शाङ्खायनश्रौतसूत्रम्/अध्यायः १५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १४ शाङ्खायनश्रौतसूत्रम्
अध्यायः १५
[[लेखकः :|]]
अध्यायः १६ →


॥15.1॥ वाजपेयप्रकरणम्
शरदि वाजपेयः १
अन्नाद्यकामस्य २
वाजेन यक्ष्यमाणः पुरस्तात्संवत्सरं पेयैर्यज्ञक्रतुभिर्यजते ३
पानं वै पेयाः । अन्नं वाजः ४
पानं वै पूर्वमथान्नम् ५
तयोरुभयोराप्त्यै ६
द्वादशाग्निष्टोमाः ७
गोतमस्य वा चतुरुत्तरस्तोमो व्यत्यासं प्राकृतेन ८
अपरियज्ञमेके ९
इन्द्रो हैतेन यज्ञक्रतुनेष्ट्वा बृहस्पतिश्चान्नाद्यमापतुः १०
तेनान्नाद्यकामो यजेत ११
अथो हैतेन वाजो लौक्य इष्ट्वा सर्वान्कामानाप । तस्माद्वाजपेयः १२
त्रयोदश दीक्षास्तिस्र उपसदः सुत्यं सप्तदशमहः १३
सप्तदशो वै प्रजापतिर्वाजपेयः १४
तदेनं स्वेन रूपेण समर्धयति १५
चतुरश्रो गोधूमचषालो बैल्वो यूपः सप्तदशारत्निः १६
सप्तदशो वै प्रजापतिर्वाजपेयः १७
तदेनं स्वेन रूपेण समर्धयति १८
सप्तदशाग्नीषोमीयाः १९
तेषां समानं चरणम् २०
आ य ऐन्द्राग्न ऐन्द्रो वृष्णिः सारस्वती मेषी । मरुद्भ्य उज्जेषेभ्यो वशा पृश्निः पञ्चमी क्रतुपशूनाम् २१
सप्तदश प्राजापत्याः श्यामास्तूपरा लप्सुदिन उपालम्भ्याः २२
सवनीयानां तन्त्रं पर्यग्निकरणान्तम् २३
ब्रह्मसाम्नालभ्यन्ते २४
अध्रिगुरावर्तेत स्तोक्याश्च २५
प्रास्मा अग्निं भरतोवध्यगोहमिति तन्त्रमुत्तमः प्रयाजः परिवाप्यौ च २६
ऊर्ध्वं प्रदानं हारियोजनात् २७
वनस्पतिप्रभृतीन्यङ्गान्युत्कृष्येरन् २८
इष्टेषु वानुयाजेषु २९
स्वकाला वा ३०
सप्तदशः स्तोमः ३१
वैराजमाज्यम् ३२
घृतस्तोमीयं वा ३३
माधुच्छन्दसः प्रउगः ३४
अन्नं वै विराट् । घृतमन्नम् ३५
रसो माधुच्छन्दसः प्रउगः ३६
अन्नेन तद्रसं दधाति ३७
ऐकाहिकं वा ३८
प्रतिष्ठा वा एकाहः ३९
प्रतिष्ठित्या एव ४०

॥15.2॥ वाजपेयप्रकरणम्
त्रिकद्रुकेषु महिषो यवाशिरं तुविशुष्म इत्यतिच्छन्दसा मरुत्वतीयं प्रतिपद्यते १
प्राजापत्यं वै छन्दोऽतिच्छन्दाः २
प्रजापतिर्वाजपेयः ३
तदेनं स्वेन रूपेण समर्धयति ४
आ त्वा रथं यथोतय इत्येव प्रतिपद्येत ५
प्राजापत्यं वै छन्दो ऽनुष्टुप् ६
प्रजापतिर्वाजपेयः ७
तदेनं स्वेन रूपेण समर्धयति ८
कया शुभा सवयसः सनीला इति मरुत्वतीयं कद्वत्कयाशुभीयम् ९
को वै प्रजापतिर्वाजपेयः १०
तदेनं स्वेन रूपेण समर्धयति ११
बार्हस्पत्यो नैवारः सप्तदशशरावः १२
सप्तदशो वै प्रजापतिर्वाजपेयः १३
तदेनं स्वेन रूपेण समर्धयति १४
सोऽन्तरेण निष्केवल्यमरुत्वतीये । बृहस्पतिसवे च १५
तत्राभिषिच्यते प्राक् स्विष्टकृतः १६
तस्य प्रदानं स्विष्टकृदिलं च १७
तदिदास भुवनेषु ज्येष्ठामिति निष्केवल्यम् १८
यज्ञो वै भुवनेषु ज्येष्ठः १९
यज्ञ उ वै प्रजापतिर्वाजपेयः २०
तदेनं स्वन रूपेण समर्धयति २१
अनुचरप्रभृति षष्ठात्तृतीयसवनम् २२
प्राजापत्यं वै षष्ठमहः २३
प्रजपतिर्वाजपेयः २४
तदेनं स्वेन रूपेण समर्धयति २५
विषुवतो वा २६
रोहो वै विषुवान् २७
रोहो वाजपेयः । २८
तदेनं स्वेन रूपेण समर्धयति २९
ऐकाहिकं वा ३०
प्रतिष्ठा वा एकाहः ३१
प्रतिष्ठित्या एव ३२

