ऋग्वेदः सूक्तं ४.५२

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ४.५१ ऋग्वेदः - मण्डल ४
सूक्तं ४.५२
वामदेवो गौतमः
सूक्तं ४.५३ →
दे. उषाः। गायत्री


प्रति ष्या सूनरी जनी व्युच्छन्ती परि स्वसुः ।
दिवो अदर्शि दुहिता ॥१॥
अश्वेव चित्रारुषी माता गवामृतावरी ।
सखाभूदश्विनोरुषाः ॥२॥
उत सखास्यश्विनोरुत माता गवामसि ।
उतोषो वस्व ईशिषे ॥३॥
यावयद्द्वेषसं त्वा चिकित्वित्सूनृतावरि ।
प्रति स्तोमैरभुत्स्महि ॥४॥
प्रति भद्रा अदृक्षत गवां सर्गा न रश्मयः ।
ओषा अप्रा उरु ज्रयः ॥५॥
आपप्रुषी विभावरि व्यावर्ज्योतिषा तमः ।
उषो अनु स्वधामव ॥६॥
आ द्यां तनोषि रश्मिभिरान्तरिक्षमुरु प्रियम् ।
उषः शुक्रेण शोचिषा ॥७॥


सायणभाष्यम्

‘ प्रति ष्या' इति सप्तर्चं सप्तमं सूक्तं वामदेवस्यार्षं गायत्रमुषोदेवताकम् ।' प्रति ष्या सप्त गायत्रम्' इत्यनुक्रमणिका । प्रतिरनुवाक उषस्ये क्रतौ गायत्रे छन्दस्याश्विनशस्त्रे चेदं शस्यम् । ‘ अथोषस्यः प्रति ष्या सूनरी ' ( आश्व. श्रौ. ४. १४ ) इति हि सूत्रितम् ॥


प्रति॒ ष्या सू॒नरी॒ जनी॑ व्यु॒च्छन्ती॒ परि॒ स्वसु॑ः ।

दि॒वो अ॑दर्शि दुहि॒ता ॥१

प्रति॑ । स्या । सू॒नरी॑ । जनी॑ । वि॒ऽउ॒च्छन्ती॑ । परि॑ । स्वसुः॑ ।

दि॒वः । अ॒द॒र्शि॒ । दु॒हि॒ता ॥१

प्रति । स्या । सूनरी । जनी । विऽउच्छन्ती । परि । स्वसुः ।

दिवः । अदर्शि । दुहिता ॥१

"स्या सो संस्तूयमाना "सूनरी सुष्ठु प्राणिनां नेत्री "जनी जनयित्री फलानां “स्वसुः स्वसृस्थानीयाया रात्रेः “परि उपरिभागे रात्रिपर्यवसानकाले “व्युच्छन्ती तमो विवासयन्ती । स्वसा स्वस्रे ज्यायस्यै' (ऋ. सं. १. १२४. ८ ) इत्युक्तम् । "दिवः द्योतमानस्यादित्यस्य “दुहिता उषाः “प्रति "अदर्शि प्रतिदृश्यते सर्वैः ॥


अश्वे॑व चि॒त्रारु॑षी मा॒ता गवा॑मृ॒ताव॑री ।

सखा॑भूद॒श्विनो॑रु॒षाः ॥२

अश्वा॑ऽइव । चि॒त्रा । अरु॑षी । मा॒ता । गवा॑म् । ऋ॒तऽव॑री ।

सखा॑ । अ॒भू॒त् । अ॒श्विनोः॑ । उ॒षाः ॥२

अश्वाऽइव । चित्रा । अरुषी । माता । गवाम् । ऋतऽवरी ।

सखा । अभूत् । अश्विनोः । उषाः ॥२

“अश्वेव “चित्रा चायनीया "अरुषी रोचमाना “गवां रश्मीनां “माता निर्मात्री “ऋतावरी यज्ञवती "उषाः "अश्विनोः “सखा समानख्याना सह स्तूयमाना "अभूत् भवति । अश्विनोः उषसा सह स्तूयमानत्वात् सखित्वं परस्परम् ॥


उ॒त सखा॑स्य॒श्विनो॑रु॒त मा॒ता गवा॑मसि ।

उ॒तोषो॒ वस्व॑ ईशिषे ॥३

उ॒त । सखा॑ । अ॒सि॒ । अ॒श्विनोः॑ । उ॒त । मा॒ता । गवा॑म् । अ॒सि॒ ।

उ॒त । उ॒षः॒ । वस्वः॑ । ई॒शि॒षे॒ ॥३

उत । सखा । असि । अश्विनोः । उत । माता । गवाम् । असि ।

उत । उषः । वस्वः । ईशिषे ॥३

"उत अपि च "अश्विनोः “सखा “असि। "उत अपि च "गवां रश्मीनां “माता "असि । "उत अपि च हे “उषः "वस्वः धनस्य “ईंशिषे ईश्वरा भवसि ॥


या॒व॒यद्द्वे॑षसं त्वा चिकि॒त्वित्सू॑नृतावरि ।

प्रति॒ स्तोमै॑रभुत्स्महि ॥४

य॒व॒यत्ऽद्वे॑षसम् । त्वा॒ । चि॒कि॒त्वित् । सू॒नृ॒ता॒ऽव॒रि॒ ।

प्रति॑ । स्तोमैः॑ । अ॒भु॒त्स्म॒हि॒ ॥४

यवयत्ऽद्वेषसम् । त्वा । चिकित्वित् । सूनृताऽवरि ।

प्रति । स्तोमैः । अभुत्स्महि ॥४

"यावयद्द्वेषसम् । यवयन्तो वियुज्यमाना द्वेषांसि द्वेष्टारो यस्यास्तादृशी । पृथक्क्रियन्ते द्वेषांस्यनयेति वा । रात्रौ हननायोद्युक्ता द्वेषिण उषःकाले हि पलायन्ते । तादृशीं “चिकित्वित् ज्ञापयन्तीं “त्वा त्वां “सूनृतावरि । सूनृतेति वाङ्नाम । तद्वति देवि “स्तोमैः स्तुतिभिः "प्रति अभुत्स्महि प्रतिबोधयामः । स्तुम इत्यर्थः ॥


