । “सुवृक्तिः युवयोः शोभनावर्जकश्च युष्मत्परिग्रहादस्मि । “यत् यदा तु “विदथेषु यज्ञेषु “वां युवां “होता होमनिष्पादकोऽयमध्वर्युः “अनक्ति हविषा आगच्छति होमं करोतीत्यर्थः। यद्वा । होता देवानामाह्वाता एतन्नामकः ऋत्विक् शस्त्रादिना वाम् अनक्ति व्यञ्जयति । तदा “सूरिः युष्मन्माहात्म्यवित् “इयक्षन् यागं कर्तुमिच्छन् अहं हे “वृषणौ कामानां वर्षितारौ “वां युवयोः “सुम्नं युष्मत्संबन्धि सुखं देवत्वलक्षणम् अयामीति शेषः ॥
पी॒पाय॑ धे॒नुरदि॑तिरृ॒ताय॒ जना॑य मित्रावरुणा हवि॒र्दे ।
हि॒नोति॒ यद्वां॑ वि॒दथे॑ सप॒र्यन्स रा॒तह॑व्यो॒ मानु॑षो॒ न होता॑ ॥३
पी॒पाय॑ । धे॒नुः । अदि॑तिः । ऋ॒ताय॑ । जना॑य । मि॒त्रा॒व॒रु॒णा॒ । ह॒विः॒ऽदे ।
हि॒नोति॑ । यत् । वा॒म् । वि॒दथे॑ । स॒प॒र्यन् । सः । रा॒तऽह॑व्यः । मानु॑षः । न । होता॑ ॥३
पीपाय । धेनुः । अदितिः । ऋताय । जनाय । मित्रावरुणा । हविःऽदे ।
हिनोति । यत् । वाम् । विदथे । सपर्यन् । सः । रातऽहव्यः । मानुषः । न । होता ॥३
हे "मित्रावरुणा मित्रावरुणौ "ऋताय युष्मत्संबन्धियज्ञाय “हविर्दे हविषो दात्रे ।। ‘आतो मनिन्’ इति विच् । भत्वे आतो धातोः' इति आकारलोपः ॥ “जनाय यजमानाय च “धेनुः प्रीणयित्री गौः। “अदितिः अदीना बहुक्षीरा सती “पीपाय क्षीरेण पुनःपुनः आप्यायताम् ॥ प्यायतेश्छान्दसः प्रार्थनायां लिट् । ‘ लिड्यङोश्च' इति पीभावः ॥ पयस्यादिहविष्कं यज्ञं पयोव्रतादिषु यजमानं चेत्यर्थः । कस्मिन् काले इति चेत् तत्राह । “यत् यदा "सः प्रसिद्धः “रातहव्यः एतन्नामा राजा “सपर्यन् स्तुत्या पूजयन् “मानुषः “होता “न मनुष्यस्य यजमानस्य संबन्धी एतन्नामक ऋत्विगिव "विदथे यज्ञे “वां “हिनोति हविरादिना प्रीणयति । तदा पीपायेत्याह ।
उ॒त वां॑ वि॒क्षु मद्या॒स्वन्धो॒ गाव॒ आप॑श्च पीपयन्त दे॒वीः ।
उ॒तो नो॑ अ॒स्य पू॒र्व्यः पति॒र्दन्वी॒तं पा॒तं पय॑स उ॒स्रिया॑याः ॥४
उ॒त । वा॒म् । वि॒क्षु । मद्या॑सु । अन्धः॑ । गावः॑ । आपः॑ । च॒ । पी॒प॒य॒न्त॒ । दे॒वीः ।
उ॒तो इति॑ । नः॒ । अ॒स्य । पू॒र्व्यः । पतिः॑ । दन् । वी॒तम् । पा॒तम् । पय॑सः । उ॒स्रिया॑याः ॥४
उत । वाम् । विक्षु । मद्यासु । अन्धः । गावः । आपः । च । पीपयन्त । देवीः ।
उतो इति । नः । अस्य । पूर्व्यः । पतिः । दन् । वीतम् । पातम् । पयसः । उस्रियायाः ॥४
“उत अपि च हे मित्रावरुणौ “वां युवाम् “अन्धः अदनीयमन्नं पयोरूपं पुरीडाशादिरूपं वा “देवीः द्योतनशीलाः “गावः “आपश्च व्रीह्यादिप्रवर्धकान्युदकानि च “मद्यासु युष्माभिर्मदनीयासु “विक्षु प्रजासु यजमानलक्षणासु तासामभिवृद्ध्यर्थं “पीपयन्त आप्याययन्तु। “उतो अपि च “नः अस्मत्संबन्धिनः “अस्य यज्ञस्य “पूर्व्यः पूर्वकालीनः “पतिः पालकोऽग्निः “दन् दाता भवत्विति शेषः । अग्नौ हूयमानत्वात् सर्वेषामपि हविषाम् । यस्मादेवं तस्मात् हे मित्रावरुणौ "वीतं भक्षयतं पुरोडाशादिकम् । “उस्रियायाः क्षीराद्युत्स्राविण्या गोः “पयसः पयः “पातम् । यद्वा । घनीभूतं पयस्याया वीतं स्रवद्रूपं पातम् ॥ ॥ २३ ॥
मण्डल १ | ||||||
---|---|---|---|---|---|---|
|