शाङ्खायनश्रौतसूत्रम्/अध्यायः १४

विकिस्रोतः तः
← अध्यायः १३ शाङ्खायनश्रौतसूत्रम्
अध्यायः १४
[[लेखकः :|]]
अध्यायः १५ →


॥14.1॥ अहीनप्रकरणम्
एकाहेष्वहीनेषु च प्रकृतेर्विकारः १
यस्मिन्नहनि यदहः प्रदिश्येत सवनं वा सहौत्रं तत् २
ऐकाहिकमनादेशे ३

॥14.2॥हविर्यज्ञसोमप्रकरणम्
अग्न्याधेयेन ब्रह्मवर्चसकामो यजेत १
तस्याष्टास्वष्टासु स्तोत्राणि २
अष्टाक्षरा गायत्री ३
तेजो ब्रह्मवर्चसं गायत्री ४
रथन्तरं पृष्ठम् ५
ब्रह्म रथन्तरम् ६
अग्निष्टोमो यज्ञः ७
ब्रह्म वा अग्निष्टोमः ८
एतेन त्रिःसमृद्धेन ब्रह्मणा तेजो ब्रह्मवर्चसमाप्नोति ९
तृचकॢप्तं शस्त्रम् १०
त्रिवृद्वा अन्नमन्नं पानं खादयन्ति तस्य सर्वस्याप्त्यै ११
चतुर्विंशतिर्दक्षिणा १२
चतुर्विंशतिर्वै संवत्सर-स्यार्धमासाः संवत्सरस्यैवाप्त्यै १३
तस्याग्नये पवमानाय पावकाय शुचय इति पशव उपालम्भ्याः सवनीयस्य १४
आदित्या वशानूबन्ध्याया उपालम्भ्यैवंविधा १५
तद्यदेवं पशवो नियुक्ता भवन्ति नेदग्न्याधेयादयानीति १६
तस्य प्रातः सवनीयाननु पुरोलाशानग्नये पवमानायाष्टाकपालं पुरोलाशं निर्वपति १७
माध्यन्दिनीयाननु पुरोलाशानग्नये पावकाय १८
तृतीय-सवनीयाननु पुरोलाशानग्नये शुचये १९
आवपनं वै सवनीयाः पुरोलाशाः आवपन एव तदावपति २०
अथ यदादित्या वशानूबंध्याया उपालम्भ्या भवत्यदितिं वा अन्वग्न्याधेयं संतिष्ठते २१
या न्वग्न्याधेयस्य संस्था तामेव तद्यज्ञस्य संस्थां करोति २२

॥14.3॥ हविर्यज्ञसोमप्रकरणम्
एवं पशवः पुरोलाशाश्चान्वायात्यन्ते हविर्यज्ञेषु सोमेषु १
तस्य शस्त्रम् २
यद्वाहिष्ठमिति तृचमाज्यम् ३
माधुच्छन्दसः प्रउगः ४
त्रयस्त्रयस्तृचा होत्रकाणां प्रातःसवने स्तोत्रियानुरूपौ पर्यासश्च ५
इन्द्र मरुत्व इह पाहि सोममिति तृचं मरुत्वतीयम् ६
नृणामु त्वा नृतमं गीर्भिरुक्थैरिति तृचं निष्केवल्यम् ७
अध्वर्यो वीर प्र महे सुतानामिति तृचं मैत्रावरुण-स्योक्थमुखीयम् ८
पूर्वं ब्राह्मणाच्छंसिनः ९
उत्तरमच्छावाकस्य १०
पर्यासानामुत्तमान् ११
उदु ष्य देवः सविता हिरण्यया । घृतवती भुवनानाम् । इन्द्र ऋभुभिर्वाजवद्भिः । स्वस्ति नो मिमीताम् । वैश्वानरं मनसा । प्र यन्तु वाजाः । समिद्धमग्निं समिधा गिरा गृण इति तृचानि वैश्वदेवाग्निमारुतयोः सूक्तानां स्थाने १२
तृचकॢप्तमित्येतस्यां चोदनाया-मेतच्छस्त्रं प्रतीयेत १३
ऐकाहिकं वा तृचकॢप्तम् १४
एतेनाग्निहोत्रौ व्याख्यातौ १५
आग्नेयं पयः पूर्वस्मिन् १६
सौर्यमुत्तरस्मिन् १७
पशू च १८
प्राजापत्या वशानूबन्ध्याया उपालम्भ्यैवंविधा १९

॥14.4॥ हविर्यज्ञसोमप्रकरणम्
पुनराधेयेन तेजस्कामो यजेत १
तस्य पञ्चसुपञ्चसु स्तोत्राणि २
पञ्चपदा पङ्क्तिः ३
पाङ्क्तो वै यज्ञः ४
यज्ञस्यैवाप्त्यै ५
सर्वाग्नेयादग्निष्टुतः शस्त्रम् ६

॥14.5॥ हविर्यज्ञसोमप्रकरणम्
दर्शपूर्णमासावन्नाद्यकामस्य १
इलादधावाग्रयणः सोमेष्टिश्चाप्रवर्ग्यः २
दा-क्षायणयज्ञाश्चत्वारः सर्वकामस्य ३
महायज्ञश्च ४
तस्मिंश्चातुर्मास्य-हवींष्यन्वायात्यन्ते ५
पशवश्च पर्वदेवताभ्यः ६
एककपालदेवताभ्यश्चा-
नूबन्ध्याया उपालभ्या एवंविधाः ७
अतिरात्रो यज्ञः ८

॥14.6॥ हविर्यज्ञसोमप्रकरणम्
प्रजापतिर्ह प्रजातिकामस्तपस्तप्त्वैतं यज्ञक्रतुमपश्यद्वैश्वदेवम् । तमाहरत् । तेनायजत । तेनेष्ट्वा प्राजायत । तेन प्रजातिकामो यजेत १
वैश्वदेवः पशुरुपालग्भ्यः सवनीयस्य २
द्यावापृथिवीया वशानूबन्ध्याया उपालम्भ्यै-वंविधा ३
त्रिवृतः शस्त्रम् ४
तृचकॢप्तं वा ५
अवभृथादुदेत्योदवसानीययेष्ट्वा मुनिसत्त्रेष्ट्या यजमान आस्तेऽहरहश्चतुरो मासानाग्नेय्याग्नावैष्णव्या वान्तरालेषु ६
सैव तत्र दीक्षा ७

॥14.7॥ हविर्यज्ञसोमप्रकरणम्
वैश्वदेवेन वै प्रजापतिः प्रजा असृजत । ताः सृष्टा अप्रसूता वरुणस्य यवाञ्जक्षुः ताः वरुणो वरुणपाशैः प्रत्यमुञ्चत् । ताः प्रजाः प्रजापतिं पितरमेत्योपाधावन् उप तं यज्ञक्रतुं जानीहि येनेष्ट्वा वरुणपाशेभ्यः सर्वस्माच्च पाप्मनः संप्रमुच्ये-महीति । तत एतं प्रजापतिश्चतुर्थे मासि द्विरात्रं यज्ञक्रतुमपश्यद्वरुणप्रघासम् तमाहरत् । तेनायजत । तेनेष्ट्वा वरुणमप्रीणात् । स प्रीतो वरुणो वरुण-पाशेभ्यः सर्वस्माच्च पाप्मनः प्रजाः प्रामुञ्चत् । प्र ह वा अस्य प्रजा वरुण-पाशेभ्यः सर्वस्माच्च पाप्मनः संप्रमुच्यते य एवंविद्वान्वरुणप्रघासैर्यजते १
उक्थ्यौ भवतः २
वारुणः पशुरुपालम्भ्यः सवनीयस्य पूर्वस्मिन् ३
मारुत
उत्तरस्मिन् ४
कायी वशानूबन्ध्याया उपालम्भ्यैवंविधा ५

