ऋग्वेदः सूक्तं १.४

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं १.३ ऋग्वेदः - मण्डल १
सूक्तं १.४
मधुच्छन्दा वैश्वामित्रः
सूक्तं १.५ →
दे. इन्द्रः। गायत्री

सुरूपकृत्नुमूतये सुदुघामिव गोदुहे ।
जुहूमसि द्यविद्यवि ॥१॥
उप नः सवना गहि सोमस्य सोमपाः पिब ।
गोदा इद्रेवतो मदः ॥२॥
अथा ते अन्तमानां विद्याम सुमतीनाम् ।
मा नो अति ख्य आ गहि ॥३॥
परेहि विग्रमस्तृतमिन्द्रं पृच्छा विपश्चितम् ।
यस्ते सखिभ्य आ वरम् ॥४॥
उत ब्रुवन्तु नो निदो निरन्यतश्चिदारत ।
दधाना इन्द्र इद्दुवः ॥५॥
उत नः सुभगाँ अरिर्वोचेयुर्दस्म कृष्टयः ।
स्यामेदिन्द्रस्य शर्मणि ॥६॥
एमाशुमाशवे भर यज्ञश्रियं नृमादनम् ।
पतयन्मन्दयत्सखम् ॥७॥
अस्य पीत्वा शतक्रतो घनो वृत्राणामभवः ।
प्रावो वाजेषु वाजिनम् ॥८॥
तं त्वा वाजेषु वाजिनं वाजयामः शतक्रतो ।
धनानामिन्द्र सातये ॥९॥
यो रायोऽवनिर्महान्सुपारः सुन्वतः सखा ।
तस्मा इन्द्राय गायत ॥१०॥

[सम्पाद्यताम्]

सायणभाष्यम्

प्रथमे मण्डले द्वितीयानुवाके चत्वारि सूक्तानि । तत्र ‘सुरूप' इत्यादिकं दशर्चं प्रथमं सूक्तं, ‘सुरूपकृत्नुं दश' इत्यनुक्रान्तत्वात् । पूर्ववन्मधुच्छन्दसो गायत्रस्य चानुवृत्तेः ते एव ऋषिच्छन्दसी । ‘इन्द्रं पृच्छा' इति चतुर्थ्यामृचि लिङ्गदर्शनादिन्द्रो देवता । अभिप्लवषडहे ब्राह्मणाच्छंसिनः प्रातःसवने स्तोमवृद्धौ अवापार्थानि “ सुरूपकृत्नुमूतये' इत्यादीनि षट् सूक्तानि । सूत्रितं च ‘अभिप्लवपृष्ठयाहानि इति खण्डे-’ब्राह्मणाच्छंसिनः सुरूपकृत्नुमूतय इति षट् सूक्तानि ' ( आश्व. श्रौ. ७. ५) इति । आद्यानि त्रीणि सूक्तानि महाव्रते निष्केवल्ये औष्णिहतृचाशीतौ शस्तव्यानि । उक्तं च शौनकेन-‘सुरूपकृत्नुमूतय इति त्रीण्येन्द्र सानसिं रयिमिति सूक्ते ' ( ऐ. आ. ५, २. ५) इति । चतुर्विंशेऽहनि माध्यंदिने सवने ब्राह्मणाच्छंसिनः ‘सुरूपकृत्नुमूतये' इति वैकल्पिकः स्तोत्रियस्तृचः । ‘होत्रकाणाम् ' इति खण्डे ‘मदे मदे हि नो ददिः सुरूपकृत्नुमूतये' (आश्व. श्रौ. ७. ४) इति सूत्रितत्वात् । अग्निष्टोमे वैश्वदेवशस्त्रे सुरूपकृत्नुमूतये' इति धाय्या, ' सुरूपकृत्नुमूतये तक्षन्रथम् ' (आश्व. श्रौ. ५. १८) इति सूत्रितत्वात् ॥


