ऋग्वेदः सूक्तं १.१५६

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं १.१५५ ऋग्वेदः - मण्डल १
सूक्तं १.१५६
दीर्घतमा औचथ्यः
सूक्तं १.१५७ →
दे. विष्णुः । जगती ।


भवा मित्रो न शेव्यो घृतासुतिर्विभूतद्युम्न एवया उ सप्रथाः ।
अधा ते विष्णो विदुषा चिदर्ध्य स्तोमो यज्ञश्च राध्यो हविष्मता ॥१॥
यः पूर्व्याय वेधसे नवीयसे सुमज्जानये विष्णवे ददाशति ।
यो जातमस्य महतो महि ब्रवत्सेदु श्रवोभिर्युज्यं चिदभ्यसत् ॥२॥
तमु स्तोतारः पूर्व्यं यथा विद ऋतस्य गर्भं जनुषा पिपर्तन ।
आस्य जानन्तो नाम चिद्विवक्तन महस्ते विष्णो सुमतिं भजामहे ॥३॥
तमस्य राजा वरुणस्तमश्विना क्रतुं सचन्त मारुतस्य वेधसः ।
दाधार दक्षमुत्तममहर्विदं व्रजं च विष्णुः सखिवाँ अपोर्णुते ॥४॥
आ यो विवाय सचथाय दैव्य इन्द्राय विष्णुः सुकृते सुकृत्तरः ।
वेधा अजिन्वत्त्रिषधस्थ आर्यमृतस्य भागे यजमानमाभजत् ॥५॥


सायणभाष्यम्

‘ भवा मित्रः' इति पञ्चर्चं सप्तदशं सूक्तं दैर्घतमसम् । ' जागतं तु ' इत्युक्तत्वादिदमपि जागतम् । 'वैष्णवं हि ' इत्युक्तत्वाद्वैष्णवम् । ‘भव पञ्च' इत्यनुक्रान्तम् ॥ उक्थ्ये तृतीयसवने अच्छावाकशस्त्रे एतत् सूक्तं विनियुक्तम् । 'उक्थ्ये तु होत्रकाणाम्' इति खण्डे सूत्रितं - भवा मित्रः सं वां कर्मणा ' ( आश्व. श्रौ. ६. १) इति । सौम्यचरोरुभयतो वृतेन यष्टव्यं तत्रोपरितने घृतयागे ‘ उरु विष्णो वि क्रमस्व' इति प्राकृता याज्या। दशमेऽहनि तु तस्याः स्थाने ' भवा मित्रः इत्येषा प्रयोक्तव्या ।' दशमेऽहनि' इति खडे सूत्रितम् -' उरु विष्णो वि क्रमस्वेति घृतयाज्यास्थाने भवा मित्रः' (आश्व. श्रौ. ८. १२ ) इति ॥


भवा॑ मि॒त्रो न शेव्यो॑ घृ॒तासु॑ति॒र्विभू॑तद्युम्न एव॒या उ॑ स॒प्रथा॑ः ।

अधा॑ ते विष्णो वि॒दुषा॑ चि॒दर्ध्य॒ः स्तोमो॑ य॒ज्ञश्च॒ राध्यो॑ ह॒विष्म॑ता ॥१

भव॑ । मि॒त्रः । न । शेव्यः॑ । घृ॒तऽआ॑सुतिः । विभू॑तऽद्युम्नः । ए॒व॒ऽयाः । ऊं॒ इति॑ । स॒ऽप्रथाः॑ ।

अध॑ । ते॒ । वि॒ष्णो॒ इति॑ । वि॒दुषा॑ । चि॒त् । अर्ध्यः॑ । स्तोमः॑ । य॒ज्ञः । च॒ । राध्यः॑ । ह॒विष्म॑ता ॥१

भव । मित्रः । न । शेव्यः । घृतऽआसुतिः । विभूतऽद्युम्नः । एवऽयाः । ऊं इति । सऽप्रथाः ।

अध । ते । विष्णो इति । विदुषा । चित् । अर्ध्यः । स्तोमः । यज्ञः । च । राध्यः । हविष्मता ॥१

