शाङ्खायनश्रौतसूत्रम्/अध्यायः १२

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः ११ शाङ्खायनश्रौतसूत्रम्
अध्यायः १२
[[लेखकः :|]]
अध्यायः १३ →


॥12.1॥
होत्रकाणाम् १
प्रातःसवने कर्म २
आ नो मित्रावरुणा मित्रं वयं मित्रं हुवे ऽयं वां मित्रावरुणा पुरूरुणा चित्प्रति वां सूर उदिते प्र वो मित्राय यदद्य सूर उदिते प्र मित्रयोस्ता नः शक्त्वमिति स्तोत्रिया मैत्रावरुणस्य ३
आ याहि सुषुमेन्द्रमिद्गाथिन इन्द्रेण सं हीन्द्रो दधीच उत्तिष्ठन्नोजसा सह
भिन्धि विश्वाः प्र सन्राजं चर्षणीनां तमिन्द्रं वाजयामसि महाँ इन्द्रो य ओजसा युञ्जन्ति ब्रध्नमिति ब्राह्मणाच्छंसिनः ४
इन्द्राग्नी आ गतं सुतमिन्द्रे अग्ना नमो बृहदियं वामस्य मन्मनस्ता हुवे ययोरिदमिन्द्राग्नी युवामिमे यज्ञस्य हि स्थ ऋत्विजेयं वामस्य मन्मनस्ता हुवे ययोरिदमिन्द्रे अग्ना नमो बृहत्तमीलिष्व ता
हि शश्वन्त इति वाच्छावाकस्य ५

॥12.2॥ होत्रकशस्त्रप्रकरणम्
द्विरात्रप्रभृतिष्वहःसंघातेष्वनुरूपाः श्वःस्तोत्रियाः समानस्तोत्रियेष्वपि १
परे वा २
नित्यांस्तृचानन्त्याञ्छस्त्राणां पर्यासा इत्याचक्षते ३
प्रति वां सूर उदित इति मैत्रावरुणस्य ४
काव्ये भरदाभ्येति स्तोत्रिये वा ५
सति श्वःस्तोत्रिये वा ६
उद्घेदभीति ब्राह्मणाच्छंसिनः ७
इन्द्राग्नी अवसेत्यच्छावाकस्य ८
अन्तरेणानुरूपं पर्यासं चावापस्थानम् ९
एकया द्वाभ्यां वा स्तोममतिशंसन्ति १०
भूयसा त्रिवृति ११
सर्वपृष्ठे च विश्वजिति १२
एकया दशमेऽहनि १३
युवं दक्षमा नो बर्ही रिशादसो यं रक्षन्ति कथा राधाम ऋजुनीती नो मा कस्याद्भुतक्रतू मित्रो नो अत्यंहतिं महि वो महतां सोमस्य मित्रावरुणा ते नः सन्तु युजः प्र यो वां मित्रावरुणा महि घीणामित्येकपातिन्यः १४
काव्येभिरदाभ्या नो गन्तमिति तृचौ १५
सप्तचत्वारिंशन्मैत्रावरुण्यो गायत्र्यो दाशतयीषु तासां मैत्रावरुणः १६
चतुश्चत्वारिंशदैन्द्राणि गायत्राणि तेषां ब्राह्मणाच्छंसी १७
इहेन्द्राग्नी उप ह्वये तोशा वृत्रहणेति षलृचे १८
यत्सोम आ सुत इति द्वे १९
उप स्रक्वेष्वित्येका २०
जुषेथां यज्ञमिति सप्त २१
षट्चत्वारिंशदैन्द्राग्न्यो गायत्र्यो दाशतयीषु तासामच्छावाकः २२
दशमादह्नः स्तोत्रिया विश्वजिति सर्वपृष्ठे २३
षष्ठस्याह्नः स्तोत्रियाननु-रूपान्कृत्वेतरेषां पञ्चानां स्तोत्रियाञ्छंसन्ति २४
आवृत्तानावृत्तस्तोमेषु २५
ऊर्ध्वानेकाहभूतस्य २६
पर्यासैः परिदधति २७