॥15.3॥ वाजपेयप्रकरणम्
तत्र पुरस्तादानोभद्रीयस्य मधुनाड्यौ विहरेदिति पैङ्ग्यम् १
इमं महे विदथ्यायोषसः पूर्वा इत्यृक्छः २
ते यदि चित्रवतीष्वग्निष्टोमसाम कुर्युस्त्वं नश्चित्र ऊत्याग्ने विवस्वदिति स्तोत्रियानुरूपौ प्रगाथौ ३
ऊर्ध्वं षोलशिनो ऽतिरिक्तोक्थम् ४
प्र तत्ते अद्य शिपिविष्ट प्र तद्विष्णुरिति स्तोत्रियानुरूपौ ५
ब्रह्म जज्ञानं प्रथमं पुरस्तादिति द्वे ६
धीती वा ये अनयन्वाचो अग्रं मनसा वा येऽवदन्नृतानि । तृतीयेन ब्रह्मणा संविदानास्तुरीयेण मन्वत नाम धेनोः ७
वेनस्तत्पश्यदिति पञ्च ८
अयं वेन इति वा ९
तं प्रत्नथेति त्रयोदशानामुत्तमां परिशिष्याहूय दूरोहणं यथा विषुवति १०
उत्तमामुपसंशस्य यज्ञो बभूवेति परिधाय प्रजापत इति यजति ११
सप्तदश गवां शतानि ददाति १२
सप्तदश वाससाम् १३
सप्तदश यानानि युक्तानि रथान्हस्तिनो निष्कान्दुन्दुभीन् १४
तानि सप्त सप्तदशानि भवन्ति १५
स आप्तोवाजपेयः १६
वयसोवयसः सप्तदशसप्तदशेति कुरुवाजपेयः १७

॥15.4॥ बृहस्पतिसवक्रतुप्रकरणम्
वाजपेयेनेष्ट्वा बृहस्पतिसवः १
तेजस्कामस्य ब्रह्मवर्चसकामस्य च २
रोहो वै वाजपेयस्तेजो ब्रह्मवर्चसं बृहस्पतिसवः ३
तत्तेजसि ब्रह्मवर्चसे प्रतितिष्ठति ४
त्रिवृत्स्तोमः ५
रथन्तरं पृष्ठम् ६
तृचकॢप्तं शस्त्रम् ७
अग्निष्टोमो यज्ञः ८
यस्तस्तम्भेति चतस्रोऽनुपूर्वं पुरस्तात्सूक्तानामेकैकां निष्केवल्यप्रभृतिषु ९
त्रयस्त्रिंशद्दक्षिणा १०
अनुसवनमेकादशैकादश ११
अनूबन्ध्यस्य वपायां
संस्थितायां वडवां ब्रह्मणेऽनुशिशुम् १२

॥15.5॥ अप्तोर्यामप्रकरणम्
प्रजापतिर्ह देवान्सृष्ट्वा तेभ्य एतदन्नपानं ससृज एतान्यज्ञान् । अग्निष्टोमं प्रथमम् स एनान्नान्वभवत् । अथात्यग्निष्टोमम् । स एनान्नान्वभवत् । अथोक्थ्यम् स एनान्नान्वभवत् । अथ षोलशिनम् । स एनान्नान्वभवत् । अथ वाजपेयम् स एनान्नान्वभवत् । अथातिरात्रम् । स एनान्नान्वभवत् । अथाप्तोर्यामाणम् स एनानन्वभवत् १
तस्य त्रयस्त्रिंशत्स्तोत्राणि २
त्रयस्त्रिंशच्छस्त्राणि ३
त्रयस्त्रिंशदुक्थ्याहुतयः ४
त्रयस्त्रिंशद्वै सर्वे देवाः ५
तदेनान्स्तोत्रैः शस्त्रैरुक्थ्याहुतिभिरिति प्रत्येकं सर्वान्प्रीणाति ६
तस्य नव स्तोमाः ७
नव पृष्ठानि ८
षट् संस्थाः ९
परिग्रहेण तानि चतुर्विंशतिः १०
चतुर्विंशतिर्वै संवत्सरस्यार्धमासाः ११
संवत्सरस्यैवाप्त्यै १२
आप्तो वै बतायं यामो यो देवाँश्च संवत्सरं चानुभवतीति । तस्मादाप्तोर्यामः १३

॥15.6॥ अप्तोर्यामप्रकरणम्
छान्दोमाः पवमानाः १
त्रिवृत्पञ्चदशे सप्तदशैकविंशे चाज्यानि २
त्रिणवानि पृष्ठानि ३
त्रयस्त्रिंशमग्निष्टोमसाम ४
य आज्यानां स्तोमास्तेऽतिरिक्तोक्थानाम् ५
एतैर्वै प्रजापतिरुभयतोऽग्निष्टोमस्तोमैः सर्वान्कामानुभयतः परिगृह्यात्मन्नदधत ६
तथो एवैतद्यजमान एतैरेवोभयतोऽग्निष्टोमस्तोमैः सर्वान्कामानुभयतः परिगृह्यात्मन्धत्ते ७
विश्वजितः सर्वपृष्ठात्सहौत्रं प्रातःसवनम् ८