सु॒रू॒प॒कृ॒त्नुमू॒तये॑ सु॒दुघा॑मिव गो॒दुहे॑ ।

जु॒हू॒मसि॒ द्यवि॑द्यवि ॥१

सु॒रू॒प॒ऽकृ॒त्नुम् । ऊ॒तये॑ । सु॒दुघा॑म्ऽइव । गो॒ऽदुहे॑ ।

जु॒हू॒मसि॑ । द्यवि॑ऽद्यवि ॥

सुरूपऽकृत्नुम् । ऊतये । सुदुघाम्ऽइव । गोऽदुहे ।

जुहूमसि । द्यविऽद्यवि ॥

"सुरूपकृत्नुं शोभनरूपोपेतस्य कर्मणः कर्तारमिन्द्रम् "ऊतये अस्मद्रक्षार्थं "द्यविद्यवि प्रतिदिनं जुहूमसि आह्वयामः। आह्वाने दृष्टान्तः। "गोदुहे गोधुगर्थं "सुदुघामिव सुष्ठु दोग्ध्रीं गामिव । यथा लोके गोः यो दोग्धा तदर्थं तस्याभिमुख्येन दोहनीयां गामाह्वयति तद्वत् । ‘वस्तोः' इत्यादिषु द्वादशसु अहर्नामसु ‘द्यविद्यवि ' ( नि. १. ९. १२) इति पठितम् ॥ सुरूपकृत्नुम् । करोतीति कृत्नुः । ‘कृहनिभ्यां क्नुः । (उ. सू. ३. ३१०)। कित्त्वाद्गुणाभावः। तकारोपजनश्छन्दसः। समासान्तोदात्तः। ऊतये। अवतेर्धातोः ‘उदात्तः' इत्यनुवृत्तौ ‘ऊतियूतिजूतिसातिहेतिकीर्तयश्च' (पा. सू. ३. ३. ९७ ) इति क्तिन् उदात्तो निपातितः । सुदुघाम् । सुष्ठु दुग्धे इति सुदुघा । ‘दुहः कब्धश्च ' ( पा. सू. ३. २. ७० ) इति कप्प्रत्ययो हकारस्य च धकारः । कित्त्वाद्गुणाभावः। कपः पित्त्वादनुदात्तत्वे धातुस्वरेण उकार उदात्तः । सुशब्देन गतिसमासे कृदुत्तरपदप्रकृतिस्वरत्वेन स एव स्वरः । ‘इवेन विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं च ' इति इवसमासे स एव स्वरः। गां दोग्धीति गोधुक् । 'सत्सूद्विष° ' ( पा. सू. ३. २. ६१ ) इत्यादिना क्विप् । कृदुत्तरपदप्रकृतिस्वरत्वम् । जुहूमसि । ह्वयतेर्लंडुत्तमपुरुषबहुवचने ‘बहुलं छन्दसि' (पा. सू. २. ४, ७६ ) इति शपः श्लुः । ‘अभ्यस्तस्य च ' ( पा. सू. ६. १. ३३ ) इत्यभ्यस्तकारणस्य ह्वयतेः प्रागेव द्विर्वचनात् संप्रसारणम् ।' संप्रसारणाञ्च' (पा. सू. ६. १. १०८) इति परपूर्वत्वम् । हलः ' (पा. सू. ६. ५. २) इति दीर्घः । ततः ‘ श्लौ' (पा. सू. ६. १. १० ) इति द्विर्वचनम् । अभ्यासस्य ह्रस्वः (पा. सू. ७. ४. ५९ ), चुत्वजश्त्वे ( पा. सू. ७. ४. ६२; ८. ४. ५३ )। इदन्तो मसिः ' ( पा. सू. ७. १. ४६ ) इति इकारागमः । प्रत्ययस्वरेण मकारस्योदात्तत्वम् । द्यविद्यवि । द्योशब्दः प्रातिपदिकस्वरेणान्तोदात्तः । ‘नित्यवीप्सयोः' (पा. सू. ८. १. ४ ) इति द्विर्भावः । तस्य परमाम्रेडितम् ' ( पा. सू. ८. १. २) अनुदात्तं च ' (पा. सू. ८. १. ३) इति द्वितीयस्यानुदात्तत्वम् ॥


उप॑ नः॒ सव॒ना ग॑हि॒ सोम॑स्य सोमपाः पिब ।

गो॒दा इद्रे॒वतो॒ मदः॑ ॥२

उप॑ । नः॒ । सव॑ना । आ । ग॒हि॒ । सोम॑स्य । सो॒म॒ऽपाः॒ । पि॒ब॒ ।

गो॒ऽदाः । इत् । रे॒वतः॑ । मदः॑ ॥

उप । नः । सवना । आ । गहि । सोमस्य । सोमऽपाः । पिब ।

गोऽदाः । इत् । रेवतः । मदः ॥

हे “सोमपाः सोमस्य पातरिन्द्र सोमं पातु “नः अस्मदीयानि “सवना त्रीणि सवनानि प्रति “उप समीपे “आ “गहि आगच्छ । आगत्य च “सोमस्य सोमं “पिब । “रेवतः धनवतस्तव “मदः हर्षः “गोदा “इत् गोप्रद एव । त्वयि हृष्टे सति अस्माभिर्गावो लभ्यन्ते इत्यर्थः ॥ उप । निपातत्वदाद्युदात्तः । सवना । सूयते सोम एष्विति सवनानि । अधिकरणे ल्युट् ( पा. सू. ३. ३. ११७ )। सुपो डादेशः टिलोपश्च । ‘लिति' (पा. सू. ६. १. १९३ ) इति प्रत्ययात् पूर्वस्य अकारस्योदात्तत्वम् । गहि । गमेः ‘बहुलं छन्दसि ' ( पा. सू. २, ४, ७३ ) इति शपो लुक् । हेर्ङित्त्वात् “ अनुदात्तोपदेश' (पा. सू. ६. ४. ३७ ) इत्यादिना मकालोपः । अतो हेः ' ( पा. सू. ६. ४. १०५ ) इति आभाच्छास्त्रीये लुकि कर्तव्ये ‘असिद्धवदत्रा भात्' ( पा. सू. ६. ४. २२) इति आभाच्छास्त्रीयो मकारलोपोऽसिद्धवद्भवति । सोमपाः । ‘आमन्त्रितस्य च ' ( पा. सू. ८. १. १९) इति निघातः । तस्याविद्यमानवत्त्वेऽपि पूर्वापेक्षया ‘तिङ्ङतिङः' इति पिबेत्यस्य निघातः । न च पूर्वस्यापि पराङ्गवद्भावेनाविद्यमानवत्त्वम् , असामर्थ्येन तदभावात् । गां ददातीति गोदाः । ‘क्विप् च ' ( पा. सू. ३. २. ७६ ) इति क्विपं परमपि सरूपं बाधित्वा प्रतिपदविधित्वात् । अतो मनिन्व्ननिध्वनिपश्च' (पा. सू. ३. २. ७४ ) इति विच् । क्विपि हि ‘घुमास्था° ' ( पा. सू. ६. ४. ६६ ) इत्यादिना धातोः आकारस्य ईत्वं स्यात् । रेवान् । रयिर्धनमस्यास्तीति मतुप् । ह्रस्वनुड्भ्यां मतुप ' (पा. सू. ६. १. १७६ ) इति मतुप् उदात्तः । छन्दसीरः ' ( पा. सू. ८. २. १५) इति वत्वम् । ‘रयेर्मतौ बहुलं छन्दसि ' (पा. सू. ६. १. ३७. ६ ) इति संप्रसारणपरपूर्वत्वे गुणश्च । मदः । ‘मदोऽनुपसर्गे' (पा. सू. ३. ३. ६७ ) इति अप् । पित्त्वादनुदात्तः ॥