॥12.3॥ होत्रकशस्त्रप्रकरणम्
माध्यन्दिनेषु विकारः १
अन्त्यानि सूक्तान्युत्तरयोः सवनयोः पर्यासा इत्या-चक्षते २
द्विषूक्ता मध्यन्दिनाः ३
चतुःसूक्तान्युक्थानि ४
अप प्राच इति सदा मैत्रावरुणस्योक्थमुखीया ५
शंसा महां यन्न इन्द्र इति द्वितीये ६
युध्मस्य ते कथा महामिति तृतीये ७
प्र वो महे महिवृधे भरध्वं यजामह
इन्द्रमिति तृचौ ८
सद्यो हा न इन्द्रो दूरादा न आसादिति चतुर्थे ९
[१]प्रो अस्मा उभे यदिन्द्रेति तृचौ १०
गर्भे नु सन्का सुष्टुतिरिति पञ्चमे ११
इन्द्राय हि द्यौरिति तृचम् १२
आ नः स्तुत उप वाजेभिरूत्या सत्यो यात्विति षष्ठे १३
तदहीनसूक्तम् १४
मध्यमे त्र्यहे तृचाञ्छिल्पानीत्याचक्षते १५
यदन्यत्स्तोत्रि-यानुरूपाभ्यां तृचेभ्यश्च तत्प्रदेशे प्रतीयेत १६
यत्प्रथमयोरह्नोः शस्त्रं सर्वेषां तत्प्रथमे छन्दोमे १७
यत्तृतीयपञ्चमयोस्तन्मध्यमे १८
यच्चतुर्थषष्ठयोस्तदुत्तमे १९
त्वं महाँ इन्द्र तुभ्यं हेति यत्र होताहीनसूक्तं शंसेत् २०
त्वे ह यत्पितरश्चिन्न इन्द्रेत्येकविंशतिश्छन्दोमेषु पुरस्तात्पर्यासस्य २१
मा चिदन्यद्वि शंसत मा भेम मा श्रमिष्मेत्यस्य स्तोत्रियानुरूपौ प्रगाथौ दशमेऽहनि २२
आ धूर्ष्वस्मा
इति च द्विपदा २३

॥12.4॥ होत्रकशस्त्रप्रकरणम्
कं नव्य इति ब्राह्मणाच्छंसिनोऽनुरूपादनन्तरः प्रगाथः कद्वानैकाहिकस्य स्थाने १
ब्रह्मणा त इति चोक्थमुखीया २
उदु ब्रह्माणीति सदा पर्यासः ३
वयं घ त्वा क ईं वेदेति स्तोत्रियानुरूपौ तृतीयेऽहनि ४
प्रथमयोश्च च्छन्दोमयोः ५
विपर्यस्तौ तु मध्यमे ६
यदिन्द्र प्रागपागुदगिति वा स्तोत्रियानुरूपौ प्रगाथौ ७
अध्वर्यवो भरतेन्द्रायेत्येकादश तृतीये ८
विश्वाः पृतना इति स्तोत्रियः । तमिन्द्रं जोहवीमि मत्स्यपायि ते महोऽस्मा अस्मा इत्यनुरूपः ९
कदा वसो स्तोत्रं यो वाचा विवाच इति तृचौ १०
य एक इद्धव्य इति चतुर्थे ११
इन्द्रो मदाय मदेमदे हीति स्तोत्रियानुरूपौ १२
आ याहि कृणवाम यो न इन्द्राभित इति तृचौ १३
यस्तिग्मशृङ्ग इति पञ्चमे १४
सुरूपकृत्नुमिति स्तोत्रियानुरूपौ १५
त्वया वयं मघवन्निति तृचम् १६
अस्मा इदु प्र तवस इति षष्ठे १७
तदहीनसूक्तम् १८
श्रायन्त इव सूर्यं शग्ध्यू षु शचीपत इति स्तोत्रियानुरूपौ प्रगाथा उत्तमे छन्दोमे १९
त्वं महाँ इन्द्र यो हेत्यहीनसूक्तस्य स्थाने २०
इन्द्रं स्तवेति च्छन्दोमेषु पुरस्तात्पर्यासस्य २१
उदु त्ये मधुमत्तमा उदिन्न्वस्य रिच्यत इति स्तोत्रियानुरूपौ प्रगाथौ दशमेऽहनि २२
त्रिकद्रुकेषु महिष इति वा स्तोत्रियः । उत्तमा च तमिन्द्रं जोहवीमि विश्वाः पृतना इत्यनुरूपः २३
रायस्काम इति च द्विपदा २४

॥12.5॥ होत्रकशस्त्रप्रकरणम्
कदू न्वस्येत्यच्छावाकस्यानुरूपादनन्तरः प्रगाथः कद्वानैकाहिकस्य स्थाने १
उरुं न इति चोक्थमुखीया २
अभि तष्टेवेति सदा पर्यासः ३
त्वामिदा वयमेनमिदा ह्य इति स्तोत्रियानुरूपौ प्रगाथौ ४
अपूर्व्या पुरुतमानीति द्वितीये ५
तरणिरित्तरोभिरिति स्तोत्रियानुरूपौ प्रगाथौ ६
य ओजिष्ठ इति तृतीये ७
यो राजा नकिष्टमिति स्तोत्रियानुरूपौ प्रगाथौ ८
सचायोरिन्द्र इन्द्र सोममिमं पिबेति तृचौ ९
सं च त्वे जग्मुरिति चतुर्थे १०
स्वादोरित्थेत्था हि सोम इति स्तोत्रियानुरूपौ ११
यच्चिद्धि सत्याव यत्त्वं शतक्रतविति तृचौ १२
कदा भुवन् रथक्षयाणीति पञ्चमे १३
उभे यदिन्द्रेति स्तोत्रियानुरूपा १४
विदुष्टे अस्य वीर्यस्येति तिस्रः १५
शासद्वह्निरिति षष्ठे १६
तदहीनसूक्तम् १७
नकिष्टं न त्वा बृहन्त इति स्तोत्रियानुरूपौ प्रथमे छन्दोमे १८
उभयं शृणवदिति मध्यमे १९
यत इन्द्र भयामह इत्युत्तमे २०
सर्वे प्रगाथाः २१
इच्छन्ति त्वेति च्छन्दोमेषु पुरस्तात्पर्यासस्य २२
अया बाजमिति च द्विपदा दशमे
ऽहनि २३
ऐकाहिकं च पूर्वम् २४