॥15.7॥ एकाहप्रकरणम्
कयाशुभीयं चातुर्थाह्निके चैकाहिकात्पूर्वाणीति मरुत्वतीयम् १
बृहद्वैराजगर्भं होतुः पृष्ठं भवति रथन्तरं वा २
वामदेव्यं शाक्वरगर्भं मैत्रावरुणस्य ३
श्यैतं वैरूपगर्भं ब्राह्मणाच्छंसिनो नौधसं वा ४
कालेयं रैवतगर्भमच्छावाकस्य ५
गर्भं पूर्वं शंसेदिति हैक आहुरथात्मानमिति ६
आत्मानं त्वेव पूर्वं शंसेत् ७
आत्मानं वा अनूगर्भः ८
ऐकाहिकान्स्तोत्रियाञ्छस्त्वा विश्वजितः सर्वपृष्ठात्स्तोत्रियाञ्छंसन्ति ९
तथानुरूपान् १०
सामप्रगाथांश्च ११

॥15.8॥ अप्तोर्यामप्रकरणम्
तदिदासीयं चातुर्थाह्निके चैकाहिकात्पूर्वाणीति निष्केवल्यम् १
यानि पाञ्चमाह्निकानि मध्यतस्त्रीणि मैत्रावरुणस्यैकाहिकाभ्यां पूर्वाणि २
तार्तीयाह्निके ब्राह्मणाच्छंसिनः ३
अच्छावाकस्य षष्ठाह्निके ४
अनुचरप्रभृति षष्ठात्तृतीयसवनम् ५
आश्विनादूर्ध्वमतिरिक्तोक्थानि ६
जराबोध जरमाण इति स्तोत्रियानुरूपौ होतुः ७
त्यमु वः सत्रासाहमिति मैत्रावरुणस्य ८
कं ते दाना असक्षत यदद्य कच्च वृत्रहन्निति ब्राह्मणाच्छंसिनः ९
तद्वो गाय स्तोत्रमिन्द्राय गायतेति वा १०
इदं विष्णुरित्यच्छावाकस्य ११
उत्तरे च पूर्वा चानुरूपः १२
एषो उषा दूरादिहेवो दीराथामा मे हवमित्यनुपूर्वं नवर्चानि १३
आ भातीति होतुः १४
उत्तरं मैत्रावरुणस्य १५
आ गोमतेति ब्राह्मणाच्छंसिनः १६
उत्तरमच्छावाकस्य १७
क्षेत्रस्य पतिनेति त्रयाणां तिस्रः परिधानीयाः १८
शं नो देवः सविता त्रायमाण इत्यच्छावाकस्य १९
इमे सोमास इमे मन्द्रासोऽत्या यातं निवत आ नो गच्छतं हवनेति याज्याः २०
पुराणमोकः सख्यं शिवं वामिति वानुपूर्वं चतस्रः २१

॥15.9॥ एकाहप्रकरणम्
यमस्तोमः १
यमो ह स्वर्गकामस्तपस्तप्त्वैतं यज्ञक्रतुमपश्यद्यमस्तोमम् । तमाहरत् । तेनायजत । तेनेष्ट्वा स्वर्गमाप्नोत् । तेन स्वर्गकामो यजेत २
स्तोत्रियानुरूपाञ्छस्त्राणामुद्धृत्य सामातानांश्च ३
यावत्यस्ता भवन्ति तावत्यस्तद्देवतास्तच्छन्दस उपजायन्ते ४
परेयिवांसमिति पञ्चानां पुरस्ता-
त्सूक्तानामेकैकां मध्यन्दिने ५

