सामग्री पर जाएँ

ऋग्वेदः सूक्तं १.१३९

विकिस्रोतः तः
← सूक्तं १.१३८ ऋग्वेदः - मण्डल १
सूक्तं १.१३९
परुच्छेपो दैवोदासिः
सूक्तं १.१४० →
दे. १ विश्वे देवाः, २ मित्रावरुणौ, ३-५ अश्विनौ, ६ इन्द्रः, ७ अग्निः, ८ मरुतः, ९ इन्द्राग्नी, १० बृहस्पतिः, ११ विश्वे देवाः। अत्यष्टिः, ५ बृहती, ११ त्रिष्टुप्।
आश्रावण-प्रत्याश्रावणम्
ऐन्द्रवायवग्रह। द्विदेवत्यग्रह १ टिप्पणी
ऐन्द्रवायव + मैत्रावरुणग्रहौ। द्विदेवत्यग्रहः२ टिप्पणी
ऐन्द्रवायव + मैत्रावरुण +आश्विन् ग्रहाः। द्विदेवत्यग्रहः३


अस्तु श्रौषट् पुरो अग्निं धिया दध आ नु तच्छर्धो दिव्यं वृणीमह इन्द्रवायू वृणीमहे ।
यद्ध क्राणा विवस्वति नाभा संदायि नव्यसी ।
अध प्र सू न उप यन्तु धीतयो देवाँ अच्छा न धीतयः ॥१॥
यद्ध त्यन्मित्रावरुणावृतादध्याददाथे अनृतं स्वेन मन्युना दक्षस्य स्वेन मन्युना ।
युवोरित्थाधि सद्मस्वपश्याम हिरण्ययम् ।
धीभिश्चन मनसा स्वेभिरक्षभिः सोमस्य स्वेभिरक्षभिः ॥२॥
युवां स्तोमेभिर्देवयन्तो अश्विनाश्रावयन्त इव श्लोकमायवो युवां हव्याभ्यायवः ।
युवोर्विश्वा अधि श्रियः पृक्षश्च विश्ववेदसा ।
प्रुषायन्ते वां पवयो हिरण्यये रथे दस्रा हिरण्यये ॥३॥
अचेति दस्रा व्यु नाकमृण्वथो युञ्जते वां रथयुजो दिविष्टिष्वध्वस्मानो दिविष्टिषु ।
अधि वां स्थाम वन्धुरे रथे दस्रा हिरण्यये ।
पथेव यन्तावनुशासता रजोऽञ्जसा शासता रजः ॥४॥
शचीभिर्नः शचीवसू दिवा नक्तं दशस्यतम् ।
मा वां रातिरुप दसत्कदा चनास्मद्रातिः कदा चन ॥५॥
वृषन्निन्द्र वृषपाणास इन्दव इमे सुता अद्रिषुतास उद्भिदस्तुभ्यं सुतास उद्भिदः ।
ते त्वा मन्दन्तु दावने महे चित्राय राधसे ।
गीर्भिर्गिर्वाह स्तवमान आ गहि सुमृळीको न आ गहि ॥६॥
ओ षू णो अग्ने शृणुहि त्वमीळितो देवेभ्यो ब्रवसि यज्ञियेभ्यो राजभ्यो यज्ञियेभ्यः ।
यद्ध त्यामङ्गिरोभ्यो धेनुं देवा अदत्तन ।
वि तां दुह्रे अर्यमा कर्तरी सचाँ एष तां वेद मे सचा ॥७॥
मो षु वो अस्मदभि तानि पौंस्या सना भूवन्द्युम्नानि मोत जारिषुरस्मत्पुरोत जारिषुः ।
यद्वश्चित्रं युगेयुगे नव्यं घोषादमर्त्यम् ।
अस्मासु तन्मरुतो यच्च दुष्टरं दिधृता यच्च दुष्टरम् ॥८॥
दध्यङ्ह मे जनुषं पूर्वो अङ्गिराः प्रियमेधः कण्वो अत्रिर्मनुर्विदुस्ते मे पूर्वे मनुर्विदुः ।
तेषां देवेष्वायतिरस्माकं तेषु नाभयः ।
तेषां पदेन मह्या नमे गिरेन्द्राग्नी आ नमे गिरा ॥९॥
होता यक्षद्वनिनो वन्त वार्यं बृहस्पतिर्यजति वेन उक्षभिः पुरुवारेभिरुक्षभिः ।
जगृभ्मा दूरआदिशं श्लोकमद्रेरध त्मना ।
अधारयदररिन्दानि सुक्रतुः पुरू सद्मानि सुक्रतुः ॥१०॥
ये देवासो दिव्येकादश स्थ पृथिव्यामध्येकादश स्थ ।
अप्सुक्षितो महिनैकादश स्थ ते देवासो यज्ञमिमं जुषध्वम् ॥११॥


सायणभाष्यम्

' अस्तु श्रौषट् ' इति एकादशर्चं षष्ठं सूक्तम् । अत्रानुक्रमणिका- 'अस्तु श्रौषळेकादश वैश्वदेवी मैत्रावरुण्याश्विन्यस्तिस्र। ऐन्द्र्याग्नेयो मारत्यैन्द्राग्नी बार्हस्पत्या वैश्वदेव्यन्त्या त्रिष्टुप्पञ्चमी बृहती वैश्वदेवमेतदेवमन्यासामपि सूक्तप्रयोगे वैश्वदेवत्वं सूक्तभेदप्रयोगे यल्लिङ्गं सा देवता ' इति । परुच्छेप ऋषिः । अन्त्या त्रिष्टुप् पञ्चमी बृहती । अन्या अत्यष्टयो विशेषाभावात् । कृत्स्नं सूक्तं वैश्वदेवम् । तत्र आद्याया विश्वे देवा देवता । द्वितीयाया मित्रावरुणौ । अथ तिस्रोऽश्विदेवताकाः । ऐन्द्री षष्ठी । सप्तम्याग्नेयी । अष्टमी मारुती । नवम्यैन्द्राग्नी । दशमी बार्हस्पत्या । एकादशी वैश्वदेवी । सूक्तविनियोगो लैङ्गिकः । दशरात्रस्य षष्ठेऽहनि प्रउगशस्त्रे आद्या वैश्वदेवतृचे प्रथमा । ' षष्ठस्य ' इति खण्डे सूत्रितम्-' अस्तु श्रौषळो षु णो अग्ने ' ( आश्व. श्रौ. ८.१.१२) इति ।।


अस्तु॒ श्रौष॑ट् पु॒रो अ॒ग्निं धि॒या द॑ध॒ आ नु तच्छर्धो॑ दि॒व्यं वृ॑णीमह इन्द्रवा॒यू वृ॑णीमहे ।