हे विष्णो “मित्रो “न । मितेर्दुःखात् त्राता सखा आदित्यो वा मित्रः। ‘प्रमीतेस्त्रायते' (निरु. १०. २१) इति निरुक्तम् । तद्वत् "शेव्यः सुखे साधुः सुखकर्ता “घृतासुतिः । घृतमुदकम् आसूयते येन स तादृशः । यद्वा । घृतमाज्यमाभिमुख्येन नीयते यस्मै स तादृशः । “विभूतद्युम्नः प्रभूतयशाः प्रभूतान्नो वा “एवयाः रक्षणस्य मिश्रयिता प्रापयिता । "सप्रथाः सर्वतः पृथुः । प्रतिविशेषणं नः “भव इति संबन्धः । द्व्यचोऽतस्तिङः ' इति दीर्घः। “उ इति पादपूरणः ॥ हे “विष्णो त्वं यस्मादीदृशो भवसि “अध अस्मात् “ते तव “स्तोमः स्तोत्रविशेषः “विदुषा त्वन्माहात्म्यवेदित्रा यजमानेन “अर्ध्यः पुनःपुनः प्रवर्धनार्हः । एकवारकरणे न संपूर्यते इत्यर्थः । तथा ते “यज्ञश्च "हविष्मता तेन यजमानेन “राध्यः समाराधनीयः। यद्वा । विदुषा होत्रा स्तोमो राध्यो हविष्मता यज्ञश्च राध्यः ॥


यः पू॒र्व्याय॑ वे॒धसे॒ नवी॑यसे सु॒मज्जा॑नये॒ विष्ण॑वे॒ ददा॑शति ।

यो जा॒तम॑स्य मह॒तो महि॒ ब्रव॒त्सेदु॒ श्रवो॑भि॒र्युज्यं॑ चिद॒भ्य॑सत् ॥२

यः । पू॒र्व्याय॑ । वे॒धसे॑ । नवी॑यसे । सु॒मत्ऽजा॑नये । विष्ण॑वे । ददा॑शति ।

यः । जा॒तम् । अ॒स्य॒ । म॒ह॒तः । महि॑ । ब्रव॑त् । सः । इत् । ऊं॒ इति॑ । श्रवः॑ऽभिः । युज्य॑म् । चि॒त् । अ॒भि । अ॒स॒त् ॥२

यः । पूर्व्याय । वेधसे । नवीयसे । सुमत्ऽजानये । विष्णवे । ददाशति ।

यः । जातम् । अस्य । महतः । महि । ब्रवत् । सः । इत् । ऊं इति । श्रवःऽभिः । युज्यम् । चित् । अभि । असत् ॥२

"यः यो मर्त्यः “पूर्व्याय पूर्वकालीनाय नित्यायेत्यर्थः । "वेधसे विविधजगत्कर्त्रे “नवीयसे नित्यनूतनाय अत्यन्तरमणीयायेत्यर्थः । स्तुत्याय वा “सुमज्जानये स्वयमेवोत्पन्नाय ॥ जनेरौणादिक इण् ॥ ‘ सुमत्स्वयमित्यर्थः' (निरु. ६. २२) इति यास्कः । यद्वा । सुतरां मादयतीति सुमत्। तादृशी जाया यस्य स तथोक्तः । तस्मै सर्वजगन्मादनशीलश्रीपतये इत्यर्थः ॥ बहुव्रीहौ ‘जायाया निङ्' (पा. सू. ५. ४. १३४ ) इति निङादेशः समासान्तः । वलि लोपः ॥ उक्तगुणकाय "विष्णवे व्यापकाय “ददाशति हविरादिकं ददाति । किंच "अस्य विष्णोः "महतः महानुभावस्य “महि महत् पूज्यं “जात जन्म उत्पतिं हिरण्यगर्भादिरूपं जन्म “ब्रवत् ब्रूयात् ॥ ब्रवीतेर्लेटि अडागमः ॥ संकीर्तयेत्। “सेदु । उशब्दोऽपिशब्दार्थः । सोऽपि दाता स्तोता च “श्रवोभिः अन्नैः कीर्तिभिर्वा युक्तः सन् “युज्यं “चित सर्वैर्गन्तव्यमेव तत्पदम् “अभि आभिमुख्येन “असत् गच्छति प्राप्नोति ॥


तमु॑ स्तोतारः पू॒र्व्यं यथा॑ वि॒द ऋ॒तस्य॒ गर्भं॑ ज॒नुषा॑ पिपर्तन ।

आस्य॑ जा॒नन्तो॒ नाम॑ चिद्विवक्तन म॒हस्ते॑ विष्णो सुम॒तिं भ॑जामहे ॥३

तम् । ऊं॒ इति॑ । स्तो॒ता॒रः॒ । पू॒र्व्यम् । यथा॑ । वि॒द । ऋ॒तस्य॑ । गर्भ॑म् । ज॒नुषा॑ । पि॒प॒र्त॒न॒ ।