॥14.8॥ हविर्यज्ञसोमप्रकरणम्
ताः प्रजाः प्रजापतिमब्रुवन्कस्मै नु नोऽन्नाद्यायासृष्ठा इति । तत एतं प्रजापतिश्चतुर्थे मासि त्रिरात्रं यज्ञक्रतुमपश्यत्साकमेधम् । तमाहरत् । तेनायजत । तेनेष्ट्वान्नाद्यमाप्नोत् । तेनान्नाद्यकामो यजेत १
अग्निष्टोम उक्थ्यो ऽतिरात्रः २
अग्नयेऽनीकवते प्रथमे पशुरुपालम्भ्यः सवनीयस्य ३
मरुद्भ्यः सांतपनेभ्यो द्वितीये ४
माहेन्द्रस्तृतीये ५
वैश्वकर्मणी वशानूबन्ध्याया उपालम्भ्यैवंविधा ६
ऐकाहिकं यथा पृष्ठ्यं शस्त्रम् ७
पृष्ठ्यो वा विहृतः ८
विश्वजितो वा बृहत्पृष्ठात्तृतीयेऽहनि शस्त्रम् ९
सौत्रामणे च १०
आयुष्कामयज्ञे महायज्ञे ११
विनुत्त्यभिभृत्योः १२
स्वर्जिति १३
इन्द्रवज्रे च १४

॥14.9॥ हविर्यज्ञसोमप्रकरणम्
ताः प्रजाः प्रजापतिमब्रुवन्कस्यै नु नः प्रतिष्ठाया असृष्ठा इति । तत एतं प्रजापतिर्यज्ञक्रतुमपश्यच्छुनासीरीयम् । तमाहरत् । तनायजत । तेनेष्ट्वा प्रत्यतिष्ठत । तेन प्रतिष्ठाकामो यजेत १
शुनासीरीयः पशुरुपालम्भ्यः सवनीयस्य २
सौरी वशानूबन्ध्याया उपालम्भ्यैवंविधा ३
विंशतिं वैश्वदेवे ददाति ४
त्रिंशतं वरुणप्रघासेषु ५
पञ्चाशतं साकमेधेषु ६
विंशतिं शुनासीरीये ७
तद्विंशतिशतम् ८
विंशतिशतं वा ऋतोरहानि ९
तदृतुमाप्नोति १०
ऋतुना संवत्सरम् ११
ये च संवत्सरे कामाः १२

॥14.10॥ हविर्यज्ञसोमप्रकरणम्
पशुमत्सु चातुर्मास्येषु १
पूर्वेद्युः पाशुकं कर्म २
अपरेद्युर्वैश्वदेवः पशुः ३
पशुपुरोलाशमनु चातुर्मास्यदेवता यथापर्व ४
पाशुकः स्विष्टकृत् ५
निगमस्यानवर्जम् ६
यथास्थानं वाजिनम् ७
हृदयशूलान्तं संतिष्ठते ८
वारुणमारुतौ वरुणप्रघासेषु ९
उत्तरे यूपमुच्छ्रयन्ति १०
माहेन्द्रशुनासीरीया उत्तरयोः ११
यथास्थाना इष्टयः १२
पित्र्या च १३
यथादेवतं वा पशवः १४
तद्व्याख्यातमेकादशिन्या १५
आनीकवतः सांतपनो गृहमेधीयः क्रीलिनो मैत्रश्च महाहविषि १६
पर्वणिपर्वणि वा संस्थित ऐन्द्राग्नः १७
समानमनन्यत् १८
अथवाप्येकपर्वण्येकपशौ चैन्द्राग्ने पराञ्चि हवींषि १९
उपहूयेलां पित्र्या २०
त्र्यम्बकादूर्ध्वमनुयाजप्रभृति । मनोतादिपशुना वा २१
सौमिकैः
समानदक्षिणानि सर्वपशूनि २२
चातुर्मास्यपशुदक्षिणैः पाशुकानि २३
१०
॥14.11॥ हविर्यज्ञसोमप्रकरणम्
प्रत्यवरोहणीयः प्रतिष्ठाकामस्य १
संकल्पविकृतो ज्योतिष्टोमः २
पशुबन्धः पशुकामस्य ३
एकादशस्तोमः ४
एकादशाक्षरा त्रिष्टुप् ४
त्रैष्टुभाः पशवः ६
पशूनामेवाप्त्यै ७
पिबा सोममभि यमुग्र तर्द एतायामोप गव्यन्त इन्द्रमिति निविद्धाने ८
ऊर्वं गव्यं महि गृणान इन्द्रैतायामोप गव्यन्त इन्द्रमिति गोसस्तवे
तदेतस्याह्नो रूपम् ९
उद्भिद्वलभिदोर्गोसवे च १०
११
॥14.12॥ हविर्यज्ञसोमप्रकरणम्
अथातः सौत्रामणः १
इन्द्रो हायुष्कामस्तपस्तेपे । स तपस्तप्त्वैतं यज्ञक्रतुमय-श्यत्सौत्रामणम् । तमाहरत् । तेनायजत । तेनेष्ट्वा दीर्घायुत्वमगच्छत् । तमु ह भरद्वाजाय जीर्णाय प्रोवाच । अनेन वा अहमिष्ट्वा दीर्घायुत्वम-गच्छमनेनापि त्वं यजेति । तेन ह भरद्वाज इष्ट्वा सर्वायुत्वमगच्छत् । सर्वमायुरेति य एवं वेद य उ चैनेन यजते २
तस्य रथन्तरं पृष्ठम् ३
अग्निष्टोमो यज्ञः ४
यथाश्रद्धं दक्षिणा ५
तस्य त्रीणि त्रिवृन्ति स्तोत्राणि ६
त्रीणि पञ्चदशानि ७
त्रीणि सप्तदशानि ८
त्रीण्येकविंशानीति ९
उत्तरोत्तरितायै १०
उत्तरोत्तरावद्दीर्घायुत्वमश्नवामहा इति ११
१२
॥14.13॥ हविर्यज्ञसोमप्रकरणम्
तस्याश्विनो लोहोऽजः सारस्वती मेषीति पशू उपालम्भ्यौ सवनीयस्य १
इन्द्राय सुत्राम्णे वशानूबन्ध्याया उपालम्भ्यैवंविधा २
तद्यदेवं पशवो नियुक्ता भवन्ति नेत्सौत्रामण्या अयानीति ३
तस्य प्रातःसवनीयाननु पुरोलाशान्बाह्यतो ऽग्निमुपसमाधाय सुरासोमेन चरन्ति ४
तृतीयसवनीयाननु पुरोलाशान्सवित्रं द्वादशकपालं पुरोलाशं निर्वपति ५
ऐन्द्रमेकादशकपालम् ६
वारुणं दशकपालम् ७
आवपनं वै सवनीयाः पुरोलाशा आवपन एव तदावपति ८
अथ यदिन्द्राय सुत्राम्णे वशानूबन्ध्याया उपालम्भ्या भवतीन्द्रं वा अनु सुत्रामाणं सौत्रामणी संतिष्ठते ९
यैव सौत्रामण्याः संस्था तामेव तद्यज्ञस्य संस्थां करोति १०
तं हैकेऽतिरात्रं कुर्वन्ति ११
एकविंशस्तोमं बृहत्पृष्ठ-मुभयसामानम् १२
तस्य यद्विश्वजितो बृहत्पृष्ठस्य शस्त्रं तच्छस्त्रम् १३
अत्र हविर्यज्ञाः सोमाः संतिष्ठन्ते १४
१३
॥14.14॥
देवा ह पशुकामाश्चतुरो मासान्व्रतं चरित्वैतमुद्भिदं यज्ञक्रतुमपश्यन् । तेनेष्ट्वा पशूनापुः । तेन पशुकामो यजेत । उद्भिदेष्ट्वा यदि मन्येत चिरान्मा पशव आगुरिति चतुरो मासान्व्रतं चरित्वा बलभिदा यजेत । क्षिप्रं हैनं पशव आयन्ति १