अथा॑ ते॒ अंत॑मानां वि॒द्याम॑ सुमती॒नां ।

मा नो॒ अति॑ ख्य॒ आ ग॑हि ॥३

अथ॑ । ते॒ । अन्त॑मानाम् । वि॒द्याम॑ । सु॒ऽम॒ती॒नाम् ।

मा । नः॒ । अति॑ । ख्यः॒ । आ । ग॒हि॒ ॥

अथ । ते । अन्तमानाम् । विद्याम । सुऽमतीनाम् ।

मा । नः । अति । ख्यः । आ । गहि ॥

“अथ सोमपानानन्तरं हे इन्द्र “ते तव “अन्तमानाम् अन्तिकतमानामतिशयेन समीपवर्तिनां “सुमतींना शोभनमतियुक्तानां शोभनप्रज्ञानां पुरुषाणां मध्ये स्थित्वा “विद्याम वयं त्वां जानीयाम । यद्वा । सुमतीनां शोभनबुद्धीनां कर्मानुष्ठानविषयाणां लाभार्थमित्यध्याहारः । बुद्धिलाभाय त्वां स्मरेमेत्यर्थः । त्वमपि “नः “अति “मा “ख्यः अस्मानतिक्रम्य अन्येषां त्वत्स्वरूपं मा प्रकथय । किंतु “आ “गहि अस्मानेवागच्छ ॥ अथ इति निपात आद्युदात्तः । ‘निपातस्य च ' ( पा. सू. ६. ३. १३६) इति दीर्घत्वम् । अन्तमानाम् । अतिशयेनान्तिका इति अतिशायने तमप् ( पा. सू. ५. ३. ५५ )। ‘तमे तादेश्च ' ( पा. सू. ६. ४. १४९. ९) इति तादिलोपः । अन्तोऽस्यास्तीति अन्तिकः समीपः । ‘अत इनिठनौ' (पा. सू. ५. २. ११५ ) इति ठन् । नित्त्वादाद्युदात्तः । दूरोत्कर्षस्य ह्यवसानं नास्ति । सामीप्योत्कर्षस्य पुनर्यो यस्य समीपः स एव तस्यान्त इत्यन्तवत्वात् समीपमन्तिकमुच्यते । विद्याम। वेत्तेर्लिङि ‘यासुट् परस्मैपदेषूदात्तो ङिच्च' (पा. सू. ३. ४. १०३ ) इति यासुट् उदात्तः । पादादित्वात् ‘ तिङ्ङतिङः' इति न निघातः । सुमतीनाम् । मतिशब्दे क्तिनन्तेऽपि ‘मन्त्रे वृषइषपचमनविदभूवीरा उदात्तः ' (पा. सू. ३. ३. ९६ ) इति इकार उदात्तः । शोभना मतिर्येषां ते सुमतय इति बहुव्रीहौ पूर्वपदप्रकृतिस्वरापवादेन ‘नञ्सुभ्याम् ' (पा. सू. ६. २. १७२ ) इत्युत्तरपदान्तोदात्तः । शोभना मतयः सुमतय इति कर्मधारयेऽप्यव्ययपूर्वपदप्रकृतिस्वरापवादः कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्ततैव। अतो मतुपि ह्रस्वादन्तोदात्ताच्च सुमतिशब्दात् परस्य नामो ‘नामन्यतरस्याम्' (पा. सू. ६. १. १७७ ) इत्युदात्तत्वम् । ख्यः । ‘ख्या प्रकथने' इत्यस्य लुङि सिपि ‘अस्यतिवक्तिख्यातिभ्योऽङ्' (पा. सू. ३. १. ५२ ) इति च्लेरडादेशः । अतो लोप इटि च' (पा. सू. ६. ४. ६४ ) इत्याकारलोपः । ‘इतश्च ' ( पा. सू. ३. ४. १०० ) इति इकारलोपो रुत्वविसर्गौ। ‘न माङ्योगे' (पा. सू. ६. ४. ७४ ) इत्यडभावः । गहि । गमेः ‘बहुलं छन्दसि' (पा. सू. २. ४. ७३ ) इति शपो लुकि हेर्ङित्वात् “ अनुदात्तोपदेश'(पा. सू. ६. ४. ३७ ) इति मकारलोपस्य • असिद्धवदत्रा भात्' (पा. सू. ६. ४. २२ ) इति असिद्धत्वात् अतो हेः' (पा. सू. ६. ४. १०५) इति लुक् न भवति ॥