॥12.6॥ होत्रकशस्त्रप्रकरणम्
अन्तरेण प्रायणीयोदयनीयौ कद्वन्तौ चोक्थमुखीयाश्चाभितष्टीयं च बृहतीकारं च बार्हतानाम् १
अन्तरेणोक्थमुखीयां सूक्ते चावापस्थानम् २
पृष्ठ्यात्सूक्ता-न्यभिप्लवे ३
अहीनसूक्तानां स्थाने द्वितीयादह्नः सूक्तानि ४
उत्तरं मैत्रावरुणस्य ५
प्रथमात् त्र्यहात्स्वरसामसु ६
चतुर्विंशेऽभिजिति विषुवति बृहत्पृष्ठे विश्वजिति महाव्रते च षष्ठात् ७
विश्वजिति सर्वपृष्ठे ८
महानाम्नीनां मैत्रावरुणः स्तोत्रियानुरूपौ सप्रगाथौ ९
कद्वन्तं प्रगाथं वैरूपस्य ब्राह्मणाच्छंसी १०
रेवतीनामच्छावाकः ११
वालखिल्या अविहृता मैत्रावरुणः षट् सूक्तानी-न्द्रनिहवं परिहाप्या नो विश्वे सजोषस इति च प्रगाथम् १२
वृषाकपिमृते कुन्तापमन्यूङ्खं ब्राह्मणाच्छंसी १३
द्यौर्न य इन्द्रेत्येवयामरुतः स्थाने विष्णु-न्यङ्गमच्छावाकः १४
अभूरेक इति सामसूक्तं मैत्रावरुणस्य १५
यो जात इति ब्राह्मणाच्छंसिनः १६
प्र घा न्वस्येत्यच्छावाकस्य १७
सामसूक्तानि शस्त्वाहीनसूक्तानि शस्त्वैकाहिकीभिः परिदधति १८
एकाहभूतस्यैकाहि-
कान्पर्यासानूर्ध्वमहीनसूक्तेभ्यः १९

॥12.7॥ होत्रकशस्त्रप्रकरणम्
उक्थेषु क्रियमाणेषु वालखिल्या वृषाकपिं विष्णुन्यङ्गमित्युद्धृत्य परिशेषा-न्मध्यन्दिनेषु शंसन्ति १
षष्ठादह्न उक्थानि २
अथ यदि षष्ठाह्निकं तृतीय-सवनमसर्वपृष्ठेऽहनि प्रदिष्टं स्याद्द्वितीयादह्न उक्थानि ३
परोक्षपृष्ठे प्रतिशिल्पानि क्रियन्ते ४
उद्धृत्य वालखिल्या मैत्रावरुणः पिबा सुतस्य रसिन इत्यैन्द्रान्प्रगाथाञ्छस्त्वा ५
वृषाकपिमुद्धृत्य ब्राह्मणाच्छंसीन्द्रो मदायेति पङ्क्तीरैन्द्रीः शंसति ६
विष्णुन्यङ्गमेवाच्छावाकः ७
इति परोक्षपृष्ठे ८

॥12.8॥ होत्रकशस्त्रप्रकरणम्
अथ विश्वजिच्छिल्पे १
ऐकाहिकान्प्रगाथाञ्छस्त्वा वालखिल्या वृषाकपिं विष्णुन्यङ्गं नाभानेदिष्ठं च सर्वशस्तृचान्वा २
चतुरृचं वालखिल्यानाम् ३
सामसूक्तानामहीनसूक्तानां पर्यासानां त्रींस्त्रींस्तृचान्होत्रकाः शंसन्ति ४
इति विश्वजिच्छिल्पे विकारः ५
निविद्धानीयांश्च तृचान् ६
युवोर्यदीति तृचम् ७
ये यज्ञेनेति च सूक्तम् ८
स्वस्ति नो मिमीतामिति तृचं निविद्धानीयम् ९
एवयामरुतश्च तृचम् १०
यथास्तोमं प्रातःसवनम् ११

