शाङ्खायनश्रौतसूत्रम्/अध्यायः ११

विकिस्रोतः तः
← अध्यायः १० शाङ्खायनश्रौतसूत्रम्
अध्यायः ११
[[लेखकः :|]]
अध्यायः १२ →


॥11.1॥
व्याख्यातो द्वादशाहः प्रकृतिः सत्त्राहीनानाम् १
वचनलक्षणो विकारः २
द्विरात्रप्रभृतयोऽहीना द्वादशाहपर्यन्ताः ३
द्वादशाहप्रभृतीनि सत्त्राणि ४
अहीनेषु प्रायणीयो न विद्यते ५
सत्त्रधर्माश्च ६

॥11.2॥ चतुर्विंशस्तोमप्रकरणम्
चतुर्विंशस्तोमं बृहत्पृष्ठमुभयसामाग्निष्टोम उक्थ्यं वाहश्चतुर्विंशमित्याचक्षते १
होताजनिष्टेत्याज्यम् २
माधुच्छन्दसः प्रउगः ३
कयाशुभीयं मरुत्वतीयम् ४
अनुत्तमा त इति परिधानीयोत्तराः पूर्वाः शस्त्वा यत्रास्मिन्धीयते निवित् ५
तदिदासीयं निष्केवल्यम् ६
द्वितीयात्सावित्रद्यावापृथिवीये ७
वैश्वदेवमारुते च ८
आर्भवं षष्ठात् ९
वैश्वानरीयं तृतीयात् १०
यज्ञेन वर्धतेति जातवेदसीयम् ११
सामान्तरुक्थाः १२
यज्ञायज्ञीयस्य स्तोत्रियेणोक्थ्यस्तोत्रियान्संशस्य । अनुरूपेणानुरूपान् । अग्ने मरुद्भिरृक्वभिः पा इन्द्रावरुणाभ्यां मत्स्वेन्द्रा-बृहस्पतिभ्यामिन्द्राविष्णुभ्यां सजूरिति शस्त्वा परिदधाति १३
ग्रहान्तरुक्था
एतया शस्तया यजेत् १४

॥11.3॥
एकत्रिके तृचकॢप्तं शस्त्रम् १
यथास्तुतं स्तोत्रियाञ्छस्त्वा तृचान्वा । यथास्तोत्रियमनुरूपान्सामप्रगाथांश्च शस्त्वा । पर्यासानामुत्तमांस्तृचान्होत्रकाः
शंसन्ति २
निविद्धानानां होता ३
सर्वमन्यत्प्रकृत्या ४

॥11.4॥ अभिप्लवषडहप्रकरणम्
अभिप्लवः षलहः पृष्ठ्यविकारः १
यानि त्र्यहस्य प्रथमस्याज्यानि समूल्हे तानि पूर्वेषामाभिप्लविकानाम् २
रथन्तरं बृहदिति पृष्ठे विपर्यासम् ३
ज्योतिरग्निष्टोमः प्रथममुत्तमं च ४
चत्वार्युक्थ्यानि मध्ये ५
गां द्वितीयं चतुर्थं च ६
आयुस्तृतीयं पञ्चमं च ७
इन्द्रो रथायेति मरुत्वतीयम् ८
आ याह्यर्वाङिति निष्केवल्यम् ९
कथा देवनामिति वैश्वदेवम् १०
पञ्चमे च ११
मारुतमेक्राहात् १२
एति प्र होतेति जातवेदसीयम् १३
समानमन्यत्प्रथमेनाह्ना १४

॥11.5॥ अभिप्लवषडहप्रकरणम्
इमा उ त्वेति मरुत्वतीयं द्वितीयस्य १
सुत इत्त्वं निमिश्ल इति निष्केवल्यम् २
एकाहात्सावित्रम् ३
ततं म इत्यार्भवम् ४
पञ्चमे च ५
देवान्हुव इति
वैश्वदेवम् ६
चतुर्विंशाज्जातवेदसीयम् ७
समानमन्यद्द्वितीयेनाह्ना ८

॥11.6॥ अभिप्लवषडहप्रकरणम्
औष्णिहो वैश्वमनसः प्रउगस्तृतीयस्य १
वायो याहि शिवा वां सहस्रं ता वां विश्वस्या वां वाहिष्ठः सखाय आ शिषामह्युत नो देव्यदितिरुत नः प्रियेति प्रउगतृचानि २
तिष्ठा हरी इति मरुत्वतीयम् ३
एकाहान्निष्केवल्यम् ४
घृतेन द्यावापृथिवी इति तृचम् ५
षष्ठे च ६
एकाहादार्भवं वैश्वदेवं च ७
आ रुद्रासस्त्वामग्न ऋतायव इत्याग्निमारुतम् ८

