ऋग्वेदः सूक्तं १.१४३

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं १.१४२ ऋग्वेदः - मण्डल १
सूक्तं १.१४३
दीर्घतमा औचथ्यः
सूक्तं १.१४४ →
दे. अग्निः । जगती, ८ त्रिष्टुप् ।


प्र तव्यसीं नव्यसीं धीतिमग्नये वाचो मतिं सहसः सूनवे भरे ।
अपां नपाद्यो वसुभिः सह प्रियो होता पृथिव्यां न्यसीददृत्वियः ॥१॥
स जायमानः परमे व्योमन्याविरग्निरभवन्मातरिश्वने ।
अस्य क्रत्वा समिधानस्य मज्मना प्र द्यावा शोचिः पृथिवी अरोचयत् ॥२॥
अस्य त्वेषा अजरा अस्य भानवः सुसंदृशः सुप्रतीकस्य सुद्युतः ।
भात्वक्षसो अत्यक्तुर्न सिन्धवोऽग्ने रेजन्ते अससन्तो अजराः ॥३॥
यमेरिरे भृगवो विश्ववेदसं नाभा पृथिव्या भुवनस्य मज्मना ।
अग्निं तं गीर्भिर्हिनुहि स्व आ दमे य एको वस्वो वरुणो न राजति ॥४॥
न यो वराय मरुतामिव स्वनः सेनेव सृष्टा दिव्या यथाशनिः ।
अग्निर्जम्भैस्तिगितैरत्ति भर्वति योधो न शत्रून्स वना न्यृञ्जते ॥५॥
कुविन्नो अग्निरुचथस्य वीरसद्वसुष्कुविद्वसुभिः काममावरत् ।
चोदः कुवित्तुतुज्यात्सातये धियः शुचिप्रतीकं तमया धिया गृणे ॥६॥
घृतप्रतीकं व ऋतस्य धूर्षदमग्निं मित्रं न समिधान ऋञ्जते ।
इन्धानो अक्रो विदथेषु दीद्यच्छुक्रवर्णामुदु नो यंसते धियम् ॥७॥
अप्रयुच्छन्नप्रयुच्छद्भिरग्ने शिवेभिर्नः पायुभिः पाहि शग्मैः ।
अदब्धेभिरदृपितेभिरिष्टेऽनिमिषद्भिः परि पाहि नो जाः ॥८॥


सायणभाष्यम्

‘ प्र तव्यसीम्' इति अष्टर्चं चतुर्थे सूक्तं दैर्घतमसम् । तथा चानुक्रान्तं -’ प्र तब्यसीमष्टावाग्नेयं तु तत् त्रिष्टुबन्तम्' इति । ‘तु तत्' इत्युक्तत्वात् इदमादिसूक्ताष्टकस्य अग्निर्देवता । अन्त्या त्रिष्टुप् शिष्टाः त्रिष्टुबन्तपरिभाषया जगत्यः । प्रातरनुवाकाश्विनशस्त्रयोरुक्तो विनियोगः । अग्निष्टोमे अग्निमारुते शस्त्रे इदं सूक्तं जातवेदस्यनिविद्धानीयम् । अथ यथेतम्' इति खण्डे सूत्रितं - ‘प्र तव्यसीं नव्यसीमापो हि ष्ठेति तिस्रः ' ( आश्व. श्रौ. ५. २० ) इति । दशरात्रस्य प्रथमेऽप्यहनि जातवेदस्यनिविद्धानम् आश्वमेधिके मध्यमेऽहनि च निविद्धानम् । तथा च आचार्यातिदेशः-’ ऐकाहिकान्युपसंशस्य तेषु निविदो दध्यादेवमेवाग्निमारुते ' ( आश्व. श्रौ. १०. १० ) इति ॥


प्र तव्य॑सीं॒ नव्य॑सीं धी॒तिम॒ग्नये॑ वा॒चो म॒तिं सह॑सः सू॒नवे॑ भरे ।

अ॒पां नपा॒द्यो वसु॑भिः स॒ह प्रि॒यो होता॑ पृथि॒व्यां न्यसी॑ददृ॒त्वियः॑ ॥१

प्र । तव्य॑सीम् । नव्य॑सीम् । धी॒तिम् । अ॒ग्नये॑ । वा॒चः । म॒तिम् । सह॑सः । सू॒नवे॑ । भ॒रे॒ ।

