ऋग्वेदः सूक्तं १.१८५

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं १.१८४ ऋग्वेदः - मण्डल १
सूक्तं १.१८५
अगस्त्यो मैत्रावरुणिः
सूक्तं १.१८६ →
दे. द्यावापृथिव्यौ। त्रिष्टुप्।


कतरा पूर्वा कतरापरायोः कथा जाते कवयः को वि वेद ।
विश्वं त्मना बिभृतो यद्ध नाम वि वर्तेते अहनी चक्रियेव ॥१॥
भूरिं द्वे अचरन्ती चरन्तं पद्वन्तं गर्भमपदी दधाते ।
नित्यं न सूनुं पित्रोरुपस्थे द्यावा रक्षतं पृथिवी नो अभ्वात् ॥२॥
अनेहो दात्रमदितेरनर्वं हुवे स्वर्वदवधं नमस्वत् ।
तद्रोदसी जनयतं जरित्रे द्यावा रक्षतं पृथिवी नो अभ्वात् ॥३॥
अतप्यमाने अवसावन्ती अनु ष्याम रोदसी देवपुत्रे ।
उभे देवानामुभयेभिरह्नां द्यावा रक्षतं पृथिवी नो अभ्वात् ॥४॥
संगच्छमाने युवती समन्ते स्वसारा जामी पित्रोरुपस्थे ।
अभिजिघ्रन्ती भुवनस्य नाभिं द्यावा रक्षतं पृथिवी नो अभ्वात् ॥५॥
उर्वी सद्मनी बृहती ऋतेन हुवे देवानामवसा जनित्री ।
दधाते ये अमृतं सुप्रतीके द्यावा रक्षतं पृथिवी नो अभ्वात् ॥६॥
उर्वी पृथ्वी बहुले दूरेअन्ते उप ब्रुवे नमसा यज्ञे अस्मिन् ।
दधाते ये सुभगे सुप्रतूर्ती द्यावा रक्षतं पृथिवी नो अभ्वात् ॥७॥
देवान्वा यच्चकृमा कच्चिदागः सखायं वा सदमिज्जास्पतिं वा ।
इयं धीर्भूया अवयानमेषां द्यावा रक्षतं पृथिवी नो अभ्वात् ॥८॥
उभा शंसा नर्या मामविष्टामुभे मामूती अवसा सचेताम् ।
भूरि चिदर्यः सुदास्तरायेषा मदन्त इषयेम देवाः ॥९॥
ऋतं दिवे तदवोचं पृथिव्या अभिश्रावाय प्रथमं सुमेधाः ।
पातामवद्याद्दुरितादभीके पिता माता च रक्षतामवोभिः ॥१०॥
इदं द्यावापृथिवी सत्यमस्तु पितर्मातर्यदिहोपब्रुवे वाम् ।
भूतं देवानामवमे अवोभिर्विद्यामेषं वृजनं जीरदानुम् ॥११॥

सायणभाष्यम्

‘कतरा पूर्वा' इत्येकादशर्चं षष्ठं सूक्तमागस्त्यं त्रैष्टुभम् । “कतरैकादश द्यावापृथिवीयम्' इत्यनुक्रान्तम् । आभिप्लविके षष्ठेऽहनि वैश्वदेवशस्त्रे द्यावापृथिव्यनिविद्धानमिदम् । 'तृतीयस्य' इति खण्डे सूत्रितं- 'कतरा पूर्वोषासानक्तेति वैश्वदेवम् ' ( आश्व. श्रौ. ७. ७) इति । महाव्रतेऽपि वैश्वदेवशस्त्रे इदमेव द्यावापृथिव्यनिविद्धानम् । ‘उत्तमदाभिप्लविकात्तृतीयसवनम्' (ऐ. आ. ५. ३. २ ) इत्यतिदेशात् ॥


क॒त॒रा पूर्वा॑ कत॒राप॑रा॒योः क॒था जा॒ते क॑वय॒ः को वि वे॑द ।

विश्वं॒ त्मना॑ बिभृतो॒ यद्ध॒ नाम॒ वि व॑र्तेते॒ अह॑नी च॒क्रिये॑व ॥१

क॒त॒रा । पूर्वा॑ । क॒त॒रा । अप॑रा । अ॒योः । क॒था । जा॒ते इति॑ । क॒व॒यः॒ । कः । वि । वे॒द॒ ।