आ । अ॒स्य॒ । जा॒नन्तः॑ । नाम॑ । चि॒त् । वि॒व॒क्त॒न॒ । म॒हः । ते॒ । वि॒ष्णो॒ इति॑ । सु॒ऽम॒तिम् । भ॒जा॒म॒हे॒ ॥३

तम् । ऊं इति । स्तोतारः । पूर्व्यम् । यथा । विद । ऋतस्य । गर्भम् । जनुषा । पिपर्तन ।

आ । अस्य । जानन्तः । नाम । चित् । विवक्तन । महः । ते । विष्णो इति । सुऽमतिम् । भजामहे ॥३

हे “स्तोतारः “तमु तमेव विष्णुं “पूर्व्यं पूर्वार्हम् अनादिसंसिद्धम् “ऋतस्य “गर्भं यज्ञस्य गर्भभूतं यज्ञात्मनोत्पन्नमित्यर्थः । यज्ञो वै विष्णुः '(श. ब्रा. १. १. २. १३) इति श्रुतेः । यद्वा । ऋतस्योदकस्य गर्भं गर्भकारणम् उदकोत्पादकमित्यर्थः । ‘ अप एव ससर्जादौ' (मनु. १.८) इति स्मृतेः । एवंभूतं विष्णुं “यथा “विद जानीथ तथा “जनुषा जन्मना स्वत एव न केनचिद्वरलाभादिना पिपर्तन स्तोत्रादिना प्रीणयत यावदस्य माहात्म्यं जानीथ तावदित्यर्थः ॥ विदेर्लटि मध्यमबहुवचनम् । ' विद ऋतस्य ' इत्यत्र संहितायाम् ‘ ऋत्यकः' इति प्रकृतिभावः ॥ किंच “अस्य महानुभावस्य विष्णोः “नाम “चित् सर्वैर्नमनीयमभिधानं सार्वात्म्यप्रतिपादकं विष्णुरित्येतन्नाम “जानन्तः पुरुषार्थप्रदमित्यधिगच्छन्तः “आ समन्तात् “विवक्तन वदत संकीर्तयत । यद्वा । नाम यज्ञात्मना नमनं विष्णोरेव सर्वेषां स्वर्गापवर्गसाधनाय इष्ट्याद्यात्मना द्रव्यदेवतात्मना वा परिणामम् आ जानन्तो यूयं विवक्तन ब्रूत स्तुत ॥ वचेर्लोटि छान्दसः शपः श्लुः । बहुलं छन्दसि' इति अभ्यासस्य इत्वम् । पूर्ववत् तनादेशः ॥ इदानीं साक्षात्कृत्याह । हे “विष्णो सर्वात्मक देव "महः महतः "ते तव “सुमतिं सुष्टुतिं शोभात्मिकां बुद्धिं वा “भजामहे सेवामहे वयं यजमानाः ॥


अग्नीषोमप्रणयने 'तमस्य राजा ' इत्येषा प्रयोक्तव्या। ‘ अग्नीषोमौ प्रणेष्यत्सु' इति खण्डे सूत्रितं -- तमस्य राजा वरुणस्तमश्विनेत्यर्धर्च आरमेत् ' ( आश्व. श्रौ. ४. १० ) इति ।।

तम॑स्य॒ राजा॒ वरु॑ण॒स्तम॒श्विना॒ क्रतुं॑ सचन्त॒ मारु॑तस्य वे॒धस॑ः ।

दा॒धार॒ दक्ष॑मुत्त॒मम॑ह॒र्विदं॑ व्र॒जं च॒ विष्णु॒ः सखि॑वाँ अपोर्णु॒ते ॥४

तम् । अ॒स्य॒ । राजा॑ । वरु॑णः । तम् । अ॒श्विना॑ । क्रतु॑म् । स॒च॒न्त॒ । मारु॑तस्य । वे॒धसः॑ ।

दा॒धार॑ । दक्ष॑म् । उ॒त्ऽत॒मम् । अ॒हः॒ऽविद॑म् । व्र॒जम् । च॒ । विष्णुः॑ । सखि॑ऽवान् । अ॒प॒ऽऊ॒र्णु॒ते ॥४

तम् । अस्य । राजा । वरुणः । तम् । अश्विना । क्रतुम् । सचन्त । मारुतस्य । वेधसः ।

दाधार । दक्षम् । उत्ऽतमम् । अहःऽविदम् । व्रजम् । च । विष्णुः । सखिऽवान् । अपऽऊर्णुते ॥४