परे॑हि॒ विग्र॒मस्तृ॑त॒मिंद्रं॑ पृच्छा विप॒श्चितं॑ ।

यस्ते॒ सखि॑भ्य॒ आ वरं॑ ॥४

परा॑ । इ॒हि॒ । विग्र॑म् । अस्तृ॑तम् । इन्द्र॑म् । पृ॒च्छ॒ । वि॒पः॒ऽचित॑म् ।

यः । ते॒ । सखि॑ऽभ्यः । आ । वर॑म् ॥

परा । इहि । विग्रम् । अस्तृतम् । इन्द्रम् । पृच्छ । विपःऽचितम् ।

यः । ते । सखिऽभ्यः । आ । वरम् ॥

अत्र यजमानं प्रति होता. ब्रूते । हे यजमान त्वम् "इन्द्रं "परेहि इन्द्रस्य समीपे गच्छ । गत्वा च "विपश्चितं मेधाविनं होतारं मां "पृच्छ । असौ होता सम्यक् स्तुतवान् न वा इत्येवं प्रश्नं कुरु । "यः इन्द्रः “ते तव यजमानस्य "सखिभ्यः ऋविग्भ्यः “वरं श्रेष्ठं धनपुत्रादिकम् "आ समन्तात् प्रयच्छतीति शेषः । तादृशमिन्द्रमिति पूर्वत्रान्वयः । पुनरपि कीदृशम् । "विग्रं मेधाविनम् "अस्तृतम् अहिंसितम् । “ विप्रः ' इत्यादिषु चतुर्विंशतिसंख्याकेषु मेधाविनामसु विग्रविपश्चिच्छब्दौ पठितौ (नि. ३. १५. २, १६ ) ॥ विग्रम् । वृषादित्वादाद्युदात्तः । अस्तृतम् । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । इन्द्रशब्दे ‘ऋज्रेन्द्राग्र° ' ( उ. सू. २. १८६ ) इत्यादिना रन् । नित्त्वादाद्युदात्तः । सखिभ्यः । ‘समाने ख्यश्चोदात्तः' ( उ. सू. ४. ५७६ ) इति समाने उपपदे ख्यातेरिण् । ‘डित् ' इत्यनुवृत्तेस्तस्य डित्त्वात् टिलोपश्च (पा. सू. ६. ४. १४३)। तत्संनियोगेन यलोपः। उपपदस्योदात्तत्वम् । “समानस्य छन्दस्यमूर्धप्रभृत्युदर्केषु' (पा. सू. ६. ३. ८४ ) इति सभावः । अतः सखिशब्द आद्युदात्तः । व्रियते इति वरः । ‘ग्रहवृदृनिश्चिगमश्च ' ( पा. सू. ३. ३. ५८ ) इलि अप् । तस्य पित्त्वात् धातुस्वर एव ।।