अ॒पाम् । नपा॑त् । यः । वसु॑ऽभिः । स॒ह । प्रि॒यः । होता॑ । पृ॒थि॒व्याम् । नि । असी॑दत् । ऋ॒त्वियः॑ ॥१

प्र । तव्यसीम् । नव्यसीम् । धीतिम् । अग्नये । वाचः । मतिम् । सहसः । सूनवे । भरे ।

अपाम् । नपात् । यः । वसुऽभिः । सह । प्रियः । होता । पृथिव्याम् । नि । असीदत् । ऋत्वियः ॥१

अहम् “अग्नये “तव्यसीं तवीयसीम् अतिशयेन वर्धयित्रीम् ॥ तवतिर्वृद्ध्यर्थः सौत्रो धातुः । अस्मात् तृजन्तात् तुश्छन्दसि ' इति ईयसुन् । तुरिष्ठेमेयःसु ' इति तृलोपः । छान्दस ईकारलोपः।। “नव्यसीं नवतरामपूर्वां “धीतिं यागलक्षणाम् उक्तगुणकं कर्म “प्र “भरे प्रकर्षेण करोमि । तथा उक्तलक्षणां “वाचो “मतिं स्तुतिरूपं कर्म भरे । कीदृशायाग्नये। “सहसः बलस्य “सूनवे पुत्राय । किंच “यः अग्निः "अपां “नपात् तासां नप्ता । ‘ अद्भ्यः ओषधयः ओषधीभ्योऽग्निः' इति अग्नेर्नप्तृत्वम् । अथवा अपां न पातयिता वैद्युताग्निरूपेण प्रवर्षकत्वादिति भावः । तथा “प्रियः यजमानस्य प्रीणयिता प्रियतमो वा तस्य “होता होमनिष्पादकः सोऽग्निः “ऋत्वियः प्राप्तकालः प्राप्तप्रदानसमयः सन् “पृथिव्यां वेदिलक्षणायां “वसुभिः निवासयोग्यैर्गवादिधनैः सहितः “न्यसीदत् नितरां सीदति ॥


स जाय॑मानः पर॒मे व्यो॑मन्या॒विर॒ग्निर॑भवन्मात॒रिश्व॑ने ।

अ॒स्य क्रत्वा॑ समिधा॒नस्य॑ म॒ज्मना॒ प्र द्यावा॑ शो॒चिः पृ॑थि॒वी अ॑रोचयत् ॥२

सः । जाय॑मानः । प॒र॒मे । विऽओ॑मनि । आ॒विः । अ॒ग्निः । अ॒भ॒व॒त् । मा॒त॒रिश्व॑ने ।

अ॒स्य । क्रत्वा॑ । स॒म्ऽइ॒धा॒नस्य॑ । म॒ज्मना॑ । प्र । द्यावा॑ । शो॒चिः । पृ॒थि॒वी इति॑ । अ॒रो॒च॒य॒त् ॥२

सः । जायमानः । परमे । विऽओमनि । आविः । अग्निः । अभवत् । मातरिश्वने ।

अस्य । क्रत्वा । सम्ऽइधानस्य । मज्मना । प्र । द्यावा । शोचिः । पृथिवी इति । अरोचयत् ॥२

“सः पूर्वोक्तः "अग्निः “जायमानः अरणीभ्यामुत्पद्यमानः काष्ठेषु वा प्रादुर्भूतः सन् तदानीमेव “परमे उत्कृष्टे “व्योमनि विविधरक्षणवति वेदिदेशे “मातरिश्वने अन्तरिक्षसंचारिणे वायवे प्रथमम् “आविः “अभवत् प्रत्यक्षोऽभूत् ।' त्वमग्ने प्रथमो मातरिश्वन आविर्भव' ( ऋ. सं. १. ३१.३ ) इत्यादिश्रुत्यन्तरप्रसिद्धेः । वायुसंयोगात् प्रज्वलित इत्यर्थः । अथवा मातरि फलस्य निर्मातरि यज्ञे श्वसिति चेष्टते इति मातरिश्वा यजमानः । तदर्थम् । किंच समिधानस्य इन्धनैः सम्यग्वर्धमानस्य अग्नेः “मज्मना । बलनामैतत् । बलवता “क्रत्वा क्रतुना कर्मणा ज्वालनादिव्यापारेण “शोचिः “द्यावा “पृथिवी द्यां च पृथिवीं च “प्र “अरोचयत् प्रकर्षेणादीपयत् ॥ मध्ये शोचिःशब्दश्छान्दसः ॥ मज्मना क्रत्वा समिधानस्येति वा योज्यम् । प्रबलेन समिन्धनादिव्यापारेण समिध्यमानस्येत्यर्थः ।