१४
॥14.15॥ एकाहप्रकरणम्
गोसवेन पशुकामो यजेत १
षट्त्रिंशत्स्तोमेन २
षट्त्रिंशदक्षरा बृहती ३
बार्हताः पशवः ४
पशूनामेवाप्त्यै ५
षट्त्रिंशत्सहस्रा दक्षिणा गोसवस्य ६
अयुतं वा ७
उक्थ्यो यज्ञः ८
१५
॥14.16॥ एकाहप्रकरणम्
ऋतपेयेन तेजस्कामो यजेत १
द्वादश दीक्षा द्वादशोपसदः २
मध्यमेनाङ्गुष्ठपर्वणौदुम्बरं चमसं मितं घृतस्य व्रतयेत् ३
अयुजासु क्षीरौदनं दीक्षासु ४
सोमचमसो दक्षिणाभिषुतस्य ५
ऋतं सत्यं वदन्तो भक्षयेयुः ६
भूर्भुवः स्वरिति वा ७
सगोत्राय वा ब्रह्मणे दद्यात् ८
जनिष्ठा उग्रः सहसे तुराय कथा महामवृधत्कस्य होतुरिति निविद्धाने ९
मन्दमान ऋतादधि प्रजाया ऋतस्य हि शुरुधः सन्ति पूर्वीरित्यृतवती तदेतस्याह्नो
रूपम् १०
१६
॥14.17॥ एकाहप्रकरणम्
प्रजापतिरिमं लोकमीप्संस्तपस्तप्त्वैतं यज्ञक्रतुमपश्यद्भूः । तेनेष्ट्वेमं लोकमाप्नोत् । तेनेमं लोकमीप्सन्यजेत १
१७
॥14.18॥ एकाहप्रकरणम्
प्रजापतिरन्तरिक्षलोकमीप्सं स्तपस्तप्त्वैतं यज्ञक्रतुमपश्यद्भुवः । तेनेष्ट्वान्तरिक्षलोकमाप्नोत् । तेनान्तरिक्षलोकमीप्सन्यजेत १
१८
॥14.19॥ एकाहप्रकरणम्
प्रजापतिरमुं लोकमीप्संस्तपस्तप्त्वैतं यज्ञक्रतुमपश्यत्स्वः । तेनेष्ट्वामुं लो-कमाप्नोत् । तेनामुं लोकमीप्सन्यजेत १
स्वरसामभ्यः शस्त्राणि यथास्तोमम् २
आनुष्टुभानि च ३
१९
॥14.20॥ एकाहप्रकरणम्
सूर्यो ह तेजस्कामस्तपस्तप्त्वैतं यज्ञक्रतुमपश्यच्छुक्रस्तोमम् । तेनेष्ट्वा तेज आप्नोत् । तेन तेजस्कामो यजेत १
एकविंशतिः श्वेताश्वा दक्षिणा २
वैषुवतमहः ३
२०
॥14.21॥ एकाहप्रकरणम्
तीव्रसवः प्रजया पशुभिस्तीव्रस्य बुभूषतः १
अयं तीव्रस्तीव्रसुदिन्द्र सोमो वृत्रहत्याय हरिवो अस्य पाहि
वज्रं शिशानो जठरं पृणस्वानाधृष्यं वृषभं तुम्रमिन्द्रम्
इति पुरस्तान्मरुत्वतीयस्य निविद्धानस्य २
तीव्रस्याभिवयस इति निष्केवल्ये ३
२१
॥14.22॥ एकाहप्रकरणम्
ज्योतिः सूतसवः १
गौः स्थपतिसवः २
आयुर्ग्रामणीसवः ३
संदंशा-नुस्तोमाविषुवज्रौ श्येनाजिरौ मृत्य्वन्तकौ क्षुरवपिशीर्षच्छिदौ महः श्येनश्चाभिचरणीयाः ४
मन्युसूक्ते निविद्धाने लिङ्गकॢप्ते ५
यत्पृष्ठेनाभिचरेयुस्तत्पृष्ठः प्राकृतोऽभिचर्यमाणस्य ६
इषौ बृहद्ब्रह्मसाम ७
अभीवर्ते इतरेषु ८
शिखरैः सदश्छन्नं भवति ९
कार्मुकाण्युपशेरते १०
बाणवद्भिराग्नीध्रम् ११
धान्वनान्युपशेरते १२
शरमयं बर्हिः १३
बाधक इध्मः परिधयश्च १४
वैभीदको यूपः १५
उपतापिनीनां गवामाज्यम् १६
अनुस्तरण्या गोश्चर्माधिषवणम् १७
शवनभ्ये अधिषवणफलके १८
शवचम्वामापः संस्रुतास्ताभिर्वसतीवरीः पृञ्चन्ति १९
उपोतपरुषा अधिज्यधन्वानो लोहितोष्णीषा असिबद्धाः प्रचरेयुः २०
न हैतं कश्चनेशीतेयत्सोऽद्वादशाहं जीवेत् २१
न ह वै तं कश्चन स्तृणुते य एतैः प्रत्यभिचरति २२
सदः पाप्मानं द्विषतश्चापजिघांसमानस्य २३
उपोत्तमाश्च शस्त्राणामुत्सृज्यन्ते २४
उपसदः प्रजाकामस्य पशुकामस्य च २५
उपोत्तमाश्च शस्त्राणामुपजायन्ते २६
२२
॥14.23॥ एकाहप्रकरणम्
देवासुराः समयतन्त । ते देवा बृहस्पतिं पुरोहितमुपाधावन्नुप तं यज्ञक्रतुं जानीहि येनेष्ट्वासुरानभिभवेमहीति । स एतमृषभं यज्ञक्रतुमपश्यत् । तेनेष्ट्वासुरानभ्यभवन् । तेन द्विषतो भ्रातृव्यानभिबुभूषन्यजेत १
पञ्चदश-स्तोमस्य सप्तदशो माध्यन्दिनः पवमानस्तदस्य ऋषभरूपम् २
पिबा सोममभि यमुग्र तर्दस्तमु ष्टुहि यो अभिभूत्योजा इति निविद्धाने ३
यः शिप्रवान्वृषभो यो मतीनां गीर्भिर्वर्ध वृषभं चर्षणीनामित्यृषभवती तदेतस्याह्नो रूपम् ४
२३
॥14.24॥ एकाहप्रकरणम्
सूर्यो ह तेजस्कामस्तपस्तप्त्वैतं यज्ञक्रतुमपश्यद्व्योमानम् । तेनेष्ट्वा तेज आप्नोत् तेन तेजस्कामो यजेत १
सप्तदशस्तोमस्यैकविंश आर्भवः पवमानः २
एकविंशो वा एष य एष तपति तदेनं स्वेन रूपेण समर्धयति ३
इमा उ त्वा पुरुतमस्येन्द्रं स्तवेति निविद्धाने ४
सूर्येण वयुनवच्चकार स सूर्यः पर्युरू
वरांसीति सूर्याभिव्याहारे तदेतस्याह्नो रूपम् ५
२४
॥14.25॥ एकाहप्रकरणम्
वसिष्ठो हान्नाद्यकामस्तपस्तप्त्वैतं यज्ञक्रतुमपश्यद्विराजम् । तेनेष्ट्वान्नाद्यमाप्नोत् तेनान्नाद्यकामो यजेत १
पञ्चदशौ पूर्वौ पवमानौ त्रिवृन्तीतराणि २
स विराजमभिसंपद्यते ३
श्रीर्विरालन्नाद्यं श्रियो विराजोऽन्नाद्यस्योपाप्त्यै ४
महश्चित्त्वमिन्द्र यत एताँस्त्वं राजेन्द्र ये च देवा इत्यक्षरवैराजे निविद्धाने तदेतस्याह्नो रूपम् ५
२५
॥14.26॥ एकाहप्रकरणम्