उ॒त ब्रु॑वंतु नो॒ निदो॒ निर॒न्यत॑श्चिदारत ।

दधा॑ना॒ इंद्र॒ इद्दुवः॑ ॥५

उ॒त । ब्रु॒व॒न्तु॒ । नः॒ । निदः॑ । निः । अ॒न्यतः॑ । चि॒त् । आ॒र॒त॒ ।

दधा॑नाः । इन्द्रे॑ । इत् । दुवः॑ ॥

उत । ब्रुवन्तु । नः । निदः । निः । अन्यतः । चित् । आरत ।

दधानाः । इन्द्रे । इत् । दुवः ॥

“नः अस्माकं संबन्धिन ऋत्विज इति शेषः । ते "ब्रुवन्तु इन्द्रं स्तुवन्तु । "उत अपि च हे “निदः निन्दितारः पुरुषाः "निः "आरत इतो देशान्निर्गच्छत । "अन्यतश्चित् अन्यस्मादपि देशान्निर्गच्छत । कीदृशा ऋत्विजः । "इन्द्रे "दुवः परिचर्या "दधानाः कुर्वाणाः । इच्छब्दोऽवधारणे । सर्वदा परिचर्यां कुर्वन्त एव तिष्ठन्त्वित्यर्थः ॥ निन्दन्तीति निदः । ‘णिदि कुत्सायाम् । क्विपि नुमभावश्छान्दसः । सुपोऽनुदात्तत्वात् धातुस्वरः । आमन्त्रितत्वेऽपि वाक्यान्तरत्वेन स्ववाक्यगतपदादपरत्वात् न निघात इत्याद्युदात्तत्वमेव । अन्यतः । ‘लिति' इति प्रत्ययात्पूर्वस्योदात्तत्वम् । चित् इति अपिशब्दार्थे। तेन न केवलमितः, इतो निर्गत्यान्यतोऽपि निर्गच्छतेति गम्यते । स एष धात्वर्थयोः संबन्धः आरत इति लुङा द्योत्यते । स हि धातुसंबन्धाधिकारे विधीयते । आरत । अर्तेः ‘छन्दसि लुङ्लङलिटः ' (पा. सू. ३. ४. ६ ) इति लोडर्थे लुङ् । मध्यमबहुवचनस्य तादेशः ।' सर्तिशास्त्यर्तिभ्यश्च' ( पा. सू. ३. १. ५६ ) इति च्लेरङादेशः । 'ऋदृशोऽङि गुणः' (पा. सू. ७. ४. १६ ) इति गुणः । आडागमः । दधानाः । शानचश्चित्त्वात् प्राप्तमन्तोदात्तं बाधित्वा परत्वात् ‘अभ्यस्तानामादिः ' (पा. सू. ६. १. १८९) इत्याद्युदात्तत्वम् । दुवः । नब्विषयस्यानिसन्तस्य ' ( फि. सू. २६ ) इत्याद्युदात्तः ॥


उ॒त नः॑ सु॒भगाँ॑ अ॒रिर्वो॒चेयु॑र्दस्म कृ॒ष्टयः॑ ।

स्यामेदिंद्र॑स्य॒ शर्म॑णि ॥६

उ॒त । नः॒ । सु॒भगा॑न् । अ॒रिः । वो॒चेयुः॑ । द॒स्म॒ । कृ॒ष्टयः॑ ।

स्याम॑ । इत् । इन्द्र॑स्य । शर्म॑णि ॥

उत । नः । सुभगान् । अरिः । वोचेयुः । दस्म । कृष्टयः ।

स्याम । इत् । इन्द्रस्य । शर्मणि ॥

हे "दस्म शत्रूणामुपक्षपयितरिन्द्र त्वदनुग्रहात् "अरिः "उत शत्रवोऽपि "नः अस्मान् "सुभगान् । शोभनधनोपेतान् "वोचेयुः उच्यासुः । "कृष्टयः मनुष्या अस्मन्मित्रभूता वदन्तीति किमु वक्तव्यमिति शेषः । ततो धनसंपन्ना वयम् "इन्द्रस्य “शर्मणि इन्द्रप्रसादलब्धे सुखे “स्यामेत् भवेमैव । ‘मघम्' इत्यादिष्वष्टाविंशतिसंख्याकेषु धननामसु • रयिः क्षत्रं भगः ' ( नि. २. १०. १०) इति पठितम् । ‘मनुष्याः' इत्यादिषु पञ्चविंशतिसंख्याकेषु मनुष्यनामसु ‘कृष्टयः ' (नि. २. ३. ७ ) इति पठितम् ॥ उत । एवमादीनामन्तः ' (फि. सू. ८२ ) इत्यन्तोदात्तः । सुभगान् । भगशब्दस्य क्रत्वादिषु पाठात् ‘नञ्सुभ्याम् ' (पा. सू. ६.२. १७२ ) इत्युत्तरपदान्तोदात्तत्वं बाधित्वा ‘क्रत्वादयश्च ' ( पा. सू. ६. २. ११८) इत्युत्तरपदाद्युदात्तत्वम् । संहितायां ‘दीर्घादटि समानपादे ' (पा. सू. ८. ३. ९) इति नकारस्य रुत्वम् । “भोभगो' ( पा. सू. ८. ३. १७ ) इति यत्वम् । ‘लोपः शाकल्यस्य ' ( पा. सू. ८. ३. १९) इति यलोपः । तस्यासिद्धवत्त्वात् न पुनः संधिकार्यम् । ‘अतोऽटि नित्यम् ' ( पा. सू. ८. ३. ३) इत्याकारस्य सानुनासिकता। अरिः । वचनव्यत्ययः । ‘अच इः ' ( उ. सू. ४, ५७८) इति इप्रत्ययान्तः । प्रत्ययस्वरेणान्तोदात्तः । वोचेयुः उच्यासुः । ‘वच परिभाषणे ' इत्यस्मात् आशीर्लिंङि झेर्जुसादेशे ( पा. सू. ३. ४. १०८) लिङ्याशिष्यङ्' (पा. सू. ३. १. ८६ ) इति अङ्प्रत्यये ‘वच उम्' ( पा. सू. ७. ४. २०) इत्युमागमः । गुणः। ‘किदाशिषि' (पा. सू. ३. ४. १०४ ) इति यासुट्। ‘छन्दस्युभयथा ' (पा. सू. ३. ४. ११७ ) इति लिङादेशस्य सार्वधातुकत्वात् ' लिङः सलोपोऽनन्त्यस्य' (पा. सू. ७. २. ७९) इति सकारलोपः । ‘अतो येयः' (पा. सू. ७. २. ८० )। ‘आद्गुणः ' (पा. सू. ६. १. ८७ )। अङोऽदुपदेशाल्लसार्वधातुकस्वरेण लिङोऽनुदात्तत्वम् । अङ्प्रत्ययस्वर एव शिष्यते । तेन सह इकारस्य गुणः 'एकादेश उदात्तेनोदात्तः ' ( पा. ८. २. ५) इत्युदात्तः । दस्म । 'दसु उपक्षये' इत्यस्मात् अन्तर्भावितण्यर्थात् ' इषियुधीन्धिदसिश्याधूसूभ्यो मक् ' ( उ. सू. १. १४२ )। पदात्परत्वादामन्त्रितनिघातः । कृष्टयः । ‘क्तिच्क्तौ च संज्ञायाम् ' (पा. सू. ३. ३. १७४ ) इति क्तिचि मनुष्यनामत्वात् ' चितः ' (पा. सू. ६. १. १६३) इत्यन्तोदात्तः । स्याम ।' अस भुवि । श्नसोरल्लोपः ' ( पा. सू. ६. ४. १११ )। यासुट उदात्तत्वम् । पादादित्वादनिघातः । शर्मणि । ‘शॄ हिंसायाम्। हिनस्ति दुःखमिति शर्म ! ' अन्येभ्योऽपि दृश्यन्ते' (पा. सू. ३. २. ७५) इति मनिन् । 'नेड्वशि कृति ' (पा. सू. ७.२. ८) इति इट्प्रतिषेधः । नित्त्वादाद्युदात्तत्वम् ।।