॥11.7॥ अभिप्लवषडहप्रकरणम्
होताजनिष्टेत्याज्यं चतुर्थस्य १
मैधातिथः प्रउगः २
ये गार्त्समदे ते वायव्यैन्द्रवायवे । मैधातिथ्यस्तु पूर्वाः ३
मित्रं वयं प्रातर्युजा त्वा वहन्त्वैभिरग्न इति तृचानि ४
यानि त्र्यहस्योत्तरस्य सारस्वतानि समूल्हे तान्युत्तरेषामाभिप्लविकानाम् ५
एकाहान्मरुत्वतीयम् ६
उग्रो जज्ञ इति निष्केवल्यम् ७
द्वितीयात्सावित्रद्यावापृथिवीये ८
आर्भवं तृतीयात् ९
अग्निरिन्द्र इति वैश्वदेवम् १०
यानि त्र्यहस्य पूर्वस्य वैश्वानरीयाणि
तान्युत्तरस्य ११
प्र ये शुम्भन्ते जनस्य गोपा इत्याग्निमारुतम् १२

॥11.8॥ अभिप्लवषडहप्रकरणम्
अग्न ओजिष्ठमित्याज्यं पञ्चमस्य सर्वत्रोत्तमां परिहाप्य १
संहार्यः प्रउगः २
अग्रं षिब तव वायो स त्वं नो देवेति तृचः शतेना न आ नो मित्रावरुणाऽ नो गोमन्तमतश्चिदिन्द्र णो विश्वे देवा ऋतावृध इति तृचानि ३
क्व स्य वीर इति मरुत्वतीयम् ४
एतायामेति निष्केवल्यम् ५
तृतीयात्सावित्रद्यावापृथिवीये

प्र वः स्फलक्रंश्चित्र इच्छशोरित्याग्निमारुतम् ७

॥11.9॥ अभिप्लवषडहप्रकरणम्
सखायः सं वः सम्यञ्चमित्याज्यं षष्ठस्य सर्वत्रोत्तमां परिहाप्य १
संहार्यः प्रउगः २
वायवा याहि दर्शत रथेन पृथुपाजसा यदद्य सूर उदिते प्रति वां सूर उदित इति वा पुरुप्रिया ण उप नो हरिभिर्विश्वे देवास आ गतेति भारद्वाजमिति तृचानि ३
महाँ इन्द्रो नृवदिति मरुत्वतीयम् ४
यो जात
इति निष्केवल्यम् ५
द्वितीयात्सावित्रम् ६
अबुध्रमु त्य इति वैश्वदेवम् ७
धारावरास्त्वमग्ने द्युभिरित्याग्निमारुतम् ८
इन्द्र दृह्योत वैश्वदेवं षष्ठस्याह्नो द्वितीयेऽभिप्लवे ९
उषासानक्तेति तृतीये १०
अग्निरिन्द्र इति चतुर्थे ११
शं न इन्द्राग्नी इति वा १२
प्रथमं वा पूर्वस्मिन्पटले द्वितीयमुत्तरे १३
परावत
इति पञ्चमे १४