विश्व॑म् । त्मना॑ । बि॒भृ॒तः॒ । यत् । ह॒ । नाम॑ । वि । व॒र्ते॒ते॒ इति॑ । अह॑नी॒ इति॑ । च॒क्रिया॑ऽइव ॥१

कतरा । पूर्वा । कतरा । अपरा। अयोः । कथा । जाते इति । कवयः । कः । वि। वेद ।

विश्वम् । त्मना । बिभृतः । यत् । ह। नाम । वि। वर्तेते इति । अहनी इति । चक्रियाऽइव ॥१॥

“अयोः एनयोर्द्यावापृथिव्योर्मध्ये “कतरा “पूर्वा पूर्वमुत्पन्ना। “कतरा वा “अपरा पश्चाद्भाविनी । एवं पौर्वापर्यप्रश्नः । उभयोः अविनाभावेन सहैव वर्तमानत्वादिति भावः । तथा “कथा केन हेतुना “जाते किमनयोरुत्पादनमित्यर्थः । हे “कवयः क्रान्तदर्शिनोऽतीन्द्रियज्ञाः यूयं वदत “को "वि “वेद पौर्वापर्यं कारणं च विशेषेण विविच्य वा जानाति । न केनापि ज्ञायते इत्यर्थः । अज्ञाने कारणमाह। “यद्ध यस्मात्खलु हेतोः “नाम प्रसिद्धं “विश्वं कृत्स्नमपि जगत् अविशेषेण “त्मना आत्मनैव अन्यनैरपेक्ष्येणैव “बिभृतः धारयतः । यद्वा । यद्ध नाम यत्किंचित् पदार्थजातमस्ति विश्वं तत्सर्वमात्मना बिभृतः । अनेन यत्कारणं ब्रूमस्तदपि आभ्यामेव भ्रियते इति कारणाभावः प्रतिपादितः । 'उत्तरेण पौर्वापर्याभाव उच्यते । “अहनी एते द्यावापृथिव्यौ “चक्रियेव चक्रयुक्ते इव वि “वर्तेते । अत्र ‘कतरा पूर्वा कतरापरैनयोः ' ( निरु. ३. २२) इत्यादि निरुक्तं द्रष्टव्यम् ॥


भूरिं॒ द्वे अच॑रन्ती॒ चर॑न्तं प॒द्वन्तं॒ गर्भ॑म॒पदी॑ दधाते ।

नित्यं॒ न सू॒नुं पि॒त्रोरु॒पस्थे॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा॑त् ॥२

भूरि॑ । द्वे इति॑ । अच॑रन्ती॒ इति॑ । चर॑न्तम् । प॒त्ऽवन्त॑म् । गर्भ॑म् । अ॒पदी॒ इति॑ । द॒धा॒ते॒ इति॑ ।

नित्य॑म् । न । सू॒नुम् । पि॒त्रोः । उ॒पऽस्थे॑ । द्यावा॑ । रक्ष॑तम् । पृ॒थि॒वी॒ इति॑ । नः॒ । अभ्वा॑त् ॥२

भूरिम् । द्वे इति । अचरन्ती इति । चरन्तम् । पत्ऽवन्तम् । गर्भम् । अपदी इति । दधाते इति ।

नित्यम् । न । सूनुम् । पित्रोः । उपऽस्थे । द्यावा । रक्षतम् । पृथिवी इति । नः । अभ्वात् ॥२॥

“अचरन्ती अविचले “द्वे एव एते द्यावापृथिव्यौ “भूरि बहुतरं चरन्तं पद्वन्तं पादयुक्तं “गर्भवदाश्रितं कृत्स्नं प्राणिजातम् “अपदी स्वयं पादरहिते “दधाते धारयतः । अनयोर्मध्ये खलु सर्वं जगत् क्षेमेण वर्तते । धारणे दृष्टान्तः । “पित्रोः मातापित्रोः “उपस्थे उत्सङ्गे वर्तमानं नित्यं ध्रुवमात्मजं “सूनुं न पुत्रमिव यथा स्नेहेन वर्धयन्तौ धारयन्तौ मातापितरौ तद्वत् । अथ प्रत्यक्षेणाह। हे “द्यावा “पृथिवी द्यावापृथिव्यौ । इतरेतरापेक्षया द्वित्वमुभयोः । “नः अस्मान् “अभ्वात् महतो भयहेतोः पापात् “रक्षतं पालयतम् । यद्वा । अभ्वात् अभ्वं महत् । अत्यर्थमित्यर्थः । अभ्वेति महन्नाम ॥ द्वन्द्वे कृतद्यावादेशस्य द्यावापृथिवीशब्दस्य मध्ये रक्षतम् इति पदप्रयोगश्छन्दसः। आमन्त्रितस्याविद्यमानत्वेन निघाताभावः ॥