एमा॒शुमा॒शवे॑ भर यज्ञ॒श्रियं॑ नृ॒माद॑नं ।

प॒त॒यन्मं॑द॒यत्स॑खं ॥७

आ । ई॒म् । आ॒शुम् । आ॒शवे॑ । भ॒र॒ । य॒ज्ञ॒ऽश्रिय॑म् । नृ॒ऽमाद॑नम् ।

प॒त॒यत् । म॒न्द॒यत्ऽस॑खम् ॥

आ । ईम् । आशुम् । आशवे । भर । यज्ञऽश्रियम् । नृऽमादनम् ।

पतयत् । मन्दयत्ऽसखम् ॥

ईम् इति निपात इदंशब्दार्थे वर्तते । हे यजमान “आशवे कृत्स्नसोमयागव्याप्तायेन्द्राय "ईम् “आ “भर इमं सोममाहर। कीदृशं सोमम् । "आशुं सवनत्रयव्याप्तं यज्ञश्रियं यज्ञस्य संपद्रूपं "नृमादनं नॄणामृत्विग्यजमानानां हर्षहेतुं "पतयत् पतयन्तं कर्मणि प्राप्नुवन्तं "मन्दयत्सखम् । य इन्द्रो मन्दयति यजमानान् हर्षयति तस्मिन्निन्द्रे सखिभूतोऽयं सोमः । तत्प्रीतिहेतुत्वात् तृप्तिहेतुत्वाद्वा ॥ आशुम् ।' कृवापाजिमिस्वदिसाध्यशूभ्य उण् ( उ. सू. १. १ ) इति उण् । प्रत्ययस्वरः । आशवे । पूर्ववत् । यज्ञश्रियम् ।' समासस्य ' (पा. सू. ६.१.२२३) इत्यन्तोदात्तः । माद्यन्तेऽनेनेति मादनः । ‘करणाधिकरणयोश्च ' (पा. सू. ३. ३. ११७ ) इति ल्युट् । तस्य लित्त्वात् पूर्व आकार उदात्तः । ‘गतिकारकोपपदात्कृत्' (पा. सू. ६. २. १३९ ) इति स एव शिष्यते । पतयत् । पतेरदन्तस्य चौरादिको णिच् (पा. सू. ३. १. २५ )। अतो लोपः (पा. सू. ६. ४. ४८.)। तस्य स्थानिवत्वात् (पा. सू. १. १. ५६ ) उपधाया वृद्ध्यभावः (पा. सू. ७. २. ११६ )। लटः शत्रादेशः । तस्य ‘छन्दस्युभयथा ' (पा. सू. ३. ४. ११७ ) इत्यार्धधातुकत्वेन शबभावात् ' 'अदुपदेशात् ' (पा.सू. ६. १. १८६ ) इति निघाताभावेन प्रत्ययाद्युदात्तत्वमेव भवति । आर्धधातुकत्वेऽपि सर्वे विधयश्छन्दसि विकल्प्यन्ते' (परिभा. ३५) इति ‘णेरनिटि ' (पा. सू. ६. ४. ५१ ) इति णिलोपाभावः । ‘सुपां सुलुक्' (पा. सू. ७. १. ३९ ) इत्यमो लुक् । 'न लुमता' (पा. सू. १. १. ६३) इति प्रत्ययलक्षणनिषेधात् ‘ उगिदचाम् ' (पा. सू. ७. १. ७० ) इति न नुम् । एवं मन्दयच्छब्दोऽन्तोदात्तः । मन्दयतीन्द्रे सखा । ‘सप्तमी '(पा. सू. २. १. ४०) इति योगविभागात् समासः । तत्पुरुषे तुल्यार्थ° ' (पा. सू. ६. २. २) इति सप्तमीपूर्वपदप्रकृतिस्वरत्वम् ॥


अ॒स्य पी॒त्वा श॑तक्रतो घ॒नो वृ॒त्राणा॑मभवः ।

प्रावो॒ वाजे॑षु वा॒जिनं॑ ॥८

अ॒स्य । पी॒त्वा । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । घ॒नः । वृ॒त्राणा॑म् । अ॒भ॒वः॒ ।