॥12.9॥ होत्रकशस्त्रप्रकरणम्
त्रिवृद्दशरात्रस्य तृचकॢप्तं शस्त्रम् १
आज्यानामाद्यांस्तृचान् २
निविद्धानानामुत्तमान् ३
एकैकामितरेषां सूक्तानां शिल्पानां च ४
षष्ठस्य तु समानं विश्वजिच्छिल्पेन शिल्पानाम् ५
नाभानेदिष्ठस्य ६
एवयामरुतश्च ७
यदि गवामयने ब्राह्मणाच्छंसिने प्राग्विषुवत ऐन्द्रेषु प्रगाथेष्वभीवर्तमन्वा-यातयेयुर्यस्मिन्स्तुवते स स्तोत्रियः श्वःस्तोत्रियोऽनुरूपः ८
यदि वा षट्प्रगाथेन ९
तृतीयेऽहनि बृहत्यः १०
तं वो दस्मं तत्त्वा याम्यभि प्र वः प्र सुश्रुतमा त्वा सहस्रमा मन्द्रैरिन्द्र यो राजा नकिष्टं न त्वा बृहन्तस्त्वमिन्द्र यशास्त्वमिन्द्र प्रतूर्तिषु पिबा सुतस्य रसिनोऽध्वर्यो द्रावयेति वा ११
विषुवत्यादित्यव्रतम् १२
चित्रं देवानामिति स्तोत्रियानुरूपौ १३
विकर्णं वा १४
बण्महानुदु त्यद्दर्शतमिति स्तोत्रियानुरूपौ प्रगाथौ विकर्णस्य १५
इन्द्र क्रतुमिति वा स्तोत्रिय इन्द्र ज्येष्ठमित्यनुरूपः १६
पौरुमील्हं मानवं जनित्रं भारद्वाजं श्यैतनौधसे एतान्यभीवर्तस्थान इन्द्रक्रतावेवोर्ध्वं विषुवतः १७