इन्द्रो ह स्वाराज्यकामस्तपस्तप्त्वैतं यज्ञक्रतुमपश्यत्स्वराजम् । तेनेष्ट्वा स्वाराज्यमाप्नोत् । तेन स्वाराज्यकामो यजेत १
सप्तदशौ पूर्वौ पवमानौ त्रिवृन्तीतराणि २
ताश्चतस्रः स्तोत्रिया विराजमतियन्ति ३
ताभिः स्वाराज्यमाप्नोति ४
अक्षरवैराजे च ५
२६
॥14.27॥ एकाहप्रकरणम्
उशना ह काव्योऽसुराणां पुरोहित आस । स ह देवानामन्नमशित्वा परिदद्रे स हैक्षत । कथं नु तेन यज्ञक्रतुना यजेयं येनेष्ट्वा पाप्मानमपहन्यामिति । स एतमुशनस्तोमं यज्ञक्रतुमपश्यत् । तेनेष्ट्वा पाप्मानमपाहत । तेन पाप्मानमपजिघांसमानो यजेत[१]
उदरव्याधितश्च २
त्रिवृत्प्रातःसवनम् ३
ब्रह्म वै त्रिवृत् ४
त्रिवृतैव तद्ब्रह्मणा पुरस्तात्पाप्मानमपाहत ५
सदशो माध्यन्दिनः ६
सा विराट् ७
विराजैव तन्मध्यतः पाप्मानमपाहत ८
त्रिवृत्तृतीयसवनम् ९
ब्रह्म वै त्रिवृत् १०
त्रिवृतैव तद्ब्रह्मणोपरिष्टात्पाप्मानमपाहत ११
त्र्यर्यमा द्यौर्न य इन्द्रेति निविद्धाने १२
उशना यत्सहस्यैरयातं[२] वरिवस्यन्नुशने काव्यायेति[३] उशनवती तदेतस्याह्नो रूपम् १३
२७
॥14.28॥ एकाहप्रकरणम्
स हैक्षत । पाप्मानमपहत्य कथं नु तेन यज्ञक्रतुना यजेयं येनेष्ट्वान्नाद्यमाप्नुयामिति । स एतमुत्तरमुशनस्तोमं यज्ञक्रतुमपश्यत् । तेनेष्ट्वान्नाद्यमाप्नोत् तेनान्नाद्यकामो यजेत १
त्रिवृत्प्रातःसवनम् २
ब्रह्म वै त्रिवृत् ३
सदशो माध्यन्दिनः ४
सा विरालन्नाद्यम् ५
त्रिवृत्तृतीयसवनम् ६
ब्रह्म वै त्रिवृत् ७
त्रिवृतैव तद्ब्रह्मणोभयतोऽन्नाद्यं परिगृह्यात्मन्नदधत ८
तथो एवैतद्यजमानस्त्रिवृतैव तद्ब्रह्मणोभयतोऽन्नाद्यं परिगृह्यात्मन्धत्ते ९
उशनवती च १०
विवधश्चैवंस्तोमोऽन्नाद्यकामस्य ११
अक्षरवैराजे च १२
सहस्रं शताश्वं दक्षिणा १३
२८
॥14.29॥ एकाहप्रकरणम्
इन्द्राग्नी वै देवेष्वहंश्रेयसे विवदेयाताम् । ते देवा ऊचुः । यदि वा इमावेवं विवदिष्येते अभि नोऽसुरा भविष्यन्ति । उप तं यज्ञक्रतुं जानीम येनैनौ संशमयेमहीति । त एतं यज्ञक्रतुमपश्यन्निन्द्राग्न्योः कुलायम् । तेनैनौ समशमयन् १
तेन ब्राह्मणश्च क्षत्रियश्च संयजेयातां यं पुरोधास्यमानः स्यात् २
ब्रह्मक्षत्रे एव तत्तन्वौ संसृजेते ३
त्रिवृत्पञ्चदशौ स्तोमौ ४
अग्निर्वै त्रिवृदिन्द्रः पञ्चदशः ५
इन्द्राग्नी एव तत्तन्वौ समसृजताम् ६
तिष्ठा हरी तमु ष्टुहीति निविद्धाने ७
अग्नेः पिब जिह्वया सोममिन्द्राग्निर्न शुष्कं वनमिन्द्र हेतिरित्यैन्द्रे अग्निमती तदेतस्याह्नो रूपम् ८
२९
॥14.30॥ एकाहप्रकरणम्
मित्रावरुणयोर्वै वैराज्यमन्यतर ऐच्छत्स्वाराज्यमन्यतरः । तावेतं यज्ञक्रतुम-पश्यतां विराट्स्वराजम् । तेनेष्ट्वा वैराज्यमन्यतर आप्नोत्स्वाराज्यमन्यतरः १
अक्षरवैराजे च २
३०
॥14.31॥ एकाहप्रकरणम्
ज्येष्ठस्तोमः कनिष्ठकुलीनस्य ज्यैष्ठ्यं कामयमानस्य १
सप्तदशो बहि-ष्पवमानः २
एष वै स्तोमानां ज्येष्ठः ३
तमेव तद्यज्ञमुखे युनक्ति ४
जनिष्ठा उग्रः सहसे तुराय प्र वः सतां ज्येष्ठतमाय सुष्टुतिमिति ज्येष्ठाभिव्याहारे निविद्धाने तदेतस्याह्नो रूपम् ५
३१
॥14.32॥ एकाहप्रकरणम्
देवासुराः समयतन्त । ते देवा बृहस्पतिं पुरोहितमुपाधावन् । उप तं यज्ञक्रतुं जानीहि येनेष्ट्वासुरा नान्ववेयुरिति । स एतं दुराशं यज्ञक्रतुमपश्यत् । तेनेष्ट्वासुरा नान्ववायन् । ततो वै देवा अभवन्परासुराः । भवत्यात्मना परास्य द्वेष्यो य एवं वेद १
अपरपक्षे सौरीष्टिः पूर्वाह्णे २
चान्द्रमसी सायम् ३
विधुं दद्राणं नवोनवः ४
सौवर्णः शतवलो दक्षिणा पूर्वस्याम् ५
राजत उत्तरस्याम् ६
भारद्वाजं पृष्ठम् ७
तथा सूक्ते ८
स्तोत्रेस्तोत्रे स्तुते त्रिंशतंत्रिंशतं
शतवलान्ददाति ९
यावद्वा यजमानो हिरण्यस्येच्छेत् १०
३२
॥14.33॥ एकाहप्रकरणम्
इन्द्रो हापचितिकामस्तपस्तप्त्वैतं यज्ञक्रतुमपश्यदपचितिम् । तेनेष्ट्वापचितिमाप्नोत् । तेनापचितिकामो यजेत १
चतुर्विंशौ पूर्वौ पवमानौ २
त्रिवृत्पञ्चदशान्याज्यानि ३
सप्तदशैकविंशानि पृष्ठानि ४
त्रिणव आर्भवः पवमानः ५
एकविंशमग्निष्टोमसाम ६
तस्य गायत्रीमभि प्रातःसवनं संतिष्ठते ७
गायत्रच्छन्दसो वसवः । तेनेन्द्रो वसुष्वपचितिमाश्नुत ८
गायत्रच्छन्दसो ब्राह्मणाः । तेनायं ब्राह्मणेष्वपचितिमश्नुते ९
त्रिष्टुभं माध्यन्दिनं सवनम् १०
त्रिष्टुप्छन्दसो रुद्राः । तेनेन्द्रो रुद्रेष्वपचितिमाश्नुत ११
त्रिष्टुप्छन्दसः क्षत्रियाः । तेनायं क्षत्रियेष्वपचितिमश्नुते १२
जगतीं तृतीयसवनम् १३
जगच्छन्दस आदित्याः । तेनेन्द्र आदित्येष्वपचितिमाश्नुत १४
