सामवेदः/कौथुमीया/संहिता/ऊह्यगानम्/दशरात्रपर्व/द्वितीयादशतिः/ऋषभोरैवतम्

विकिस्रोतः तः
ऋषभोरैवतम्
ऋषभोरैवतम्

१५
सुरूपकृत्नुमूतये सुदुघामिव गोदुहे ।
जुहूमसि द्यविद्यवि ॥ १०८७॥ ऋ. १.४.१
उप नः सवना गहि सोमस्य सोमपाः पिब ।
गोदा इद्रेवतो मदः ॥१०८८ ॥
अथा ते अन्तमानां विद्याम सुमतीनां ।
मा नो अति ख्य आ गहि ॥ १०८९ ॥



८. ऋषभोरैवतम् ।। प्रजापतिर्देवता । रुद्रः । गायत्री । इन्द्रः ।।

सुरूपकृत्नुमूतये(त्रिः) ।। सुदुघामिवगोदुहे । जुहूमसाइ ।। द्याविद्यवाइ (द्विः)।। द्याविद्यवाऽ३१उ । वाऽ२३ ।।श्रीः।।उपनस्सवनागहि(त्रिः)।। सोमस्यसोमपाᳲपिव । गोदाइद्रे ।। वातोमदाः(द्विः) ।। वातोमदाऽ३१उ । वाऽ२३ ।। श्रीः।। अथातेअन्तमानाम् (त्रिः) । । विद्यामसुमतीनाम् । मानोअताइ ।। ख्याआगहाइ (द्विः) ।। ख्याआगहाऽ३१उ । वाऽ२३ ।। उम् (त्रिः) ।।

दी. ५०. उ. १४ मा. २६. भ. ।।१८।।

[सम्पाद्यताम्]

टिप्पणी

षष्ठमहः -- सुरूपकृत्नुमूतय इति ऋषभो रैवतो ब्रह्मसाम । तस्य गायत्री छन्दः । आरम्भेण जगती ।। - आर्षेयकल्पः उपोद्घातः पृ ७५

ऋषभो रैवतो भवति। पशवो वै रैवत्यः पशुष्वेव तन्मिथुनमप्यर्जति प्रजात्यै न ह वा अनृषभाः पशवः प्रजायन्ते - तांब्रा १३.१०

सुरूपकृत्नुम् ऊतय इत्य् अभ्यारम्भेण षट्पदाष् षष्ठे ऽहन् भवन्ति। तेनैव षडहानि कल्पन्ते॥ तास्व् ऋषभो रैवतः। पशवो वै सिमाः, पशवो रेवतयः, पशव ऋषभः। ऋषभम् एवैतत् पशुष्व् अपिसृजन्ति मिथुनत्वाय प्रजननाय। प्र मिथुनेन जायते य एवं वेद। तस्य पूर्वार्धं च जघनार्धं च भूयिष्ठं भाजयन्ति। तस्मात् पशवः पूर्वार्धेन च जघनार्धेन च भूयिष्ठं भुञ्जन्ति वहन्ति। पूर्वार्धेन दुह्रे च जघनार्धेन प्र च जनयन्ति। उभयं धेनुपयसं चानडुत्पयसं चावरुन्द्धे य एवं वेद। - जैब्रा. ३.१५७

शाक्वरवर्णम् इत्यादि (ग्रामगेयः)