“मारुतस्य । मरुतामृत्विजां संघातः मारुतम् । तद्वतः ॥ मत्वर्थो लुप्यते ॥ मरुतां देवानां संबन्धिनो वा “वेधसः मेधाविनः “अस्य यजमानस्य “तं प्रसिद्धं “क्रतुं याग यज्ञात्मकं विष्णुम्। यज्ञो वै विष्णुः' इति श्रुतेः । “राजा राजमानः “वरुणः “सचन्त सेवते । "तम् एवं क्रतुं यागम् “अश्विना अश्विनी सचेते। अन्येऽपि देवाः सचन्ते सेवन्ते । किंच “विष्णुः सवनत्रयात्मना व्याप्तो विष्णुः “सखिवान् यजमानादिसखिभिर्युक्तः सन् “उत्तमम् उत्कृष्टतमम् “अहर्विदम् अहर्वेत्तारं स्वर्गोत्पादकमित्यर्थः। “दक्षं बलं फलप्रदानसामर्थ्यरूपं “दाधार धृतवान् । किंच "व्रजं च मेघं च । व्रज इति मेघनाम, ‘व्रजः चरुः' (नि. १. १०. ११) इति तन्नामसु पाठात् । तं वृष्ट्युदकाय “अपोर्णुते अपगतावरणं करोति । आहुतिद्वारा यज्ञस्यैव वृष्ट्युत्पादकत्वात् । यद्वा । मारुतस्य मरुत्संघातस्य देवगणस्य वेधसो विधातुः स्रष्टुर्विष्णोः क्रतुं कर्म पालनादिरूपं वरुणादयः सचन्ते । तदधीनत्वात् पालनस्य। स च सखिवान् इन्द्रमरुदादिसहायोपेतः सन् उक्तलक्षणं दक्षं वृष्ट्युत्पादनादिसामर्थ्यरूपं बलं दाधार तथा व्रजं चापोर्णुते ॥


आ यो वि॒वाय॑ स॒चथा॑य॒ दैव्य॒ इन्द्रा॑य॒ विष्णु॑ः सु॒कृते॑ सु॒कृत्त॑रः ।

वे॒धा अ॑जिन्वत्त्रिषध॒स्थ आर्य॑मृ॒तस्य॑ भा॒गे यज॑मान॒माभ॑जत् ॥५

आ । यः । वि॒वाय॑ । स॒चथा॑य । दैव्यः॑ । इन्द्रा॑य । विष्णुः॑ । सु॒ऽकृते॑ । सु॒कृत्ऽत॑रः ।

वे॒धाः । अ॒जि॒न्व॒त् । त्रि॒ऽस॒ध॒स्थः । आर्य॑म् । ऋ॒तस्य॑ । भा॒गे । यज॑मानम् । आ । अ॒भ॒ज॒त् ॥५

आ । यः । विवाय । सचथाय । दैव्यः । इन्द्राय । विष्णुः । सुऽकृते । सुकृत्ऽतरः ।

वेधाः । अजिन्वत् । त्रिऽसधस्थः । आर्यम् । ऋतस्य । भागे । यजमानम् । आ । अभजत् ॥५

यः विष्णुः “दैव्यः दिवि भवः “सुकृत्तरः शोभनफलप्रदानां मध्ये श्रेष्ठः “आ “विवाय आगच्छति ॥ वेतेर्लिटि रूपम् । किमर्थम् । "सचथाय सचनाय यागसहायकरणाय। कस्मै । “इन्द्राय। इरां हविर्लक्षणान्नं द्रावयतीतीन्द्रो यजमानः। ‘ इन्द्र इरां दृणातीति इदंकरणादित्याग्रायणः ( निरु. १०, ८) इति यास्केनोक्तनिर्वचनस्यात्रापि सद्भावात् ॥ तस्मै उक्तरूपाय यजमानाय “सुकृते शोभनस्तुतिकर्त्रे । आगत्य च “वेधाः अभिमतफलविधाता “त्रिषधस्थः त्रिसंख्योपेतसहस्थानवान् । सवनत्रयस्थानः क्षित्यादिस्थानत्रयो वा विष्णुः । “आर्यम् आगन्तव्यं यजमानम् “अजिन्वत् प्रीणयति ॥ जिवि प्रीणनार्थः । इदित्वात् नुम् ॥ तदर्थम् “ऋतस्य यज्ञस्य “भागे हुतशेषरूपे तं “यजमानम् आभजत भजति समीपयतीत्यर्थः। यद्वा । ऋतस्य यज्ञस्य भागे फले यजमानम् आभिजत् स्वामित्वेन स्थापयति ॥ ॥ २६ ॥ ॥ २१ ॥



मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१५६&oldid=205666" इत्यस्माद् पुनः प्राप्तिः