॥15.10॥ एकाहप्रकरणम्
गायत्रः सर्वस्वारो मरणकामस्य स्वर्गकामस्य च १
त्रैष्टुभः सर्वनिधनः प्रतिष्ठाकामस्य २
जागतः सर्वेलः पशुकामस्य च ३
आनुष्टुभः सर्ववाङ्निधनः श्रुतकामस्य ४
प्रत्यक्षं संपदा वा ५
नृजित्प्रभृतिभ्यो निविद्धानानि ६
१०
॥15.11॥ एकाहप्रकरणम्
वागकामयत । सर्वेषां भूतानां श्रैष्ठ्यं स्वाराज्यमाधिपत्यं परीयामिति । सैतं यज्ञक्रतुमपश्यद्वाचःस्तोमम् । तमाहरत् । तेनायजत । तेनेष्ट्वा सर्वेषां भूतानां श्रैष्ठ्यं स्वाराज्यमाधिपत्यं पर्यैत् । तथो एवैतद्यजमानो यद्वाचःस्तोमेन यजते सर्वेषां भूतानां श्रैष्ठ्यं स्वाराज्यमाधिपत्यं पर्येति १
शते बहिष्पवमानः २
सहस्र आज्यम् ३
अयुते प्रयुते नियुतेऽर्बुदे न्यर्बुदे निखर्वादे समुद्रे सलिले ऽन्त्येऽनन्त्य इति स्तोत्राणि ४
सर्वा ऋचः प्रयुज्यन्तेऽभ्यावर्तं स्तोमातिशंसनाय ५
सामानि यजूंषि च ६
उत्थाय चाग्निष्टोमः ७
सहस्रं दक्षिणा वाचःस्तोमस्य ८
महायज्ञे ९
विनुत्त्यभिभूत्योः १०
सर्वजिद्धनजितोः ११
विश्वजिदभिजितोः १२
स्वर्जिदिन्द्रवज्रयोः १३
आप्तोर्यामे च १४
अनादेशे प्रकृतिर्दक्षिणानाम् १५
११
॥15.12॥ राजसूयप्रकरणम्
वरुणोऽकामयत । सर्वेषां राज्यानां श्रैष्ठ्यं स्वाराज्यमाधिपत्यं परीयामिति । स एतं यज्ञक्रतुमपश्यद्राजसूयम् । तमाहरत् । तेनायजत । तेनेष्ट्वा सर्वेषां राज्यानां श्रैष्ठ्यं स्वाराज्यमाधिपत्यं पर्यैत् । तथो एवैतद्यजमानो यद्राजसूयेन यजते सर्वेषां राज्यानां श्रैष्ठ्यं स्वाराज्यमाधिपत्यं पर्येति १
भार्गवो होता २
ऐन्द्रापौष्णेन बस्तेनेष्ट्वा माघ्या अमावास्याया एकाह उपरिष्टाद्दीक्षेत पवित्राय ३
म एवायं चतुष्टोमो रथन्तरपृष्ठोऽग्निष्टोमः ४
एष एव पवित्रः । एतेन ह पूतः सवमश्नुते ५
अष्टम्यां सुत्यमहः ६
इष्टिभिः पक्षशेषम् ७
फाल्गुन्यां प्रयुज्य चातुर्मास्यानि ८
षण्मास्यं च पशुम् ९
माध्यां शुनासीरीयम् १०
उत्तरं मासमिष्टिभिः ११
फाल्गुन्यां दीक्षतेऽभिषेचनी-यदशपेयाभ्याम् १२
द्वादश दीक्षास्तिस्र उपसदः १३
सुत्यं षोलशमहः १४
षोलशकलं वा इदं सर्वम् १५
अस्यैव सर्वस्याप्त्यै १६
१२
॥15.13॥ राजसूयप्रकरणम्
सह सोमौ क्रीणन्ति १
दशपेयस्य च तन्त्रमातिथ्यापर्यन्तमूर्ध्वं चावभृथात् २
त्वमग्ने वरुण इत्याज्यं वरुणन्यङ्गम् ३
वरुणं ह्यभिषिञ्चन्ति ४
चतुर्विंशा-न्मध्यन्दिनः ५
मैत्रावरुण्यन्तरेण निष्केवल्यमरुत्वतीये ६
तत्राभिषिच्यते प्राक् स्विष्टकृतः ७
तस्याः प्रदानं स्विष्टकृदिलं च ८
द्वितीयाद-ह्नस्तृतीयसवनम् ९
तदुक्थ्यं संतिष्ठते १०
पशवो वा उक्थ्यानि ११
पशूनामेवाप्त्यै १२
यन्त्यवभृथम् १३१
क्रियतेऽवभृथकर्म । न स्नाति १४
कृष्णाजिनस्य दक्षिणं पूर्वपादमुदकेऽवधाय प्रत्याहरन्ति वसनस्य वा दशाम् १५
१३
॥15.14॥ राजसूयप्रकरणम्
अथोत्तरं देवयजनमध्यवस्यति १
तत्संसृपामिष्टिभिर्यजते २
दशभिर्दशरात्रम् ३
अथ सवित्रे प्रसवित्रे । सवित्र आसवित्रे । सवित्रे सत्यप्रसवायेति ॥ सरस्वत्यै वाचे । त्वष्ट्रे रूपेभ्यः । पूष्णे पथिभ्यः । इन्द्रायास्मै । बृहस्पतये तेजसे । सोमाय राज्ञे । विष्णवे शिपिविष्टायेति ४
दशम्यां दशपेयः ५
अपि वैताभिर्दशभिर्देवताभिः प्रसर्पेयुर्वा भक्षयेयुर्वा ६
सवित्रे प्रसवित्रे प्रसर्पाणीति वा सवित्र आसवित्रे भक्षयामीति वा ७
येषामुभयतः श्रोत्रिया दशपुरुषं ते याजयेयुः ८
शतं ब्राह्मणाः सोमं भक्षयन्ति ९
दशदशैकैकं चमसम् १०
तस्माद्दशपेयः ११
