शाङ्खायनश्रौतसूत्रम्/अध्यायः १०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०९ शाङ्खायनश्रौतसूत्रम्
अध्यायः १०
[[लेखकः :|]]
अध्यायः ११ →


॥10.1॥ गवामयने चतुर्विंशतिरहानिप्रकरणम
शुद्धपक्षस्याष्टम्यां द्वादशाहाय दीक्षन्ते १
द्वादश दीक्षाः २
द्वादशोपसदः ३
सुत्यान्यहानि द्वादश ४
अतिरात्रः सुत्यानां प्रथमं चोत्तमं च ५
मध्ये दशरात्रः ६
पृष्ठ्यः षलहः ७
त्रयश्छन्दोमाः ८
दशममहः ९
अयं यज्ञ इति याज्या हारियोजनस्य १०
अननुवषट्कृत एवासंप्रेषितो मैत्रावरुणः परा याहि मघवन्नित्यनूच्य जायेदस्तमिति वेह मद एव मघवन्नित्यतिप्रैषमाह द्वितीयप्रभृतिषु ११
प्रायणीये वा यथासमाम्नातम् १२
श्वः सुत्या वामिंद्राग्नी तां वां प्रब्रवीमि विश्वेभ्यो देवेभ्यो ब्राह्मणेभ्यः सोम्येभ्यः सोमपेभ्यो ब्रह्मन्वाचं यच्छेत्याग्नीध्रः स्वस्य धिष्ण्यस्य पश्चादुपविश्य १३
नित्यमेतत्प्रागुत्तमादह्नः १४
पत्नीसंयाजान्तता १५
आशिषामनिर्वचनम् १६
नामधेयाग्रहणं च १७
प्रायणीयोदयनीययोः सारस्वतः १८
माधुच्छन्दसे वा १९
द्विरात्रप्रभृतिष्वहः-
संघातेषु यत्र होताश्विनं शंसेत्तत्र मैत्रावरुणः प्रातरनुवाकमनुब्रूयात् २०

॥10.2॥ दशरात्रे प्रथममहः
त्रिवृत्स्तोमं रथन्तरपृष्ठमग्निष्टोमः प्रथमं दाशरात्रिकम् १
उप प्रयन्तो अध्वरमित्याज्यं व्यूल्हे प्र वो देवायेति समूल्हे २
माधुच्छन्दसः प्रउगः ३
आ यात्विन्द्रोऽवस इति मरुत्वतीयम् ४
आ न इन्द्रो दूरादिति निष्केवल्यम् ५
अग्ने वर्चस्विन्वर्चस्वी त्वं देवेष्वसि वर्चस्व्यहं मनुष्येषु भूयासमित्यतिग्राह्यं भक्षयति ६
युञ्जते मन इहेह वो हयो न विद्वानित्युत्तमे वा परिहाप्येति वैश्वदेवे विकारः ७
पञ्चजनीया परिधानीया सर्वत्र वैश्वदेवस्य ८
प्र शर्धाये-त्याग्निमारुते ९
सप्तात ऊर्ध्वमुक्थ्यानि १०
षोलश्यन्तं चतुर्थम् ११

॥10.3॥ दशरात्रे द्वितीयमहः
पञ्चदशस्तोमं बृहत्पृष्ठं द्वितीयं १
अग्निं दूतं वृणीमह इत्याज्यं व्यूल्हे २
त्वं हि क्षैतवदिति समूल्हे सर्वत्रोत्तमां परिहाप्य ३
गार्त्समदः प्रउगः ४
वायो ये ते सहस्रिण इति द्वे तीव्राः सोमास आ गहीत्येका शुक्रस्याद्येत्येकोभा देवा दिविस्पृशेति द्वे अयं वां मित्रावरुणेति चत्वारि तृचान्युत स्या नः सरस्वती घोरेति प्रउगतृचानि ५
विश्वानरस्य व इन्द्र इत्सोमपा इति मरुत्वतीयस्य प्रतिपदनुचरौ ६
उत्तिष्ठ ब्रह्मणस्पत इति ब्राह्मणस्पत्यः प्रगाथः ७
इन्द्र सोमं सोमपत इति मरुत्वतीयम् ८
या त ऊतिरिति निष्केवल्यम् ९
इन्द्रौजस्विन्नोजस्वी त्वं देवेष्वस्योजस्व्यहं मनुष्येषु भूयासमित्यतिग्राह्यं भक्षयति १०
विश्वो देवस्येति वैश्वदेवस्य प्रतिपत् ११
अस्य हि स्वयशस्तर-मित्युत्तरे १२
आ विश्वदेवमित्यनुचरः १३
तद्देवस्य ते हि द्यावापृथिवी यज्ञस्य व इति वैश्वदेवे विकारः १४
पृक्षस्य वृष्णो वृष्णे शर्धाय नू चित्सहोजा
इत्याग्निमारुते १५

॥10.4॥ दशरात्रे तृतीयमहः