यद्ध॑ क्रा॒णा वि॒वस्व॑ति॒ नाभा॑ सं॒दायि॒ नव्य॑सी ।

अध॒ प्र सू न॒ उप॑ यन्तु धी॒तयो॑ दे॒वाँ अच्छा॒ न धी॒तय॑ः ॥१

अस्तु॑ । श्रौष॑ट् । पु॒रः । अ॒ग्निम् । धि॒या । द॒धे॒ । आ । नु । तत् । शर्धः॑ । दि॒व्यम् । वृ॒णी॒म॒हे॒ । इ॒न्द्र॒वा॒यू इति॑ । वृ॒णी॒म॒हे॒ ।

यत् । ह॒ । क्रा॒णा । वि॒वस्व॑ति । नाभा॑ । स॒म्ऽदायि॑ । नव्य॑सी ।

अध॑ । प्र । सु । नः॒ । उप॑ । य॒न्तु॒ । धी॒तयः॑ । दे॒वान् । अच्छ॑ । न । धी॒तयः॑ ॥१

अस्तु । श्रौषट् । पुरः । अग्निम् । धिया । दधे । आ । नु । तत् । शर्धः । दिव्यम् । वृणीमहे । इन्द्रवायू इति । वृणीमहे ।

यत् । ह । क्राणा । विवस्वति । नाभा । सम्ऽदायि । नव्यसी ।

अध । प्र । सु । नः । उप । यन्तु । धीतयः । देवान् । अच्छ । न । धीतयः ॥१

अहं “पुरः पुरत उत्तरवेद्याम् “अग्निम् आहवनीयाख्यं “धिया प्रणयनादिकर्मणा “दधे धारितवानस्मि । “तच्छर्धः तादृशं बलवन्तं वा अग्निं यद्वा तच्छर्धः तादृशं मरुतां स्वरूपं बलं “दिव्यं दिवि भवं “नु क्षिप्रम् “आ “वृणीमहे आभिमुख्येन संभजामहे । किंच “इन्द्रवायू “वृणीमहे । “यत् यस्मात् कारणात् “विवस्वति दीप्तिमति “नाभा नाभौ भूम्या नाभिस्थाने देवयजने वेदिरूपे । यद्वा । नाभौ सर्वफलस्य संबन्धके यज्ञे । ‘ यज्ञमाहुर्भुवनस्य नाभिम् ' (तै. सं. ७.४.१८. २) इति श्रुतेः । “क्राणा कुर्वाणा स्वार्थप्रकाशनं “नव्यसी नवतरा स्तुतिरूपा वाक् “संदायि संबध्यते ॥ छान्दसः कर्मणि लुङ् ॥ अस्माभिः प्रयुज्यते इत्यर्थः। यस्मात् स्तुतिः क्रियते तस्मात् “अस्तु "श्रौषट् अस्याः स्तुतेः श्रवणं भवतु । श्रोता भवतु वा मरुतां गणोऽग्निर्वा । इन्द्रवायुपक्षे प्रत्येकापेक्षा एकवचनम् । “अध अनन्तरं “नः “धीतयः अस्मदीयानि कर्माणि स्तुत्यादिरूपाणि “प्र “सु “उप “यन्तु प्रकर्षेण सुष्ठु युष्मानुपगच्छन्तु । किंच "देवाँ “अच्छा "न अग्न्यादिदेवान् आभिमुख्येन प्राप्तमिव “धीतयः अस्मदीयानि कर्माणि उप यन्तु ते समीपं प्राप्नुवन्तु ॥


यद्ध॒ त्यन्मि॑त्रावरुणावृ॒तादध्या॑द॒दाथे॒ अनृ॑तं॒ स्वेन॑ म॒न्युना॒ दक्ष॑स्य॒ स्वेन॑ म॒न्युना॑ ।

यु॒वोरि॒त्थाधि॒ सद्म॒स्वप॑श्याम हिर॒ण्यय॑म् ।

धी॒भिश्च॒न मन॑सा॒ स्वेभि॑र॒क्षभि॒ः सोम॑स्य॒ स्वेभि॑र॒क्षभि॑ः ॥२

यत् । ह॒ । त्यत् । मि॒त्रा॒व॒रु॒णौ॒ । ऋ॒तात् । अधि॑ । आ॒द॒दाथे॒ इत्या॑ऽद॒दाथे॑ । अनृ॑तम् । स्वेन॑ । म॒न्युना॑ । दक्ष॑स्य । स्वेन॑ । म॒न्युना॑ ।

यु॒वोः । इ॒त्था । अधि॑ । सद्म॑ऽसु । अप॑श्याम । हि॒र॒ण्यय॑म् ।

धी॒भिः । च॒न । मन॑सा । स्वेभिः॑ । अ॒क्षऽभिः॑ । सोम॑स्य । स्वेभिः॑ । अ॒क्षऽभिः॑ ॥२

यत् । ह । त्यत् । मित्रावरुणौ । ऋतात् । अधि । आददाथे इत्याऽददाथे । अनृतम् । स्वेन । मन्युना । दक्षस्य । स्वेन । मन्युना ।

युवोः । इत्था । अधि । सद्मऽसु । अपश्याम । हिरण्ययम् ।

धीभिः । चन । मनसा । स्वेभिः । अक्षऽभिः । सोमस्य । स्वेभिः । अक्षऽभिः ॥२

हे "मित्रावरुणौ “ऋतात् आदित्यात् “त्यत् तदुदकं “यत् यस्मात् कारणात् “अधि अधिकम् । “आददाथे सर्वतो ददथः । कीदृशमुदकम् । “अनृतं नश्वरं शोषणस्वभावम् । केन साधनेन । “स्वेन “मन्युना स्वकीयेन तेजसा । अहोरात्राभिमानिदेवौ मित्रावरुणौ खलु वृष्टिं मोचयतः । ‘ अहोरात्रे वा' इत्यादिश्रुतिः पूर्वमेवोदाहृता । मन्युर्विशेष्यते । “दक्षस्य समर्थस्य “स्वेन “मन्युना आत्मभूतेन मननीयेन सामर्थ्येन। किंच हे मित्रावरुणौ “युवोः ॥ अन्त्यलोपश्छान्दसः ॥ युवयोः संबन्धि “हिरण्ययं हिरण्मयं रूपम् ।। ‘ ऋत्व्यवास्त्व्यवास्त्व° ' ( पा. सू. ६. ४. १७५ ) इत्यादौ मयटो मशब्दलोपो निपात्यते ।। “इत्था इत्थं वक्ष्यमाणप्रकारेण “सद्मसु यज्ञसदनेषु “अधि “अपश्याम पश्येम । केन साधनेनेति तदुच्यते । “धीभिः त्वदुद्देश्यैः कर्मभिर्यज्ञादिरूपैः “मनसा “चन त्वदासक्तेन चेतसा च “स्वेभिरक्षभिः आत्मीयैः अनन्यैश्चक्षुरादीन्द्रियैः। किंच “सोमस्य सोम “स्वेभिरक्षभिः अस्मदीयैरिन्द्रियैः ॥ नासाद्यपेक्षया बहुवचनम् ॥


