सामग्री पर जाएँ

ऋग्वेदः सूक्तं १.७०

विकिस्रोतः तः
← सूक्तं १.६९ ऋग्वेदः मण्डल १
सूक्तं १.७०
पराशरः शाक्त्यः
सूक्तं १.७१ →
दे. अग्निः। द्विपदा विराट्।


वनेम पूर्वीरर्यो मनीषा अग्निः सुशोको विश्वान्यश्याः ॥१॥
आ दैव्यानि व्रता चिकित्वाना मानुषस्य जनस्य जन्म ॥२॥
गर्भो यो अपां गर्भो वनानां गर्भश्च स्थातां गर्भश्चरथाम् ॥३॥
अद्रौ चिदस्मा अन्तर्दुरोणे विशां न विश्वो अमृतः स्वाधीः ॥४॥
स हि क्षपावाँ अग्नी रयीणां दाशद्यो अस्मा अरं सूक्तैः ॥५॥
एता चिकित्वो भूमा नि पाहि देवानां जन्म मर्ताँश्च विद्वान् ॥६॥
वर्धान्यं पूर्वीः क्षपो विरूपा स्थातुश्च रथमृतप्रवीतम् ॥७॥
अराधि होता स्वर्निषत्तः कृण्वन्विश्वान्यपांसि सत्या ॥८॥
गोषु प्रशस्तिं वनेषु धिषे भरन्त विश्वे बलिं स्वर्णः ॥९॥
वि त्वा नरः पुरुत्रा सपर्यन्पितुर्न जिव्रेर्वि वेदो भरन्त ॥१०॥
साधुर्न गृध्नुरस्तेव शूरो यातेव भीमस्त्वेषः समत्सु ॥११॥


सायणभाष्यम्

वनेम' इति द्वैपदमेकादशर्चमध्ययनतः षडृचं षष्ठं सूक्तम् । ऋष्याद्याः पूर्ववत् । अनुक्रान्तं च-’ वनेमैकादश' इति । विनियोगो लैङ्गिकः ॥


व॒नेम॑ पू॒र्वीर॒र्यो म॑नी॒षा अ॒ग्निः सु॒शोको॒ विश्वा॑न्यश्याः ॥१

व॒नेम॑ । पू॒र्वीः । अ॒र्यः । म॒नी॒षा । अ॒ग्निः । सु॒ऽशोकः॑ । विश्वा॑नि । अ॒श्याः॒ ॥१