अ॒ने॒हो दा॒त्रमदि॑तेरन॒र्वं हु॒वे स्व॑र्वदव॒धं नम॑स्वत् ।

तद्रो॑दसी जनयतं जरि॒त्रे द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा॑त् ॥३

अ॒ने॒हः । दा॒त्रम् । अदि॑तेः । अ॒न॒र्वम् । हु॒वे । स्वः॑ऽवत् । अ॒व॒धम् । नम॑स्वत् ।

तत् । रो॒द॒सी॒ इति॑ । ज॒न॒य॒त॒म् । ज॒रि॒त्रे । द्यावा॑ । रक्ष॑तम् । पृ॒थि॒वी॒ इति॑ । नः॒ । अभ्वा॑त् ॥३

अनेहः । दात्रम् । अदितेः । अनर्वम् । हुवे । स्वःऽवत् । अवधम् । नमस्वत् ।

तत् । रोदसी इति । जनयतम् । जरित्रे । द्यावा । रक्षतम् । पृथिवी इति । नः । अभ्वात् ॥३॥

“अदितेः । एतदन्तरिक्षस्याप्युपलक्षणम् । अखण्डनीयायाः पृथिव्याः तादृशस्यान्तरिक्षस्य च संबन्धि दात्रं धनं “हुवे आह्वयामि स्पृहयामीत्यर्थः । कीदृशं तद्धनम् । “अनेहः अपापं दुःखरहितं सुखात्मकम् “अनर्वम् अनरणम् अक्षीणमित्यर्थः । “स्वर्वत् सर्वतः फलभूतेन स्वर्गेण तद्वत् “अवधम् अहिंसितं “नमस्वत् अन्नवत् । ईदृशं धनं हुवे । “तत् अस्माभिः काङ्क्षितमुक्तलक्षणं धनं हे “रोदसी द्यावापृथिव्यौ “जरित्रे स्तोत्रे यजमानाय “जनयतम् उत्पादयतम् । द्यावेत्यादि व्याख्यातम् ।।


अत॑प्यमाने॒ अव॒साव॑न्ती॒ अनु॑ ष्याम॒ रोद॑सी दे॒वपु॑त्रे ।

उ॒भे दे॒वाना॑मु॒भये॑भि॒रह्नां॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा॑त् ॥४

अत॑प्यमाने॒ इति॑ । अव॑सा । अव॑न्ती॒ इति॑ । अनु॑ । स्या॒म॒ । रोद॑सी॒ इति॑ । दे॒वपु॑त्रे॒ इति॑ दे॒वऽपु॑त्रे ।

उ॒भे इति॑ । दे॒वाना॑म् । उ॒भये॑भिः । अह्ना॑म् । द्यावा॑ । रक्ष॑तम् । पृ॒थि॒वी॒ इति॑ । नः॒ । अभ्वा॑त् ॥४

अतप्यमाने इति । अवसा । अवन्ती इति । अनु । स्याम । रोदसी इति । देवपुत्रे इति देवपुत्रे ।

उभे इति । देवानाम् । उभयेभिः । अह्नाम् । द्यावा । रक्षतम् । पृथिवी इति । नः । अभ्वात् ॥४॥