जगच्छन्दसो विशः । तेनायं विक्ष्वपचितिमश्नुते १५
वाचान्वाह वाचा शंसति वाचा यजति १६
वागनुष्टुप् १७
अनुष्टुप्छन्दसो विश्वे देवाः । तेनेन्द्रो विश्वेषु देवेष्वपचितिमाश्नुत १८
अनुष्टुप्छन्दसः शूद्राः । तेनायं शूद्रेष्वपचितिमश्नुते १९
अश्वरथः खाड्गकवचो वैयाघ्रपरिच्छद आर्क्षोपासङ्गो द्वैपधन्वधिः श्यावाश्वो दक्षिणा २०
अपचितिमता रूपेणापचितिमाप्नवानीति २१
इन्द्र सोमं सोमपत इन्द्रं स्तवेति निविद्धाने इन्द्राभिव्याहारे । तदेतस्याह्नो रूपम् २२
३३
॥14.34॥ एकाहप्रकरणम्
सूर्यो ह त्विषिकामस्तपस्तप्त्वैतं यज्ञक्रतुमपश्यत्त्विषिम् । तेनेष्ट्वा त्विषिमाप्नोत् । तेन त्विषिकामो यजेत १
अश्वरथः कांस्यकवचः श्वेताश्वो दक्षिणा २
त्विषिमता रूपेण त्विषिमाप्न्वानीति ३
सूर्याभिव्याहारे निविद्धाने ।
तदेतस्याह्नो रूपम् ४
३४
॥14.35॥ एकाहप्रकरणम्
वरुणो ह वृष्टिकामस्तपस्तप्त्वैतं यज्ञक्रतुमपश्यद्वृष्टिम् । तेनेष्ट्वा वृष्टिमाप्नोत् तेन वृष्टिकामो यजेत १
उद्वां चक्षुर्वरुण सुप्रतीकमिन्द्रावरुणा युवमध्वराय न इतीन्द्रावरुणाभिव्याहारे निविद्धाने । तदेतस्याह्नो रूपम् २
३५
॥14.36॥ एकाहप्रकरणम्
भानुमती ह तेजस्कामस्तपस्तप्त्वैतं यज्ञक्रतुमपश्यदादित्यम् । तेनेष्ट्वा तेज आप्नोत् । तेन तेजस्कामो यजेत १
यं वै सूर्यं स्वर्भानुः स्वर्भानोरध यदित्यादित्याभिव्याहारे निविद्धाने । तदेतस्याह्नो रूपम् २
३६
॥14.37॥ एकाहप्रकरणम्
इन्द्राविष्णुर्ह स्वर्गकामस्तपस्तप्त्वैतं यज्ञक्रतुमपश्यत्स्वर्गम् । तेनेष्ट्वा स्वर्गमाप्नोत् । तेन स्वर्गकामो यजेत १
इन्द्राभिव्याहारे निविद्धाने ।
तदेतस्याह्नो रूपम् २
३७
॥14.38॥ एकाहप्रकरणम्
देवासुराः समयतन्त । ते देवा बृहस्पतिं पुरोहितमुपाधावन् । उप तौ यज्ञक्रतू जानीहि याभ्यामिष्ट्वासुरान्विनुत्त्याभिभवेमहीति । स एतौ यज्ञक्रतू अपश्यद्विनुत्त्यभिभूती । तान्विनुत्तिना विनुत्त्याभिभूतिनाभ्यभवन् १
तस्य विनुत्तेः षलूर्ध्वाः पृष्ठ्यस्तोमाः षलावृत्ता विष्वञ्चः स्तोमाः २
विष्वञ्चो वै भूत्वा विनुदन्तीति ३
तद्विनुत्ते रूपम् ४
अथाभिभूतेः षलूर्ध्वाः पृष्ठ्यस्तोमाः षलावृत्ताः सम्यञ्चः स्तोमाः ५
सम्यञ्चो वै भूत्वाभिभवन्तीति ६
तदभिभूते रूपम् ७
यद्विश्वजितो बृहत्पृष्ठस्य तदेनयोः शस्त्रम् ८
३८
॥14.39॥ एकाहप्रकरणम्
राशिमरायावन्नाद्यकामस्य १
उत्तमौ छन्दोमौ समूल्ह्यात् २
स्त्रीणां गवां सहस्रं दक्षिणे ददाति ३
पुंसामुत्तरे ४
तन्त्रं दीक्षोपसदः ५
तथोदयनीया ६
यमावनूचीनगर्भौ वा संयजेयाताम् ७
विघनः पाप्मानं द्विषतश्चापजिघांसमानस्य ८
कयाशुभीयतदिदासीये वा निविद्धाने ९
भातृव्यं द्विषतश्चापजिघांसमानस्य १०
३९
॥14.40॥ एकाहप्रकरणम्
आदित्याश्च ह वा अङ्गिरसश्चास्पर्धन्त । वयं पूर्वे स्वर्गं लोकमेष्याम इत्यादित्या वयमित्यङ्गिरसः । ते ऽङ्गिरस आदित्येभ्यः प्रोचुः । श्वःसुत्या नो याजयत न इति । तेषां हाग्निर्दूत आस । त आदित्या ऊचुः । यदि वा एते पूर्वे यक्ष्यन्त्येते पूर्वे स्वर्गं लोकं गमिष्यन्ति । अभि नोऽसुरा भविष्यन्ति । उप तं यज्ञक्रतुं जानीम येन वयं पूर्वे यजेमहीति । त एतं साद्यःक्रं यज्ञक्रतुमपश्यन् तेनेष्ट्वा पूर्वे स्वर्गं लोकमायन् । तेन स्वर्गकामो यजेत १
त्रिवृत्स्तोमः २
रथन्तरं पृष्ठम् ३
तृचकॢप्तं शस्त्रम् ४
अग्निष्टोमो यज्ञः ५
यवोर्वरा वेदिः ६
यवखल उत्तरवेदिः ७
लाङ्गलेषा यूपः ८
यवकलापिश्चषालम् ९
ईजानस्य कुलाद्वसतीवर्यः १०
दृतिषु दधि वनीवाह्यन्ते ११
ततो यत्सर्पिरुदैति तेन प्रचरन्ति १२
अश्वरथः सोमप्रवाकः १३
योजनेऽन्ततः १४
अश्वो दक्षिणा १५
पूर्वाह्णे दीक्षणीया १६
अभ्यग्रं कर्माणि वर्तन्ते १७
अर्थलुप्तः प्रवर्ग्यः १८
तिस्रः पराचीरुपसदः १९
पुरोलाशोऽग्नीषीमीयः २०
सवनीयकाले समानतन्त्राः पशवः २१
आश्विनी वशानूबन्ध्यायाः स्थाने २२
मैत्रावरुण्या वा पयस्यया यजेत २३
अथो पूर्वप्रक्रान्तमन्वैच्छन् २४
४०
॥14.41॥ एकाहप्रकरणम्
एषैवोत्तरस्य विधा १
स्तोमा एवान्यथा २
अष्टादशाः पवमाना-स्त्रिवृन्तीतराणि ३
स एष उक्थ्यः प्रत्याहृतः ४
योऽग्निष्टोमे कामो य उक्थ्ये तयोरुभयोराप्त्यै ५
गोधूमोर्वरा ६
गोधूमखलः ७
गोधूमकलापिश्चषालम् ८
कुम्भ्या आपो वसतीवर्यः ९
अश्वः सोमप्रवाकः १०
त्रैपदेऽन्ततः ११
वडवा दक्षिणा १२
४१
॥14.42॥ एकाहप्रकरणम्
एषैवोत्तरस्य विधा १
स्तोमा एवान्यथा २
चतुर्विंशाः पवमाना-स्त्रिवृन्तीतराणि ३
स एष वाजपेयः प्रत्याहृतः ४