सप्तदशस्तोमं वैरूपपृष्ठं तृतीयम् १
युक्ष्वा हि देवहूतमानित्याज्यं व्यूल्हे २
त्वमग्ने वसूनिति समूल्हे सर्वत्रोत्तमां परिहाप्य ३
औष्णिह आत्रेयः प्रउगः ४
वायवा याहि वीतय इत्येका वायो याहि शिवेति द्वे इन्द्रश्च वायवेषां सुतानामिति द्वे अयं सोमश्चमूसुत इत्येका मित्रे वरुणेऽश्विनावहे गच्छतमा याह्यद्रिभिः सजूर्विश्वेभिर्देवेभिरुत नः प्रियेति प्रउगतृचानि ५
तं तमित्त्रय इन्द्रस्य सोमा इति मरुत्वतीयस्य प्रतिपदनुचरौ ६
प्रैतु ब्रह्मणस्पतिरिति ब्राह्मणस्पत्यः प्रगाथः ७
त्र्यर्यमेति मरुत्वतीयम् ८
यद्द्याव इन्द्र यदिन्द्र यावत इति वैरूपस्य स्तोत्रियानुरूपौ प्रगाथौ ९
इन्द्र त्रिधात्विति सामप्रगाथः १०
अहं भुवं यो जात इति निष्केवल्यम् ११
सूर्य भ्राजस्विन्भ्राजस्वी त्वं देवेष्वसि भ्राजस्व्यहं मनुष्येषु भूयासमित्यतिग्राह्यं भक्षयति १२
अभि त्वा देवेत्यनुचरः १३
उदु ष्य देवः सविता हिरण्यया घृतवती भुवनानामिति तृचावनश्वो जातः परावत इति वैश्वदेवे विकारः १४
वैश्वानराय धिषणां
धारावरास्त्वमग्ने प्रथमो अङ्गिरा ऋषिरित्याग्निमारुते १५

॥10.5॥ दशरात्रे चतुर्थमहः
एकविशस्तोमं वैराजपृष्ठं चतुर्थम् १
आग्निं न स्ववृक्तिभिरित्याज्यं व्यूल्हे ऽग्निं नर इति समूल्हे २
आनुष्टुभः प्रउगः ३
वायो शुक्रो अयामि त इत्येका वि हि होत्रा इति द्वे इन्द्रश्च वायवेषां सोमानां यश्चिकेता नो विश्वाभिरूतिभिरा त्वा गिरोऽपत्यमित्येका यूयं हि ष्ठेति द्वे इयमददादिति प्रउगतृचानि ४
प्रणो देवीति समूल्हे ५
तं त्वा यज्ञेभिरिति प्रतिपन्मरुत्वतीयस्य ६
ये त्र्यहस्य प्रथमस्य त उत्तरस्यानुचराः सब्राह्मणस्पत्याः ७
श्रुधी इवमिन्द्रेन्द्र मरुत्व इमं नु मायिनमिति तृचाविति मरुत्वतीयम् ८
पिबा सोममिन्द्र मन्दतु त्वेति वैराजस्य स्तोत्रियानुरूपौ न्यूङ्खम् ९
मध्यमस्य पादस्य द्वितीयसप्तमयोर-क्षरयोर्द्विष्पूर्वं द्विरुत्तरमित्यानुष्टुभः १०
यं तो३ ओ३ सुषाव हर्यो३ ओ३ श्वाद्रिरिति ११
द्वितीयेऽक्षरे द्वादशकृत्व एकैकं दीर्घं ह्रस्वांस्त्रींस्त्रीनन्तरेणेति वैराजः १२
यं तो सुषावेति १३
द्वितीयचतुर्थयोरक्षरयोः प्रतिगरस्यानुष्टुभः प्रतिन्यूङ्खः १४
द्वितीये वैराजः १५
ओथो३ ओ३ मोदो३ ओ३ एवेति १६
ओथो मोदैवेति १७
इन्द्रमिद्देवतातय इति सामप्रगाथः १८
तुभ्येदिमेति तिसृणां पूर्वयोर्न्यूङ्खः १९
कुह श्रुतो यध्मस्य ते त्यमु वः सत्रासाहमिति तिस्र इति निष्केवल्यम् २०
द्वितीयादह्नः प्रतिपत् २१
हिरण्यपाणिमित्यनुचरः २२
आ देवो यातु सविता सुरत्नः प्र द्यावा यज्ञः पृथिवी नमोभिः प्र ऋभुभ्यः प्र शुक्रैतु देवीति वैश्वदेवे विकारः २३
प्र सम्राजः क ईं व्यक्ता हुवे वः सुद्योत्मानमित्याग्निमारुते २४

॥10.6॥ दशरात्रे पञ्चममहः
त्रिणवस्तोमं शाक्वरपृष्ठं पञ्चमम् १
इममू ष्विति नवर्चमाज्यं व्यूल्हेऽग्निं तं मन्य इति समूल्हे २