उत्थाय पञ्चबिलश्चरुः १२
समाप्ते श्येनीपृषतीभ्यां पष्ठौहीभ्यां गर्भिणीभ्यामादित्या पूर्वा वैश्वदेवी वा मारुत्युत्तरा १३
१४
॥15.15॥ राजसूयप्रकरणम्
अथ सौत्रामणी १
आश्विनो लोहोऽजः २
सारस्वती मेषी ३
इन्द्राय सुत्राम्ण
ऋषभः ४
पर्यग्निकृतेषु सुरासोमेन चरन्ति ५
पवित्रेण पुनीहि मा शुक्रेण देव दीद्यत्
अग्ने क्रत्वा क्रतूंरभि
इति सुरां स्रवन्तीमुपतिष्ठन्ते ६
पितृदेवत्याभिर्वा ७
युवं सुराममिति पुरोनुवाक्या ८
होता यक्षदश्विना सरस्वतीमिन्द्रं सुत्रामाणमिति प्रैषः ९
सर्वानेके विकृतानामनन्ति १०
तदु तथा न कुर्यादासुरं तत् ११
पुत्रमिवेति याज्या १२
यमश्विना नमुचावासुरे दधि सरस्वत्यसुनोदिन्द्रियाय
इमं तं शुक्रं मधुमन्तमिन्दुं सोमं राजानमिह भक्षयामि
इति भक्षमन्त्रः सुरायाः १३
ब्राह्मणं सुरापं परिक्रीणीयादिति भक्ष उपनीयते १४
१५
॥15.16॥ राजसूयप्रकरणम्
उत ऊर्ध्वं केशवपनीयः १
त्रैधातव्युदवसानीया २
आग्नावैष्णव ऐन्द्रावैष्णवो वा ३
व्युष्टिरतो द्विरात्रः ४
अग्निष्टोमोऽतिरात्रश्च ५
वि वा एतस्मै ब्राह्मणायोच्छति यो वेदमनुब्रूते ६
व्यु तस्मै क्षत्रियायोच्छति योऽभिषेकं प्राप्नोति ७
अथैतेन क्षत्रस्य धृतिना यजते ८
चतुष्टोमेन रथन्तरपृष्ठेनाग्निष्टोमेन ९
तेनो ह त्रिष्टोमेन वृद्धद्युमन् आभिप्रतारिण ईजे १०
तमु ह ब्राह्मणो ऽनुव्याजहार । न क्षत्रस्य धृतिनायष्ट इममेव प्रति समरं कुरवः कुरुक्षेत्राच्च्योष्यन्त इति ११
तदु किल तथैवास यथैवैनं प्रोवाच १२
तस्मात्तु चतुष्टोमेनैव यजेत १३
प्रतिष्ठा वै यज्ञानां चतुष्टोमः १४
प्रतिष्ठित्या एव १५
अयुतं दक्षिणा १६
न ह वा एतस्माद्राष्ट्रान्न तस्यै विशो युवते योऽयुतं ददाति १७
तदयुतस्यायुतत्वम् १८
शतं वा सहस्राणि १९
१६
॥15.17॥ राजसूयप्रकरणम्
हरिश्चन्द्रो ह वैधस ऐक्ष्वाको राजापुत्र आस
तस्य ह शतं जाया बभूवुः
तासु ह पुत्रं न लेभे
तस्य ह पर्वतनारदौ गृह ऊषतुः
स ह नारदं पप्रच्छ
यन्न्विमं पुत्रमिच्छन्ति ये च जानन्ति ये च न
किं स्वित्पुत्रेण विन्दते तन्नः प्रब्रूहि नारद । इति
स एकया पृष्टो दशभिः प्रत्युवाच
ऋणमस्मिन्मंनयत्यमृतत्वं च विन्दते
पिता पुत्रस्य जातस्य पश्येच्चेज्जीवतो मुखम्
यावन्तः पृथिव्यां भोगा यावन्तो जातवेदसि
यावन्तो अप्सु प्राणिनां भूयान्पुत्रे पितुस्ततः
शश्वत्पुत्रेण पितरो अत्यायन्बहुलं तमः
आत्मा हि जज्ञ आत्मनः म इरावत्यतितारिणी
किं नु मलं किमजिनं किमु श्मश्रूणि किं तपः
पुत्रं ब्रह्माण इच्छध्वं स वै लोकोऽवदावदः
अन्नं ह प्राणः शरणं ह वासो रूपं हिरण्यं पशवोऽविवाहाः
सखा ह जाया कृपणं ह दुहिता ज्योतिर्ह पुत्रः परमे व्योमन्
पतिर्जायां प्रविशति गर्भो भूत्वाथ मातरम्
तस्यां पुनर्नवो भूत्वा दशमे मासि जायते
तज्जाया जाया भवति यदस्यां जायते पुनः
आभूतिरेषाभूतिर्बीजमेतन्निधीयते
देवाश्चैतामृषयश्च तेजः समभरन्महत्
देवा मनुष्यानब्रुवन्नेषा वो जननी पुनः
एष पन्था विततो देवयानो येनाक्रमन्ते पुत्रिणो ये विशोकाः
तं पश्यन्ति पशवो वयांसि तस्मात्ते मात्रापि मिथुनं चरन्ति
नापुत्रस्य लोकोऽस्तीति तत्सर्वे पशवो विदुः
तस्मात्तु पुत्रो मातरं स्वसारं चाधिरोहति । इति १७
॥15.18॥ राजसूयप्रकरणम्
स होवाच । स वै मे ब्रूहि यथा मे पुत्रो जायेतेति । तं होवाच ।