॥12.10॥ होत्रकशस्त्रप्रकरणम्
उक्थेषु विकारः १
अनुरूपादनन्तराण्यैन्द्राणि जागतान्यन्यानि नित्यानि वान्यत्र षष्ठान्नित्यानि २
प्र वो वाजाः प्र वः सखाय इति स्तोत्रियानुरूपौ ३
प्र सम्राजे बृहदिन्द्रा को वां वरुणेति मैत्रावरुणस्याहनि द्वितीये ४
आ वां राजानाविति पर्यासस्तृतीयपञ्चमयोर्मध्यमे च छन्दोमे ५
पुनीषे वामितीतरेषु ६
प्र मंहिष्ठाय गायत प्र सो अग्न इति स्तोत्रियानुरूपौ प्रगाथौ ७
धीरा त्वस्येन्द्रावरुणा युवमध्वरायेति तृतीये ८
अग्निं वो वृधन्तमग्निं स्तोमेनेति स्तोत्रियानुरूपौ ९
रदत्पथः श्रुष्टी वां यज्ञ इति चतुर्थे १०
आ ते अग्न इधीमहि सो अग्निर्यो वसुरग्निं तं मन्य इति स्तोत्रियः । आ ते अग्न ऋचेत्यनुरूपः ११
प्र शुन्ध्युवमिन्द्रावरुणा युवमध्वरायेति पञ्चमे १२
१०
॥12.11॥ होत्रकशस्त्रप्रकरणम्
द्विपदाः षष्ठे सर्वेषाम् १
अग्ने त्वं न इति स्तोत्रियः २
चतुर्थीं तृतीयां करोति ३
अग्ने भव सुषमिधेत्यनुरूपः ४
विहृताश्च वालखिल्याः ५
पच्छः प्रथमे सूक्ते विहरति ६
अर्धर्चशो द्वितीये ७
ऋक्छस्तृतीये ८
उत्तमे विपर्यस्येत् ९
आथा मोदैव मदे मोदा मोदैवो थो ३
इति विहृतासु प्रतिगृणाति १०
अवसाने पूर्वं प्रणव उत्तरम् ११
तार्क्ष्यस्योत्तमां परिशिष्याहूय दूरोहणं यथा विषुवति १२
उत्तमामुपसंशस्यैकाहिकौ तृचौ १३
अस्माकमत्र पितरस्त आसन्निति तिस्रः १४
इन्द्रावरुणा युवमध्वरायेति षष्ठे १५
आ ते वत्सो मनो यमदाग्निरगामीति स्तोत्रियानुरूपौ प्रथमे छन्दोमे १६
पर्यासमन्तरेण त्रीणि च पूर्वाण्यैकाहिकानीमानि वां भागधेयानीति पञ्च युवां नरा पश्यमानास इति वा १७
प्रेष्ठं वः प्रियो नो अस्तु विश्पतिरिति मध्यमे १८
भद्रो नो यदी
घृतेभिराहुत इत्युत्तमे प्रगाथौ १९
आ घा ये अग्निमिन्धत इमा अभि प्र णोनुम इति वा २०
न हि ते क्षत्रमित्युभयोः सूक्तशेषः २१
इन्द्रा को वां वरुणेति मध्यमे २२
श्रुष्टी वां यज्ञ इत्युत्तमे २३
इमा उ वां भृमय इत्युभयोस्तिस्रः २४
११
॥12.12॥ होत्रकशस्त्रप्रकरणम् (ब्राह्मणाच्छंसिनः उक्थानि)
एवा ह्यसि वीरयुरेवा ह्यस्य सूनृतेति स्तोत्रियानुरूपौ १
यस्तस्तम्भेति षड् ब्राह्मणाच्छंसिनोऽहनि द्वितीये २
उत्तरयोश्छन्दोमयोर्मध्ये सूक्तानाम् ३
यो अव्रिभिदिति तृचं पूर्वं सर्वत्र पर्यासात् ४
अस्तेव सुप्रतरमिति पर्यासस्तृतीय-पञ्चमयोर्मध्यमे च च्छन्दोमे ५
अच्छा म इन्द्रमितीतरेषु ६
तं ते मदं तग्वभि प्र गायतेति स्तोत्रियानुरूपौ ७
अनर्वाणं वृषभमिति तृतीये ८
उदप्रुत इति चतुर्थे ९
प्रथमोत्तमयोश्च च्छन्दोमयोः १०
षष्ठे चोर्ध्वं तृचेभ्यः ११
इन्द्राय साम गायत तग्वभि प्र गायतेति स्तोत्रियानुरूपौ १२
यज्ञे दिव इति पञ्चमे मध्यमे च च्छन्दोमे १३
इमा नु कमिति स्तोत्रियः । उत्तरे चाया वाजमिति तृतीयानुरूपस्य १४
१२
॥12.13॥ होत्रकशस्त्रप्रकरणम्
अप प्राच इति सुकीर्तिं शस्त्वा पङ्क्तिशंसं वृषाकपिं मध्यमस्य पादस्य द्वितीयोत्तमयोरक्षरयोर्न्यूङ्खयति १
वैराजः पूर्वस्मिन्मदद्वृषाकपो३ ओ३ अर्यः पुष्टेषु मत्सखेत्युत्तरस्मिन् २
उपरते प्रतिन्यूङ्खयति ३
वैराजन्यूङ्खमुक्त्वा मदथ मदैवो३ ओ३ ओथा मोदैवेति प्रतिगृणाति ४
तद्यत्रोपद्रुतमभिनिहितं प्रश्लिष्टं क्षिप्रसन्धिरिति न्यूङ्खनीयस्य पादस्यादौ स्यादुपातीत्य तद्द्वितीयेऽक्षरे न्यूङ्खयेच्छा न्वो३ इति यथा क्व स्यो३ इति च ५
अथ यत्र पञ्चालपदवृत्तिः स्याद्विवृत्तिप्रत्यये न्यूङ्खयेन्नो३ ओ३ इति ६
तं शस्त्वा कुन्तापम् ७
१३
॥12.14॥ होत्रकशस्त्रप्रकरणम्
इदं जना उप श्रुत नराशंस स्तविष्यते ।
षष्टिं सहस्रा नवतिं च कौरम आ रुशमेषु दद्महे ।। १
उष्ट्रा यस्य प्रवाहिणो वधूमन्तो द्विर्दश ।
वर्ष्मा रथस्य नि जिहीलते दिव ईषमाणा उपस्पृशः।। २
एष इषाय मामहे शतं निष्कान्दश स्रजः ।
त्रीणि शतान्यर्वतां सहस्रा दश गोनाम्।। ३
प्र रेभासो मनीषा वृथा गाव इवेरते ।
अमोत पुत्रका एषाममोत गा उपासते।। ४
प्र रेभ धियं भरस्व गोविदं वसुविदम् ।
देवत्रेमां वाचं श्रीणीहीषुर्नावीरस्तारम् ।। ५

१४
॥12.15॥ होत्रकशस्त्रप्रकरणम्
वच्यस्व रेभ वच्यस्व वृक्षे न पक्वे शकुनः ।
नष्टे जिह्वा चर्चरीति क्षुरो न भुरिजोरिव ।। १
इन्द्रः कारुमबूबुधदुत्तिष्ठ वि चरा जरन् ।
ममेदुग्रस्य चर्कृधि सर्व इत्ते पृणादरिः ।। २
इह गावः प्र जायध्वमिहाश्वा इह पूरुषाः।
इहो सहस्रदक्षिणोऽपि पूषा नि षीदति ।। ३
मेमा इन्द्र गावो रिषन्मो आसां गोपती रिषत् ।
मासाममित्रयुर्जन इन्द्र मा स्तेन ईशत।। ४
यदिन्द्रादो दाशराज्ञेऽमानुषं वि गाहथाः।
विरूपः सर्वस्मा आसीत्सह यक्ष्माय पत्यते ।। ५