पृष्ठ्यस्य षष्ठेऽहनि प्रउगशस्त्रे ‘युवां स्तोमेभिः' इत्याश्विनस्तृचः । ‘ षष्ठस्य ' इति खण्डे सूत्रितं--- युवां स्तोमेभिर्देवयन्तो अश्विनावर्मह इन्द्र ' ( आश्व. श्रौ. ८. १) इति ॥

यु॒वां स्तोमे॑भिर्देव॒यन्तो॑ अश्विनाश्रा॒वय॑न्त इव॒ श्लोक॑मा॒यवो॑ यु॒वां ह॒व्याभ्या॒३॒॑यव॑ः ।

यु॒वोर्विश्वा॒ अधि॒ श्रिय॒ः पृक्ष॑श्च विश्ववेदसा ।

प्रु॒षा॒यन्ते॑ वां प॒वयो॑ हिर॒ण्यये॒ रथे॑ दस्रा हिर॒ण्यये॑ ॥३

यु॒वाम् । सोमे॑भिः । दे॒व॒ऽयन्तः॑ । अ॒श्वि॒ना॒ । आ॒श्रा॒वय॑न्तःऽइव । श्लोक॑म् । आ॒यवः॑ । यु॒वाम् । ह॒व्या । अ॒भि । आ॒यवः॑ ।

यु॒वोः । विश्वाः॑ । अधि॑ । श्रियः॑ । पृक्षः॑ । च॒ । वि॒श्व॒ऽवे॒द॒सा॒ ।

प्रु॒षा॒यन्ते॑ । वा॒म् । प॒वयः॑ । हि॒र॒ण्यये॑ । रथे॑ । द॒स्रा॒ । हि॒र॒ण्यये॑ ॥३

युवाम् । सोमेभिः । देवऽयन्तः । अश्विना । आश्रावयन्तःऽइव । श्लोकम् । आयवः । युवाम् । हव्या । अभि । आयवः ।

युवोः । विश्वाः । अधि । श्रियः । पृक्षः । च । विश्वऽवेदसा ।

प्रुषायन्ते । वाम् । पवयः । हिरण्यये । रथे । दस्रा । हिरण्यये ॥३

हे “अश्विना अश्विनौ देवौ “युवां “स्तोमेभिः स्तोत्रैः “देवयन्तः युवाम् आत्मनः इच्छन्तः “आयवः । मनुष्यनामैतत् । यजमानाः “श्लोकं युष्मदीयस्तुतिरूपां वाचम् “आश्रावयन्तइव सर्वतः श्रवणविषयां कुर्वन्त इव स्तुवन्ति । श्लोक इति वाङ्नाम, ‘ श्लोकः धारा ' ( नि. १. ११. १ ) इति तन्नासूक्तत्वात् । कीदृशास्ते । “युवां “हव्या हविषा आज्यादिना “अभ्यायवः आभिमुख्येन गन्तारः । प्रीणयितुमिति शेषः । हवींषि आभिमुख्येन प्रापयन्तो वा । किंच हे विश्ववेदसा सर्वधनौ “युवोः युवयोः संबन्धिन्यः “विश्वाः “श्रियः सेवनीयाः सर्वा लक्ष्मीर्धनकनकादिरूपाः “अधि अधिकं भजन्ते इति शेषः । किंच “पृक्षश्च अन्नमपि युष्मत्प्रसादात् अधि अधिकं लभन्ते । किंच हे “दस्रा शत्रूणामुपक्षपयितारौ “वां “हिरण्यये “रथे हिरण्मये मधुपूर्णे रथे "पवयः तन्नेमयः “प्रुषायन्ते क्षरन्ति स्रवन्ति ॥ ‘ प्रुष प्लुष स्नेहनसेचनपूरणेषु ' । 'छन्दसि शायजपि' इत्यहावपि श्नः शायजादेशः ॥ मधुपूर्णपात्रोपेतत्वात् शीघ्रगमनेन चक्रेषु मधूनि स्रवन्तीति भावः । ‘ पवी रथनेमिर्भवति यद्विपुनाति भूमिम् ' ( निरु. ५. ५. ) इति निरुक्तम् । अश्विनोः रथस्य मधुपूर्णत्वं त्रयः पवयो मधुवाहने रथे (ऋ. सं. १, ३४. २) इत्यादिषु प्रसिद्धम् । किंच तादृशे “हिरण्यये हृदयरमणे रथे मधुरं हविर्वहतमिति शेषः ।।।


अचे॑ति दस्रा॒ व्यु१॒॑ नाक॑मृण्वथो यु॒ञ्जते॑ वां रथ॒युजो॒ दिवि॑ष्टिष्वध्व॒स्मानो॒ दिवि॑ष्टिषु ।

अधि॑ वां॒ स्थाम॑ व॒न्धुरे॒ रथे॑ दस्रा हिर॒ण्यये॑ ।

प॒थेव॒ यन्ता॑वनु॒शास॑ता॒ रजोऽञ्ज॑सा॒ शास॑ता॒ रज॑ः ॥४

अचे॑ति । द॒स्रा॒ । वि । ऊं॒ इति॑ । नाक॑म् । ऋ॒ण्व॒थः॒ । यु॒ञ्जते॑ । वा॒म् । र॒थ॒ऽयुजः॑ । दिवि॑ष्टिषु । अ॒ध्व॒स्मानः॑ । दिवि॑ष्टिषु ।

अधि॑ । वा॒म् । स्थाम॑ । व॒न्धुरे॑ । रथे॑ । द॒स्रा॒ । हि॒र॒ण्यये॑ ।

प॒थाऽइ॑व । यन्तौ॑ । अ॒नु॒ऽशास॑ता । रजः॑ । अञ्ज॑सा । शास॑ता । रजः॑ ॥४

अचेति । दस्रा । वि । ऊं इति । नाकम् । ऋण्वथः । युञ्जते । वाम् । रथऽयुजः । दिविष्टिषु । अध्वस्मानः । दिविष्टिषु ।