तस्य प्रथमायै पदमवगृह्य पदमवगृह्य द्वे अवगृह्यैकेन प्रणौति ३
पङ्क्तिशंसं पराः ४
बार्हतः प्रउगः ५
आ नो यज्ञं दिविस्पृशमिति द्वे आ नो वायवित्येकाऽवां सहस्रमिति तिस्र ऋधगित्थेति द्वे प्र मित्रायेत्येकेमा उ वां दिविष्टय आ नो विश्वासु हव्यो देवं देवं वोऽवसे देवं देवमियमददादिति प्रउगतृचानि ६
उत स्या नः सरस्वती घोरेति समूल्हे ७
यत्पाञ्चजन्ययेति मरुत्वतीयस्य प्रतिपत् ८
इत्था हि सोमेऽवितासि मरुत्वाँ इन्द्र वृषभोऽयं ह येनेति तिस्र इति मरुत्वतीयम् ९
महानाम्न्यः स्तोत्रियः १०
यथा तिस्रो ऽनुष्टुभस्तथैकैका ११
उत्तमायाः पङ्क्तिरुत्तमा १२
उत्तमार्धे च पञ्च पदानि पच्छः पुरीषमित्याचक्षते तन्निविच्छंसम् १३
प्रत्यस्मै पिपीषते यो रयिवो रयिंवमस्त्यमु वो अप्रहणमिति त्रयस्तृचा अस्मा अस्मा इति दशम्येवा ह्यसि वीरयुरिति वा सोऽनुरूपः १४
यदिन्द्र नाहुषीष्वेति सामप्रगाथः १५
इन्द्रो मदाय प्रेदं ब्रह्माभूरेकस्तमिन्द्रं वाजयामसीति तिस्र इति निष्केवल्यम् १६
तत्सवितुर्वरेण्यमित्यनुचरः १७
उदु ष्य देवः सविता दमूना इति तिस्रो मही द्यावापृथिवी इति चतस्र ऋभुर्विभ्वा को नु वां मित्रावरुणौ प्र शंतमेति वा वैश्वदेवे विकारः १८
हविष्पान्तं वपुर्न्वग्निर्होता गृहपतिरिति तिस्र इत्याग्निमारुते १९
मूर्धानमा रुद्रास इममू ष्विति नवेति समूल्हे २०

॥10.7॥ दशरात्रे षष्ठमहः
त्रयस्त्रिंशस्तोमं रैवतपृष्ठं षष्ठम् १
नित्याभिर्याज्याभिः पारुच्छेपीः संधाय यजन्ति २
आ त्वा जुव आ वां धिय इत्यैन्द्रवायवस्य पुरोनुवाक्ये ३
स्तीर्णं बर्हिरा वां रथ इति याज्ये ४
सुषुमेति मैत्रावरुणस्य पुरोनुवाक्योत्तरा याज्या ५
युवां स्तोमेभिरित्याश्विनस्य पुरोनुवाक्योत्तरा याज्या ६
वृषन्निन्द्र तां वां धेनुं विश्वेषु हि त्वा मो षु वो अस्मदा यन्नः पत्नीस्ता नो रासन्निति नेष्टुर्द्विपदा त्रिष्टुप्चाग्निं होतारं दध्यङ् हेति प्रातःसवने प्रस्थितानां यजन्ति ७
तुभ्यं हिन्वान इति सूक्तयोरेकैकोर्ध्वमृतुप्रैषेभ्यः ८
स्वयं यजतोऽध्वर्युर्गृहपतिश्च ९
चित्यस्य पश्चादुपविश्याध्वर्युः शालामुखीयस्य गृहपतिः १०
पिबा सोममिन्द्र सुवानमिन्द्राय हि द्यौस्त्वया वयं मघवन्पाहि न इन्द्र नू इत्था तेऽवर्मह इन्द्र वनोति हि सुन्व न्नति माध्यन्दिने विकारः ११
उत माता बृहद्दिवेति
नेष्टुस्तृतीयसवने १२
अनवानन्तो यजन्ति १३
ऐकाहिकीभिर्वा १४

॥10.8॥ दशरात्रे षष्ठमहः
अयं जायतेत्याज्यम् १
आतिच्छन्दसः प्रउगः २
स्तीर्णं बर्हिरा वां रथोऽयं मित्राय युवां स्तोमेभिर्वृषन्निन्द्रेत्येकाऽवर्मह इन्द्रेति द्वे ओ षू णो अग्न इयमददादिति प्रउगतृचानि ३
उत नः प्रियेति समूल्हे ४
स पूर्व्य इति प्रतिपन्मरुत्वतीयस्य ५
यं त्वं रथं स यो वृषा मरुत्वां इन्द्र मीढ्व इति तिस्र इति मरुत्वतीयम् ६
रेवतीर्नो रेवाँ इद्रेवत इति रैवतस्य स्तोत्रियानुरूपौ ७
मा चिदन्यदिति सामप्रगाथः ८