१५
॥12.16॥ होत्रकशस्त्रप्रकरणम्
त्वं वृषाक्षुं मघवन्नम्रं मर्याकरोरपि
त्वं रौहिणं व्यास्यो वि वृत्रस्याभिनच्छिरः १
प्रष्टिं धावन्तं हर्योरौच्चैःश्रवसमब्रुवन्
स्वस्त्यश्व जैत्रायेन्द्रमा वह सुस्रजम् २
अरंगरो वावदीति त्रेधा बद्धो वरत्रया
इरामु ह प्र शंसत्यनिरामप सेधति ३
त्वमिन्द्र शर्म रिणा हव्यं पारावतेभ्यः
विप्राय स्तुवते वसु नि दूरश्रवसे वहः ४
त्वमिन्द्र कपोताय च्छिन्नपक्षाय वञ्चते
श्यामाकं पक्वं पीलु च वारस्मा अकृणोर्बहु ५

चतस्रोऽतः पारिक्षित्यस्तासां तृतीये पादे प्रथमचतुर्थयोरक्षरयोर्वैस्वर्यम् २
१६
॥12.17॥ होत्रकशस्त्रप्रकरणम्
राज्ञो विश्वजनीनस्य यो देवो मर्त्याँ अति
वैश्वानरस्य सुष्टुतिमा सुनोता परिक्षितः १
परिक्षिन्नः क्षेममकरुत्तम आसनमा चरन्
कुलायं कृण्वन्कौरव्यः पतिर्वदति जायया २
कतरत्त आ हराणि दधि मन्थां परिस्रुतम्
जाया पतिं वि पृच्छति राष्ट्रे राज्ञः परिक्षितः ३
अभीव स्वः प्र जिहीते यवः पक्वः पथो बिलम्
जनः स भद्रमेधति राष्ट्रे राज्ञः परिक्षितः ४

ओथा मोदैवेति वैस्वर्ये प्रतिगृणाति २
एतशप्रलापोऽतो विंशतिपदस्तन्निविच्छंसम् ३
१७
॥12.18॥ होत्रकशस्त्रप्रकरणम्
एता अश्वा आ प्लवन्ते १
प्रतीपं प्रातिसुत्वनम् २
तासामेका हरिक्लिका ३
हरिक्लिके किमिच्छसि ४
साधुं पुत्रं हिरण्ययम् ५
क्वाह तं परास्यः ६
यत्रामूस्तिस्रः शिंशपाः ७
परि त्रयः पृदाकवः ८
शृङ्गं धमन्त आसते ९
अलाबुकं निखातकम् १०
कर्करिको निखातकः ११
कद्वात उन्मथायति १२
कुलायं कृणवादिति १३
उग्रं वनिषदाततम् १४
न वनिषदनाततम् १५
क एषां दुन्दुभिं हनत् १६
लेलिं हनत्कथं हनत् १७
पर्यागारं पुनः पुनः १८
शफेन पीव ओहते १९
आयवनेन तेदनी २०

१८
॥12.19॥ होत्रकशस्त्रप्रकरणम्
आदित्या ह जरितरङ्गिरोभ्योऽश्वं दक्षिणामनयन्
तां ह जरितर्न प्रत्यायंस्तामु ह जरितः प्रत्यायन्
तां ह जरितर्न प्रत्यगृभ्णंस्तामु ह जरितः प्रत्यगृभ्णन् १
अहादेत सन्नविचेतनानि यज्ञादेत सन्नपुरोगवासः
आदित्या रुद्रा वसवस्त्वेलत इदं राधः प्रति गृभ्णीह्यङ्गिरः २
इदं राधो बृहत्पृथु देवा ददतु यद्वरम्
तद्वो अस्तु सजोषणं युष्मे अस्तु दिवेदिवे । प्र त्वेव गृभायत ३
उत श्वेत आशुपत्वोत पद्याभिर्यविष्ठः
उतो आशु मानं बिभर्ति ४
इत्यादित्या अङ्गिरस्य ५
एवाह जरितरोथा मोदैव । तथाह जरितरोथा मोदैवेत्यासां प्रतिगृणाति ६
अवसाने पूर्वं प्रणव उत्तरम् ७
१९
॥12.20॥ होत्रकशस्त्रप्रकरणम्
पञ्चातो दिशां कॢप्तयः १
यः सभेयो विदथ्यः सुत्वा यज्वाथ पूरुषः
सूर्यं चामू रिशादसस्तद्देवाः प्रागकल्पयन् १
यद्भद्रस्य पुरुषस्य पुत्रो भवति दाधृषिः
तद्विप्रो अब्रवीदु तद्गन्धर्वः काम्यं वचः २
यो जाम्या अप्रथयत्तद्यत्सखायं दुधूर्षति
ज्येष्ठो यदप्रचेतास्तदाहुरधरागिति ३
यश्च पणिरभुजिष्यो यश्च रेवाँ अदाशुरिः
धीराणां शश्वतामह तदपागिति शुश्रुम ४
ये च देवा अयजन्ताथो ये च पराददुः
सूर्यो दिवमिव गत्वाय मघवानो वि रप्शते ५