अधि । वाम् । स्थाम । वन्धुरे । रथे । दस्रा । हिरण्यये ।

पथाऽइव । यन्तौ । अनुऽशासता । रजः । अञ्जसा । शासता । रजः ॥४

हे “दस्रा दस्रावश्विनौ “अचेति वक्ष्यमाणं युष्मच्चेष्टितं ज्ञायते सर्वैः । किं तदिति तदुच्यते । “नाकं स्वर्गं “वि “ऋण्वथः विशेषेण गच्छथः ॥ ‘ ऋणु गतौ । तानादिकः । लेटि अडागमः । यज्ञसंपूर्त्यनन्तरमिति यावत् । उशब्दोऽवधारणे । यद्वा । नाकम् । अकं दुःखम् । तद्रहितं यज्ञमृण्वथः। विशेषेण गच्छथ एव । तदर्थं “वां “रथयुजः युष्मत्संबन्धिनो रथस्य योजयितारः सारथथः “दिविष्टिषु स्वर्गस्यैषणेषु द्योतनात्मकस्य यज्ञस्यैषणेषु गमनेषु वा निमित्तभूतेषु “युञ्जते अश्वान् योजयन्ति रथे । युक्ते रथे वा युष्मान् । ते एव विशेष्यन्ते । दिविष्टिषु दिवो गमनेषु निरालम्बाकाशगमनेषु “अध्वस्मानः रथस्य तदाश्रितस्य च ध्वंसमकुर्वाणाः । किंच हे “दस्रा अश्विनौ “वां युवयोः “बन्धुरे बन्धुरत्रययुक्ते। युगबन्धनाधारः काष्ठविशेषो बन्धुरम् । तादृशत्रययुक्तत्वं रथो यो वां त्रिवन्धुरः' (ऋ. सं. ८. २२. ५) इत्यादिषु प्रसिद्धम् । “हिरण्यये हिरण्मये “रथे “अधि तादृशस्य रथस्योपरि “स्थाम अस्थापयाम ।। छान्दसे लङि ‘ बहुलं छन्दसि ' इति अडभावः। आद्युदात्तश्छान्दसः ॥ कीदृशौ'। “पथेव सुपथेन मार्गेण निरालम्बे आकाशे’ “रजः रञ्जनात्मकं स्वर्गं प्रति “यन्तौ गच्छन्तौ । ‘लोका रजांस्युच्यन्ते । इत्युक्तत्वात् । “अनुशासता अननुकूलाञ्छत्रून् अनुशासतौ विधेयीकुर्वन्तौ ॥ शासेः शतरि • जक्षित्यादयः' इति अभ्यस्तत्वात् ‘ अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् ॥ किंच “अञ्जसा मुख्यत्वेन प्रकृष्टं “रजः उदकं वृष्टिलक्षणं “शासता शासतौ बलाद्विधेयीकुर्वन्तौ ।।


शची॑भिर्नः शचीवसू॒ दिवा॒ नक्तं॑ दशस्यतम् ।

मा वां॑ रा॒तिरुप॑ दस॒त्कदा॑ च॒नास्मद्रा॒तिः कदा॑ च॒न ॥५

शची॑भिः । नः॒ । श॒ची॒व॒सू॒ इति॑ शचीऽवसू । दिवा॑ । नक्त॑म् । द॒श॒स्य॒त॒म् ।

मा । वा॒म् । रा॒तिः । उप॑ । द॒स॒त् । कदा॑ । च॒न । अ॒स्मत् । रा॒तिः । कदा॑ । च॒न ॥५

शचीभिः । नः । शचीवसू इति शचीऽवसू । दिवा । नक्तम् । दशस्यतम् ।

मा । वाम् । रातिः । उप । दसत् । कदा । चन । अस्मत् । रातिः । कदा । चन ॥५

हे “शचीवसू । शचीति कर्मनाम । अस्मदनुष्ठितज्योतिष्टोमादिकर्मधनौ युवां “शचीभिः अस्मदीयैः कर्मभिर्यागादिभिर्निमित्तभूतैः “दिवा “नक्तं अहनि रात्रौ च “दशस्यतम् अभिमतं ददेथाम् ॥ ‘ दाशृ दाने' इत्यस्येदं छान्दसं रूपम् । यद्वा । दशस्यतिर्दानार्थः कण्ड्वादिषु द्रष्टव्यः ।। "वां युवयोः “रातिः दानं “कदा "चन सर्वदा यागकाले अयागकालेऽपि “मा “उप “दसत् मा उपक्षीणं भूत् ॥ ‘ दसु उपक्षये ' । लुङि ‘पुषादिद्युतात् ' इति च्लेः अङ्॥ न केवलं युष्मदीयम् अपि त्वस्माकमपि “रातिः दानं हविरादिप्रदानं सर्वविषयदानं वा अर्थिभ्यः “कदा “चन सर्वावस्थायामपि मा उप दसत् उपक्षीणं मा भूत् सर्वदा वर्तताम् । अहमपि सर्वदा युष्मानुद्दिश्य दद्यां युवामपि अभिमतं सर्वदा दत्तमित्यर्थः॥ ॥ ३ ॥


पृष्ठ्यस्य षष्ठेऽहनि प्रउगशस्त्रस्यैन्द्रे तृचे तृतीया • वृषन्निन्द्र' इत्येषा । वृषन्निन्द्र वृषपाणास इन्दवः सुषुमा यातमद्रिभिः ' ( आश्व. श्रौ. ८. १ ) इति ॥ तत्रैव सवने प्रस्थितयाज्यानां पुरस्तादन्या ऋचः प्रक्षिप्य उभयीभिर्यष्टव्यम् । तत्र होतुः प्रस्थितयाज्यायाः पुरस्तादेषा प्रक्षेपणीया । सूत्रितं च- षष्ठस्य प्रातःसवने प्रस्थितयाज्यानां पुरस्तादन्याः कृत्वोभाभ्यामनवानन्तो यजन्ति ( आश्व. श्रौ. ८, १ ) इति ।

वृष॑न्निन्द्र वृष॒पाणा॑स॒ इन्द॑व इ॒मे सु॒ता अद्रि॑षुतास उ॒द्भिद॒स्तुभ्यं॑ सु॒तास॑ उ॒द्भिद॑ः ।

ते त्वा॑ मन्दन्तु दा॒वने॑ म॒हे चि॒त्राय॒ राध॑से ।

गी॒र्भिर्गि॑र्वाह॒ः स्तव॑मान॒ आ ग॑हि सुमृळी॒को न॒ आ ग॑हि ॥६

वृष॑न् । इ॒न्द्र॒ । वृ॒ष॒ऽपाना॑सः । इन्द॑वः । इ॒मे । सु॒ताः । अद्रि॑ऽसुतासः । उ॒त्ऽभिदः॑ । तुभ्य॑म् । सु॒तासः॑ । उ॒त्ऽभिदः॑ ।

ते । त्वा॒ । म॒न्द॒न्तु॒ । दा॒वने॑ । म॒हे । चि॒त्राय॑ । राध॑से ।

गीः॒ऽभिः । गि॒र्वा॒हः॒ । स्तव॑मानः । आ । ग॒हि॒ । सु॒ऽमृ॒ळी॒कः । नः॒ । आ । ग॒हि॒ ॥६

वृषन् । इन्द्र । वृषऽपानासः । इन्दवः । इमे । सुताः । अद्रिऽसुतासः । उत्ऽभिदः । तुभ्यम् । सुतासः । उत्ऽभिदः ।