एन्द्र याह्युप प्र घा न्वस्योप नो हरिभिरिति तिस्र इति निष्केवल्यम् ९
अभि त्यं देवमिति प्रतिपद्वैश्वदेवस्य १०
तस्याः षोलशाक्षरेण विगृह्याष्टादशाक्षरेण प्रणुत्य पञ्चदशाक्षरेणावसाय पञ्चदशाक्षरेण ११
अस्य हि स्वयशस्तरमित्युत्तरे १२
तृतीयादह्नोऽनुचरः १३
उदु ष्य देवः सविता सवाय कतरा पूर्वा किमु श्रेष्ठ इदमित्थेत्युत्तमे परिशिष्य ये यज्ञेनेति शस्त्वा परिशिष्टे शंसतीति वैश्वदेवे विकारः १४
अहश्च कृष्णं प्रयज्यव इमं स्तोममित्याग्निमारुते १५
मध्यमात्त्र्यहान्निष्केवल्यमरुत्वतीययोरुत्तमांस्तृचा-न्समूल्ह उत्सृजति १६
स्वस्ति नो मिमीतामिति च तिस्रोऽन्ते वैश्वदेवानां करोति १७
ततं म इत्यार्भवं चतुर्थस्य १८
प्र यन्तु वाजा इति च तिस्रोऽन्ते मारुतस्य १९
वसुं न चित्रमहसमिति जातवेदसीयम् २०
परोक्षपृष्ठस्य बृहद्रथन्तरपृष्ठस्योपाङ्क्यपृष्ठस्यापर्क्यपृष्ठस्य तनूपृष्ठस्य च्छन्दोरुट्स्तोमस्य च च्छन्दोगवशेन स्तोत्रियानुरूपान्सामप्रगाथांश्च २१
समानमन्यत्समूल्हेन २२
तथा विश्वजिति २३

॥10.9॥ दशरात्रे सप्तममहः
चतुर्विंशस्तोमं बृहत्पृष्ठमुभयसाम सप्तमम् १
प्र वः शुक्रायेत्याज्यम् २
त्रैष्टुभः प्रउगः ३
प्र वीरया ते सत्येनोद्वां चक्षुरा गोमता नो देव प्र वो यज्ञेषु प्र चोदसेति प्रउगतृचानि ४
ये त्र्यहस्य प्रथमस्य प्रतिपदनुचराः सब्राह्मणस्पत्यास्ते छन्दोमेषु स्वरसामस्वभिप्लवे च ५
प्रथमादेव प्रथमस्याह्नश्छान्दोमिकस्य ६
द्वितीयाद्द्वितीयस्य ७
तृतीयात्तृतीयस्य ८
एवं त्र्यहस्य पूर्वस्याभि-प्लविकस्य ९
एवमुत्तरस्य १०
एवं स्वरसाम्नाम् ११
कया शुभा त्यं सु मेषमिति मरुत्वतीयम् १२
तमु ष्टुह्यभि त्यं मेषमिति निष्केवल्यम् १३
न कण्वरथन्तरस्य योनिमनुशंसेत् १४
ये प्रथमयोरह्नोः प्रतिपदनुचरा वैश्वदेवस्य ते छन्दोमेष्वभिप्लवे च १५
तत्सवितुर्वरेण्यं प्रेतां यज्ञस्यायं देवायेति तृचानृजुनीतीति पञ्चा याहि वनसा सहौमासश्चर्षणीधृत इति तिस्र इति वैश्वदेवे विकारः १६
वैश्वानरो न ऊतये ।
वैश्वानरो न आ गमदिमं यज्ञं सजूरुप।
अग्निरुक्थेन वाहसा ।।
वैश्वानरो अङ्गिरसां स्तोमं यज्ञं च जीजनत् ।
ऐषु द्युम्नं स्वर्यमत् ।।
प्र यद्वस्त्रिष्टुभमिति पञ्चदश नव वार्चन्तस्त्वेत्याग्निमारुते १७

॥10.10॥ दशरात्रे अष्टममहः
चतुश्चत्वारिंशस्तोमं रथन्तरपृष्ठमष्टमम् १
अग्निं वो देवमित्याज्यम् २
त्रैष्टुभः प्रउगः ३
कुविदङ्गेति प्रथमातृतीये आ वायो भूषेति चैका यावत्तरः प्रति वां सूर उदितेऽप स्वसुरयं सोमः प्र ब्रह्माण उत स्या नः सरस्वती जुषाणेति प्रउगतृचानि ४
महाँ इन्द्रो नृवदिमा उ त्वा पुरुतमस्य क्व स्य वीर इति सर्वत्र चतस्र उत्तमाः परिहाप्य महश्चित्तमस्य द्यावापृथिवी इति मरुत्वतीयम् ५
त्वं महाँ इन्द्र तुभ्यं हत्वं महाँ इन्द्र यो हापूर्व्या तां सु ते कीर्तिमिमां ते धियमिति निष्केवल्यम् ६
हिरण्यपाणिमूतय इति चतस्रो मही द्यौर्युवाना पितरेति तृचौ