वरुणं राजानमुपधाव पुत्रो मे जायतां तेन त्वा यजा इति । तथेति । स वरुणं राजानमुपससार । पुत्रो मे जायतां तेन त्वा यजा इति । तथेति । तस्य ह पुत्रो जज्ञे रोहितो नाम । तं वरुण उवाच । अजनि वै ते पुत्रो यजस्व मानेनेति । स होवाच । यदा वै पशुर्निर्दशो भवत्यथ स मेध्यो भवति निर्दशो न्वस्त्वथ त्वा यजा इति । तथेति । स ह निर्दश आस । तं होवाच । निर्दशो वा अभूद्यजस्व मानेनेति । स होवाच । यदा वै पशोर्दन्ता जायन्तेऽथ स मेध्यो भवति दन्ता न्वस्य जायन्तामथ त्वा यजा इति तथेति । तस्य ह दन्ता जज्ञिरे । तं होवाच । अज्ञत वा अस्य दन्ता यजस्व मानेनेति । स होवाच । यदा वै पशोर्दन्ताः पद्यन्तेऽथ स मेध्यो भवति दन्ता न्वस्य पद्यन्तामथ त्वा यजा इति । तथेति । तस्य ह दन्ताः पेदिरे । तं होवाच । अपत्सत वा अस्य दन्ता यजस्व मानेनेति स होवाच । यदा वै पशोर्दन्ताः पुनर्जायन्तेऽथ स मेध्यो भवति दन्ता न्वस्य पुनर्जायन्तामथ त्वा यजा इति । तथेति । तस्य ह दन्ताः पुनर्जज्ञिरे । तं होवाच । अज्ञत वा अस्य पुनर्दन्ता यजस्व मानेनेति । स होवाच । यदा वै क्षत्रियः संनाहं प्राप्नोत्यथ स मेध्यो भवति संनाहं नु प्राप्नोत्वथ त्वा यजा इति । तथेति । स ह संनाहं प्राप । तं होवाच । प्रापद्वै संनाहं यजस्व मानेनेति । स तथेत्युक्त्वा पुत्रमामन्त्रयां चक्रे । ततायं वै मह्यं त्वामददाद्धन्त त्वयाहमिमं यजा इति । स नेत्युक्त्वा धनुरादायारण्यमुपातस्थौ । स संवत्सरमरण्ये चचार । अथ हैक्ष्वाकं राजानं वरुणो जग्राह । तस्य होदरं जज्ञे । तदु ह रोहितः शुश्राव । सोऽरण्याद्ग्राममेयाय । तमिन्द्रः पुरुषरूपेण पर्येत्योवाच १८
॥15.19॥ राजसूयप्रकरणम्
नाना श्रान्ताय श्रीरस्तीति रोहित शुश्रुम
पापो निषद्वरो जन इन्द्र इच्चरतः सखा
चरैव रोहितेति चरैवेति वै मा ब्राह्मणोऽवोचदिति । स द्वितीयं संवत्सरमरण्ये चचार । सोऽरण्याद्ग्राममेयाय । तमिन्द्रः पुरुषरूपेणपर्येत्योवाच
आस्ते भग आसीनस्योर्ध्वस्तिष्ठति तिष्ठतः
शेते निपद्यमानस्य चराति चरतो भगः
चरैव रोहितेति चरैवेति वै मा ब्राह्मणोऽवोचदिति । स तृतीयं संवत्सरमरण्ये चचार । सोऽरण्याद्ग्राममेयाय । तमिन्द्रः पुरुषरूपेण पर्येत्योवाच
कलिः शयानः पुरुषः संजिहानस्तु द्वापरः
उत्थितस्त्रेता भवति कृतं संपद्यते चरन्
चरैव रोहितेति चरैवेति वै मा ब्राह्मणोऽवोचदिति । स चतुर्थं संवत्सरमरण्ये चचार । सोऽरण्याद्ग्राममेयाय । तमिन्द्रः पुरुषरूपेणपर्येत्योवाच
पुष्पिण्यौ चरतो जङ्घे भूष्णुरात्मा फलेग्रहिः
शेरतेऽस्य सर्वे पाप्मानः श्रमेण प्रपथे हताः
चरैव रोहितेति चरैवेति वै मा ब्राह्मणोऽवोचदिति । स पञ्चमं संवत्सरमरण्ये चचार । सोऽरण्याद्ग्राममेयाय । तमिन्द्रः पुरुषरूपेण पर्येत्योवाच
चरन्वै मधु विन्दति चरन्पक्वमुदुम्बरम्
सूर्यस्य पश्य श्रमणं यो न तन्द्रयते चरन्
चरैव रोहितेति चरैवेति वै मा ब्राह्मणोऽवोचदिति । स षष्ठं संवत्सरमरण्ये चचार । सोऽरण्याद्ग्राममेयाय । तमिन्द्रः पुरुषरूपेण पर्येत्योवाच
चरन्वै मधु विन्दत्यपचिन्वन्परूषकम्
उत्तिष्ठन्विन्दते श्रियं न निषत्किंचनावति
चरैव रोहितेति चरैवेति वै मा ब्राह्मणोऽवोचदिति । स सप्तमंसंवत्सरमरण्ये चचार । सोऽजीगर्तं सौयवसिमृषिमशनायापरीतं पुत्रं भक्षमाणम-
रण्यमुपेयाय १९
॥15.20॥ राजसूयप्रकरणम्