ते । त्वा । मन्दन्तु । दावने । महे । चित्राय । राधसे ।

गीःऽभिः । गिर्वाहः । स्तवमानः । आ । गहि । सुऽमृळीकः । नः । आ । गहि ॥६

हे “इन्द्र “वृषन् वर्षितः कामानाम् “इमे पुरतो दृश्यमानाः “इन्दवः सोमाः “सुताः त्वदर्थमभिषुताः । कीदृशास्ते । “वृषपानासः अभिमतवर्षकेण त्वया पातव्याः “अद्रिसुतासः अद्रिभिर्दृढैः पाषाणैरभिषवसाधनैः सुताः “उद्भिदः उद्भेदका वर्षस्य' । त एव पुनर्विशेष्यन्ते । “उद्भिदः बलस्य उद्भेदका उद्भिन्ना वा पर्वतादौ तादृशाः सोमाः “तुभ्यं “सुतासः त्वदर्थमेवाभिषुताः। किंच “ते तादृशाः सोमाः “त्वा त्वां “मन्दन्तु तर्पयन्तु । कुत्रेति तदुच्यते । “दावने दानवति यागे। अभिमतदानाय वा । तथा “महे महते “चित्राय चायमानाय विचित्राय नानाविधाय वा "राधसे धनाय । किंच हे “गिर्वाहः गिरां स्तुतीनामस्मदीयानां वोढः ॥ ‘ वहिहाधाञ्भ्यः' इति असुन् ॥ “गीर्भिः अस्मत्स्तुतिभिः स्तवमानः सन् “आ “गहि आगच्छ । “नः अस्मान् “सुमृळीकः सुष्ठु मृडयिता सन् “आ “गहि आगच्छ ॥


दशरात्रस्य षष्ठेऽहनि प्रातःसवने नेष्टुः प्रस्थितयाज्यायाः पुरस्तात् ‘ ओ षू णो अग्ने' इत्येषा आवपनीयैकीकृत्योभाभ्यां यागः । ‘ षष्ठस्य ' इति खण्डे सूत्रितम्- ओ षु णो अग्ने शृणुहि त्वमीळितोऽग्निं होतारम् ' (आश्व. श्रौ. ८. १ ) इति । तस्मिन्नेव सवने प्रउगशस्त्रे द्वितीया । सूत्रितं च- अस्तु श्रौषळो षु णो अग्ने ' ( आश्व. श्रौ. ८. १) इति ।।

ओ षू णो॑ अग्ने शृणुहि॒ त्वमी॑ळि॒तो दे॒वेभ्यो॑ ब्रवसि य॒ज्ञिये॑भ्यो॒ राज॑भ्यो य॒ज्ञिये॑भ्यः ।

यद्ध॒ त्यामङ्गि॑रोभ्यो धे॒नुं दे॑वा॒ अद॑त्तन ।

वि तां दु॑ह्रे अर्य॒मा क॒र्तरी॒ सचाँ॑ ए॒ष तां वे॑द मे॒ सचा॑ ॥७

ओ इति॑ । सु । नः॒ । अ॒ग्ने॒ । शृ॒णु॒हि॒ । त्वम् । ई॒ळि॒तः । दे॒वेभ्यः॑ । ब्र॒व॒सि॒ । य॒ज्ञिये॑भ्यः । राज॑ऽभ्यः । य॒ज्ञिये॑भ्यः ।

यत् । ह॒ । त्याम् । अङ्गि॑रःऽभ्यः । धे॒नुम् । दे॒वाः॒ । अद॑त्तन ।

वि । ताम् । दु॒ह्रे॒ । अ॒र्य॒मा । क॒र्तरि॑ । सचा॑ । ए॒षः । ताम् । वे॒द॒ । मे॒ । सचा॑ ॥७

ओ इति । सु । नः । अग्ने । शृणुहि । त्वम् । ईळितः । देवेभ्यः । ब्रवसि । यज्ञियेभ्यः । राजऽभ्यः । यज्ञियेभ्यः ।

यत् । ह । त्याम् । अङ्गिरःऽभ्यः । धेनुम् । देवाः । अदत्तन ।

वि । ताम् । दुह्रे । अर्यमा । कर्तरि । सचा । एषः । ताम् । वेद । मे । सचा ॥७

हे “अग्ने “त्वं “नः अस्मदीयमावाहनं स्तुतिं वा “ईळितः अस्माभिः स्तुतः सन् “ओ “षु “शृणुहि । ओ इति निपातद्वयसमुदायात्मकः एको निपातः । आभिमुख्येनैव सुष्ठु शृणु ॥ ‘ उतश्च प्रत्ययात्° ' इति ‘ छन्दसि वावचनम् ' इति हेर्लुगभावः ॥ श्रुत्वा च “देवेभ्यः देवनशीलेभ्यः “यज्ञियेभ्यः यज्ञार्हेभ्यो हविर्भाग्भ्यः स्तुतिभाग्भ्यश्चेत्यर्थः ॥ ‘ यज्ञर्त्विग्भ्याम् । इति घः ॥ तेभ्यः “यज्ञियेभ्यः यज्ञार्हेभ्यो यजमानेभ्यः संबन्धि कर्म “ब्रवसि ब्रूहि ॥ ब्रवीतेर्लेटि अडागमः ।। कीदृशेभ्यः । “राजभ्यः राजमानेभ्यः । इदानीं देवाः प्रत्यक्षेणोच्यन्ते । अत्रेतिहासमाहुः -– अङ्गिरसो नाम महर्षयः पूर्वं यज्ञार्थं देवान् स्तुत्या प्रीणयित्वा गा अयाचन्त । ते प्रीताः कामदुघां प्रादुः । लब्धां च तां धेनुं क्षीरं दोग्धुमशक्नुवाना अर्यमणं देवं प्रार्थयन् । स च प्रार्थितोऽग्निहोत्राद्यर्थं क्षीरं दुदोहेति । तदिदमत्रोच्यते । “यत् यां “त्या तां प्रसिद्धां “धेनुं क्षीरादिना प्रीणयित्रीं गां “ह “देवाः “अङ्गिरोभ्यः तदर्थम् “अदत्तन दत्तवन्तः ॥ ‘ तप्तनप्तनथनाश्च ' इति तनादेशः ॥ “तां धेनुम् “अर्यमा सर्वस्य नियमिता देवः “कर्तरि सर्वस्योत्पादके त्वय्यग्नौ “सचा इतरदेवेभ्यः साकं "वि “दुह्रे विविधं दुग्धवान् । दुहेर्लिटि ‘ बहुलं छन्दसि ' इति । छन्दसि वा ' इति वचनात् द्विर्वचनाभावः । लटि एव वा ' लोपस्त°' इति तलोपः ।। “एषः एष एव अर्यमा “तां धेनुं “मे “सचा मत्समवायेन “वेद जानाति अर्यमा अहमपि जानामीत्यर्थः । ईदृशी धेनुस्त्वदर्थमेव दुह्यते इत्यग्नेः स्तुतिः ॥


‘ मो षु वो अस्मत्' इति प्रस्थितयाज्या" । सूत्रितं च-’ मो षु वो अस्मदभि तानि पौंस्यौ षू णो अग्ने' (आश्व. श्रौ. ८. १ ) इति ॥