देवानामिदिमा नु कं विश्वे देवा ऋतावृध इति तिस्र इति वैश्वदेवे विकारः ७
वैश्वानरो अजीजनदग्निर्नो नव्यसीं मतिम् ।
क्ष्मया वृधान ओजसा ।।
वृषा पावक दीदिह्यग्ने वैश्वानर द्युमत् ।
जमदग्निभिराहुतः ।।
ऋतावानं वैश्वानरं कद्ध नूनं कधप्रियो दूतं वो विश्ववेदसमित्याग्निमारुते ८
१०
॥10.11॥ दशरात्रे नवममहः
अष्टाचत्वारिंशस्तोमं बृहत्पृष्टं नवमम् १
अगन्म महा सोमस्य मा तवसमित्याज्यम् २
पूर्वं वा ३
त्रैष्टुभः प्रउगः ४
आ वायो भूषेति प्रथमातृतीये चोत्तमा च द्वितीयाचतुर्थ्यौ चार्वन्तो न अवस इति च दिवि क्षयन्ता विश्ववारेन्द्रं नर ऊर्ध्वो अग्निः प्र क्षोदसेति प्रउगतृचानि ५
त्र्यर्यमेन्द्रो रथाय तिष्ठा हरी गायत्साम प्र मन्दिन इति मरुत्वतीयम् ६
आ सत्यो यात्वस्मा इदु द्यौर्न य इन्द्र तत्त इन्द्रियमहं भुवं विश्वजित इति निष्केवल्यम् ७
अभि त्वा देव प्र वां महि द्यवी इति तृचाविन्द्र इष इत्येका ते नो रत्नानीति द्वे अग्निरुक्थैतिप्रभृति पञ्च मनोः सूक्तानि ये त्रिंशतीत्युपोत्तमामुद्धृत्य न हि वो अस्त्यर्भक इत्येका ऽशर्मेति चतस्रो बभ्रुरेक इति वा मनुप्रवल्हो विश्वे देवास आ गतेति तृचं
भारद्वाजमिति वैश्वदेवे विकारः ८
दिवि पृष्टो अरोचताग्निर्वैश्वानरो बृहन् ।
ज्योतिषा बाधते तमः ।।
स विश्वं प्रति चाकॢपदृतूनुत्सृजते वशी ।
यज्ञस्य वय उत्तिरन् ।।
अग्निः परेषु धामसु ।।मरुतो यस्याग्निर्होता पुरोहित इत्याग्निमारुते ९
यानि त्र्यहस्य प्रथमस्य प्रातःसवनतृतीयसवनानि तानि समूल्हे छन्दोमानाम् १०
निष्केवल्यमरुत्वतीययोश्च जागतान्युत्सृजति ११
स यो वृषेति पञ्चदशोर्ध्वं कयाशुभीयात् १२
यो जात इति तमुष्टुहीयात् १३
बृहद्रथन्तरपृष्ठे द्विषूक्ताः सर्वे १४
११
॥10.12॥ दशरात्रे दशममहः
अविवाक्यं चतुर्विंशस्तोमं दशममहः १
त्रयस्त्रिंशमग्निष्टोमसाम २
त्रिकं मानसम् ३
वामदेव्यस्य योनौ रथन्तरं पृष्ठम् ४
अप्रतिभायामन्यः स्वाध्यायम् ५
उद्धृत्यानुष्टुभमितरेषां छन्दसां संपदानुष्टुभां पञ्चदशं सहस्रमेकस्मिन्सवनीये ६
द्वात्रिंशतं गायत्र्यः ७
अग्निं नरः प्रति ष्या सूनर्या शुभ्रेति तृचाननुष्टुभां स्थाने ८
चतुर्विंशतिं त्रिष्टुभः ९
तथा जगत्यः १०
पञ्चदश प्रागाथान् ११
औष्णिहाँश्च तृचान्पञ्चदश १२
पाङ्क्तानि च १३
अनुष्टुभां प्रातरनुवाकः पञ्चदशे शते १४
तृतीयाचतुर्थ्यौ स्तोक्यानामुद्धृत्याभि प्रवन्तेति द्वे १५
अच्छा नः शीरशोचिषमिति तिस्रोऽच्छा वो अग्निमवस इत्येतासां स्थाने १६
प्रति
श्रुतायेति तिस्रः प्रत्यस्मै पिपीषत इत्येतासां स्थाने १७
१२
॥10.13॥ दशरात्रे दशममहः
अग्ने तमद्येत्याज्यम् १
तस्य प्रथमायां पञ्चाक्षरेण विगृह्य द्वाभ्यां पञ्चाक्षराभ्यामवसाय द्वाभ्यां प्रणौति २
माधुच्छन्दसः प्रउगः ३
द्वाविंशतिं गायत्र्यः ४
मृजानो वारे पवमानो अव्यय इति ग्रावस्तुतो याथाकाम्यम् ५
उत्तिष्ठन्नोजसेत्येकोत्तिष्ठतावपश्यतेत्येतस्याः स्थाने ६