वनेम । पूर्वीः । अर्यः । मनीषा । अग्निः । सुऽशोकः । विश्वानि । अश्याः ॥१

आ दैव्या॑नि व्र॒ता चि॑कि॒त्वाना मानु॑षस्य॒ जन॑स्य॒ जन्म॑ ॥२

आ । दैव्या॑नि । व्र॒ता । चि॒कि॒त्वान् । आ । मानु॑षस्य । जन॑स्य । जन्म॑ ॥२

आ । दैव्यानि । व्रता । चिकित्वान् । आ । मानुषस्य । जनस्य । जन्म ॥२

“पूर्वीः प्रभूता इषोऽन्नानि “वनेम संभजेमहि। अग्निस्तादृशान्यन्नानि ददात्वित्यर्थः। "मनीषा मनीषया बुद्ध्या “अर्यः गन्तव्यः प्राप्तव्यः । यद्वा। मनीषया अर्यः स्वामी । “सुशोकः शोभनदीप्तिः । एवंभूतः “अग्निः “विश्वानि सर्वाणि कर्माणि “अश्याः अश्नुते व्याप्नोति । किं कुर्वन् । “दैव्यानि देवेषु भवानि “व्रता व्रतानि कर्माणि “चिकित्वान् “आ समन्तात् जानन् । तथा “मानुषस्य “जनस्य मनुष्यजातस्य “जन्म उत्पत्तिरूपं कर्म चिकित्वान् आभिमुख्येन जानन् । द्यावापृथिव्योः संबन्धीनि यानि कर्माणि तानि सर्वाण्यवगच्छन् । अवगत्य व्याप्नोतीत्यर्थः ॥ वनेम । ‘ वन षण संभक्तौ । शपि प्राप्ते व्यत्ययेन शः । अदुपदेशात् लसार्वधातुकानुदात्तत्वे विकरणस्वरः शिष्यते । पूर्वीः । पुरुशब्दात् ‘वोतो गुणवचनात्' इति ङीष् । ' हलि च' इति दीर्घः । मनीषा। ईषाअक्षादित्वात्प्रकृतिभावः ( पा. सू. ६. १. १२७. २ ) । सुशोकः । ‘ शुच दीप्तौ । भावे घञ् । 'चजोः कु घिण्ण्यतोः । इति कुत्वम् । शोभनः शोको यस्य। ' आद्युदात्तं द्व्यच्छन्दसि ' इत्युत्तरपदाद्युदात्तत्वम् । अश्याः । ‘ देवत्वा विश्वान्यश्याः ' ( ऋ. सं. १. ६९. ६ ) इतिवत् । चिकित्वान् । कित ज्ञाने । लिटः क्वसुः ॥ ।


गर्भो॒ यो अ॒पां गर्भो॒ वना॑नां॒ गर्भ॑श्च स्था॒तां गर्भ॑श्च॒रथा॑म् ॥३

गर्भः॑ । यः । अ॒पाम् । गर्भः॑ । वना॑नाम् । गर्भः॑ । च॒ । स्था॒ताम् । गर्भः॑ । च॒रथा॑म् ॥३

गर्भः । यः । अपाम् । गर्भः । वनानाम् । गर्भः । च । स्थाताम् । गर्भः । चरथाम् ॥३

अद्रौ॑ चिदस्मा अ॒न्तर्दु॑रो॒णे वि॒शां न विश्वो॑ अ॒मृत॑ः स्वा॒धीः ॥४

अद्रौ॑ । चि॒त् । अ॒स्मै॒ । अ॒न्तः । दु॒रो॒णे । वि॒शाम् । न । विश्वः॑ । अ॒मृतः॑ । सु॒ऽआ॒धीः ॥४

अद्रौ । चित् । अस्मै । अन्तः । दुरोणे । विशाम् । न । विश्वः । अमृतः । सुऽआधीः ॥४

“यः अग्निः “अपां “गर्भः गर्भवदन्तर्वर्ती अपांनपात्संज्ञः । यश्च “वनानाम् अरण्यानां “गर्भः दावाग्निरूपेण तन्मध्ये वर्तते । यः “च “स्थातां स्थावराणां काष्ठादीनां “गर्भः अन्तरवस्थाता । “चरथां चरणवतां जङ्गमानां “गर्भः जाठररूपेण देहमध्येऽवतिष्ठते । एवंभूताय "अस्मै अग्नये “दुरोणे दुस्तर्यगृहे “अद्रौ "चित् पर्वतेऽपि "अन्तः मध्ये हविः प्रयच्छन्तीति शेषः । सोऽयम् “अमृतः अमरणधर्माग्निः “स्वाधीः शोभनकर्मयुक्तः शोभनाध्यानः वा अस्माकं भवत्विति शेषः। तत्र दृष्टान्तः । “विश्वः निवेशयिता सुखेनावस्थापयिता राजा "विशां “न । प्रजानां यथा रक्षणरूपशोभनकर्मयुक्तो भवति तद्वत् ॥ स्थाताम् । तिष्ठतेः क्विपि छान्दसः तुक्। यद्वा । औणादिकः तुप्रत्ययः । आमि अन्त्यलोपश्छान्दसः । चरथाम् । शीङ्शपिरुगमि° ' ( उ. सू. ३. ३९३ ) इति विधीयमानः अथप्रत्ययो बहुलवचनात् चरेरपि द्रष्टव्यः । आगमानुशासनस्यानित्यत्वात् आमो नुडभावे सवर्णदीर्घः । विश्वः । ‘ विश प्रवेशने' । अस्मात् अन्तर्भावितण्यर्थात् “ अशिप्रुषि' इत्यादिना क्वन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् ॥