प्र । आ॒वः॒ । वाजे॑षु । वा॒जिन॑म् ॥

अस्य । पीत्वा । शतक्रतो इति शतऽक्रतो । घनः । वृत्राणाम् । अभवः ।

प्र । आवः । वाजेषु । वाजिनम् ॥

हे “शतक्रतो बहुकर्मयुक्तेन्द्र त्वम् "अस्य सोमस्य संबन्धिनमंशं "पीत्वा "वृत्राणां वृत्रनामकासुरप्रमुखाणां शत्रूणां “घनः "अभवः हन्ताऽभूः । ततो “वाजेषु संग्रामेषु "वाजिनं संग्रामवन्तं स्वभक्तं “प्रावः प्रकर्षेण रक्षितवानसि ॥ अस्य इति इदंशब्देन प्रयोगसमये पुरोदेशस्थः सोमो निर्दिश्यते न तु पूर्वप्रकृतः सोमः परामृश्यते । अतोऽनन्वादेशत्वात् नात्र ‘इदमोऽन्वादेशेऽशनुदात्तस्तृतीयादौ ' ( पा.सू. ३. ४. ३२) इत्यशादेशः । अतो न सर्वानुदात्तत्वं, किंतु त्यदाद्यत्वे ( पा. सू. ७. २. १०२) हलि लोपे (पा. सू. ७. २. ११३ ) अकारः प्रातिपदिकस्वरेणोदात्त इति ‘अन्तोदात्तात् ' इत्यनुवृत्तौ “ ऊडिदंपदाद्यप्पुम्रैद्युभ्यः' (पा. सू. ६. १. १७१) इति विभक्तिरुदात्ता । पीत्वा । पिबतेः क्त्वाप्रत्यये घुमास्थादिना (पा. सू. ६.४. ६६ ) ईत्वम् । प्रत्ययस्वरेणान्तोदात्तः । असामर्थ्यान्न परामन्त्रिताङ्गवद्भावः । घनः । ‘मूर्तौ घनः ' ( पा. सू. ३. ३. ७७ ) इति हन्तेर्धातोः काठिन्ये अप्प्रत्ययः । तदस्यास्तीति अर्शआदित्वात् (पा. सू. ५. २. १२७ ) अजन्तः । चित्त्वादन्तोदात्तः। वाजेषु । वृषादित्वादाद्युदात्तः । वाजिनम् । इनिप्रत्ययस्वरः ॥


तं त्वा॒ वाजे॑षु वा॒जिनं॑ वा॒जया॑मः शतक्रतो ।

धना॑नामिंद्र सा॒तये॑ ॥९

तम् । त्वा॒ । वाजे॑षु । वा॒जिन॑म् । वा॒जया॑मः । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।

धना॑नाम् । इ॒न्द्र॒ । सा॒तये॑ ॥

तम् । त्वा । वाजेषु । वाजिनम् । वाजयामः । शतक्रतो इति शतऽक्रतो ।

धनानाम् । इन्द्र । सातये ॥

हे "शतक्रतो बहुकर्मयुक्त यद्वा बहुप्रज्ञानयुक्त "इन्द्र धनानां "सातये संभजनार्थं "वाजेषु युद्धेषु “वाजिनं बलवन्तं “त्वा पूर्वमन्त्रोक्तगुणयुक्तं त्वां "वाजयामः अन्नवन्तं कुर्मः । ‘रणः' इत्यादिषु षट्चत्वारिंशत्सु संग्रामनामसु • पौंस्ये महाधने वाजे अग्मन् ' (नि. २. १७. ४२ ) इति पठितम् । अष्टाविंशतिसंख्याकेष्वन्ननामसु 'अन्धः वाजः पाजः' (नि. २. ७. २ ) इति पठितम् । 'उरु तुबि' इत्यादिषु द्वादशसु बहुनामसु • शतं सहस्रम् ' ( नि. ३. १. ९ ) इति पठितम् । ‘अपः अप्नः ' इत्यादिषु षड्विंशतिसंख्याकेषु कर्मनामसु ‘शक्म क्रतुः ' (नि. २. १. ११) इति पठितम् । ‘केतः केतुः' इत्यादिष्वेकादशसु प्रज्ञानामसु ‘क्रतुः असुः ' (नि. ३. ९. ५) इति पठितम् ॥ त्वा । ‘अनुदात्तं सर्वम् ' ( पा. सू. ८. १. १८) इत्यनुवृत्तौ ‘त्वामौ द्वितीयायाः ' ( पा. सू. ८. १.२३) इति त्वादेशः । वाजेषु । ‘वज व्रज गतौ । वाजयति गमयति शरीरनिर्वाहम् अनेनेति वाजो बलमन्नं वा । ण्यन्तात् करणे घञ् । तत्र ञित्स्वरस्यापवादे ‘कर्षात्वतः०' (पा. सू. ६. १. १५९ ) इत्यन्तोदात्तत्त्वे प्राप्ते तस्याप्यपवादत्वेन ‘वृषादीनां च ' ( पा. सू. ६. १. १०३) इत्याद्युदात्तत्वम् । वाजयामः । वाजोऽस्यास्तीति वाजवान् । तं कुर्म इत्यर्थे ' तत्करोति तदचष्टे '(पा. सू. ३. १. २™. ५-६ ) इति णिच् ।' इष्ठवण्णौ प्रातिपदिकस्य' (पा. सू. ६. ४. १५५. १) इति तस्मिन् परत इष्ठवद्भावात् ‘विन्मतोर्लुक् ' ( पा. सू. ५. ३. ६५) इति मतुपो लुक् । ‘टे: ' (पा. सू. ६. ४. १५५ ) इत्यकारलोपः । णिचश्चित्वादन्तोदात्तत्वम् । शपः पित्वेनानुदात्तत्वम् । लसार्वधातुकस्वरेणा - ख्यातस्याप्यनुदात्तत्वम्। पादादित्वात् ‘तिङ्ङतिङः' इति न निघातः । शतक्रतो । आमन्त्रितनिघातः । धनानाम् । ‘नब्विषयस्यानिसन्तस्य ' (फि. सू. २६ ) इत्याद्युदात्तः । सातये । ‘उदात्तः इत्यनुवृत्तौ ‘ऊतियूतिजूतिसातिहेतिकीर्तयश्च ' ( पा. सू. ३. ३. ९७ ) इति क्तिन् उदात्तः ॥