तस्य ह त्रयः पुत्रा आसुः शुनःपुच्छः शुनःशेपः शुनोलाङ्गूल इति । तं होवाच ऋषे हन्ताहमेषामेकेनात्मानं निष्क्रीणा अहं ते गवां शतं ददानीति । स ज्येष्ठं निगृह्णान उवाच । न न्विममिति । नो एवेममिति कनिष्ठं माता । तौ मध्यमे संपादयां चक्रतुः शुनःशेपे । तस्य ह शतं दत्त्वा तमादाय सो ऽरण्याद्ग्राममेयाय । पितरमेत्योवाच । तत हन्ताहमनेनात्मानं निष्क्रीणा इति । स तथेत्युक्त्वा वरुणं राजानमामन्त्रयां चक्रे । अनेन त्वा यजा इति तथेति । श्रेयान्वै ब्राह्मणः क्षत्रियादिति । तस्मा एतं राजसूयं यज्ञक्रतुं
प्रोवाच । स एतं राजसूये पुरुषं पशुमालेभे २०
॥15.21॥ राजसूयप्रकरणम्
तस्य ह विश्वामित्रो होतामायास्य उद्गाता जमदग्निरध्वर्युर्वसिष्ठो ब्रह्मा । तस्मा उपाकृताय नियोक्तारं न विविदुः । स होवाचाजीगर्तः सौयवसिः । मह्यमपरं शतं दत्ताहमेनं नियोक्ष्यामीति । तस्मा अपरं शतं ददुः । तं स नियुयोज तस्मा उपाकृताय नियुक्ताय पर्यग्निकृताय विशास्तारं न विविदुः । स होवाचाजीगर्तः सौयवसिः । मह्यमपरं शतं दत्ताहमेनं विशसिष्यामीति । तस्मा अपरं शतं ददुः । सोऽसिं निश्यान एयाय । अथ ह शुनःशेप ईक्षामास अमानुषमिव वै मा विशसिष्यन्ति हन्त देवता उपधावानीति २१
॥15.22॥ राजसूयप्रकरणम्
स प्रजापतिमेव प्रथमं देवतानामुपससार कस्य नूनं कतमस्यामृताना-मित्येतयर्चा । तं प्रजापतिरुवाच । अग्नेर्वै नेदिष्ठोऽसि तमेवोपधावेति । सोऽग्निमुपससाराग्नेर्वयं प्रथमस्यामृतानामित्येतयर्चा । तमग्निरुवाच । सविता वै प्रसवानामीशे तमेवोपधावेति । स सवितारमुपससाराभि त्वा देव सवितरित्येतेन तृचेन । तं सवितोवाच । वरुणाय वै राज्ञे नियुक्तो ऽसि तमेवोपधावेति । स वरुणं राजानमुपससारात उत्तराभिरेकत्रिंशता । तं वरुण उवाच । अग्निर्वै देवानां मुखं सुहृदयं तं नु स्तुह्यथ त्वोत्स्रक्ष्यामीति सोऽग्निं तुष्टावात उत्तराभिरेव द्वाविंशत्या । तमग्निरुवाच । विश्वान्नु देवान्स्तुह्यथ त्वोत्स्रक्ष्यामीति । स विश्वान्देवांस्तुष्टाव नमो महद्भ्यो नमो
अर्भकेभ्य इत्येतयर्चा । तं विश्वे देवा ऊचुः । इन्द्रं नु स्तुह्यथ त्वोत्स्रक्ष्याम इति । स इन्द्रं तुष्टाव यच्चिद्धि सत्य सोमपा इत्वेतेव सूक्तेनोत्तरस्य च पञ्चदशभिः । तस्मा इन्द्रः स्तूयमानो मनसा हिरण्यरथं ददौ । तमेतयर्चा प्रतीयाय शश्वदिन्द्र इति । तमिन्द्र उवाच । अश्विनौ नु स्तुह्यथ त्वोत्स्रक्ष्यामीति । सोऽश्विनौ तुष्टावात उत्तरेण तृचेन । तमश्विना ऊचतुः उषमं नु स्तुह्यथ त्वोत्स्रक्ष्याव इति । स उषसं तुष्टावात उत्तरेणैव तृचेन । तस्य ह स्मर्च्यृच्युक्तायां नितरां पाशो मुमुचे कनीय ऐक्ष्वाकस्योदरं बभूव । उत्तमायां ह स्मर्च्युक्तायां वि पाशो मुमुचेऽगद ऐक्ष्वाको बभूव । अथ हैममृत्विज ऊचुः । त्वमेवैतस्याह्नः संस्थामधिगच्छेः २२
॥15.23॥ राजसूयप्रकरणम्
अथ हैनमञ्जःसवं शुनःशेपो ददर्श । यच्चिद्धि त्वं गृहेगृह इति तमेताभिश्चतसृभिरभिषुत्योच्छिष्टं चम्वोर्भरेति द्रोणकलशे समवनिनाय । अथास्मिन्नन्वारब्ध एतस्यैव सूक्तस्य पूर्वाभिश्चतसृभिर्जुहवां चकार । अथ हैनमवभृयमभ्यवनिनाय स त्वं नो अग्नेऽवमस्त्वं नो अग्ने वरुणस्य विद्वानित्येताभ्यामृग्भ्याम् । अथ हैनमग्निमुपस्थापयामास शुनश्चिच्छेपं निदितं सहस्रादित्येतयर्चा २३
॥15.24॥ राजसूयप्रकरणम्
अथ ह शुनःशेपो विश्वामित्रस्योपस्थमाससार । तं होवाचाजीगर्तः सौयवसिः पुनर्मे पुत्रं देहीति । नेति होवाच विश्वामित्रः । देवा वा इमं मह्यमरासतेति स ह देवरातो नाम वैश्वामित्र आस । तं होवाचाजीगर्तः सौयवसिः । तं वै विह्वयावहा इति तथेति
आङ्गिरसो जन्मनाम्याजीगर्तः श्रुतः कविः
ऋषे पैतामहात्तन्तोर्मापगाः पुनरेहि माम् । इति
 