“अवसा स्वतोऽधिकेन केनचित् कृतेन अवनेन समृद्ध्या “अतप्यमाने अनीश्वरे ॥ तपेः ऐश्वर्यकर्मणः इदं रूपम् ॥ अतप्यमाने अन्यैरपीड्यमाने। 'अवसा अनेन “अवन्ती तर्पयन्त्यौ “देवपुत्रे देवाः व्यवहर्तारो मनुष्याः पुत्रस्थानीयाः ययोस्तादृश्यौ । लोकद्वयस्थाः मनुष्याश्च देवाश्च तदुपजीव्यत्वात् पुत्राः इत्युच्यन्ते । ईदृशौ “उभे रोदसी द्यावापृथिव्यौ "देवानाम् “अह्नाम् । एतद्रात्रेरप्युपलक्षणम् । द्योतमानानाम् अह्नां रात्रीणां च संबन्धिभिः उभयविधैः शीतोष्णादिरूपैः विलक्षणैः धनैः निमित्तभूतैः । तेषां लाभायेत्यर्थः । तदर्थं युवाम् “अनु “स्याम अनुभवेम । शिष्टो व्याख्यातः ॥


सं॒गच्छ॑माने युव॒ती सम॑न्ते॒ स्वसा॑रा जा॒मी पि॒त्रोरु॒पस्थे॑ ।

अ॒भि॒जिघ्र॑न्ती॒ भुव॑नस्य॒ नाभिं॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा॑त् ॥५

स॒ङ्गच्छ॑माने॒ इति॑ स॒म्ऽगच्छ॑माने । यु॒व॒ती इति॑ । सम॑न्ते॒ इति॒ सम्ऽअ॑न्ते । स्वसा॑रा । जा॒मी इति॑ । पि॒त्रोः । उ॒पऽस्थे॑ ।

अ॒भि॒जिघ्र॑न्ती॒ इत्य॑भि॒ऽजिघ्र॑न्ती । भुव॑नस्य । नाभि॑म् । द्यावा॑ । रक्ष॑तम् । पृ॒थि॒वी॒ इति॑ । नः॒ । अभ्वा॑त् ॥५

संगच्छमाने इति सम्ऽगच्छमाने । युवती इर्ति । समन्ते इति सम्ऽअन्ते । स्वसारा । जामी इति । पित्रोः । उपऽस्थे ।

अभिजिघ्रन्ती इत्यभिऽजिघ्रन्ती। भुवनस्य । नाभिम् । द्यावा । रक्षतम् । पृथिवी इति । नः । अभ्वात् ॥ ५ ॥

“संगच्छमाने परस्परमुपकारित्वेन सह युज्यमाने। वृष्टिहविषोश्च परस्परमुपकार्योपकारकभावः । यद्वा । पूर्वं संसृष्टे एव सत्यौ पश्चाद्वियुज्य वृष्टिहविषी अकुर्वन्त्यौ पश्चात् मनुष्यैः प्रार्थितैर्देवैः विवाहिते सत्यौ संगते अभूतामित्याहुः । अयमर्थः ‘द्यावापृथिवी सहास्ताम्' (तै. ब्रा. १. १. ३. २ ) इत्यादिब्राह्मणे समाम्नातः । “युवती नित्यतरुण्यौ मिश्रयन्त्यौ वा सर्वेषु भावेषु “समन्ते समानान्तिके समानपर्यन्ते वा “स्वसारा परस्परं स्वसृभूते "जामी बन्धुभूते । प्रजापतेः सकाशात सहोत्पन्नत्वात् परस्परं जामित्वम् । तथा च निगमौ-’दिवं च पृथिवीं चान्तरिक्षमथो स्वः' ( ऋ. सं. १०. १९०. ३ ) ‘यतो द्यावापृथिवी निष्टतक्षुः ' ( ऋ. सं. १०.३१. ७) इति । “पित्रोः सर्वस्य पितृस्थानीययोः पालकयोस्तयोः “उपस्थे उत्सङ्गे स्थितं “भुवनस्य भूतजातस्य “नाभिं बन्धकमुदकम् “अभिजिघ्रन्ती अभिघ्राणं कुर्वन्त्यौ स्पृशन्त्यौ ।' समानमेतदुदकम् ' ( ऋ. सं. १. १६४. ५१ ) इत्यादिमन्त्रवर्णात् उभयोरुदकप्रदत्वं प्रसिद्धम् । ईदृश्यौ "नः रक्षतम् ॥ ॥ २ ॥


उ॒र्वी सद्म॑नी बृह॒ती ऋ॒तेन॑ हु॒वे दे॒वाना॒मव॑सा॒ जनि॑त्री ।

द॒धाते॒ ये अ॒मृतं॑ सु॒प्रती॑के॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा॑त् ॥६