त्रिकद्रुकीया प्रतिपन्मरुत्वतीयस्य ७
तस्याः षोलशाक्षरेण विगृह्य षोलशाक्षरेण प्रणुत्य
षोलशाक्षरेणावसाय षोलशाक्षरेण ८
तुविशुष्मेत्युत्तरे ९
बृहदिन्द्रायेति सूक्तात्पूर्वौ प्रगाथौ पिन्वन्त्यपीयया संशंसतीति मरुत्वतीयम् १०
वामदेव्यस्य स्तोत्रियानुरूपौ शस्त्वोर्ध्वं धाय्याया राथन्तरं प्रगाथं स्तोत्रियानुरूपौ च ११
सखाय आ शिषामहीति नव १२
आ धूर्ध्वस्मै वज्रमेक इति च द्विपदे १३
हैरण्यस्तूपीयं च १४
प्राग्धैरण्यस्तूपीयात्प्रगाथेन संशंसति १५
इति निष्केवल्यम् १६
षष्ठात्प्रतिपदनुचरौ वैश्वदेवस्य १७
पुरस्ताच्चानोभद्रीयात्प्र-शुक्रीयमिति वैश्वदेवे विकारः १८
उरु विष्णवित्युद्धृत्य भवा मित्र इति यजति १९
अग्निं नर इत्यग्निष्टोमसाम्नः स्तोत्रियानुरूपौ २०
आयं गौर्मही द्यौरिति स्तोत्रियानुरूपौ २१
तं प्रत्नथेति त्रयोदश २२
यज्ञो बभूवेति परिधाय २२
प्रजापत इति यजति २३
उक्थैराहावो व्याख्यातः २४
इति समूल्हे ऽतिरिक्तोक्थम् २५
पुरा पत्नीसंयाजेभ्यः संस्थाप्य वा गार्हपत्ये हुत्वा पूर्वया द्वारा सदः प्रपद्य स्वस्य धिष्ण्यस्य पश्चादुपविश्य मानसेन स्तुत आयं गौरिति सार्पराज्ञीः पराङुपांश्वप्रणुवन् २६
अध्वर्यो३ इत्यामन्त्रितो होयि होतरिति सर्वत्र
प्रतिशृणोति २७
ॐ होतस्तथा होतरित्याचक्षाणेऽनुगृणाति २८
१३
॥10.14॥ दशरात्रे दशममहः
अध्वर्यो३ इति दशहोतरि वदिष्यन् १
प्रजापतिरकामयत बहुः स्यां प्रजायेय सर्वं वेदमनुष्याद्यदिदं किंचेति । स एतं दशहोतारं यज्ञक्रतुमपश्यदग्निहोत्रम् २
इत्युक्त्वाथोपांशु ३
चित्तिः स्रुक् । चित्तमाज्यम् । वाग्वेदिः । आधीतं बर्हिः । केतो अग्निः । विज्ञातमग्नीत् । वाचस्पतिर्होता । मन उपवक्ता । प्राणो हविः । सामाध्वर्युः । इति होतारः ४
अथ ग्रहः ५
वाचस्पते हृद्विधेनामन् । वाचस्पतिः सोममपादा अस्मासु नृम्णं धाः ६
इत्युपांशु ७
तेन देवान्मनुष्यानसुरानित्येतांस्त्रयानजनयत्प्रजापतिः । स येषां वा एवंविद्वान्होता भवति । प्र वै स होता प्रजया पशुभिर्जायते । प्र
ते यजमानाः प्रजया पशुभिर्जायन्ते येषामेवंविद्वान्होता भवतीति ८
१४
॥10.15॥ दशरात्रे दशममहः
अध्वर्यो३ इति चतुर्होतरि वदिष्यन् १
ते द्वया एवान्वावृत्ता आसन्देवाश्च मनुष्याश्च । पराञ्चो हास्मादसुरा आसन्सोऽकामयत वीरो म आजायेत येनेमानसुरानभिभवेयमिति । स एतं चतुर्होतारं यज्ञक्रतुमपश्यद्दर्शपूर्णमासौ २
इत्युक्त्वाथोपांशु ३
पृथिवी होता । द्यौरध्वर्युः । त्वष्टाग्नीत् । मित्र उपवक्ता । इति होतारः ४
अथ ग्रहः ५
वाचस्पते वाचो वीर्येण संभृततमेनायच्छसे । यज्ञपतये वसु वार्यमासंस्करसे । वाचस्पतिः सोमं पिबतु । जजनदिन्द्रमिन्द्रियाय स्वाहा ६
इत्युपांशु ७
तेनेन्द्रं वीरमजनयत्तत एनानसुरानभ्यभवत्प्रजापतिः । स येषां वा एवंविद्वान्होता भवति । आ वै तस्य होतुर्वीरो जायते । आ तेषां यजमानानां वीरा जायन्ते । अभि वै स होता द्विषन्तं भ्रातृव्यं भवति । अभि ते यजमाना द्विषतो भ्रातृव्यान् भवन्ति येषामेवंविद्वान्होता भवतीति ८