यः षोलशिनि कामो यो वाजपेये तयोरुभयोराप्त्यै ५
यद्यस्य द्विषन्भ्रातृव्योऽनुक्रिया यजेत परिक्रिया यजेत । यदि परिक्रियोत्क्रिया ६
एकत्रिकत्रिकैकाभ्यां ब्रह्मवर्चसकामो यजेत ७
एकस्यां तिसृष्विति प्रथमस्य स्तोत्राणि भवन्ति ८
तिसृष्वेकस्यामित्युत्तरस्य ९
ताश्चतुर्विशतिः स्तोत्रियाः १०
चतुर्विंशत्यक्षरा गायत्री ११
तेजो ब्रह्मवर्चसं गायत्री १२
तदाभ्यां तेजो
ब्रह्मवर्चसमाप्नोति १३
तृचकॢप्तशस्त्रौ १४
अभिजिदभिजिगीषतः १५
विश्वजिद्विश्वं जिगीषतः १६
त्रिसंस्थौ च तौ १७
अग्निष्टोमौ भूत्वान्यो-न्यस्मिन्प्रत्यतिष्ठताम् १८
उक्थ्यौ भूत्वान्योन्यस्मिन् १९
अतिरात्रौ भूत्वान्योन्यस्मिन् २०
४२
॥14.43॥ एकाहप्रकरणम्
इन्द्रो वै नॄञ्जिगीषंस्तपस्तप्त्वैतं यज्ञक्रतुमपश्यन्नृजितम् । तेनेष्ट्वा नॄनजयत् । तेन नॄञ्जिगीषन्यजेत १
४३
॥14.44॥ एकाहप्रकरणम्
इन्द्रो वै पृतनाजं जिगीषंस्तपस्तप्त्वैतं यज्ञक्रतुमपश्यत्पृतनाजितम् । तेनेष्ट्वा
पृतनाजमजयत् । तेन पृतनाजं जिगीषन्यजेत १
४४
॥14.45॥ एकाहप्रकरणम्
इन्द्रो वै सत्राजं जिगीषंस्तपस्तप्त्वैतं यज्ञक्रतुमपश्यत्सम्राजितम् । तेनेष्ट्वा सत्राजमजयत् । तेन सत्राजं जिगीषन्यजेत १
प्रथमात्त्र्यहान्मध्यन्दिनेषु निविद्धानानि २
४५
॥14.46॥ एकाहप्रकरणम्
इन्द्रो वै धनं जिगीषंस्तपस्तप्त्वैतं यज्ञक्रतुमपश्यद्धनजितम् । तेनेष्ट्वा धनमजयत् । तेन धनं जिगीषन्यजेत १
चतुर्विंशमहः २
४६
॥14.47॥ एकाहप्रकरणम्
इन्द्रो वै स्वर्जिगीषंस्तपस्तप्त्वैतं यज्ञक्रतुमपश्यत्स्वर्जितम् । तेनेष्ट्वा स्वरजयत् तेन स्वर्जिगीषन्यजेत १
उत्सन्नयज्ञ इव वा एष यत्स्वर्जित् २
४७
॥14.48॥ एकाहप्रकरणम्
इन्द्रो वै सर्वं जिगीषंस्तपस्तप्त्वैतं यज्ञक्रतुमपश्यत्सर्वजितम् । तेनेष्ट्वा सर्वमजयत् । तेन सर्वं जिगीषन्यजेत १
महाव्रतीयमहः २
४८
॥14.49॥ एकाहप्रकरणम्
इन्द्रो वै सर्वमुज्जिगीषंस्तपस्तप्त्वैतं यज्ञक्रतुमपश्यदुज्जितम् । तेनेष्ट्वा सर्वमुदजयत् । तेन सर्वमुज्जिगीषन्यजेत १
जनिष्ठा उग्रः सहसे तुराय तमु ष्टुहि यो अभिभूत्योजा इति निविद्धाने २
ध्वान्तात्प्रपित्वादुदरन्त गर्भा उत्तूर्वयाणं धृषता निनेथेत्युद्वती तदेतस्याह्नो रूपम् ३
४९
॥14.50॥ एकाहप्रकरणम्
इन्द्रो वै त्रिशीर्षाणं त्वाष्ट्रमहनत् । अरून्मुखान्यतीन्सालावृकेभ्यः प्रायच्छत् तं सर्वाणि भूतान्यभ्याक्रोशन् । स देवेभ्यः पार्श्वत इव चचार । ते देवा ऊचुः । यदि वा अयमेवं चरिष्यत्यभि नोऽसुरा भविष्यन्ति । उप तं यज्ञक्रतुं जानीम येनैनमुपाह्वयेमहीति । त एतमुपहव्यं यज्ञक्रतुमपश्यन् । तेनैनमुपाह्वयन्त । तेनावरुद्धो राजा यजेत राष्ट्रमवजिगीषन् । अव हैव गच्छति १
इमा उ त्वा पुरुतमस्य कारोर्हव्यं वीर हव्या हवन्ते य एक इद्धव्यश्चर्षणीनामिति हूतवती निविद्धाने । तदेतस्याह्नो रूपम् २
५०
॥14.51॥ एकाहप्रकरणम्
तमभ्येवाक्रोशन्ननहर्जाततया वैतत्पाप्या वालक्ष्म्या । सोऽग्नये सर्वाणि सवनानि प्रायच्छत् । तस्याग्निः सर्वामनहर्जाततां सर्वां पापीमलक्ष्मीं निरदहत् । स योऽनहर्जातः स्याद्यं वा पापी वागभिवदेत्सोऽग्निष्टुता यजेत । तस्याग्निः सर्वामनहर्जाततां सर्वां पापीमलक्ष्मीं निर्दहति य एवं वेद य उ चैनेन यजते १
त्रिवृत्स्तोमेन त्रिष्टोमेन वा ब्रह्मवर्चसकामः २
चतुष्टोमेन प्रतिष्ठाकामः ३
प्रातरनुवाकक्प्रभृति हारियोजनान्तं सर्वमाग्नेयम् ४
यथार्थमूहः ५
वचनात्प्रत्याम्नायः ६
अग्निं मन्ये पितरमिति प्रतिपत्प्रातरनुवाकस्य ७
लिङ्गेप्सुरुत्तरयोः क्रत्वोरग्निशब्दं कुर्वीत ८
प्र देवत्रेत्युद्धृत्य सोमस्य मेति चतुर्दश ९
तमोषधीरित्यवनीयमानासु १०
और्वभृगुवदिति तिस्रोऽम्बय इत्युद्धृत्य ११
उपप्रयन्तस्त्रीणि शतेति प्रथमे उत्तमा चाग्निमन्थनीयानाम् १२
अग्ने जुषस्व नो हविरिति प्रथमा चतुर्थी पञ्चमी च सवनीयानाम् १३
दूतं वो विश्ववेदसमिति द्विदेवत्यानाम् १४
५१
॥14.52॥
अग्निमीले पुरोहितमित्युन्नीयमानेभ्यः १
अग्निं दूतमिति सप्त प्रस्थितानाम् २
उत्तराश्चतस्रोऽच्छावाकसूक्तस्य स्थाने ३
अग्ने दिव इति याज्याज्यस्य ४
उप त्वा जामथ ऐभिरग्ने कस्ते जामिर्न योरुपब्दिरग्निर्वृत्राण्यग्ने सुतस्याग्ने धृतव्रतायेति प्रउगतृचानि ५
अग्ने विश्वेभिरग्निभिरिति यजति ६
कस्ते जामिः कया ते अग्ने अङ्गिर इति स्तोत्रियानुरूपौ मैत्रावरुणस्य ७
विपर्यस्तौ तु माध्यन्दिने ८
अग्निर्वृत्राणीति ब्राह्मणाच्छंसिनः ९
अग्निर्मूर्धेत्यच्छावाकस्य १०