अ॒स्य त्वे॒षा अ॒जरा॑ अ॒स्य भा॒नवः॑ सुसं॒दृशः॑ सु॒प्रती॑कस्य सु॒द्युतः॑ ।

भात्व॑क्षसो॒ अत्य॒क्तुर्न सिंध॑वो॒ऽग्ने रे॑जंते॒ अस॑संतो अ॒जराः॑ ॥३

अ॒स्य । त्वे॒षाः । अ॒जराः॑ । अ॒स्य । भा॒नवः॑ । सु॒ऽस॒न्दृशः॑ । सु॒ऽप्रती॑कस्य । सु॒ऽद्युतः॑ ।

भाऽत्व॑क्षसः । अति॑ । अ॒क्तुः । न । सिन्ध॑वः । अ॒ग्नेः । रे॒ज॒न्ते॒ । अस॑सन्तः । अ॒जराः॑ ॥३

अस्य । त्वेषाः । अजराः । अस्य । भानवः । सुऽसन्दृशः । सुऽप्रतीकस्य । सुऽद्युतः ।

भाऽत्वक्षसः । अति । अक्तुः । न । सिन्धवः । अग्नेः । रेजन्ते । अससन्तः । अजराः ॥३

“अस्य स्तूयमानस्याग्नेः “त्वेषाः दीप्तयः “अजराः जरारहिताः अजीर्णा: अविरता इत्यर्थः ।। ‘ नञो जरमर ' इत्यादिना उत्तरपदाद्युदात्तत्वम् ।। तथा “सुप्रतीकस्य शोभनमुखस्य “अस्य अग्नेः “भानवः रश्मयः । दीप्तेरुक्तत्वादत्र विस्फुलिङ्गा अवगन्तव्याः । ते च सुसंदृशः सुष्ठु सम्यक् द्रष्टारः । सर्वतो व्याप्ता इत्यर्थः । “सुद्युतः सुष्ठु सर्वतो द्योतमानाः । तथा अस्य अग्नेः “भात्वक्षसः । त्वक्ष इति बलनाम, ‘ त्वक्षः शर्धः ' ( नि. २. ९, ६ ) इति बलनामसु पाठात् । भासमानबलाः । “अक्तुः इति सत्रिनामैतत् ,' अक्तुः ऊर्म्या' (नि. १. ७. ४ ) इति तन्नामसूक्तत्वात् । द्वितीयार्थे प्रथमा । अक्तुं जगदञ्जकं नैशं तमः "अति अतिक्रम्य “सिन्धवः स्यन्दमानाः सर्वत्र व्याप्नुवन्तः “अससन्तः स्वव्यापारेषु अस्वपन्तोऽविरताः अत एव “अजराः “न “रेजन्ते न कम्पन्ते । दाहपाकादिषु न चलन्ति न चाल्यन्ते वा अन्यैः । यद्वा । नशब्दो दृष्टान्तवचनः। भात्वक्षसो भा एवं त्वक्षो बलं यस्य तादृशस्यादित्यस्य सिन्धवो न रश्मय इव । ते यथा स्यन्दनशीला व्याप्तिमन्तः अक्तुरति भञ्जकं तमः अतिक्रम्य अससन्तो रेजन्ते तद्वत् भात्वक्षसोऽस्याग्नेरुक्तलक्षणा दीप्तयोऽपि सर्वत्र रेजन्ते कम्पन्ते व्याप्नुवन्तीत्यर्थः ॥


यमे॑रि॒रे भृग॑वो वि॒श्ववे॑दसं॒ नाभा॑ पृथि॒व्या भुव॑नस्य म॒ज्मना॑ ।

अ॒ग्निं तं गी॒र्भिर्हि॑नुहि॒ स्व आ दमे॒ य एको॒ वस्वो॒ वरु॑णो॒ न राज॑ति ॥४

यम् । आ॒ऽई॒रि॒रे । भृग॑वः । वि॒श्वऽवे॑दसम् । नाभा॑ । पृ॒थि॒व्याः । भुव॑नस्य । म॒ज्मना॑ ।