२०
॥12.21॥ होत्रकशस्त्रप्रकरणम्
षलतो जनकल्पाः १
योऽनाक्ताक्षो अनभ्यक्तो अमणिवो अहिरण्यवः
अब्रह्माब्रह्मणः पुत्रस्तो ता कल्पेषु संमिता १
य आक्ताक्षः स्वभ्यक्तः सुमणिः सुहिरण्यवः
सुब्रह्मा ब्रह्मणः पुत्रस्तो ता कल्पेषु संमिता २
अप्रपाणा च वेशन्तारेवाँ अप्रददिश्च यः
अयभ्या कन्याकल्याणी तो ता कल्पेषु संमिता ३
सुप्रपाणा च वेशन्ता रेवान्सुप्रददिश्च यः
सुयभ्या कन्या कल्याणी तो ता कल्पेषु संमिता ४
परिवृक्ता च महिष्यनस्त्या चायुधिंगमः
अनाशुरश्वायामी तो ता कल्पेषु संमिता ५
वावाता च महिषी स्वस्त्या च युधिंगमः
स्वाशुरश्वा यामी तो ता कल्पेषु संमिता ६

चतस्रोऽतः प्रवल्हिकास्त्रयश्च प्रतीराधास्तन्निविच्छंसम् ३
२१
॥12.22॥ होत्रकशस्त्रप्रकरणम्
विततौ किरणौ द्वौ तावा पिनष्टि पूरुषः
न वै कुमारि तत्तथा यथा कुमारि मन्यसे १
मातुष्टे किरणौ द्वौ निवृत्तः पुरुषाद्दृतिः
न वै कुमारि तत्तथा यथा कुमारि मन्यसे २
निगृह्य कर्णकौ द्वौ निरा यच्छसि मध्यमे
न वै कुमारि तत्तथा यथा कुमारि मन्यसे ३
उत्तानायै शयानायै तिष्ठन्नेवाव गूहसि
न वै कुमारि तत्तथा यथा कुमारि मन्यसे ४
श्लक्ष्णायां श्लक्ष्णिकायां श्लक्ष्णमेवाव गूहसि
न वै कुमारि तत्तथा यथा कुमारि मन्यसे ५
अव श्लक्ष्णमिव भ्रंशदन्तर्लोमवति ह्रदे
न वै कुमारि तत्तथा यथा कुमारि मन्यसे ६
यन्न्यूनं यच्च अधिकं तत्सर्वमेवाव गूहसि
न वै कुमारि तत्तथा यथा कुमारि मन्यसे ७

१२
॥12.23॥ होत्रकशस्त्रप्रकरणम्
इहेत्थ प्रागपागुदगधरागरालागुदभर्त्सत
इहेत्थ प्रागपागुदगधराग्वत्साः प्रुपन्त आसते
इहेत्थ प्रागपागुदगधराक् स्थालीपाको वि लीषते
इहेत्थ प्रागपागुदगधराक् छ्लिलीपु छ्लिलीषते १
भुगित्यभिगतः । शलित्यपक्रान्तः । फलित्यभिष्ठितः २
अलाबूनि जरितः । पृषातकानि जरितः । पिपीलिकावटो जरितः । अश्वत्थपलाशं जरितः । श्वा जरितः । पर्णसदो जरितः । गोशफो जरितरित्येकैकमुक्त्वा नित्यं प्रतिगरम् ३
वीमे देवा अक्रंसताध्वर्यो क्षिप्रं प्र चर । सुसत्यमिट्गवामस्यसि प्र खुदसि ४
पत्नी यीयप्स्यमाना जरितरोथा मोदैव होता विष्ट्वी मे जरितरोथा मोदैवेत्यस्यां प्रतिगृणाति ५
अवसाने पूर्वं प्रणव उत्तरम् ६
२३
॥12.24॥ होत्रकशस्त्रप्रकरणम्
अत ऊर्ध्वं दशाहनस्याः १
यद्देवासो ललामगुं प्र विष्टीमिनमाविषुः
सक्थ्ना देदिश्यते नारी सत्यस्याक्षिभुवो यथा १
यदस्या अंहुभेद्याः कृधु स्थूलमुपातसत्
मुष्काविदस्या एजतो गोशफे शकुलाविव २
यदा स्थूलेन पससाणौ मुष्का उपावधीत्
विष्वञ्चावस्या वर्धतः सिकतास्विव गर्दभौ ३
महानग्नी महानग्नं धावन्तमनु धावति
इमास्तु तस्य गा रक्ष यभ मामद्ध्योदनम् ४
महानग्नी कृकवाकुं शम्यया परि धावति
वयं न विद्म यो मृगः शीर्ष्णा हरति धाणिकाम् ५
महानग्न्युप ब्रूते स्वस्त्यावेशितं पसः
इत्थं फलस्य वृक्षस्य शूर्पं शूर्पं भजेमहि ६
महानग्न्युलूखलमतिक्रामन्त्यब्रवीत्
यथा तव वनस्पते नि घ्नन्ति तथा मम ७
महान्वै भद्रो बिल्वो महान्भद्र उदुम्बरः
महाँ अभिज्ञु बाधते महतः साधु खोदनम् ८
कपृन्नरो यद्ध प्राचीरिति द्वे २
तासां तृतीये पादे न्यूङ्खो यथा वृषाकपौ ३
कपृन्नर इति द्वितीयदशमयोरक्षरयोः ४
न्यूङ्खेनेतरासामवसाय संतानायोत्तमं पदम् ५
वि इ इ ई ३ किमयमिदमाहो ३ ओ३ ओथा मोदैवेति प्रतिगृणाति