अर्चन्तस्त्वेति मैत्रावरुणस्य ११
उत्तरं ब्राह्मणाच्छंसिनः १२
अग्ने धृतव्रतायेति षलच्छावाकस्य १३
उत्तमाभिर्यजन्ति १४
५२
॥14.53॥
अग्निं वो देवमित्युन्नीयमानेभ्यः १
प्र वः शुक्रायेति सप्त प्रस्थितानाम् २
उत्तरे मरुत्वतीयग्रहस्य ३
विशोविशो वस्त्वमग्ने यज्ञानामिति प्रतिपदनुचरौ मरुत्वतीयस्य ४
अग्न आ याह्यग्निभिः प्र वो यह्वमिति प्रगाथौ ५
अग्निं न मा मथितं त्वमग्ने प्रथमो अङ्गिरा ऋषिरित्येकपातिनीनाम् ६
अग्ने स क्षेषदिति निविद्धानम् ७
उत्तमा याज्या ८
५३
॥14.54॥ एकाहप्रकरणम्
पाहि नो अग्न एकया पाहि नो अग्ने रक्षस इति स्तोत्रियानुरूपौ प्रगाथौ निष्केवल्यस्य १
प्र ते अग्ने हविष्मतीमिति धाय्या २
एना वो अग्निमिति प्रगाथः ३
यथा होतरिति निविद्धानम् ४
अग्निं नर इति याज्या ५
५४
॥14.55॥ एकाहप्रकरणम्
अग्निमग्निं वो अध्रिगुमग्ने जरितरिति स्तोत्रियानुरूपौ प्रगाथौ ब्राह्मणाच्छंसिनः १
अच्छा नः शीरशोचिषमित्यच्छावाकस्य २
अग्ने विवस्वत्त्वमग्ने गृहपति-स्त्वमित्सप्रथा इत्यनुपूर्वं प्रगाथाः ३
यजस्व होतरिति च सूक्तानि ४
उत्तमाभिर्यजन्ति ५
५५
॥14.56॥ एकाहप्रकरणम्
अगन्म महेत्यादित्यग्रहस्य पुरोनुवाक्योत्तरा याज्या १
ऊर्ध्व ऊ षु णो अध्वरस्य होतरिति नवोन्नीयमानेभ्यः २
उत्तरे हारियोजनस्य ३
त्वामग्न ऋतायव इति सप्त प्रस्थितानाम् ४
एति प्र होतेति सावित्रग्रहस्य पुरोनुवाक्योत्तरा याज्या ५
इयं ते नव्यस्यश्वं न त्वेति प्रतिपदनुचरौ वैश्वदेवस्य ६
त्वमग्ने द्रविणोदा इति तिस्रः सावित्रस्य ७
आर्भवस्योत्तरास्तिस्रः ८
चतस्रो द्यावापृथिवीयस्य ९
षलादितो वैश्वदेवस्य १०
अबोधि जार इति वायव्यायाः ११
जुषस्व सप्रथस्तममिति सुरूपकृत्नोः १२
समिद्धो अग्निर्दिवीति तिस्र एकपातिनीनाम् १३
तदद्य वाच इति पञ्चजनीयायाः १४
यज्ञेन वर्धतेति याज्या १५
५६
॥14.57॥ एकाहप्रकरणम्
अभि प्रवन्तेति घृतस्य १
उत्तरा सौम्यस्य २
आ वो राजानमिति रौद्र्याः ३
वसुं न चित्रमहसमिति मारुतस्य ४
आ नो यज्ञं दिविस्पृशमा नो वायवित्यग्निष्टोमसाम्नः स्तोत्रियानुरूपौ प्रगाथौ ५
नित्यौ वा ६
अप्स्वग्न इत्यापोहिष्ठीयानाम् ७
तं देवा बुध्न इति वैश्वदेव्याः ८
इममू षु वो अतिथिमुषर्बुधमिति चतस्रो देवानांपत्नीनां राकायाश्च ९
हुवे वः सुद्योत्मानमिति तिस्रोऽक्षरपङ्क्तीनाम् १०
त्रिमूर्धानमिति तिस्रः पैत्रीणाम् ११
कथा ते अग्ने शुचयन्त आयोरिति तिस्रो यामीनाम् १२
मथीद्यदीमिति तिस्रः स्वादुष्किलीयानाम् १३
उत्तरयोरुत्तरे १४
एवाग्निर्गोत्रमेभिरिति परिधानीया १५
ग्रहेष्वविकृतेषु तिष्ठा हरी तमु ष्टुहीति निविद्धाने १६
अनड्वान्हिरण्यं वा दक्षिणा १७
एतद्व्याग्नेयं रूपम् १८
उत्थाय चाग्निष्टोमः १९
आ ह वा एष सर्वाभ्यो देवताभ्यो वृश्च्यते योऽग्निष्टुता यजते २०
५७
॥14.58॥ एकाहप्रकरणम्
इन्द्रो ह बलकामस्तपस्तप्त्वैतं यज्ञक्रतुमपश्यदिन्द्रस्तुतम् । तेनेष्ट्वा बलमाप्नोत् तेन बलकामो यजेत १
इन्द्राभिव्याहारे निविद्धाने तदेतस्याह्नो रूपम् २
५८
॥14.59॥ एकाहप्रकरणम्
सूर्यो ह तेजस्कामस्तपस्तप्त्वैतं यज्ञक्रतुमपश्यत्सूर्यस्तुतम् । तेनेष्ट्वा तेज आप्नोत् तेन तेजस्कामो यजेत १
सूर्याभिव्याहारे निविद्धाने तदेतस्याह्नो रूपम् २
५९
॥14.60॥ एकाहप्रकरणम्
विश्वे ह देवाः प्रजातिकामास्तपस्तप्त्वैत यज्ञक्रतुमपश्यन्वैश्वदेवस्तुतम् । तेनेष्ट्वा प्राजायन्त । तेन प्रजातिकामो यजेत १
इमा उ त्वा पुरुतमस्य वृषा मद इन्द्र इति निविद्धाने २
प्रोतये वरुणं मित्रमिन्द्रं मित्रो नो अत्र वरुणश्च पूषेति वैश्वदेवाभिव्याहारे तदेतस्याह्नो रूपम् ३
६०
॥14.61॥ एकाहप्रकरणम्
गोगमो ह ब्रह्मवर्चसकामस्तपस्तप्त्वैतं यज्ञक्रतुमपश्यद्गोतमस्य चतुरुत्तर-स्तोमम् । तेनेष्ट्वा ब्रह्मवर्चसमाप्नोत् । तेन ब्रह्मवर्चसकामो यजेत १
चतसृषु बहिष्पवमानः २
अष्टास्वष्टास्वाज्यानि ३
द्वादशसु माध्यन्दिनः पवमानः ४
षोलशसुषोलशसु पृष्ठानि ५
विंशत्यामार्भवः पवमानः ६
चतुर्विंशमग्निष्टोमसाम ७
सामान्तरुक्थ्याः ८
६१
॥14.62॥ एकाहप्रकरणम्
पञ्चशारदीयः १
मरुतो हाग्रेऽनपिसोमपीथा आसुः । ते यत्रेन्द्रं मरुतः पुपुवुस्तदेनानिन्द्रः सोमपीथेऽन्वाभेजे । स योऽनपिसोमपीथः स्याद्यो वा मरुतां सलोकतां सायुज्यमीप्सेत सोऽनेन यजेत २
पञ्चोक्षाणः पञ्च शरदो मरुद्भ्यः प्रोक्षिताश्चरन्ति । ते सवनीयस्योपालम्भ्याः ३
६२
॥14.63॥ एकाहप्रकरणम्
ऋषिस्तोमाः १
गोतमो ह ब्रह्मवर्चसकामस्तपस्तप्त्वैतं यज्ञक्रतुमपश्यत् ।