मो षु वो॑ अ॒स्मद॒भि तानि॒ पौंस्या॒ सना॑ भूवन्द्यु॒म्नानि॒ मोत जा॑रिषुर॒स्मत्पु॒रोत जा॑रिषुः ।

यद्व॑श्चि॒त्रं यु॒गेयु॑गे॒ नव्यं॒ घोषा॒दम॑र्त्यम् ।

अ॒स्मासु॒ तन्म॑रुतो॒ यच्च॑ दु॒ष्टरं॑ दिधृ॒ता यच्च॑ दु॒ष्टर॑म् ॥८

मो इति॑ । सु । वः॒ । अ॒स्मत् । अ॒भि । तानि॑ । पौंस्या॑ । सना॑ । भू॒व॒न् । द्यु॒म्नानि॑ । मा । उ॒त । जा॒रि॒षुः॒ । अ॒स्मत् । पु॒रा । उ॒त । जा॒रि॒षुः॒ ।

यत् । वः॒ । चि॒त्रम् । यु॒गेऽयु॑गे । नव्य॑म् । घोषा॑त् । अम॑र्त्यम् ।

अ॒स्मासु॑ । तत् । म॒रु॒तः॒ । यत् । च॒ । दु॒स्तर॑म् । दि॒धृ॒त । यत् । च॒ । दु॒स्तर॑म् ॥८

मो इति । सु । वः । अस्मत् । अभि । तानि । पौंस्या । सना । भूवन् । द्युम्नानि । मा । उत । जारिषुः । अस्मत् । पुरा । उत । जारिषुः ।

यत् । वः । चित्रम् । युगेऽयुगे । नव्यम् । घोषात् । अमर्त्यम् ।

अस्मासु । तत् । मरुतः । यत् । च । दुस्तरम् । दिधृत । यत् । च । दुस्तरम् ॥८

हे मरुतः “वः युष्मत्संबन्धीनि “तानि प्रसिद्धानि “पौंस्या पौंस्यानि बलानि “सना सदातनानि नित्यानि “द्युम्नानि प्रकाशयुक्तानि । यद्वा । सना संभजनीयानि द्युम्नानि धनवन्ति यशोवन्ति वा ॥ मत्वर्थीयो लुप्यते । मो इति निपातद्वयसमुदाये उशब्दोऽवधारणे ।। “अस्मत् अस्मान् “मो “षु “अभि "भूवन् सुष्ठु मैवाभिभवन् । यद्वा । अस्मत्तोऽपगतानि मा भूवन् । “उत अपि च । यद्वा । द्युम्नानीत्येतदुत्तरत्र संबध्यते । द्युम्नानि धनानि यशांसि वा अस्मदीयानि “मा “जारिषुः क्षीणानि मा भूवन् । “उत अपि च “अस्मत् “पुरा पुराणि लक्षणया तत्रस्थाः प्राणिनः मा “जारिषुः जीर्णा नष्टा मा भूवन् । किंच “वः युष्मत्संबन्धि “चित्रं चायनीयं नानाविधं “नव्यं नूतनं स्तोतव्यं वा “अमर्त्यम् अमरणधर्मकं मर्त्येषु दुर्लभं वा “यत् अस्ति “घोषात् घोषाः ॥ व्यत्ययेन पञ्चमी ।। शब्दोपेता गवादयो घोषोपलक्षिता ग्रामनगरादयो वा ये सन्ति “तत् सर्वं “युगेयुगे युगशब्दोपलक्षिते तत्तत्काले “अस्मासु अस्मास्वेव भवन्विति शेषः नान्यस्य । किंच हे “मरुतः “यच्च “दुस्तरं दुःखेन तरणीयं संपादनीयं धनं “दिधृत धारयत तदस्मासु । किंच “दुस्तरं शत्रुभिरहिंसितं तत्सर्वमपि विशेषेणास्मासु स्थापयत ।।


पृष्ठ्यस्य षष्ठेऽहनि अच्छावाकस्य प्रस्थितयाज्यायाः पुरस्तात् ' दध्यङ् ह मे' इत्येषा । सूत्रितं च -’ दध्यङ् ह मे जनुषं पूर्वो अङ्गिरा इत्येवमेव माध्यंदिने' ( आश्व. श्रौ. ८. १ ) इति ।।

द॒ध्यङ्ह॑ मे ज॒नुषं॒ पूर्वो॒ अङ्गि॑राः प्रि॒यमे॑ध॒ः कण्वो॒ अत्रि॒र्मनु॑र्विदु॒स्ते मे॒ पूर्वे॒ मनु॑र्विदुः ।

तेषां॑ दे॒वेष्वाय॑तिर॒स्माकं॒ तेषु॒ नाभ॑यः ।

तेषां॑ प॒देन॒ मह्या न॑मे गि॒रेन्द्रा॒ग्नी आ न॑मे गि॒रा ॥९

द॒ध्यङ् । ह॒ । मे॒ । ज॒नुष॑म् । पूर्वः॑ । अङ्गि॑राः । प्रि॒यऽमे॑धः । कण्वः॑ । अत्रिः॑ । मनुः॑ । वि॒दुः॒ । ते । मे॒ । पूर्वे॑ । मनुः॑ । वि॒दुः॒ ।

तेषा॑म् । दे॒वेषु॑ । आऽय॑तिः । अ॒स्माक॑म् । तेषु॑ । नाभ॑यः ।

तेषा॑म् । प॒देन॑ । महि॑ । आ । न॒मे॒ । गि॒रा । इ॒न्द्रा॒ग्नी इति॑ । आ । न॒मे॒ । गि॒रा ॥९

दध्यङ् । ह । मे । जनुषम् । पूर्वः । अङ्गिराः । प्रियऽमेधः । कण्वः । अत्रिः । मनुः । विदुः । ते । मे । पूर्वे । मनुः । विदुः ।