स हि क्ष॒पावाँ॑ अ॒ग्नी र॑यी॒णां दाश॒द्यो अ॑स्मा॒ अरं॑ सू॒क्तैः ॥५

सः । हि । क्ष॒पाऽवा॑न् । अ॒ग्निः । र॒यी॒णाम् । दाश॑त् । यः । अ॒स्मै॒ । अर॑म् । सु॒ऽउ॒क्तैः ॥५

सः । हि । क्षपाऽवान् । अग्निः । रयीणाम् । दाशत् । यः । अस्मै । अरम् । सुऽउक्तैः ॥५

ए॒ता चि॑कित्वो॒ भूमा॒ नि पा॑हि दे॒वानां॒ जन्म॒ मर्ताँ॑श्च वि॒द्वान् ॥६

ए॒ता । चि॒कि॒त्वः॒ । भूम॑ । नि । पा॒हि॒ । दे॒वाना॑म् । जन्म॑ । मर्ता॑न् । च॒ । वि॒द्वान् ॥६

एता । चिकित्वः । भूम । नि । पाहि । देवानाम् । जन्म । मर्तान् । च । विद्वान् ॥६

“स “हि “अग्निः “क्षपावान् । क्षपा इति रात्रिनाम। रात्रिमान् । ‘आग्नेयी वै रात्रिः' (तै. ब्रा. २. १. २.७ ) इति श्रुतेः । रात्रेरग्निसंबन्धोऽपि ‘अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहा' (तै. आ. ४. १०. ५) इति हूयमानत्वात् । यद्वा। राक्षसादीनां क्षपणेन नाशनेन युक्तः। एवंभूतोऽग्निः स्तोत्रे यजमानाय “रयीणां धनानि “दाशत् दाशति प्रयच्छति । “यः यजमानः “अस्मै अग्नये “सूक्तैः सुष्ठूक्तैर्यथाशास्त्रं प्रयुक्तैर्मन्त्रैः “अरम् अलं पर्याप्तं स्तोत्रं करोति तस्मै इत्यर्थः । हे "चिकित्वः । ‘ चिकित्वांश्चेतनावान' (निरु. २. ११) इति यास्कः। हे चेतनावन् सर्वज्ञाग्ने त्वं “देवानाम् इन्द्रादीनां “जन्म जन्मानि “मर्तान् मनुष्यान “च “विद्वान् जानन् "एता एतानि "भूम भूम्युपलक्षितानि भूतजातानि “नि “पाहि नितरां पालय । यतस्त्वं देवमनुष्यादीन् सर्वान् जानासि अत एवमुच्यसे इत्यर्थः । रयीणाम् । क्रियाग्रहणं कर्तव्यम्' इति कर्मणः संप्रदानत्वात् चतुर्थ्यर्थे षष्ठी । दाशत् । दाशृ दाने '। लेटि अडागमः । अरम् । ‘ वालमूल ' इत्यादिना लत्वविकल्पः । सूक्तैः । ‘ सूपमानात् क्तः' (पा. सू. ६. २. १४५) इत्युत्तरपदान्तोदात्तत्वम् । चिकित्वः । मतुवसो रुः° ' इति नकारस्य रुत्वम् । भूम।' सुपां सुलुक्' इति भुमिशब्दादुत्तरस्या द्वितीयाया डादेशः । पदकाले हस्वश्छान्दसः ॥


वर्धा॒न्यं पू॒र्वीः क्ष॒पो विरू॑पाः स्था॒तुश्च॒ रथ॑मृ॒तप्र॑वीतम् ॥७

वर्धा॑न् । यम् । पू॒र्वीः । क्ष॒पः । विऽरू॑पाः । स्था॒तुः । च॒ । रथ॑म् । ऋ॒तऽप्र॑वीतम् ॥७