१५
॥10.16॥ दशरात्रे दशममहः
अध्वर्यो३ इति पञ्चहोतरि वदिष्यन् १
तस्मा इन्द्राय देवता ज्येष्ठ्याय श्रेष्ठ्याय नातिष्ठन्त । स एतं पञ्चहोतारं यज्ञक्रतुमपश्यच्चातुर्मास्यानि २
इत्युक्त्वा-थोपांशु ३
अग्निर्होता । अश्विनावध्वर्यू । रुद्रोऽग्नीत् । बृहस्पतिरुपवक्ता इति होतारः ४
अथ ग्रहः ५
वाचस्पतेऽछिद्रया वाचाछिद्रया जुह्वा । दिवि देवावृधन्होत्रामैरयस्व ६
इत्युपांशु ७
ततो वा इन्द्राय देवता ज्यैष्ठ्याय श्रैष्ठ्यायातिष्ठन्त । स येषां वा एवंविद्वान्होता भवति । तिष्ठन्ते वै तस्मै होत्रे स्वाः श्रैष्ठ्याय । तिष्ठन्ते तेभ्यो यजमानेभ्यः स्वाः श्रैष्ठ्याय येषा-
मेवंविद्वान्होता भवतीति ८
१६
॥10.17॥ दशरात्रे दशममहः
अध्वर्यो३ इति षड्ढोतरि वदिष्यन् १
सोऽकामयतान्नादः स्यामन्नपतिरिति । स एतं षड्ढोतारं यज्ञक्रतुमपश्यत्पशुबन्धम् २
इत्युक्त्वाथोपांशु ३
सूर्यस्ते चक्षुः । वायुः प्राणः । अन्तरिक्षमात्मा । यज्ञो नात्राणि । द्यौः पृष्ठम् । पृथिवी शरीरम् । इति होतारः ४
अथ ग्रहः ५
सोमः सोमस्य पिबतु शुक्रः शुक्रस्य पिबतु । श्रातास्त इन्द्र सोमा वातापे हवनश्रुतः ६
इत्युपांशु ७
ततो वै सोऽन्नादोऽन्नपतिरासीत् । स येषां वा एवंविद्वान्होता भवति । अन्नादो वै स होतान्नपतिर्भवति । अन्नादास्ते यजमाना अन्नपतयो भवन्ति येषामेवंविद्वान्होता भवतीति ८
१७
॥10.18॥ दशरात्रे दशममहः
अध्वर्यो३ इति सप्तहोतरि वदिष्यन् १
ते देवा अकामयन्त कॢप्ताः कॢप्तेषु लोकेषु स्यामेति । त एतं सप्तहोतारं यज्ञक्रतुमपश्यन्सौम्यमध्वरम् २
इत्युक्त्वाथोपांशु ३
महाहविर्होता । सत्यहविरध्वर्युः । अचित्तपाजा अग्नीत् । अचित्तमना उपवक्ता । अनाधृष्यश्चाप्रतिधृष्यश्चाभिगरौ । अयास्य उद्गाता । इति होतारः ४
अथ ग्रहः ५
वाचस्पते विधेनामन्विधेम ते नाम । विधेस्त्वमस्माकं नाम । मा देवानां तन्तुश्छेदि मा मनुष्याणाम् । सजूर्दिषा पृथिव्योपहूतः सोमस्य पिब स्वाहा ६
इत्युपांशु ७
ततो वै तेभ्योऽकल्पत । ते देवाः कॢप्ताः कॢप्तेषु लोकेष्वासन् । अप्यद्य कॢप्ताः कॢप्तेषु । स येषां वा एवंविद्वान्होता भवति । कल्पते वै तस्मै होत्रे योगक्षेमः । कल्पते तेभ्यो यजमानेभ्यो योगक्षेमः । अभि वै स होता स्वर्गं लोकमश्नुते प्रत्यस्मिं-ल्लोके प्रतितिष्ठति । अभि ते यजमानाः स्वर्गं लोकमश्नुवते प्रत्यस्मिंल्लोके प्रतितिष्ठन्ति येषामेवंविद्वान्होता भवतीति ८
१८
॥10.19॥ दशरात्रे दशममहः
तनूरतो वदति १