उ॒र्वी इति॑ । सद्म॑नी॒ इति॑ । बृ॒ह॒ती इति॑ । ऋ॒तेन॑ । हु॒वे । दे॒वाना॑म् । अव॑सा । जनि॑त्री॒ इति॑ ।

द॒धाते॒ इति॑ । ये इति॑ । अ॒मृत॑म् । सु॒प्रती॑के॒ इति॑ सु॒ऽप्रती॑के । द्यावा॑ । रक्ष॑तम् । पृ॒थि॒वी॒ इति॑ । नः॒ । अभ्वा॑त् ॥६

उर्वी इति। सद्मनी इति । बृहती इति । ऋतेन । हुवे। देवानाम् । अवसा । जनित्री इति ।

दधाते इति । ये इति । अमृतम्। सुप्रतीके इति सुऽप्रतीके । द्यावा । रक्षतम् । पृथिवी इति । नः । अभ्वात् ॥ ६ ॥

“उर्वी विस्तीर्णे “सद्मनी सदनाधारभूते “बृहती महत्यौ महानुभावे "देवानाम् । उपलक्षणमेतत् । देवमनुष्यादीनाम् “अवसा प्रीत्या निमित्तेन "जनित्री वृष्टिसस्ययोर्जनित्र्यौ । वृष्ट्यादेर्देवानामवसा तर्पणेन निमित्तेन “ऋतेन यज्ञेन च निमित्तभूतेन 'हुवे आह्वयामि । देवानां हविरर्थम् अस्मद्यज्ञायेत्यर्थः । "ये “सुप्रतीके शोभनरूपे “अमृतम् उदकं “दधाते धारयतः ते युवामाह्वयामि । शिष्टं स्पष्टम् ॥


उ॒र्वी पृ॒थ्वी ब॑हु॒ले दू॒रेअ॑न्ते॒ उप॑ ब्रुवे॒ नम॑सा य॒ज्ञे अ॒स्मिन् ।

द॒धाते॒ ये सु॒भगे॑ सु॒प्रतू॑र्ती॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा॑त् ॥७

उ॒र्वी इति॑ । पृ॒थ्वी इति॑ । ब॒हु॒ले इति॑ । दू॒रेअ॑न्ते॒ इति॑ दू॒रेऽअ॑न्ते । उप॑ । ब्रु॒वे॒ । नम॑सा । य॒ज्ञे । अ॒स्मिन् ।

द॒धाते॒ इति॑ । ये इति॑ । सु॒भगे॒ इति॑ सु॒ऽभगे॑ । सु॒प्रतू॑र्ती॒ इति॑ सु॒ऽप्रतू॑र्ती । द्यावा॑ । रक्ष॑तम् । पृ॒थि॒वी॒ इति॑ । नः॒ । अभ्वा॑त् ॥७

उर्वी इति । पृथ्वी इति । बहुले इति । दूरेअन्ते इति दूरेऽअन्ते। उप । ब्रुवे। नमसा। यज्ञे। अस्मिन् ।

दधाते इति । ये इति । सुभगे इति सुऽभगे। सुप्रतूर्ती इति सुऽप्रतूर्ती । द्यावा । रक्षतम् । पृथिवी इति । नः । अभ्वात् ॥ ७ ॥

“उर्वी उर्व्यौ महत्यौ “पृथ्वी पृथिव्यौ “बहुले अनेकप्रकारेण प्रथमाने बह्वाकारे “दूरेअन्ते विप्रकृष्टान्तदेशे अपारे इत्यर्थः । ईदृश्यौ युवाम् “अस्मिन् “यज्ञे “नमसा नमःसाधनेन स्तोत्रेण “उप “ब्रुवे उपेत्य ब्रवीमि स्तौमीत्यर्थः । पुनः कीदृश्यौ । "ये "सुभगे शोभनभाग्ये “सुप्रतूर्ती सुप्रतरणे शोभनदाने “दधाते विश्वं जगत् ते युवाम् उप ब्रुवे स्तौमि ।।


दे॒वान्वा॒ यच्च॑कृ॒मा कच्चि॒दाग॒ः सखा॑यं वा॒ सद॒मिज्जास्प॑तिं वा ।

इ॒यं धीर्भू॑या अव॒यान॑मेषां॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा॑त् ॥८