॥11.10॥ अभिप्लवषडहप्रकरणम्
अभिजित्सर्वस्तोम उभयसामा रथन्तरपृष्ठो बृहत्पृष्ठो वाग्निष्टोमः १
प्र वो देवाय यद्वाहिष्ठमित्याज्यम् २
उभौ माधुच्छन्दसगार्त्समदौ प्रौगौ ३
माधुच्छन्दसानि पूर्वाणि तृचानि गार्त्समदान्युत्तराणि ४
वैश्वदेवं वा गार्त्समदानाम् ५
ऐकाहिकं वा प्रातःसवनम् ६
इन्द्र पिब तुभ्यं सुतो मदायेत्यैकाहिकादूर्ध्वं मरुत्वतीयात् ७
या त ऊतिरिति निष्केवल्यात् ८
पूर्वे तु बृहत्पृष्ठे ९
एकसूक्ते वा । पिबा सोममभि तमु ष्टुहीति ।
पूर्वस्योत्तमामुत्सृजति १०
एकाहात्तृतीयसवनम् ११
१०
॥11.11॥ स्वरसामप्रकरणम्
सप्तदशस्तोमाः स्वरसामानः १
रथन्तरं पृष्ठं प्रथमस्य बृहद्द्वितीयस्योभयसामा तृतीयो रथन्तरपृष्ठः २
स्वरपृष्ठाः कौषीतकेः ३
बृहद्रथन्तरे पवमानेषु ४
अग्निष्टोमाः पैङ्ग्यस्य ५
उक्थ्याः कौषीतकेः ६
आ यज्ञैर्बृहद्वयोऽग्न ओजिष्ठमित्याज्यानि सर्वत्रोत्तमाः परिहाप्य ७
ये त्र्यहस्य प्रथमस्य ते प्रउगाः ८
क्व स्य वीर इति प्रथमस्य स्वरसाम्नो मरुत्वतीयं कयाशुभीयं द्वितीयस्य गायत्सामेति तृतीयस्य ९
सामप्रगाथांश्च शस्त्वा कद्वतः प्रगाथान् १०
कं नव्य इति प्रथमे कदू न्वस्येति द्वितीय इमा उ त्वा पुरूवसो इति तृतीये बृहतश्च योनिः ११
यस्ते साधिष्ठ इत्युत्तमां परिहाप्यार्वाग्रथमिति च प्रथमे गायन्ति त्वापादित उदु नश्चित्रतम इति द्वितीय इन्द्रं विश्वाः सं च त्वे जग्मुरिति तृतीये १२
इति बृहद्रथन्तरपृष्ठानाम् १३
यज्जायथा अपूर्व्येति स्तोत्रियः स्वरपृष्ठानाम् १४
यदिन्द्र चित्र मेहनेति द्वे या इन्द्र भुज इति तृतीयानुरूपस्य १५
मत्स्यपायि ते मह इति वा द्वितीयस्य । प्रथमां तृतीयां करोति १६
मत्सि नो वस्यैष्टय इति द्वे वयं घ त्वेति तृतीयानुरूपस्य १७
प्रत्यस्मै पिपीषत इति वा तृतीयस्य चतुर्थीं तृतीयां करोति १८
इममिन्द्र सुतं पिबेति द्वे क ईं वेदेति तृतीयानुरूपस्य १९
११
॥11.12॥ स्वरसामप्रकरणम्
यतो बृहतीकः स्तोत्रियः स्यात्ततो बृहतीकोऽनुरूपः कार्यः १
धाय्यां शस्त्वा कद्वतश्च रथन्तरस्य योनिं प्रथमे बृहतो द्वितीय उभयोस्तृतीये २
पूर्वां सर्वत्र रथन्तरस्य ३
यमिन्द्र दधिष इति द्वे प्रथमे स्वरन्ति त्वेति द्वितीये दाना मृगो न वारण इति तृतीये ४
इन्द्र तुभ्यमिन्मघवन्निति नवानां तिस्रस्तिस्रोऽन्वहं पूर्वाणि च सूक्तानि ५
तृचानि वोद्धृत्योभयानि सूक्तानि ६
स्वरयोनिषु चोल्हयोः ७
प्रागानुष्टुभात्तृचाद्वा प्रगाथेन संशंसति ८
प्रथमात्त्य्रहात्तृतीय-सवनानीति बृहद्रथन्तरपृष्ठानाम् ९
प्रतिपदश्च स्वरपृष्ठानाम् १०
स्वरयोनीनां च ११
अनुचरप्रभृति समूल्हान्मध्यमात्त्य्रहात् १२
उद्धृत्य तु वैश्वदेवाना-मुत्तमानि सूक्तानि तृचं च प्र वः पान्तं रघुमन्यवस्तं प्रत्नथा कदित्थेति करोति १३
अग्निरिन्द्र इति वा प्रथमे १४
प्र ये शुम्भन्त इति च मारुतम् १५
देवान्हुव इति द्वितीये १६
उषासानक्तेति तृतीये १७
१२
॥11.13॥ विषुवत्प्रकरणम्
एकविंशस्तोमं बृहस्पृष्ठं महादिवाकीर्त्यं वाग्निष्टोमो विषुवान् १
पुरादित्य-स्यास्तमयात्संस्याप्यः २
उदिते प्रातरनुवाकः ३
यथाप्रकृति वा ४
अग्निं मन्ये पितरमित्युदिते प्रतिपत्प्रातरनुवाकस्य ५
शतं दशशतं विंशतिशतं वानुब्रूयात् ६
वासिष्ठमाप्रीसूक्तम् ७