तेषाम् । देवेषु । आऽयतिः । अस्माकम् । तेषु । नाभयः ।

तेषाम् । पदेन । महि । आ । नमे । गिरा । इन्द्राग्नी इति । आ । नमे । गिरा ॥९

“दध्यङ् अथर्वगोत्रोत्पन्नः एतन्नामको महर्षिः स च “पूर्वः पूरकः सर्वस्य पुरातनो वा “अङ्गिराः अङ्गारः तद्वत्तेजस्वीत्यर्थः । यद्वा । अङ्गारा एवाङ्गिरसोऽभवन् ‘ येऽङ्गारा आसंस्तेऽङ्गिरसोऽभवन्' ( ऐ. ब्रा. ३. ३४ ) इति श्रुतेः । ‘ अङ्गिरा अङ्गारा अङ्कना अञ्चनाः' ( निरु. ३. १७.) इति निरुक्तम् । एतन्नामा महर्षिश्च “प्रियमेधः मेधाप्रियः । ‘ प्रियमेधः प्रिया अस्य मेधाः' (निरु. ३.१७) इति यास्कः । स च “कण्वः मेधावी स च “अत्रिः दुःखत्रयरहितः । अत्रिर्न श्रयः ' (निरु.३.१७) इति निरुक्तम् । “मनुः मननवान् एतन्नामा महर्षिः। एते सर्वे महात्मानो महर्षयः “मे “जनुषं दिवोदासपुत्रस्य परुच्छेपस्य जन्म “विदुः जानन्ति ॥ वेत्तेः ‘ विदो लटो वा ' इति झेः उसादेशः ॥ किंच “ते पूर्वोक्ताः “पूर्वे पूर्वकालीनाः "मे अस्मत्पित्रादीन् जानन्त इत्यर्थः। “मनुः मनवो ज्ञानवन्तो यतस्ते पूर्वे मनवश्च अतो “विदुः इति भावः ॥ ‘ सुपां सुलुक्' इति जसो लुक् ॥ तेषां ज्ञाने उपपत्तिमाह। “तेषां दध्यङ्ङादीनां “देवेषु इतरेषु देवनशीलेषु महर्षिषु मध्ये "आयतिः दीर्घकालसंबन्धोऽस्ति । अतो विदुरित्यर्थः । ततश्च किमित्याह । “अस्माकं “नाभयः जीवेन सह बन्धवन्तः प्राणाः फलेन संबद्धा यागा वा “तेषु तेष्वेव वर्तन्ते । असौ विशिष्टजन्मा अतो यज्ञयोग्यः इति तैर्वक्तव्यत्वेन तदधीनत्वम् । “तेषां दध्यङ्ङादीनां “पदेन आस्पदेन महत्त्वेन निमित्तेन “गिरा स्तुतिरूपया वाचा “महि महदत्यधिकं “नमे नमति सर्वो जनः । किंच तेषामनुग्रहात् यज्ञयोग्यः सन् “इन्द्राग्नी “गिरा स्तुतिरूपया वाचा युक्तः सन् “आ “नमे आभिमुख्येन नमामि स्तौमि नमामि चेत्यर्थः ॥ नमेर्व्यत्ययेन आत्मनेपदम् ॥ यद्वा । कर्मकर्तरि ‘ न दुहस्नुनमाम्' इति यकः प्रतिषेधः । स्वयमेव नतोऽस्मि ।।


होता॑ यक्षद्व॒निनो॑ वन्त॒ वार्यं॒ बृह॒स्पति॑र्यजति वे॒न उ॒क्षभि॑ः पुरु॒वारे॑भिरु॒क्षभि॑ः ।

ज॒गृ॒भ्मा दू॒रआ॑दिशं॒ श्लोक॒मद्रे॒रध॒ त्मना॑ ।

अधा॑रयदर॒रिन्दा॑नि सु॒क्रतु॑ः पु॒रू सद्मा॑नि सु॒क्रतु॑ः ॥१०

होता॑ । य॒क्ष॒त् । व॒निनः॑ । व॒न्त॒ । वार्य॑म् । बृह॒स्पतिः॑ । य॒ज॒ति॒ । वे॒नः । उ॒क्षऽभिः॑ । पु॒रु॒ऽवारे॑भिः । उ॒क्षऽभिः॑ ।

ज॒गृ॒भ्म । दू॒रेऽआ॑दिशम् । श्लोक॑म् । अद्रेः॑ । अध॑ । त्मना॑ ।

अधा॑रयत् । अ॒र॒रिन्दा॑नि । सु॒ऽक्रतुः॑ । पु॒रु । सद्मा॑नि । सु॒ऽक्रतुः॑ ॥१०

होता । यक्षत् । वनिनः । वन्त । वार्यम् । बृहस्पतिः । यजति । वेनः । उक्षऽभिः । पुरुऽवारेभिः । उक्षऽभिः ।

जगृभ्म । दूरेऽआदिशम् । श्लोकम् । अद्रेः । अध । त्मना ।

अधारयत् । अररिन्दानि । सुऽक्रतुः । पुरु । सद्मानि । सुऽक्रतुः ॥१०

अयं "होता दैव्योऽग्निर्मनुषो वा देवानामाह्वाता "यक्षत् याज्यां पठतु ॥ यजेर्लेटि अडागमः ।। ‘ सिब्बहुलम्' इति सिप् ।। “वनिनः वननवन्तः हविः कामयमाना वा देवाः “वार्यं वरणीयं सोमं “वन्त संभजन्ताम् ॥ वनतेश्छान्दसे लङि व्यत्ययेन आत्मनेपदम् । ‘ बहुलं छन्दसि ' इति शपो लुक् । छान्दसोऽन्त्यलोपः । तदर्थं "बृहस्पतिः बृहतो मन्त्रस्य हविषो वा पालकोऽध्वर्युर्दैव्यो बृहस्पतिर्वा स्वयमेव "यजति यागं करोति । कीदृशः सः । "वेनः कामयमानः । केन साधनेनेति तदुच्यते । “उक्षभिः सेचकैः सोमैः “पुरुवारेभिः बहुभिर्वरणीयैः तथा “उक्षभिः सेचनसमर्थैरुदकैः तन्निमित्तभूतैर्हूयमानैराहुतिभिरादित्यद्वारा वृष्ट्युत्पनैः। वयं यजमानाः "दूरआदिशं दूरदेश आदिक् आदेशो यस्य तादृशम् ।। ‘ हलदन्तात्सप्तम्या:०' (पा. सू. ६.३.९ ) इति अलुक् ॥ "अद्रेः । जातावेकवचनम् । अभिषवसाधनस्य ग्राव्णः "श्लोकं वाचं ध्वनिं जगृभ्म गृह्णीमः श्रोत्राभ्याम् । पूजार्थं बहुवचनम् । इदानीं परोक्षकृतः । "सुक्रतुः शोभनकर्मा अयं यजमानः "अध अथ यागसंपूर्त्यनन्तरम् "अररिन्दानि । उदकनामैतत् , ' अररिन्दानि ध्वस्मन्वत् ' (नि. १. १२. २६ ) इति तन्नामसु पाठात् । वृष्टिलक्षणान्युदकानि “त्मना आत्मना "अधारयत् धारयति ॥ ररिर्दाता । नास्त्यन्यो ररिरस्य पिपासोपशमनस्य तादृशं पिपासोपशमनं ददतीत्यररिन्दानि । यद्वा । अररिः इतश्चेतश्च गमनम् । औणादिकः अरिप्रत्यय:। ‘ आतोऽनुपसर्गे कः' । पृषोदरादित्वात् अभिमतस्वरूपस्वरसिद्धिः । तद्ददतीत्यररिन्दानि उदकानि । चेष्टाप्रदानीत्यर्थः । ‘ आपोमयः प्राणः' (छा. उ. ६. ५. ४) इति श्रुतेः। यद्वा । ररिर्दानम् । न विद्यते तादृशं दानमितरभूतेषु तत् अररि । तद्ददतीत्यररिन्दानि । अन्यैरदेयं लोकोपकारिभोगं ददतीत्यर्थः । तादृशान्युदकानि यागेनोत्पादितवानित्यर्थः । किंच "सुक्रतुः शोभनकर्मा अयं "पुरु पुरूणि बहूनि “सद्मानि सदनानि सुखनिवासयोग्यानि गृहाणि अधारयत् । यद्वा । बृहस्पतिः सुक्रतुश्च अयमध्वर्युः अररिन्दानि उक्तलक्षणानि अभिषवसाधनान्युदकानि अधारयत् । धारितवान् । तथा सुक्रतुः शोभनप्रज्ञः पुरु सद्मानि सदनानि हविरासादनस्थानान्यधारयत् ।।


