ऋग्वेदः सूक्तं १.१८६

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १.१८६ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं १.१८५ ऋग्वेदः - मण्डल १
सूक्तं १.१८६
अगस्त्यो मैत्रावरुणिः
सूक्तं १.१८७ →
दे. विश्वे देवाः। त्रिष्टुप्।
मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१


आ न इळाभिर्विदथे सुशस्ति विश्वानरः सविता देव एतु ।
अपि यथा युवानो मत्सथा नो विश्वं जगदभिपित्वे मनीषा ॥१॥
आ नो विश्व आस्क्रा गमन्तु देवा मित्रो अर्यमा वरुणः सजोषाः ।
भुवन्यथा नो विश्वे वृधासः करन्सुषाहा विथुरं न शवः ॥२॥
प्रेष्ठं वो अतिथिं गृणीषेऽग्निं शस्तिभिस्तुर्वणिः सजोषाः ।
असद्यथा नो वरुणः सुकीर्तिरिषश्च पर्षदरिगूर्तः सूरिः ॥३॥
उप व एषे नमसा जिगीषोषासानक्ता सुदुघेव धेनुः ।
समाने अहन्विमिमानो अर्कं विषुरूपे पयसि सस्मिन्नूधन् ॥४॥
उत नोऽहिर्बुध्न्यो मयस्कः शिशुं न पिप्युषीव वेति सिन्धुः ।
येन नपातमपां जुनाम मनोजुवो वृषणो यं वहन्ति ॥५॥
उत न ईं त्वष्टा गन्त्वच्छा स्मत्सूरिभिरभिपित्वे सजोषाः ।
आ वृत्रहेन्द्रश्चर्षणिप्रास्तुविष्टमो नरां न इह गम्याः ॥६॥
उत न ईं मतयोऽश्वयोगाः शिशुं न गावस्तरुणं रिहन्ति ।
तमीं गिरो जनयो न पत्नीः सुरभिष्टमं नरां नसन्त ॥७॥
उत न ईं मरुतो वृद्धसेनाः स्मद्रोदसी समनसः सदन्तु ।
पृषदश्वासोऽवनयो न रथा रिशादसो मित्रयुजो न देवाः ॥८॥
प्र नु यदेषां महिना चिकित्रे प्र युञ्जते प्रयुजस्ते सुवृक्ति ।
अध यदेषां सुदिने न शरुर्विश्वमेरिणं प्रुषायन्त सेनाः ॥९॥
प्रो अश्विनाववसे कृणुध्वं प्र पूषणं स्वतवसो हि सन्ति ।
अद्वेषो विष्णुर्वात ऋभुक्षा अच्छा सुम्नाय ववृतीय देवान् ॥१०॥
इयं सा वो अस्मे दीधितिर्यजत्रा अपिप्राणी च सदनी च भूयाः ।
नि या देवेषु यतते वसूयुर्विद्यामेषं वृजनं जीरदानुम् ॥११॥

[सम्पाद्यताम्]

सायणभाष्यम्

‘आ न इळाभिः' इति सप्तमं सूक्तमेकादशर्चमागस्त्यं त्रैष्टुभं वैश्वदेवम् । आ नो वैश्वदेवम् इत्यनुक्रान्तम् । विनियोगो लैङ्गिकः ॥