सौर्यः पशुरुपालम्भ्यः सवनीयस्य ८
चित्रं देवानामिति पुरोनुवाक्यास्तिस्र उत्तरा याज्याः सौर्यस्य ९
उपांशु १०
समुद्रादूर्मिरित्याज्यम् ११
त्रैष्टुभः प्रउगः १२
मध्यमाच्छन्दोमात्त्रीणि तृचानि प्रथमे चोत्तमं च १३
प्रथमात्त्रीणि १४
आश्विने तु भानुमती तृतीया १५
प्र ब्रह्मैतु सदनादिति वैश्वदेवम् १६
ऐकाहिकं वा प्रातःसवनम् १७
प्र वो देवाय त्वं हि क्षैतवदिति वा तदाज्यम् १८
माधुच्छन्दसश्च १९
कया शुभा त्यं सुमेषं जनिष्ठा उग्र इति मरुत्वतीयम् २०
श्रायन्त इव सूर्यमिति स्तोत्रियो ऽस्वयोनौ बृहति २१
यद्द्याव इन्द्रेत्यनुरूपः २२
महादिवाकीर्त्यं वा २३
चित्रं देवानामिति स्तोत्रियो महादिवाकीर्त्यस्य २४
उत्तरे च २५
उत्सूर्यो बृहदर्चींषीति तृतीयानुरूपस्य २६
बण्महानुदु त्यद्दर्शतमिति वा स्तोत्रिया-नुरूपौ प्रगाथौ २७
विभ्राड् बृहदिति वा स्तोत्रियो वि सूर्यो मध्य इत्यनुरूपः २८
विश्वाहा त्वा सुमनस इति वा २९
बण्महानिति सामप्रगाथः ३०
यः सत्राहा विचर्षणिरिति वा ३१
रथन्तरस्य योनिं स्वयोनौ बृहति ३२
उभयोरस्वयोनौ ३३
महादिवाकीर्त्ये च ३४
१३
॥11.14॥ विषुवत्प्रकरणम्
यद्येने पवमाने सामगाः कुर्युः १
नाक्रियमाणयोः शंसेत् २
इन्द्रः किलेत्युक्थमुखीयाः ३
शं नो भव चक्षसेति महादिवाकीर्त्ये ४
द्यौर्नय इन्द्रेति सूक्तं स्वयोनौ बृहति ५
य एक इद्धव्य इत्यस्वयोनौ ६
महादिवाकीर्त्ये च ७
तमु ष्टुहीत्युद्धृतबृहद्रथन्तरे ८
अभि त्यं मेषम् ९
ऋतुर्जनित्रीयस्य नव शस्त्वा सर्वहरेर्वा निविदम् १०
आ सत्यो यातु ११
विश्वजित इत्युत्तमां परिशिष्य १२
आहूय दूरोहणं रोहति १३
हंसः शुचिषदिति पच्छो ऽर्धर्चशस्त्रिपच्छोऽनवानं त्रिपच्छोऽर्धर्चशः पच्छः १४
उत्तमामुपसंशस्य १५
एष प्र पूर्वीः १६
पतङ्गमक्तम् १७
उरुं नः १८
इति पैङ्ग्यम् १९
अथ कौषीतकम् २०
समानमोक्थमुखीयायाः २१
ऋतुर्जनित्रीयमुद्धृतबृहद्रथन्तरे २२
तस्यैवैकादश स्वयोनौ २३
नवान्यत्र २४
एन्द्र याहि हरिभिरिति पञ्चदशोद्धृत्य साव्यम् २५
बरोरेकादश शस्त्वा निविदम् २६
अभूरेक इति साव्यस्य स्थाने २७
तार्क्ष्यः पूर्वः पतङ्गात् २८
एकशतं निष्केवल्यम् २९
प्रथमात्सावित्रम् ३०
द्वितीयाद्द्यावापृथिवीयम् ३१
षष्ठादार्भवमारुते ३२
देवान्हुव इति वैश्वदेवम् ३३
तृतीयाद्वैश्वानरीयम् ३४
मूर्धानं मूर्धा दिव इत्यग्निष्टोमसाम्नः स्तोत्रियानुरूपौ ३५
वेदिषद इति जातवेदसीयम् ३६
आवृत्ताः स्वरसामानः ३७
१४
॥11.15॥ विश्वजित्प्रकरणम्
विश्वजित्सर्वस्तोमः सर्वपृष्ठो बृहत्पृष्ठो वाग्निष्टोमः १
अग्निं नर इत्याज्यम् २
त्वं हि क्षैतवदिति बृहत्पृष्ठस्य ३
माधुच्छन्दसः प्रउगः ४
चतु-र्विंशान्मध्यन्दिनः ५
वैराजस्य स्तोत्रियानुरूपौ शस्त्वा सर्वपृष्ठे प्रगाथं च रथन्तरस्य योनिं बृहतश्च ६
अनुचरप्रभृति षष्ठात्तृतीयसवनम् ७
कथा देवानामिति वैश्वदेवं सात्त्रिकस्य बृहत्पृष्ठस्य ८
आनोभद्रीयमेकाहस्य ९
सर्वपृष्ठे विश्वजिति पुरस्तान्मारुतस्य सूक्तस्य होतैवयामरुतं शंसति १०
जगतीशंसमन्यूङ्खम् ११
पङ्क्तिशंसं वा न्यूङ्खम् १२
अन्यूङ्खं वा १३
त्वमग्ने यज्ञानामित्याग्निष्टोमसाम्नः स्तोत्रियानुरूपौ स्तोत्रियानुरूपौ १४
१५
इति शाङ्खायनसूत्र एकादशोऽध्यायः समाप्तः