अ॒ग्निम् । तम् । गीः॒ऽभिः । हि॒नु॒हि॒ । स्वे । आ । दमे॑ । यः । एकः॑ । वस्वः॑ । वरु॑णः । न । राज॑ति ॥४

यम् । आऽईरिरे । भृगवः । विश्वऽवेदसम् । नाभा । पृथिव्याः । भुवनस्य । मज्मना ।

अग्निम् । तम् । गीःऽभिः । हिनुहि । स्वे । आ । दमे । यः । एकः । वस्वः । वरुणः । न । राजति ॥४

“विश्ववेदसं सर्वधनम् । वेद इति धननाम, ‘ वेदः वरिवा' (नि. २. १०. ४ ) इति तन्नामसु पाठात् । तादृशं “यम् अग्निं “भृगवः भृगुगोत्रोत्पन्नाः पापस्य भर्जकाः “पृथिव्याः वेद्याः । एकदेशे कृत्स्नशब्दः । यद्वा । ‘ एतावती वै पृथिवी ' (तै. सं. २. ६. ४. ३) इत्यादिश्रुतेर्वेद्याः पृथिवीत्वम् । तस्या नाभौ उत्तरवेद्यां “भुवनस्य भूतजातस्य “मज्सना बलेन निमित्तेन “आ आभिमुख्येन “ईरिरे ईरितवन्तः स्थापितवन्तः “तम् “अग्निं “स्वे स्वकीये "दमे गृहे उत्तवेद्यां “गीर्भिः स्तुतिभिः “आ “हिनुहि प्राप्नुहि ॥ ‘ हि गतौ वृद्धौ च ' । उतश्च प्रत्ययाच्छन्दसि वावचनम् ' इति हेर्लुगभावः ॥ “यः अग्निः “एकः मुख्यः सन् एक एव वा “वस्वः वसुनो गवादिधनस्य “राजति ईश्वरो भवति । प्रदातुमिति शेषः । राजति इत्यैश्वर्यकर्मा, ‘क्षियति राजति' ( नि. २. २१. ४ ) इति तन्नामसु पाठात् । तत्र दृष्टान्तः। “वरुणो “न वारक आदित्य इव । स यथा सर्वस्य ईष्टे तद्वत् ॥


न यो वरा॑य म॒रुता॑मिव स्व॒नः सेने॑व सृ॒ष्टा दि॒व्या यथा॒शनिः॑ ।

अ॒ग्निर्जंभै॑स्तिगि॒तैर॑त्ति॒ भर्व॑ति यो॒धो न शत्रू॒न्त्स वना॒ न्यृं॑जते ॥५

न । यः । वरा॑य । म॒रुता॑म्ऽइव । स्व॒नः । सेना॑ऽइव । सृ॒ष्टा । दि॒व्या । यथा॑ । अ॒शनिः॑ ।

अ॒ग्निः । जम्भैः॑ । ति॒गि॒तैः । अ॒त्ति॒ । भर्व॑ति । यो॒धः । न । शत्रू॑न् । सः । वना॑ । नि । ऋ॒ञ्ज॒ते॒ ॥५

न । यः । वराय । मरुताम्ऽइव । स्वनः । सेनाऽइव । सृष्टा । दिव्या । यथा । अशनिः ।

अग्निः । जम्भैः । तिगितैः । अत्ति । भर्वति । योधः । न । शत्रून् । सः । वना । नि । ऋञ्जते ॥५

“यः अग्निः “वराय वरणाय निग्रहाय “न शक्तो न भवति । तत्र दृष्टान्तत्रयमुच्यते । "मरुतां “स्वनः “इव । स यथा अग्राह्यः तद्वत् । तथा “सृष्टा वैरिक्षयार्थं प्रबलेन अतिसृष्टा “सेनेव । सा यथा अन्यैः अनिरोध्या तद्वत् । तथा “दिव्या दिवि भवा “अशनिः “यथा पतत्येव न निवार्यते तद्वत् । ईदृक् सामर्थ्यमस्तीति दर्शयति । अयम् “अग्निः “तिगितैः निशितैस्तीक्ष्णीभूतैः ॥ अन्त्यविकारश्छान्दसः । “जम्भैः दन्तैर्दन्तस्थानीयाभिर्ज्वालाभिः “अत्ति अस्मद्विरोधिनो भक्षयति । तथा “भर्वति हिनस्ति ।। ‘ भर्व हिंसायाम् ' । यास्कस्त्वाह-' भर्वतिरत्तिकर्मा ' (निरु. ९, २३ ) इति । यद्यपि अत्तिभर्वत्योः अदनमेवार्थः तथापि तदवान्तरभेदोऽवगन्तव्यः । तत्र दृष्टान्तः । "योधो “न संप्रहर्ता शूर इव । स यथा “शत्रून् भर्वति भक्षयति तद्वत् । किंच “सः अग्निः “वना वनानि वृक्षदिसमूहान् “न्यृञ्जते नितरां प्रसाधयति दहतीत्यर्थः । ‘ऋञ्जतिः प्रसाधनकर्मा ' इति यास्कः ।।


