ऋग्वेदः सूक्तं १.१७८

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं १.१७७ ऋग्वेदः - मण्डल १
सूक्तं १.१७८
अगस्त्यो मैत्रावरुणिः।
सूक्तं १.१७९ →
दे. इन्द्रः। त्रिष्टुप्।
अगस्त्यः - लोपामुद्रा


यद्ध स्या त इन्द्र श्रुष्टिरस्ति यया बभूथ जरितृभ्य ऊती ।
मा नः कामं महयन्तमा धग्विश्वा ते अश्यां पर्याप आयोः ॥१॥
न घा राजेन्द्र आ दभन्नो या नु स्वसारा कृणवन्त योनौ ।
आपश्चिदस्मै सुतुका अवेषन्गमन्न इन्द्रः सख्या वयश्च ॥२॥
जेता नृभिरिन्द्रः पृत्सु शूरः श्रोता हवं नाधमानस्य कारोः ।
प्रभर्ता रथं दाशुष उपाक उद्यन्ता गिरो यदि च त्मना भूत् ॥३॥
एवा नृभिरिन्द्रः सुश्रवस्या प्रखादः पृक्षो अभि मित्रिणो भूत् ।
समर्य इष स्तवते विवाचि सत्राकरो यजमानस्य शंसः ॥४॥
त्वया वयं मघवन्निन्द्र शत्रूनभि ष्याम महतो मन्यमानान् ।
त्वं त्राता त्वमु नो वृधे भूर्विद्यामेषं वृजनं जीरदानुम् ॥५॥


सायणभाष्यम्

‘ यद्ध स्या' इति पञ्चर्चं चतुर्दशं सूक्तमागस्त्यमैन्द्रं त्रैष्टुभम् ।' यद्ध स्या' इत्यनुक्रमणिका । विशेषविनियोगः पूर्ववत् ॥


यद्ध॒ स्या त॑ इन्द्र श्रु॒ष्टिरस्ति॒ यया॑ ब॒भूथ॑ जरि॒तृभ्य॑ ऊ॒ती ।

मा न॒ः कामं॑ म॒हय॑न्त॒मा ध॒ग्विश्वा॑ ते अश्यां॒ पर्याप॑ आ॒योः ॥

यत् । ह । स्या। ते। इन्द्र । श्रुष्टिः । अस्ति । यया । बभूथ । जरितृऽभ्यः । ऊती ।

मा। नः । कामम् । महयन्तम् । आ । धक् । विश्वा। ते। अश्याम् । परि। आपः । आयोः ॥१॥

हे “इन्द्र “यत् या “स्या असौ प्रसिद्धा “श्रुष्टिः सर्वत्र श्रूयमाणा समृद्धिः “ते तव “अस्ति “यया "जरितृभ्यः स्तोतृभ्यः “ऊती ऊत्यै रक्षणाय “बभूथ समर्थो भवसि “नः अस्माकं “महयन्तम् अस्मान् महतः कुर्वाणं “कामम् अभीष्टं “मा “धक् मा धाक्षीः । “ते तव संबन्धीनि "विश्वा सर्वाणि भोगजातानि “आपः आप्तव्यानि । यद्वा । विश्वा सर्वा आपः आप्ताः श्रुतयः “आयोः मनुष्यस्योचिताः “परि "अश्यां परितो व्याप्नुयाम् ॥


न घा॒ राजेन्द्र॒ आ द॑भन्नो॒ या नु स्वसा॑रा कृ॒णव॑न्त॒ योनौ॑ ।

आप॑श्चिदस्मै सु॒तुका॑ अवेष॒न्गम॑न्न॒ इन्द्र॑ः स॒ख्या वय॑श्च ॥

न । घ । राजा । इन्द्रः । आ । दभत्। नः । या । नु । स्वसारा । कृणवन्त । योनौ ।

आपः। चित्। अस्मै । सुऽतुक: । अवेषन् । गमत्। नः । इन्द्रः । सख्या। वयः । च ॥२॥

अयं “राजा राजमान ईश्वरो वा “इन्द्रः “नः अस्मदीयानि कर्माणि “न “आ “दभत् सर्वतो न हिंस्यात् । कानीति उच्यते । “या यानि कर्माणि वृष्ट्यादिरूपाणि "स्वसारा परस्परं स्वसृभूते स्वयंसरणभूते अहोरात्रे । “नु पूरणः । “योनौ स्वकीये स्थाने “कृणवन्त ॥ द्विवचनस्थाने बहुवचनम् ॥ कुरुतः ॥ कृवि हिंसाकरणयोश्च । धिन्विकृण्व्योर च ' इति उप्रत्ययः । बहुलग्रहणात् शप् ॥ तानीन्द्रोऽप्यनुजानात्वित्यर्थः । स्वसृभूतावध्वर्युयजमानौ वा कुरुतः । यद्वा । स्वसारोऽङ्गुलयो योनौ फलोत्पादनस्थाने यज्ञे यानि कृतवन्तस्तानीति योज्यम् । किंच “अस्मै इन्द्राय "सुतुकाः शोभनबलहेतूनि “आपः अप्कार्याणि हवींषि "अवेषन व्याप्नुवन्ति । “नः अस्मभ्यम् “इन्द्रः “सख्या सख्यानि “वयश्च प्रभूतमन्नं च “गमत् गमयतु ॥