प्रति॑ भ॒द्रा अ॑दृक्षत॒ गवां॒ सर्गा॒ न र॒श्मय॑ः ।

ओषा अ॑प्रा उ॒रु ज्रय॑ः ॥५

प्रति॑ । भ॒द्राः । अ॒दृ॒क्ष॒त॒ । गवा॑म् । सर्गाः॑ । न । र॒श्मयः॑ ।

आ । उ॒षाः । अ॒प्राः॒ । उ॒रु । ज्रयः॑ ॥५

प्रति । भद्राः । अदृक्षत । गवाम् । सर्गाः । न । रश्मयः ।

आ । उषाः । अप्राः । उरु । ज्रयः ॥५

“भद्राः स्तुत्याः “रश्मयः "प्रति “अदृक्षत प्रतिदृश्यन्ते । “गवाम् उदकानां “सर्गा “न वर्षधारा इवेयम् "उषाः “उरु "ज्रयः महत्तेजः “आ “अप्राः आपूरयत् ॥


आ॒प॒प्रुषी॑ विभावरि॒ व्या॑व॒र्ज्योति॑षा॒ तम॑ः ।

उषो॒ अनु॑ स्व॒धाम॑व ॥६

आ॒ऽप॒प्रुषी॑ । वि॒भा॒ऽव॒रि॒ । वि । आ॒वः॒ । ज्योति॑षा । तमः॑ ।

उषः॑ । अनु॑ । स्व॒धाम् । अ॒व॒ ॥६

आऽपप्रुषी । विभाऽवरि । वि । आवः । ज्योतिषा । तमः ।

उषः । अनु । स्वधाम् । अव ॥६

हे “विभावरि विभावति "उषः त्वम् "आपप्रुषी आपूरयन्ती तेजसा जगत् “ज्योतिषा तेजसा “तमः अन्धकारं “व्यावः व्यावृणोः । किंच “अनु पश्चात् “स्वधां हविर्लक्षणमन्नम् “अव रक्ष ॥


‘ आ द्यां तनोषि' इत्येषा देवीनां हविःषु उषसोऽनुवाक्या। सूत्रितं च-- ‘ आ द्यां तनोषि रश्मिभिरावहन्ती पोष्या वार्याणि ' ( आश्व. श्रौ. ६. १४ ) इति ॥

आ द्यां त॑नोषि र॒श्मिभि॒रान्तरि॑क्षमु॒रु प्रि॒यम् ।

उष॑ः शु॒क्रेण॑ शो॒चिषा॑ ॥७

आ । द्याम् । त॒नो॒षि॒ । र॒श्मिऽभिः॑ । आ । अ॒न्तरि॑क्षम् । उ॒रु । प्रि॒यम् ।

उषः॑ । शु॒क्रेण॑ । शो॒चिषा॑ ॥७

आ । द्याम् । तनोषि । रश्मिऽभिः । आ । अन्तरिक्षम् । उरु । प्रियम् ।

उषः । शुक्रेण । शोचिषा ॥७

हे "उषः “रश्मिभिः “द्यां दिवम् “आ “तनोषि । "उरु विस्तीर्णं “प्रियम् “अन्तरिक्षं रश्मिभिः “आ तनोषि । “शुक्रेण दीप्तेन “शोचिषा प्रकाशेन युक्ता सती एवं करोषि ॥ ॥ ३ ॥

मण्डल ४

सूक्तं ४.१

सूक्तं ४.२

सूक्तं ४.३

सूक्तं ४.४

सूक्तं ४.५

सूक्तं ४.६

सूक्तं ४.७

सूक्तं ४.८

सूक्तं ४.९

सूक्तं ४.१०

सूक्तं ४.११

सूक्तं ४.१२

सूक्तं ४.१३

सूक्तं ४.१४

सूक्तं ४.१५

सूक्तं ४.१६

सूक्तं ४.१७

सूक्तं ४.१८

सूक्तं ४.१९

सूक्तं ४.२०

सूक्तं ४.२१

सूक्तं ४.२२

सूक्तं ४.२३

सूक्तं ४.२४

सूक्तं ४.२५

सूक्तं ४.२६

सूक्तं ४.२७

सूक्तं ४.२८

सूक्तं ४.२९

सूक्तं ४.३०

सूक्तं ४.३१

सूक्तं ४.३२

सूक्तं ४.३३

सूक्तं ४.३४

सूक्तं ४.३५

सूक्तं ४.३६

सूक्तं ४.३७

सूक्तं ४.३८

सूक्तं ४.३९

सूक्तं ४.४०

सूक्तं ४.४१

सूक्तं ४.४२

सूक्तं ४.४३

सूक्तं ४.४४

सूक्तं ४.४५

सूक्तं ४.४६

सूक्तं ४.४७

सूक्तं ४.४८

सूक्तं ४.४९

सूक्तं ४.५०

सूक्तं ४.५१

सूक्तं ४.५२

सूक्तं ४.५३

सूक्तं ४.५४

सूक्तं ४.५५

सूक्तं ४.५६

सूक्तं ४.५७

सूक्तं ४.५८



"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.५२&oldid=198682" इत्यस्माद् पुनः प्राप्तिः