आ न॒ इळा॑भिर्वि॒दथे॑ सुश॒स्ति वि॒श्वान॑रः सवि॒ता दे॒व ए॑तु ।

अपि॒ यथा॑ युवानो॒ मत्स॑था नो॒ विश्वं॒ जग॑दभिपि॒त्वे म॑नी॒षा ॥

आ। नः । इळभिः । विदथे । सुऽशस्ति । विश्वानरः । सविता । देवः । एतु ।

अपि । यथा । युवानः । मत्सथ । नः । विश्वम् । जगत् । अभिऽपित्वे । मनीषा ॥ १ ॥

“नः “विदथे अस्मदीये यज्ञे “सुशस्ति ॥ सुपो लुक् ॥ सुशस्तिभिः शोभनशंसनैः स्तुतिभिः प्रदेयैः रत्नैः सह । यद्वा । "इळाभिः। तदाश्रितेषु तच्छब्द्यम् । भूमिस्थानाभिर्देवताभिः सह। “विश्वानरः सर्वप्राणिहितकार्यग्निः “सविता प्रेरक आदित्यश्च “देवः “एतु आगच्छतु । हे "युवानः नित्यतरुणा यज्ञस्य मिश्रयितारो वा यूयं “नः अस्मान् “अभिपित्वे अभिपतनीयेऽस्मद्यज्ञे “मनीषा मनीषया मनसः ईशितृत्वेन स्वेच्छयेत्यर्थः । अपिः संभावनायाम् । “अपि अस्मान् “मत्सथ मादयथ। "यथा “विश्वं “जगत् । एतत्स्थावरस्याप्युपलक्षणम् । यद्वा कृत्स्नं प्रपञ्चे मत्सथ तथा अस्मानपि । यद्वा । जगच्छब्दो यजमानरूपमनुष्यवाची । सर्वानपि यजमानान् यथा मत्सथ तथेत्यर्थः ॥


वैश्वदेवे पशौ ‘आ नो विश्वे' इत्येषा हविषः पुरोनुवाक्या । ‘आ नो देवानामुपवेतु शंस आ नो विश्व आस्क्रा गमन्तु देवाः ' ( आश्व. श्रौ. ३. ७) इति ।।

आ नो॒ विश्व॒ आस्क्रा॑ गमन्तु दे॒वा मि॒त्रो अ॑र्य॒मा वरु॑णः स॒जोषा॑ः ।

भुव॒न्यथा॑ नो॒ विश्वे॑ वृ॒धास॒ः कर॑न्सु॒षाहा॑ विथु॒रं न शव॑ः ॥

आ। नः । विश्वे । आस्क्राः । गमन्तु । देवाः । मित्रः । अर्यमा । वरुणः । सऽजोषाः ।।

भुवन् । यथा। नः । विश्वे । वृधासः । करन् । सुऽसहा । विथुरम् । न । शवः ॥ २ ॥

“नः अस्माकं यज्ञं “विश्वे सर्वे देवाः “आस्क्राः शत्रूणामास्कन्दयितारः आक्रमितारो वा “आ “गमन्तु आगच्छन्तु । के ते । “मित्रो “अर्यमा “वरुणः च त्रयोऽपि “सजोषाः समानप्रीतयः सन्तः आगच्छन्तु । किंतु “विश्वे देवाः “नः अस्माकं “वृधासः वर्धयितारः यथा “भुवन् भवेयुः तथा “सुषाहा सुष्ठु शत्रूणामभिभवेन नोऽस्मदीयं “शवः अन्नं “विथुरं हीनं यथा “न “करन् न कुर्युः तथा आगच्छन्तु ॥