वर्धान् । यम् । पूर्वीः । क्षपः । विऽरूपाः । स्थातुः । च । रथम् । ऋतऽप्रवीतम् ॥७

अरा॑धि॒ होता॒ स्व१॒॑र्निष॑त्तः कृ॒ण्वन्विश्वा॒न्यपां॑सि स॒त्या ॥८

अरा॑धि । होता॑ । स्वः॑ । निऽस॑त्तः । कृ॒ण्वन् । विश्वा॑नि । अपां॑सि । स॒त्या ॥८

अराधि । होता । स्वः । निऽसत्तः । कृण्वन् । विश्वानि । अपांसि । सत्या ॥८

“पूर्वीः बह्व्य उषसः “क्षपः निशाः च "विरूपाः शुक्लकृष्णतया विविधरूपाः सत्यः “यम् अग्निं "वर्धान वर्धयन्ति । तथा “स्थातुः स्थावरं वृक्षादिकं “रथं रममाणं जङ्गमं मनुष्यादिकं च "ऋतप्रवीतम् ऋतेनोदकेन सत्येन यज्ञेन वा प्रकर्षेण वेष्टितं यमग्निं वर्धयन्ति । सोऽग्निः “स्वः सुष्ठु अरणीये देवयजने “निषत्तः निषण्ण उपविष्टः सन् “होता देवानामाह्वाता "अराधि संसिद्धोऽभूत् । यद्वा । ऋत्विग्भिरराधि आराधित इत्यर्थः । किं कुर्वन् । “विश्वानि सर्वाणि “सत्या सत्सु यजमानेषु भवानि यद्वा सत्यफलानि “अपांसि कर्माणि “कृण्वन् कुर्वन् । वर्धान् । वृधेर्ण्यन्तात् लेटि आडागमः । छन्दस्युभयथा ' इति शप आर्धधातुकत्वात् णिलोपः । ‘ इतश्च लोपः० ' इति इकारलोपे संयोगान्तलोपः । ऋतप्रवीतम् । 'व्येञ् संवरणे । अस्मात् कर्मणि निष्ठा । ‘ वचिस्वपि° ' इत्यादिना संप्रसारणम् । कृद्ग्रहणे गतिकारकपूर्वस्य ग्रहणात् “ तृतीया कर्मणि ' इति पूर्वपदप्रकृतिस्वरत्वम् । अराधि । 'राध साध संसिद्धौ ' । कर्तरि लुङि व्यत्ययेन च्लेः चिण् ॥


गोषु॒ प्रश॑स्तिं॒ वने॑षु धिषे॒ भर॑न्त॒ विश्वे॑ ब॒लिं स्व॑र्णः ॥९

गोषु॑ । प्रऽश॑स्तिम् । वने॑षु । धि॒षे॒ । भर॑न्त । विश्वे॑ । ब॒लिम् । स्वः॑ । नः॒ ॥९

गोषु । प्रऽशस्तिम् । वनेषु । धिषे । भरन्त । विश्वे । बलिम् । स्वः । नः ॥९

वि त्वा॒ नर॑ः पुरु॒त्रा स॑पर्यन्पि॒तुर्न जिव्रे॒र्वि वेदो॑ भरन्त ॥१०

वि । त्वा॒ । नरः॑ । पु॒रु॒ऽत्रा । स॒प॒र्य॒न् । पि॒तुः । न । जिव्रेः॑ । वि । वेदी॑ । भ॒र॒न्त॒ ॥१०

वि । त्वा । नरः । पुरुऽत्रा । सपर्यन् । पितुः । न । जिव्रेः । वि । वेदी । भरन्त ॥१०