स होवाच शुनःशेपः
अद्राक्षुस्त्वा शासहस्तं न यच्छूद्रेष्वलिप्सत
गवां त्रीणि शतानि त्वमवृणीथा मदङ्गिरः । इति

तं होवाचाजीगर्तः सौयवसिः
तद्वै मा तात तपति पापं कर्म मया कृतम्
तदहं निह्नवे तुभ्यं प्रतियन्तु शता गवाम् । इति
 
स होवाच शुनःशेपः
यः सकृत्पापकं कुर्यात्कुर्यादेनस्ततोऽपरम्
मापगाः शौद्रान्न्यायादमंधेयं त्वया कृतम् । इति
 
असंधेयमिति वा अवोचदिति ह विश्वामित्र उपपपाद २४
॥15.25॥ राजसूयप्रकरणम्
भीम एव सौयवसिः शासेन विशिशासिषत्
अस्थान्मैतस्य पुत्रो भूर्ममैवोपेहि पुत्रताम् । इति
 
स होवाच शुनःशेपः
स वै यथा नो ज्ञपया राजपुत्र तथा वद
यथैवाङ्गिरसः सन्नुपेयां तव पुत्रताम् । इति
  
तं होवाच विश्वामित्रः
ज्येष्ठो मे त्वं पुत्राणां स्यास्तव श्रेष्ठा प्रजा स्यात्
उपेया दैवं मे दायं तेन वै त्वोपमन्त्रये । इति

स होवाच शुनःशेपः
संजानानेषु वै ब्रूयाः मे सौहार्दाय मे श्रियै
यथाहं भरतर्षभोपेयां तव पुत्रताम् । इति

अथ ह विश्वामित्रः पुत्रानामन्त्रयां चक्रे २५
॥15.26॥
मधुच्छन्दाः शृणोतन ऋषभो रेणुरष्टकः
ये के च भ्रातरः स्था अस्मै ज्यैष्ठ्याय तिष्ठध्वम् । इति

तस्य हैकशतं पुत्रा आसुः । पञ्चाशदेव ज्यायांसो मधुच्छन्दसः पञ्चाशत्कनीयांसः । तद्ये ज्यायांसो न ते कुशलं मेनिरे । ताननुव्याजहार । अन्तं वः प्रजा भक्षीष्टेति । त एते । अन्ध्राः पुण्ड्राः शबरा मूचीपा इति । उदञ्चो बहुदस्यवो वैश्वामित्रा दस्यूनां भूयिष्ठा इत्युदाहरन्ति । अथ ये मधुच्छन्दःप्रभृतयः कनीयांसस्ते
कुशलं मेनिरे ।

स ह जगौ मधुच्छन्दाः
यं नः पिता संजानीते तस्मिंस्तिष्ठामहे वयम्
पुरस्तात्सर्वे कुर्महे त्वामन्वञ्चो वयं स्मसि । इति

अथ ह विश्वामित्रः प्रतीतः पुत्रांस्तुष्टाव २६
॥15.27॥ राजसूयप्रकरणम्
ते वै पुत्राः पशुमन्तः प्रजावन्तो भविष्यथ
ये मानं मेऽनुगृह्णन्तो वीरवन्तमकर्त मा
पुरएत्रा वीरवन्तो देवरातेन गाथिनाः
सर्वे राध्यास्तु पुत्रा एष वस्तद्विवाचनः
एष वः कुशिका वीरो देवरातस्तमन्वित
युष्मांश्च दायं चोपेतां विद्यां यामुत विद्मसि
ते सम्यञ्चो वैश्वामित्राः सर्वे साकं सरातयः
देवराताय तस्थिरे ज्यैष्ठ्ये श्रैष्ठ्ये च गाथिनाः
अधीयते देवरातो रिक्थयोरुभयोरृषिः
जह्नूनां चाधितस्थिरे दैवे वेदे च गाथिनाः
तदेतच्छौनःशेपमाख्यानं परःशतर्ग्गाथमपरिमितम् । तद्धोताभिषिक्तायाचष्टे
हिरण्यकशिपावासीन आचष्टे । हिरण्यकशिपावासीनः प्रतिगृणाति । ओमित्यृचः प्रतिगरः । एवं तथेति गाथायाः । ओमिति वै दैवं तथेति मानुषम् । दैवेन चैवैनं तन्मानुषेण च सर्वस्मादेनसः संप्रमुञ्चति । तस्माद्यो राजाविजिती स्यादप्ययजमान आख्यापयेतैवैतच्छौनःशेपमाख्यानम् । न ह्यस्मिन्नल्पं चनैनः परिशिष्यते । सहस्रमाख्यात्र शतं प्रतिगरित्र एते चैवासने।
पुत्रकामा हाप्याख्यापयन्ते । लभन्ते ह पुत्रान्लभन्ते ह पुत्रान् २७
इति शाङ्खायनश्रौतसूत्रे पञ्चदशोऽध्यायः समाप्तः