कु॒विन्नो॑ अ॒ग्निरु॒चथ॑स्य॒ वीरस॒द्वसु॑ष्कु॒विद्वसु॑भिः॒ काम॑मा॒वर॑त् ।

चो॒दः कु॒वित्तु॑तु॒ज्यात्सा॒तये॒ धियः॒ शुचि॑प्रतीकं॒ तम॒या धि॒या गृ॑णे ॥६

कु॒वित् । नः॒ । अ॒ग्निः । उ॒चथ॑स्य । वीः । अस॑त् । वसुः॑ । कु॒वित् । वसु॑ऽभिः । काम॑म् । आ॒ऽवर॑त् ।

चो॒दः । कु॒वित् । तु॒तु॒ज्यात् । सा॒तये॑ । धियः॑ । शुचि॑ऽप्रतीकम् । तम् । अ॒या । धि॒या । गृ॒णे॒ ॥६

कुवित् । नः । अग्निः । उचथस्य । वीः । असत् । वसुः । कुवित् । वसुऽभिः । कामम् । आऽवरत् ।

चोदः । कुवित् । तुतुज्यात् । सातये । धियः । शुचिऽप्रतीकम् । तम् । अया । धिया । गृणे ॥६

अयम् “अग्निः “नः अस्माकम् “उचथस्य उक्थस्य स्तोत्रस्य “कुवित् बहुवारं “वीः कामयिता “असत् भवतु ॥ अस्तेर्लेटि अडागमः । यहा। उचथस्य एतन्नामकस्य महर्षेर्गोत्रप्रभवस्य नः इति संबन्धः । तथा “वसुः वासयिता सर्वेषां वसुस्थानीयो वा “वसुभिः वासयितृभिर्धनैः “कामम् अत्यर्थमभिमतं वा “कुवित् अतिप्रभूतम् “आवरत् आवृणोतु । अभिमतप्रदानेन कामं निवर्तयत्वित्यर्थः ॥ वृणोतेर्लेटि अडागमः । छान्हसो विकरणस्य लुक् ॥ अयमग्निः “चोदः अस्माकं कर्मसु प्रेरकः सन् “धियः कर्माणि “सातये लाभाय “कुवित् बहु तुतुज्यात् त्वरयतु प्रेरयतु इत्यर्थः ॥ तुजिः प्रेरणार्थः । छान्दसः शपः श्लुः ॥ “शुचिप्रतीकं शोभनावयवं शोभनज्वालं “तम् अग्निम् “अया “धिया अनया स्तुतिरूपया प्रज्ञया “गृणे उच्चारयामि स्तौमीत्यर्थः ।।


घृ॒तप्र॑तीकं व ऋ॒तस्य॑ धू॒र्षद॑म॒ग्निं मि॒त्रं न स॑मिधा॒न ऋं॑जते ।

इंधा॑नो अ॒क्रो वि॒दथे॑षु॒ दीद्य॑च्छु॒क्रव॑र्णा॒मुदु॑ नो यंसते॒ धियं॑ ॥७

घृ॒तऽप्र॑तीकम् । वः॒ । ऋ॒तस्य॑ । धूः॒ऽसद॑म् । अ॒ग्निम् । मि॒त्रम् । न । स॒म्ऽइ॒धा॒नः । ऋ॒ञ्ज॒ते॒ ।

इन्धा॑नः । अ॒क्रः । वि॒दथे॑षु । दीद्य॑त् । शु॒क्रऽव॑र्णाम् । उत् । ऊं॒ इति॑ । नः॒ । यं॒स॒ते॒ । धिय॑म् ॥७