तेनेष्ट्वा ब्रह्मवर्चसमाप्नोत् । तेन ब्रह्मवर्चसकामो यजेत २
६३
॥14.64॥ एकाहप्रकरणम्
भरद्वाजो ह बलकामस्तपस्तप्त्वैतं यज्ञक्रतुमपश्यत् । तेनेष्ट्वा बलमाप्नोत् । तेन बलकामो यजेत १
६४
॥14.65॥ एकाहप्रकरणम्
अत्रिर्ह प्रजातिकामस्तपस्तप्त्वैतं यज्ञक्रतुमपश्यत् । तेनेष्ट्वा प्राजायत । तेन प्रजातिकामो यजेत १
६५
॥14.66॥ एकाहप्रकरणम्
वसिष्ठो हान्नाद्यकामस्तपस्तप्त्वैतं यज्ञक्रतुमपश्यत् । नेष्ट्वान्नाद्यमाप्नोत् । तेनान्नाद्यकामो यजेत १
६६
॥14.67॥ एकाहप्रकरणम्
जमदग्निर्ह पशुकामस्तपस्तप्त्वैतं यज्ञक्रतुमपश्यत् । तेनेष्ट्वा पशूनाप्नोत् । तेन पशुकामो यजेत १
६७
॥14.68॥ एकाहप्रकरणम्
प्रजापतिर्ह प्रजातिकामस्तपस्तप्त्वैतं यज्ञक्रतुमपश्यत् । तेनेष्ट्वा प्राजायत । तेन प्रजातिकामो यजेत १
पृष्ठ्याहान्यनुपूर्वम् २
६८
॥14.69॥ एकाहप्रकरणम्
व्रात्यस्तोमाः १
वसवो ह स्वर्गकामास्तपस्तप्त्वैतान्यज्ञक्रतूनपश्यन्व्रात्यस्तोमान् । तैरिष्ट्वा स्वर्गमापुः । तैः स्वर्गकामो यजेत २
६९
॥14.70॥ एकाहप्रकरणम्
मित्रावरुणयोरश्विनोर्वसूनां मरुतां विश्वेषां देवानाम् १
समूल्हात्पृष्ठ्याच्छस्त्रम् २
७०
॥14.71॥ एकाहप्रकरणम्
उत्क्रान्तिरतिरात्रः १
इन्द्राविष्णू वै स्वर्गकामौ तपस्तप्त्वैतं यज्ञक्रतुमपश्यता-मुत्क्रान्तिम् । तेनेष्ट्वा स्वर्गं लोकमुदाक्रामताम् । तेन ॥ स्वर्गकामो यजेत २
इमा उ त्वा पुरुतमस्य द्यौर्न य इन्द्रेति निविद्धाने ३
प्र पूषणं विष्णुमग्निं पुरम्!धिं हन्नृजीषिन्विष्णुना सचान इति विष्णुन्यङ्गे तदेतस्याह्नो रूपम् ४
७१
॥14.72॥ एकाहप्रकरणम्
मित्रावरुणयोरश्विनोर्वसूनां मरुतां साध्यानामाप्यानां विश्वसृजां भूतकृतां ज्येष्ठानां मध्यमानां कनिष्ठानां च १
चतुर्दशः स्तोमः २
विपृथुः सप्रतोदः
सेषुधन्वा दक्षिणा ३
एतेषां देवगणानां समूल्हाद्दशरात्राच्छस्त्रम् ४
७२
॥14.73॥ एकाहप्रकरणम्
व्रात्यस्तोमानाम् १
नवानां नाकमदां च २
चषालमुखतरसपुरोलाशोरनि-ष्टु सवब्रह्मसवक्षत्रसवभूमिसवौषधिसवौदनसववनस्पतिसवानां च ३
७३
॥14.74॥ एकाहप्रकरणम्
प्रजापतिर्ह परमेष्ठी प्रतिष्ठाकामस्तपस्तप्त्वैतं यज्ञक्रतुमपश्यद्दशममहः । तेनेष्ट्वा प्रत्यतिष्ठत । तेन प्रतिष्ठाकामो यजेत १
७४
॥14.75॥ एकाहप्रकरणम्
ऋतुस्तोमाः १
ऋतवो ह स्वर्गकामास्तपस्तप्त्वैतान्यज्ञक्रतूनपश्यन्षट् । तैरिष्ट्वा स्वर्गमापुः । तैः स्वर्गकामो यजेत २
७५
॥14.76॥ एकाहप्रकरणम्
मासस्तोमाः १
मासा हान्नाद्यकामास्तपस्तप्त्वैतान्यज्ञक्रतूनपश्यन्द्वादश । तैरिष्ट्वान्नाद्यमापुः । तैरन्नाद्यकामो यजेत २
७६
॥14.77॥ एकाहप्रकरणम्
अर्धमासस्तोमाः १
अर्धमासा हान्नाद्यकामास्तपस्तप्त्वैतान्यज्ञक्रतूनपश्यंश्चतुर्विंशतिम् । तैरिष्ट्वान्नाद्यमापुः । तैरन्नाद्यकामो यजेत २
७७
॥14.78॥ एकाहप्रकरणम्
नक्षत्रस्तोमाः १
नक्षत्राणि ह तेजस्कामानि तपस्तप्त्वैतान्यज्ञक्रतूनपश्यन्सप्तविंशतिम् । तैरिष्ट्वा तेज आपुः । तैस्तेजस्कामो यजेत २
७८
॥14.79॥ एकाहप्रकरणम्
अहोरात्रस्तोमाः १
अहोरात्रा हान्नाद्यकामास्तपस्तप्त्वैतान्यज्ञक्रतूनपश्यन्सप्तविंशतिशतानि । तैरिष्ट्वान्नाद्यमापुः । तैरन्नाद्यकामो यजेत २
७९
॥14.80॥ एकाहप्रकरणम्
मुहूर्तस्तोमाः १
मुहूर्ता हान्नाद्यकामास्तपस्तप्त्वैतान्यज्ञक्रतूनपश्यन्दश सहस्राण्यष्ट्वौ च शतानि । तैरिष्ट्वान्नाद्यमापुः । तैरन्नाद्यकामो यजेत २
८०
॥14.81॥ एकाहप्रकरणम्
निमेषस्तोमाः १
निमेषा हाक्षितिकामास्तपस्तप्त्वैतान्यज्ञक्रतूनपश्यन्दशायुतान्यष्टौ च सहस्राणि । तैरिष्ट्वाक्षितिमापुः । तैरक्षितिकामो यजेत २
८१
॥14.82॥ एकाहप्रकरणम्
ध्वंसिस्तोमाः १
ध्वंसयो हानन्तकामास्तपस्तप्त्वैतान्यज्ञक्रतूनपश्यन्दश प्रयुतान्यष्टौ चायुतानि । तैरिष्ट्वानन्तमापुः । तैरनन्तकामो यजेत २
८२
॥14.83॥ एकाहप्रकरणम्
दिशां स्तोमाः १
दिशो हानन्तकामास्तपस्तप्त्वैतान्यज्ञक्रतूनपश्यंश्चतुरः ।
तैरिष्ट्वानन्तमापुः । तैरनन्तकामो यजेत २
८३
॥14.84॥ एकाहप्रकरणम्
स्वान्तरदिशां स्तोमाः १
अवान्तरदिशो हानन्तकामास्तपस्तप्त्वैतान्यज्ञ-क्रतूनपश्यंश्चतुरः । तैरिष्ट्वानन्तमापुः । तैरनन्तकामो यजेत २
त एते बृह-द्रथन्तरपृष्ठाः स्युः ३
ऐकाहिकशस्त्राः ४
कयाशुभीयतदिदासीये वा निवि-द्धाने ५
दिक्षु दिशां स्तोमा अवान्तरदिक्ष्ववान्तरदिशामवान्तरदिशाम् ६
८४
इति शाङ्खायनश्रौतसूत्रे चतुर्दशोऽध्यायः समाप्तः

  1. बौ. श्रौ. सू. १८.४७
  2. ऋ. ५.२९.९
  3. ऋ. ६.२०.११