दशरात्रे षष्ठेऽहनि प्रउगशस्त्रे वैश्वदेवतृचस्य द्वितीया • ये देवासः' इत्येषा । सूत्रितं च -- ये देवासो दिव्येकादश स्थेयमददाद्रभसम् ' ( आश्व. श्रौ. ४. १ ) इति ॥

ये दे॑वासो दि॒व्येका॑दश॒ स्थ पृ॑थि॒व्यामध्येका॑दश॒ स्थ ।

अ॒प्सु॒क्षितो॑ महि॒नैका॑दश॒ स्थ ते दे॑वासो य॒ज्ञमि॒मं जु॑षध्वम् ॥११

ये । दे॒वा॒सः॒ । दि॒वि । एका॑दश । स्थ । पृ॒थि॒व्याम् । अधि॑ । एका॑दश । स्थ ।

अ॒प्सु॒ऽक्षितः॑ । म॒हि॒ना । एका॑दश । स्थ । ते । दे॒वा॒सः॒ । य॒ज्ञम् । इ॒मम् । जु॒ष॒ध्व॒म् ॥११

ये । देवासः । दिवि । एकादश । स्थ । पृथिव्याम् । अधि । एकादश । स्थ ।

अप्सुऽक्षितः । महिना । एकादश । स्थ । ते । देवासः । यज्ञम् । इमम् । जुषध्वम् ॥११

हे "देवासः देवा द्योतनशीलाः "ये यूयं "दिवि द्युलोके “एकादश “स्थ एकं च दश चेत्येतत्संख्याका भवथ तथा “पृथिव्यामधि उपरि “एकादश "स्थ एतत्संख्याका भवथ किंच “अप्सुक्षितः । तद्धेतुत्वात् ताच्छब्द्यम् । अप्सु अन्तरिक्षे क्षियन्ति निवसन्तीत्यप्सुक्षितः ॥ क्षियतेः क्विप् । तत्पुरुषे कृति° ' इति अलुक् ॥ अन्तरिक्षवासिनो देवाः “एकादश “स्थ तत्संख्याका भवथ । यद्वा । अन्तरिक्षस्येयं संज्ञा । ‘ आपः पृथिवी ' ( नि. १. ३. ८ ) इति अन्तरिक्षनामसु पाठात् । यद्यपि ‘ तिस्रः एव देवताः' (निरु. ७.५) इत्युक्तत्वात् क्षित्याद्यभिमानिन्यो देवतास्तिस्र एव तथापि "महिना महत्त्वेन स्वस्वविभूत्या त्रयस्त्रिंशत्संख्याका भवन्ति । तत्तत्स्थाना अन्यास्तद्विभूतयः इत्युक्तत्वात् । महिना देवासः इत्येते सर्वत्र संबध्येते । "ते यूयं हे "देवासः मिलित्वा उक्तसंख्याका देवाः “इमम् अस्मदीयं “यज्ञं “जुषध्वं संभजध्वम् । तत्संबन्धि हविर्वा सेवित्वा प्रीणयध्वम् ॥ एकं च दश चैकादश । ‘ प्रागेकादशभ्यः० ' ( पा. सू. ५, ३. ४९ ) इति निपातनात् दीर्घः । ‘ संख्या ' इति पूर्वपदप्रकृतिस्वरत्वम् ॥ ४ ॥ ॥ २० ॥


टिप्पणी

१.१३९.१ अस्तु श्रौषट् पुरो इति

वृषन्निन्द्र अस्तु श्रौषळ् ओ षू णो अग्ने शृणुहि त्वमीळितो ये देवासो दिव्येकादश स्थ इयमददाद्रभसमृणच्युतमिति प्रउगं पारुच्छेपमतिच्छन्दाः सप्तपदं षष्ठेऽहनि षष्ठस्याह्नो रूपं ऐ.ब्रा. ५.१२

श्रौषट् उपरि संक्षिप्त टिप्पणी

सोमयागे आश्रावण-प्रत्याश्रावणस्य अवसानं वषट्कारे अथवा अनुवषट्कारे भवति। प्रस्तुतसूक्तस्य अवसानस्य कः प्रकारः अस्ति, अन्वेषणीयः

द्र. शतपथब्राह्मणम् ४.१.३.१

याज्ञतुरम्


१.१३९.२ यद्ध त्यन्मित्रावरुणा इति

मैत्रावरुणग्रहः


१.१३९.३ युवां स्तोमेभिः इति

आश्विन् ग्रहः


१.१३९.६ सुमृळीको न आ गहि--

देवासुरा वा एषु लोके, समयतन्त ते वै देवाः षष्ठेनैवाह्नैभ्यो लोकेभ्यो असुरान्प्राणुदन्त यान्यन्तर्हस्तीनानि वसून्यासंस्तान्यादाय समुद्रं प्रौप्यन्त त एतेनैव च्छन्दसा अनुहायान्तर्हस्तीनानि वसून्याददत तद्यतेतत्पदं पुनःपदं स एवाङ्कुश आसञ्जनाय। आ द्विषतो वसु दत्ते निरेनमेभ्यः सर्वेभ्यो लोकेभ्यो नुदते य एवं वेद। - ऐब्रा ५.११

१.१३९.७ तु. भागवत पु. ४.१८.१८

ओ षु - मो षु संदर्भे मुषलोपरि टिप्पणी

अस्तुश्रौषडोषूणो अग्ने शृणुहि त्वमीडितो ये देवासो दिव्येकादश स्थेयमददाद्र भसमृणच्युतमिति प्रउगं । आ.श्रौ. ८.१.१२.

अस्तु श्रौषड् वैश्वदेवं तृतीयं वैश्वदेवं स्याद्बहुदेवतेषु ।। ७ ।। बहुशस्तु वैश्वदेवेषु सन्त्यृचः पादार्धर्चा द्वैपदास्त्रैपदाश्च । द्विप्रधाना अपि चैकप्रधाना बहुप्रधाना अपि वैश्वदेवाः ।।८ वैश्वदेवी मैत्रावरुणी द्वितीया तिस्रोऽश्विभ्यां तत ऐन्द्री ततोऽग्नेः । मारुत्येका तत ऐन्द्राग्न्यनन्तरा बार्हस्पत्या चोत्तमा स्तौति देवान् ।।बृ.दे. ४.७



मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१३९&oldid=402092" इत्यस्माद् प्रतिप्राप्तम्