घृतऽप्रतीकम् । वः । ऋतस्य । धूःऽसदम् । अग्निम् । मित्रम् । न । सम्ऽइधानः । ऋञ्जते ।

इन्धानः । अक्रः । विदथेषु । दीद्यत् । शुक्रऽवर्णाम् । उत् । ऊं इति । नः । यंसते । धियम् ॥७

“घृतप्रतीकं घृतोपक्रमं प्रयाजादिषु आज्यैर्हूयमानत्वात् । यद्वा । प्रतीकमङ्गम् । दीप्तज्वालमित्यर्थः। किंच “वः युष्मत्संबन्धिनः “ऋतस्य यज्ञस्य “धूर्षदं धुरि निर्वहणे सीदन्तं यज्ञनिर्वाहकम् “अग्निं “मित्रं “न मित्रमिव 'समिधानः इध्मैर्दीपयमानः “ऋञ्जते प्रसाधयति । ऋञ्जतिः प्रसाधनकर्मा । एवम् “इन्धानः सम्यग्दीप्यमानः "अक्रः ज्वालासमिदादिभिराक्रान्तः अन्यैः अनाक्रान्तः वा ।। क्रमेश्छान्दसो डः ॥ “विदथेषु यज्ञेषु वेदयत्सु स्तोत्रेषु निमित्तभूतेषु “दीद्यत् स्वयं दीप्यमानः अस्मदीयां “धियं प्रज्ञां यागादिविषयां “शुक्रवर्णां शुभ्रवर्णां निर्मलां ज्योतिष्टोमादि कर्म वा “उदु “यंसते उद्योजयत्येव ।। यमेर्लेटि अडागमः । सिप् ॥ उशब्दोऽवधारणे । धीरिति कर्मनाम, ‘ धीः शमी' (नि. २. १. २१) इति तन्नामसु पाठात् ॥


अप्र॑युच्छ॒न्नप्र॑युच्छद्भिरग्ने शि॒वेभि॑र्नः पा॒युभिः॑ पाहि श॒ग्मैः ।

अद॑ब्धेभि॒रदृ॑पितेभिरि॒ष्टेऽनि॑मिषद्भिः॒ परि॑ पाहि नो॒ जाः ॥८

अप्र॑ऽयुच्छन् । अप्र॑युच्छत्ऽभिः । अ॒ग्ने॒ । शि॒वेभिः॑ । नः॒ । पा॒युऽभिः॑ । पा॒हि॒ । श॒ग्मैः ।

अद॑ब्धेभिः । अदृ॑पितेभिः । इ॒ष्टे॒ । अनि॑मिषत्ऽभिः । परि॑ । पा॒हि॒ । नः॒ । जाः ॥८

अप्रऽयुच्छन् । अप्रयुच्छत्ऽभिः । अग्ने । शिवेभिः । नः । पायुऽभिः । पाहि । शग्मैः ।

अदब्धेभिः । अदृपितेभिः । इष्टे । अनिमिषत्ऽभिः । परि । पाहि । नः । जाः ॥८

हे “अग्ने “अप्रयुच्छन् अस्मासु अप्रमाद्यन् ॥'युच्छ प्रमादे' । अविच्छिन्नप्रवृत्तिः सन् 'अप्रयुच्छद्भिः अप्रमाद्यद्भिः अनवधानरहितैः “शिवेभिः मन्त्रकल्याणैः "शग्मैः सुखकरैः “पायुभिः रक्षणप्रकारैः "न: अस्मान् “पाहि रक्ष। किंच हे “इष्टे सर्वैः एषणीयाग्ने “जाः जायमानोऽस्माभिर्दीप्यमानः सन् “अदब्धेभिः अहिंसितैः अदृपितेभिः केनचिदप्यपरिभूतैः ।। ‘ दृप दृम्फ उत्क्लेशे '। तौदादिकः ॥ “अनिमिषद्भिः निमेषरहितैः अनलस्वभावैः ईदृशैः लक्षणै: "नः अस्मान् “परि परितः “पाहि पालय । यद्वा । उपर्युपरि जायन्ते इति जाः । नो जाः अस्मत्संबन्धिनीः पुत्रपौत्रादिरूपाः प्रजाः परि “पाहि परितो रक्ष । न केवलमस्मान् किंतु अस्मत्पुत्रपौत्रादीनपि रक्ष ॥ ॥ १२ ॥

मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१४३&oldid=207809" इत्यस्माद् पुनः प्राप्तिः