अध्वर्यो येषां वा अन्नादीं प्रजापते स्तन्वं विद्वान्होता भवत्यन्नादो वै स होता भवत्यन्नादास्ते यजमाना भवन्ति । अध्वर्यो येषां वा अन्नपत्नीं प्रजापतेस्तन्वं विद्वान्होता भवत्यन्नपतिर्वै स होता भवत्यन्नपतयस्ते यजमाना भवन्ति । अध्वर्यो येषां वै भद्रां प्रजापतेस्तन्वं विद्वान्होता भवति भद्रं वै तस्मै होत्रे भवति भद्रं तेभ्यो यजमानेभ्यो भवति । अध्वर्यो येषां वै कल्याणीं प्रजापतेस्तन्वं विद्वान्होता भवति कल्याणं वै तस्मै होत्रे भवति कल्याणं तेभ्यो यजमानेभ्यो भवति । अध्वर्यो येषां वा अनिलयां प्रजापते-स्तन्वं विद्वान्होता भवत्यनिलयो वै स होता भवत्यनिलयास्ते यजमाना भवन्ति अध्वर्यो येषां वा अपभयां प्रजापतेस्तन्वं विद्वान्होता भवत्यभयं वै तस्मै होत्रे भवत्यभयं तेभ्यो यजमानेभ्यो भवति । अध्वर्यो येषां वा अनाप्तां प्रजापतेस्तन्वं विद्वान्होता भवत्यनाप्तो वै स होता भवत्यनाप्तास्ते यजमाना भवन्ति । अध्वर्यो येषां वा अनाप्यां प्रजापतेस्तन्वं विद्वान्होता भवत्यनाप्यो वै स होता भवत्यनाप्यास्ते यजमाना भवन्ति । अध्वर्यो येषां वा अनाधृष्टां प्रजापतेस्तन्वं विद्वान्होता भवत्यनाधृष्टो वै स होता भवत्यनाधृष्टास्ते यजमाना भवन्ति । अध्वर्यो येषां वा अनाधृष्यां प्रजापतेस्तन्वं विद्वान्होता भवत्यनाधृष्यो वै स होता भवत्यनाधृष्यास्ते यजमाना भवन्ति । अध्वर्यो येषां वा अपूर्वां प्रजापते-स्तन्वं विद्वान्होता भवति न वै तस्माद्धोतुरन्यः पूर्वो भवति न तेभ्यो यजमानेभ्योऽन्ये पूर्वे भवन्ति । अध्वर्यो येषां वा अभ्रातृव्यां प्रजापतेस्तन्वं विद्वान्होता भवत्यभ्रातृव्यो वै स होता भवत्यभ्रातृव्यास्ते यजमाना भवन्ति
येषामेवंविद्वान्होता भवतीति २
१९
॥10.20॥ दशरात्रे दशममहः
गृहपतिरतो गृहपतिवदनम् १
अध्वर्यो येषां वै गृहपतिर्गृहपतिं विद्वा-न्गृहपतिर्भवति राध्नोति वै स गृहपती राध्नुवन्ति ते यजमानाः । अध्वर्यो येषां वा अपहतपाप्मानसेवंविद्वान्गृहपतिर्भवत्यप वै स गृहपतिः पाप्मानं हतेऽप
ते यजमानाः पाप्मानं घ्नते येषामेवंविद्वान्गृहपतिर्भवतीति २
२०
॥10.21॥ दशरात्रे दशममहः
प्रजापत इति मनसा यजति १
मनसा वषट्करोति २
मनसानुवषट्करोति ३
मनसा भक्षः ४
मनसोरोऽभिमर्शनम् ५
औदुम्बरीमन्वारभन्तेऽग्रेण धिष्णानासीनाः ६
पलाशशाखाभिर्ये नातिक्रामेयुः ७
उत्तमौ पाणी होता कुर्वीत ८
उत्तमोऽसानीति ९
अपिधाय सदसो द्वारौ शालायाश्चाध्वर्युर्वाच-मुपाकरोति । वाग्यताः संमील्यासत आ नक्षत्राणां दर्शनात् १०
नक्षत्रेषु दृश्यमानेषु मार्जालीयदेशे तच्चक्षुरिति नक्षत्रेषु चक्षुर्विसृजन्ते ११
सर्वे साम्नो निधनमुपेत्योत्तरस्य हविर्धानस्याधोऽक्षं सर्पन्ति १२
उत्तरस्योत्तरेण वा १३
युवं तमिन्द्रापर्वतेत्यक्षवेलायां जपित्वाग्रेण हविर्धाने समुपविश्य कामा-न्ध्र्यायन्ते यत्कामा भवन्ति १४
ये बहुकामा भूर्भुवः स्वरित्येतास्ते व्याहृतीर्जपेयुः १५
ते प्राञ्च उदञ्च उत्क्रम्य वाचं विह्वयन्ते वागैतु वागुपैतु वागुप मैतु वागिति १६
सुब्रह्मण्याप्रतीकं त्रिरुपांश्वभिव्याहृत्य वाचं विसृजन्ते १७
अत्र द्वादशाहः संतिष्ठते १८
कालवादो वा कालवादो वा १९
२१
इति शाङ्खायनसूत्रे दशमोऽध्यायः समाप्तः