प्रेष्ठं॑ वो॒ अति॑थिं गृणीषे॒ऽग्निं श॒स्तिभि॑स्तु॒र्वणि॑ः स॒जोषा॑ः ।

अस॒द्यथा॑ नो॒ वरु॑णः सुकी॒र्तिरिष॑श्च पर्षदरिगू॒र्तः सू॒रिः ॥

प्रेष्ठम् । वः । अतिथिम् । गृणीषे । अग्निम् । शस्तिऽभिः । तुर्वणिः । सऽजोषाः ।

असत् । यथा । नः । वरुणः । सुऽकीर्तिः । इषः । च । पर्षत् । अरिऽगूर्तः। सूरिः ॥३॥

हे देवाः “वः युष्माकं प्रेष्ठं प्रियतमम् । सर्वेषामाह्वातृत्वाद्धविर्वहनाच्च अग्निः देवानां प्रियतमः। तम् “अतिथिं गृणीषे गृणे स्तौमि ॥ व्यत्ययेन मध्यमः ॥ केन साधनेन । “शस्तिभिः शंसनैः स्तुतिभिः । कीदृशोऽहम् । “तुर्वणिः तूर्णवनिः शीघ्रं संभक्ता “सजोषाः युष्माभिः सह प्रीयमाणः । यद्वा । एते अग्निविशेषणे । यः तुर्वणिः शीघ्रं यज्ञस्य संभक्ता सजोषा युष्माभिः सह प्रीयमाणः तम् “अग्निं गृणीषे । “यथा येन प्रकारेण “नः अस्माकं “वरुणः एतन्नामको देवः “सुकीर्तिः शोभनकीर्तिमान् “असत् । ‘सुकीर्तिं भिक्षे वरुणस्य भूरेः' (ऋ. सं. २. २८.१ ) इत्यादिमन्त्रवर्णेषु वरुणात् सुकीर्तिरेव एषणीया । “अरिगूर्तः अरिषु अदातृषु सदा शब्दितः अरीणां हननाय उद्युक्तो वा “सूरिः प्रेरयिता अयं वरुणः “इषश्च अन्नानि “पर्षत् पूरयेत् । तथा तमपि स्तुम इत्यर्थः ॥


उप॑ व॒ एषे॒ नम॑सा जिगी॒षोषासा॒नक्ता॑ सु॒दुघे॑व धे॒नुः ।

स॒मा॒ने अह॑न्वि॒मिमा॑नो अ॒र्कं विषु॑रूपे॒ पय॑सि॒ सस्मि॒न्नूध॑न् ॥

उप । वः । आ । ईषे । नमसा । जिगीषा। उषसानक्ता । सुदुघाऽइव । धेनुः ।

समाने । अहन् । विऽमिमानः । अर्कम् । विषुऽरूपे । पयसि । सस्मिन् । ऊधन् ॥ ४ ॥

हे देवाः “वः युष्माकं “नमसा हविषा नमस्कारेण वा “उप उपेत्य “जिगीषा पापानां जिगीषया “एषे इच्छामि ।। ‘इष गतौ ' इत्यस्य वा ईषतेर्वा गत्याद्यर्थस्य लिटि उत्तमैकवचने इदं रूपम् ॥ भजामि । कस्मिन् काले । “उषासानक्ता अहनि रात्रौ च । यद्वा । अहोरात्रदेवते अपि अभिगच्छामि । गतौ दृष्टान्तः । “सुदुघा “धेनुः “इव सुदोग्ध्री धेनुः यथा दोहाय दोग्धुः गृहमागच्छति तद्वत् । किं कुर्वन् । “सस्मिन् समाने “ऊधन ऊधस्युत्पन्ने “विषुरूपे नानारूपे “पयसि क्षीरघृतादिके “अर्कम् अर्चनीयमन्नं चरुपुरोडाशादिकं “विमिमानः विविधं मिमानः । कस्मिन् काले। “समाने “अहन् षष्ठेऽहनि । एकस्मिन्नेवाहनि सर्वदैव वा इत्यर्थः । एकस्मिन्नेवाहनि समाने ऊधस्युत्पन्ने नानारूपे पयसि त्वदर्थं हविर्मिमान उपगच्छामीत्यर्थः । यद्वा । सस्मिन् सर्वस्मिन्नूधसि फलाख्यक्षीरोत्पादके यज्ञे निमित्तभूते सति विषुरूपे पयसि नानारूपे सोमलक्षणोदके अर्कमन्नसाधनं स्तोत्रं विमिमानोऽहं युष्मानभिगच्छामि ॥


उ॒त नोऽहि॑र्बु॒ध्न्यो॒३॒॑ मय॑स्क॒ः शिशुं॒ न पि॒प्युषी॑व वेति॒ सिन्धु॑ः ।

येन॒ नपा॑तम॒पां जु॒नाम॑ मनो॒जुवो॒ वृष॑णो॒ यं वह॑न्ति ॥

उत । नः । अहिः । बुध्न्यः । मयः । करिति कः । शिशुम् । न । पिप्युषीऽइव । वेति । सिन्धुः ।