२४
॥12.25॥ होत्रकशस्त्रप्रकरणम्
दधिक्राव्णो अकारिषमित्येका १
सुतासो मधुमत्तमाः प्र मंहिष्ठाय यो अद्रिभिदव द्रप्स इति तृचानि षष्ठे २
त्वं न इन्द्रा भर तदिन्द्राव आ भरेति स्तोत्रियानुरूपौ ३
सर्वं प्रमंहिष्ठीयं प्रथमे छन्दोमे ४
यो अद्रिभिदिति चैका ५
एन्द्र नो गध्येदु मध्वो मदिन्तरमिति मध्यमे ६
एतो न्विन्द्रं स्तवाम सखाय इत्युत्तमे ७
२५
॥12.26॥ होत्रकशस्त्रप्रकरणम्
इन्द्रं विश्वा इन्द्रमीशानमोजसेति स्तोत्रियानुरूपावनुरूपस्य ये पूर्वे ते उत्तरे १
नू मर्त इत्यच्छावाकस्यैन्द्रादनन्तरं द्वितीयचतुर्थयोः प्रथमोत्तमयोश्च च्छन्दो-मयोः २
विष्णोर्नु कमितीतरेषु ३
उरुं यज्ञायेति तृचं पूर्वं सर्वत्र पर्यासात् ४
सं वां कर्मणेति सदा पर्यासः ५
श्रुधी हवं तिरश्च्या आश्रुत्कर्णेति स्तोत्रियानुरूपौ तृतीये ६
इममिन्द्र सुतं पिब पिबा सोमं मदाय कमिति चतुर्थे ७
असावि सोम इन्द्र त इममिन्द्र सुतं पिबेति पञ्चमे ८
प्र व इन्द्राय वृत्रहन्तमाय विश्वतो दावन्निति षष्ठे ९
एवयामरुतं शस्त्वा यथा वृषाकपिम् १०
इह मदो३ इति वैराजन्यूङ्खमुक्त्वा मदे मधोर्मदस्य मदिरस्य मदैवो३ ओ३
ओथा मोदैवेति प्रतिगृणाति ११
ऋतुर्जनित्री १२
तमस्य द्यावापृथिवी १३
विष्णोर्नु कम् १४
प्र वः पान्तमन्धसः १५
छन्दोमेषु च १६
तिस्रस्तु प्रथमे १७
भवा मित्र इति तृचाच्च पूर्वमुत्तरयोश्छन्दोमयोः १८
नू मर्तः परो मात्रयेत्युत्तमा-मुद्धृत्य षष्ठे १९
यदिन्द्र चित्र यदिन्द्र ते चतस्र इति स्तोत्रियानुरूपौ प्रथमे छन्दोमे २०
पुरां भिन्दुरिति मध्यमे । पूर्वस्तृचोऽनुरूपस्तृतीया तु प्रथमा २१
गायन्ति त्वेत्युत्तमे २२
२६
॥12.27॥ होत्रकशस्त्रप्रकरणम्
चतुर्विंशे शस्त्रं प्रथमाच्छन्दोमात्सर्वेषाम् १
यच्चतुर्णां द्वितीयप्रभृतीनां तच्चतुर्णामाभिप्लविकानाम् २
तृतीयप्रभृतिभ्यः स्वरसामसु ३
अथ यद्यभिजितं विषुवन्तं बृहत्पृष्ठं विश्वजितं महाव्रतीयमहरित्युक्थ्यानि कुर्यश्चातुर्विंशिंकान्युक्थानि ४
अथ यदि पृष्ठ्याभिप्लवयोः प्रथमे अहनी दशममहरित्युक्थ्यानि कुर्युरैकाहिकान्युक्थानि ५
उत्तममाभिप्लविकमुक्थ्यं कुर्युर्यद्द्वितीयस्याह्नस्तृतीयसवनं तत्तृतीयसवनं तत्तृतीयसवनम् ६
२७
इति शाङ्खायनश्रौतसूत्रे द्वादशोऽध्यायः समाप्तः

  1. ८.६२.१