दे॒वान् । वा॒ । यत् । च॒कृ॒म । कत् । चि॒त् । आगः॑ । सखा॑यम् । वा॒ । सद॑म् । इत् । जाःऽप॑तिम् । वा॒ ।

इ॒यम् । धीः । भू॒याः॒ । अ॒व॒ऽयान॑म् । ए॒षा॒म् । द्यावा॑ । रक्ष॑तम् । पृ॒थि॒वी॒ इति॑ । नः॒ । अभ्वा॑त् ॥८

देवान् । वा। यत् । चकृम । कत् । चित् । आगः । सखायम् । वा। सदम् । इत् । जाःपतिम् । वा।

इयम् । धीः । भूयाः। अवऽयानम् । एषाम् । द्यावा । रक्षतम् । पृथिवी इति । नः। अभ्वात् ॥८॥

हे द्यावापृथिव्यौ वयं “देवान् देवान् प्रति “यत् "कञ्चित् "आगः अपराधं तत्तद्यागकाले तेषांतेषाम् अयागलक्षणं “सदमित् सर्वदैव “चकृम कृतवन्तो वयम् । “सखायं “वा प्रियं मित्रं वा प्रति यच्चकृम । “जास्पतिम् । जाः पुत्र्यः । तासां पतिं जामातरं “वा जायापतिं प्रति दोषारोपणकलहोत्पादनादिरूपं यत्सर्वदैव चकृम । “एषाम् उक्तरूपाणां पापानाम् अपगमं कर्तुम् “इयं “धीः युष्मत्स्तुतिरूपम् इदं कर्म “भूयाः भूयात् भवतु । द्यावेत्यादि गतम् । अत्र सर्वत्र प्रकारान्तरेण मन्त्रमन्तरेण रक्षतं रक्षतमिति प्रार्थनं तयोः अश्विन्यादिबहुमननासंभवात् उचितमेव । तस्मात् स्वस्थाने एव स्थिते अनुकूले भवतमित्येवं प्रार्थ्यते ।।


उ॒भा शंसा॒ नर्या॒ माम॑विष्टामु॒भे मामू॒ती अव॑सा सचेताम् ।

भूरि॑ चिद॒र्यः सु॒दास्त॑राये॒षा मद॑न्त इषयेम देवाः ॥९

उ॒भा । शंसा॑ । नर्या॑ । माम् । अ॒वि॒ष्टा॒म् । उ॒भे इति॑ । माम् । ऊ॒ती इति॑ । अव॑सा । स॒चे॒ता॒म् ।

भूरि॑ । चि॒त् । अ॒र्यः । सु॒दाःऽत॑राय । इ॒षा । मद॑न्तः । इ॒ष॒ये॒म॒ । दे॒वाः॒ ॥९

उभा। शंसा। नर्या। माम्। अविष्टाम्। उभे इति। माम् । ऊती इति । अवसा । सचेताम् ।

भूरि । चित् । अर्यः । सुदाःऽतराय । इषा । मदन्तः । इषयेम । देवाः ॥ ९ ॥

“उभा “शंसा द्यावापृथिव्योरुभयोः विषयौ उभावपि शंसौ “नर्या नरेभ्यो हितौ ईदृश्यौ उभयाश्रये स्तुती “माम् अविष्टां रक्षताम् । यद्वा । द्यावापृथिव्यभिमानिदेवयोरेव शंसशब्देन अभिधानात् पुंलिङ्गता । तथा “उभे “ऊती रक्षिके द्यावापृथिव्यौ "माम् “अवसा रक्षणेन सचेताम् । यद्वा । प्राणिभ्यो हितकरौ उभौ ऐहिकामुष्मिकविषयौ शंसौ माम् अविष्टां प्राप्नुताम् । तथा उभे अपि ऊती तयोः संबन्धिन्योरभिमानिदेवतयोः अवसा अस्मत्तर्पणेन निमित्तेन सचेताम् । हे “देवाः द्यावापृथिव्योरन्तर्भूताः सर्वेऽपि देवाः “अर्यः स्तोतारो वयं “सुदास्तराय अतिशयेन शोभनदातृत्वाय “इषा अन्नेन सोमलक्षणेन “मदन्तः मादयन्तः सन्तः “भूरि “चित् । चित् पूजायाम् । अभिपूजितं धनम् “इषयेम इच्छेम । यद्वा । अर्यः इति षष्ठ्या रूपम् । ईश्वराद्राजादेरपि सुदास्तरायेत्यर्थः । शिष्टं समानम् ॥