हे अग्ने त्वं “वनेषु वननीयेषु संभजनीयेषु “गोषु अस्मदीयेषु “पशुषु प्रशस्तिं प्रशंसां “धिषे दधिषे स्थापयसि । अस्माकं प्रशस्ता गवादिपशवो भवन्त्वित्यर्थः । “विश्वे सर्वे जनाः “नः अस्मभ्यं “स्वः सुष्ठु अरणीयं “बलिम् उपायनरूपं धनं “भरन्त आहरन्तु । हे अग्ने “त्वा त्वां “नरः मनुष्याः “पुरुत्रा बहुषु देवयजनदेशेषु “वि “सपर्यन् विविधं पूजयन्ति । पूजयित्वा च “वेदः धनं "वि “भरन्त त्वत्तो विशेषेण हरन्ति गृह्णन्तीत्यर्थः । तत्र दृष्टान्तः । “जिव्रेः जीर्णात् वृद्धात् “पितुर्न पितुरिव । यथा पुत्रा वृद्धात् पितुः सकाशाद्धनं हरन्ति तद्वत् ॥ धिषे । छान्दसो वर्तमाने लिट् । द्विर्वचनप्रकरणे छन्दसि वेति वक्तव्यम् ' ( का. ६. १.८. १ ) इति द्विर्वचनाभावः । भरन्त । ‘ हृञ् हरणे ' । केवलोऽपि सोपसर्गार्थो द्रष्टव्यः । छन्दसो लङ्। 'हृग्रहोर्भः' इति भत्वम् । पुरुत्रा। देवमनुष्यपुरुषपुरुमर्त्य°' इत्यादिना सप्तम्यर्थे त्राप्रत्ययः । जिव्रेः । जॄष् वयोहानौ' । ‘जॄशॄस्तॄजागृभ्यः क्विन्' (उ. सू. ४.४९४)। ‘ ऋत इद्धातोः' इति इत्वम् । ‘उणादयोऽव्युत्पन्नानि प्रातिपदिकानीति जिव्रिः किर्योर्गिर्योरित्येवमादिषु दीर्घो न भवति ' ( का. ८. २. ७८ ) इत्युक्तत्वात् ' हलि च ' इति दीर्घस्याभावः । रेफवकारयोर्विपर्ययः । उक्तं च- ‘ वर्णागमो वर्णविपर्ययश्च ' ( का. ६. ३. १०९) इति । नित्त्वादाद्युदात्तत्वम् । वेद इति धननाम । विद्यते लभ्यते इति वेदः ।। विद्लृ लाभे। '। कर्मणि असुन् ॥


द्विपदास्वयुक्संख्यासु या अन्त्या अतिरिच्यते सा तथैव पठितव्येत्युक्तम् । उत्तरा तादृशी द्विपदा ।

सा॒धुर्न गृ॒ध्नुरस्ते॑व॒ शूरो॒ याते॑व भी॒मस्त्वे॒षः स॒मत्सु॑ ॥११

सा॒धुः । न । गृ॒ध्नुः । अस्ता॑ऽइव । शूरः॑ । याता॑ऽइव । भी॒मः । त्वे॒षः । स॒मत्ऽसु॑ ॥११

साधुः । न । गृध्नुः । अस्ताऽइव । शूरः । याताऽइव । भीमः । त्वेषः । समत्ऽसु ॥११

अयमग्निः “साधुर्न साधक इव गृध्नुः “गृहीता । यथा साधकः साध्यफलमाशु गृह्णाति तद्वदग्निरपि सर्वं स्वीकरोतीत्यर्थः । तथायमग्निः “अस्तेव “शूरः । यथा इषूणां क्षेप्ता धानुष्कः शत्रून् प्रेरयति तद्वदग्निरपि दहन् सर्वं प्राणिजातं प्रेरयति। तथा “यातेव “भीमः। याता यातयिता हिंसको भीमः सर्वेषां भयंकरो भवति । तद्वदग्निरपि दृष्टमात्रेण सर्वेषां भयमुत्पादयति । अत एवंविधोऽग्निः “समत्सु संग्रामेषु “त्वेषः दीप्तः सन् अस्माकं सहायो भवत्वित्यर्थः ॥ गृध्नुः । ‘गृधु अभिकाङ्क्षायाम् ' । ‘ त्रसिगृधिधृषिक्षिपेः क्नुः । शूरः । ‘शु गतौ । अन्तर्भावितण्यर्थात् अस्मात् ' शुषिचिमीनां दीर्घश्च' (उ. सू. २. १८३) इति क्रन् ॥ ॥१४॥

मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.७०&oldid=207711" इत्यस्माद् प्रतिप्राप्तम्