यो रा॒यो॒३॒॑ऽवनि॑र्म॒हान्त्सु॑पा॒रः सु॑न्व॒तः सखा॑ ।

तस्मा॒ इंद्रा॑य गायत ॥१०

यः । रा॒यः । अ॒वनिः॑ । म॒हान् । सु॒ऽपा॒रः । सु॒न्व॒तः । सखा॑ ।

तस्मै॑ । इन्द्रा॑य । गा॒य॒त॒ ॥

यः । रायः । अवनिः । महान् । सुऽपारः । सुन्वतः । सखा ।

तस्मै । इन्द्राय । गायत ॥

"यः इन्द्रः "रायः धनस्य "अवनिः रक्षकः स्वामी वा “तस्मा "इन्द्राय "गायत हे ऋत्विजस्तत्प्रीत्यर्थं स्तुतिं कुरुत । कीदृश इन्द्रः । "महान् गुणैरधिकः "सुपारः सुष्ठ कर्मणः पूरयिता "सुन्वतः यजमानस्य "सखा सखिवत् प्रियः ॥ रायः । ‘ऊडिदंपदाद्यप्पुम्रैद्युभ्यः' ( पा. सू. ६. १. १७१ ) इति विभक्तेरुदात्तत्वम् । अवनिः । ‘अव रक्षणगतिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्छादीप्त्यवाप्त्यालिङ्गनहिंसादानभाववृद्धिषु च' इत्यस्मात् 'अर्तिसृधृधम्यम्यश्यवितृभ्योऽनिः । ( उ. सू. २. २५९ ) इत्यनिः । प्रत्ययाद्युदात्तत्वम् । सुपारः । ‘पॄ पालनपूरणयोः' इत्यस्मात् णिजन्तात् ' कर्तरि ' इत्यनुवृत्तौ पचाद्यच् (पा. सू. ३. १. १३४ )। ‘चितः' (पा. सू. ६. १. १६३ ) इत्यन्तोदात्तः । सुन्वतः । ‘शतुरनुमो नद्यजादी ' ( पा. सू. ६, १. १७३) इति विभक्तिरुदात्ता । सखा । ‘समाने ख्यश्चोदात्तः ' ( पा. सू. ४. ५७६ ) इति इण् प्रत्ययान्तः । तत्संनियोगेन यलोपः; सशब्दस्य चोदात्तः । डित्त्वात् टिलोपः । तस्मै । ‘अदिः' इत्यनुवृत्तौ “त्यजितनियजिभ्यो डित् ' ( उ. सू. १. १२९ ) इति तनोतेः अदिप्रत्ययः । डित्त्वात् टिलोपे प्रत्ययस्वरेण तच्छब्द उदात्तः।। त्यदाद्यत्वम् ।' एकादेश उदात्तेनोदात्त: ' (पा. सू. ८. २. ५) इत्युदात्तः । ‘सावेकाचस्तृतीयादिर्विभक्तिः' (पा.सू. ६. १. १६८ ) इति विभक्तेरुदात्तत्वे प्राप्ते प्रथमैकवचनेऽवर्णान्तत्वात् ‘न गोश्वन्साचवर्ण ' ( पा. सू. ६. १. १८२) इति निषेधः । इन्द्राय । इन्द्रशब्दो रन्प्रत्ययान्तो निपातितः । नित्त्वादाद्युदात्तः । ‘कर्मणा यमभिप्रैति स संप्रदानम् ' ( पा. सू. १. ४. ३२) इत्यत्र ‘क्रियाग्रहणं कर्तव्यम् ' ( पा. म. १. ४. ३२ ) इति वचनात् गानक्रियया प्राप्यत्वात् संप्रदानत्वेन चतुर्थी ॥ ॥ ८ ॥


मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.४&oldid=182525" इत्यस्माद् पुनः प्राप्तिः