‘ऋतं दिवे' इति द्वे द्यावापृथिवीये पशौ पुरोडाशहविषोः अनुवाक्ये । ‘अग्नीषोमौ । इति खण्डे सूत्रितम्-’ऋतं दिवे तदवोचं पृथिव्या इति द्वे' ( आश्व. श्रौ. ३. ८) इति ॥

ऋ॒तं दि॒वे तद॑वोचं पृथि॒व्या अ॑भिश्रा॒वाय॑ प्रथ॒मं सु॑मे॒धाः ।

पा॒ताम॑व॒द्याद्दु॑रि॒ताद॒भीके॑ पि॒ता मा॒ता च॑ रक्षता॒मवो॑भिः ॥१०

ऋ॒तम् । दि॒वे । तत् । अ॒वो॒च॒म् । पृ॒थि॒व्यै । अ॒भि॒ऽश्रा॒वाय॑ । प्र॒थ॒मम् । सु॒ऽमे॒धाः ।

पा॒ताम् । अ॒व॒द्यात् । दुः॒ऽइ॒तात् । अ॒भीके॑ । पि॒ता । मा॒ता । च॒ । र॒क्ष॒ता॒म् । अवः॑ऽभिः ॥१०

ऋतम् । दिवे । तत् । अवोचम् । पृथिव्यै। अभिऽश्रावाय । प्रथमम् । सुऽमेधाः ।

पाताम् । अवद्यात् । दुःऽइतात् । अभीके। पिता । माता । च । रक्षताम् । अवःऽभिः ॥१०॥

“सुमेधाः शोभनप्रज्ञोऽहं “दिवे द्युदेवतायै “पृथिव्यै पृथिवीदेवतायै “तत् तत्प्रीतिकरम् “ऋतं स्तोत्रं “प्रथमम् । मुख्यनामैतत् । प्रतमं प्रष्टतमम् “अवोचं ब्रवीमि । किमर्थम् । “अभिश्रावाय अभितः सर्वतः श्रवणाय । किंच “पिता पालको द्युलोकः "माता सस्यादेर्निर्मात्री पृथिवी “च उभे “अवद्यात् निन्दितात् दुःखप्रापकात् अंहसः सकाशात् "पातां रक्षताम् । तथा "अभीके । अन्तिकनामैतत् । समीपे एव “अवोभिः अभिमततर्पणैः रक्षतां पालयताम् ॥


इ॒दं द्या॑वापृथिवी स॒त्यम॑स्तु॒ पित॒र्मात॒र्यदि॒होप॑ब्रु॒वे वा॑म् ।

भू॒तं दे॒वाना॑मव॒मे अवो॑भिर्वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥११

इ॒दम् । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । स॒त्यम् । अ॒स्तु॒ । पितः॑ । मातः॑ । यत् । इ॒ह । उ॒प॒ऽब्रु॒वे । वा॒म् ।

भू॒तम् । दे॒वाना॑म् । अ॒व॒मे इति॑ । अवः॑ऽभिः । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥११

इदम् । द्यावापृथिवी इति । सत्यम् । अस्तु । पितः। मातः। यत् । इह । उपऽब्रुवे । वाम् ।

भूतम् । देवानाम् । अवमे इति । अवःऽभिः । विद्याम । इषम्। वृजनम्। जीरऽदानुम् ॥११॥

हे “द्यावापृथिवी द्यावापृथिव्यौ “इदम् अस्माभिः क्रियमाणं स्तोत्रं “सत्यमस्तु अवितथं भवतु फलवद्भवत्वित्यर्थः । इदमित्युक्तं किं तदित्याह । हे "पितः द्यौः हे “मातः पृथिवि “वां युवां प्रति “इह अस्मिन् यज्ञे “यत् स्तोत्रम् "उपब्रुवे उपेत्य ब्रवीमि तत्सत्यमस्तु । “देवानां स्तोतॄणामस्माकम् “अवमे। अन्तिकनामैतत् । नित्यसंनिहिते युवाम् अवोभिः तर्पणैर्युक्ते “भूतं भवतम् । अवशिष्टं गतम् ॥ ॥ ३॥




मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१८५&oldid=207952" इत्यस्माद् पुनः प्राप्तिः