जेता॒ नृभि॒रिन्द्र॑ः पृ॒त्सु शूर॒ः श्रोता॒ हवं॒ नाध॑मानस्य का॒रोः ।

प्रभ॑र्ता॒ रथं॑ दा॒शुष॑ उपा॒क उद्य॑न्ता॒ गिरो॒ यदि॑ च॒ त्मना॒ भूत् ॥

जेता । नृऽभिः । इन्द्रः । पृत्ऽसु । शूरः । श्रोता । हवम् । नाधमानस्य । कारोः ।

प्रऽभर्ता । रथम् । दाशुषः । उपाके। उत्ऽयन्ता । गिरः। यदि । च । त्मना। भूत् ॥३॥

अयम् "इन्द्रः "शूरः विक्रान्तः सन् "नृभिः संग्रामनेतृभिर्मरुद्भिः सहितः सन् "पृत्सु संग्रामेषु “जेता जयशीलः शत्रूणां तथा "नाधमानस्य त्वदनुग्रहं याचमानस्य “कारोः स्तोतुः "हवम् आह्वानं “श्रोता भवति । किंच "यदि “च यदा च “त्मना आत्मना अनन्यप्रेरित एव “गिरः स्तुतिरूपाणि वचांसि स्तोतॄन् वा "उद्यन्ता उच्छ्रयिता “भूत् भवेत् तदा "दाशुषः हविर्दत्तवतो यजमानस्य “उपाके । समीपनामैतत् । समीपे एव यागदेशे “रथं “प्रभर्ता सम्यक् प्रभरन् भवति । जेतेत्यादिषु तृनन्तेषु ' न लोकाव्यय° ' इत्यादिना कर्मणि षष्ठीप्रतिषेधः ॥ यदा स्तुतिं श्रोतुमिच्छति तदा स्वयमेव शीघ्रं रथं धावयित्वा यागं प्राप्नोतीत्यर्थः ॥ ।


ए॒वा नृभि॒रिन्द्र॑ः सुश्रव॒स्या प्र॑खा॒दः पृ॒क्षो अ॒भि मि॒त्रिणो॑ भूत् ।

स॒म॒र्य इ॒षः स्त॑वते॒ विवा॑चि सत्राक॒रो यज॑मानस्य॒ शंस॑ः ॥

एव । नृऽभिः । इन्द्रः । सुऽश्रवस्या । प्रऽखादः । पृक्षः । अभि । मित्रिणः । भूत् ।।

सऽमर्ये । इषः । स्तवते । विऽवचि । सत्राऽकरः । यजमानस्य । शंसः ॥ ४ ॥

अयम् "इन्द्रः "नृभिः कर्मनिर्वाहकैर्यजमानैर्दत्तं "पृक्षः हविर्लक्षणमन्नं "सुश्रवस्या शोभनान्नेच्छया अन्नेच्छुर्वा "प्रखादः प्रकर्षण खादिता “एव एवम् एवमेव पूर्वं यथा तथैव "मित्रिणः सहायवतोऽपि यजमानस्य शत्रून् "अभि “भूत् अभिभवति । यद्वा । नृभिर्वृष्टिनेतृभिर्मरुद्भिः सहितोऽयमिन्द्रः सुश्रवस्या प्रखादः सन् एवमेव मित्रिण ऋत्विग्रूपमित्रवतो यजमानस्यार्थे तदभिमताय अभि भूत् । अभीत्यनर्थकः । भवति । आभिमुख्येन वा भवति । तस्य हविः स्वीकृत्य तदभिमताय भवतीत्यर्थः । अथ तथाभूः सन् "विवाचि विविधपरस्पराह्वानध्वनियुक्ते "समर्ये संग्रामे विविधस्तोत्रशस्त्रध्वनियुक्ते समर्ये मर्त्ययुक्ते यज्ञे वा तन्निमित्तं "यजमानस्य “शंसः शंसकः सन् “सत्राकरः फलानां सत्यकारी अयमिन्द्रः “इषः हविर्लक्षणमन्नं "स्तवते स्तौति ॥


त्वया॑ व॒यं म॑घवन्निन्द्र॒ शत्रू॑न॒भि ष्या॑म मह॒तो मन्य॑मानान् ।

त्वं त्रा॒ता त्वमु॑ नो वृ॒धे भू॑र्वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥

त्वया । वयम् । मघवन् । इन्द्र । शत्रून् । अभि । स्याम । महतः । मन्यमानान् ।।

त्वम् । त्राता। त्वम् । ऊँ इति । नः । वृधे । भूः । विद्याम् । इषम् । वृजनम् । जीरऽदानुम् ॥५॥

हे "मघवन् धनवन् "इन्द्र “त्वया सहायेन “वयं यजमानाः "महतो "मन्यमानान् अतिबलानवध्यान् मन्यमानान् "शत्रून् "अभि "ष्याम अभिभवितारो भवेम । हे “इन्द्र “त्वं "त्राता त्वमेवास्माकं रक्षकः। अतः “त्वमु त्वमेव “नः अस्माकं “वृधे धनादिवर्धनाय “भूः भव । विद्याम इत्यादि गतम् ॥ ॥ २१ ॥



मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१७८&oldid=182720" इत्यस्माद् पुनः प्राप्तिः