येन । नपातम् । अपाम् । जुनाम । मनःऽजुवः । वृषणः । यम् । वहन्ति ॥ ५॥

“उत अपि च “नः अस्माकम् “अहिः अन्तरिक्षगामी अहन्ता वा अहीनो वा अहन्यमानो वा एतन्नामको देवः स एव “बुध्न्यः । बुध्नं बन्धकमन्तरिक्षम् । तदर्हतीति बुध्न्यः अन्तरिक्षचारी एतन्नामको देवः “मयः सुखं “कः करोतु ॥ करोतेर्लङि रूपम् ॥ किंच “पिप्युषी । इवशब्दः एवार्थः पूरणो वा । अस्मान् रसेन आप्याययन्ती “सिन्धुः नाम नदी वेतु आयच्छतु। तत्र दृष्टान्तः । “शिशुं “न यथा शिशुं प्याययन्ती गौर्गच्छति तद्वत् । “अपां नपातम् उदकानामपातयितारं वर्षकमेतन्नामकं यद्वा उदकानां नप्तारं तृतीयं पुत्रम् । अद्भ्यः ओषधिवनस्पतयः तेभ्योऽग्निरिति नप्तृत्वम् । तादृशमग्निं "जुनाम स्तुतिभिः संगच्छेम । जु इति सौत्रो धातुर्गत्यर्थः ॥ “यं देवं मनोजुवः मनोवेगाः “वृष्णः वर्षका मेघा अश्वाः “वहन्ति स सुखं करोतु ॥ ॥ ४ ॥


उ॒त न॑ ईं॒ त्वष्टा ग॒न्त्वच्छा॒ स्मत्सू॒रिभि॑रभिपि॒त्वे स॒जोषा॑ः ।

आ वृ॑त्र॒हेन्द्र॑श्चर्षणि॒प्रास्तु॒विष्ट॑मो न॒रां न॑ इ॒ह ग॑म्याः ॥

उत । नः । ईम् । त्वष्टा । आ । गन्तु । अच्छ। स्मत् । सूरिऽभिः । अभिऽपित्वे । सऽजोषाः।

आ । वृत्रऽहा । इन्द्रः । चर्षणिऽप्राः । तुविःऽतमः । नराम् । नः । इह । गम्याः ॥ ६ ॥

“त्वष्टा देवोऽपि “नः अस्मान् अच्छ अभिप्राप्तुं “ईम् इदानीम् इमं यज्ञं वा “आ “गन्तु। आगत्य च । “स्मत् सहार्थे प्राशस्त्ये वा वर्तते । अत्र प्रशंसायाम् । प्रशस्तं यथा तथा “अभिपित्वे अभिगन्तव्ये यज्ञे निमित्तभूते सति “सूरिभिः स्तोतृभिर्ऋत्विग्भिः “सजोषाः समानप्रीतिर्भवत्विति शेषः । तथा “वृत्रहा वृत्रघाती “चर्षणिप्राः। चर्षणयो मनुष्या यजमानाः । कामैः तेषां पूरकः । “तुविष्टमः बहुतमो महत्तमः “इह अस्मिन् कर्मणि “नरां नृणां “नः अस्माकम् उक्तगुणोपेतः सन् “आ “गम्याः आगच्छतु ॥


उ॒त न॑ ईं म॒तयोऽश्व॑योगा॒ः शिशुं॒ न गाव॒स्तरु॑णं रिहन्ति ।

तमीं॒ गिरो॒ जन॑यो॒ न पत्नी॑ः सुर॒भिष्ट॑मं न॒रां न॑सन्त ॥

उत । नः । ईम् । मतयः । अश्वऽयोगाः । शिशुम् । न । गावः । तरुणम् । रिहन्ति ।

तम् । ईम् । गिरः । जनयः । न । पत्नीः । सुरभिःऽतमम् । नराम् । नसन्त ॥ ७ ॥

“उत अपि च “ईम् एनं “तरुणं नित्ययुवानमिन्द्रं “मतयः अस्मद्बुद्धयः “अश्वयोगाः अश्वसमानप्राप्तयः “रिहन्ति आस्वादयन्ति स्तुवन्तीत्यर्थः । तत्र दृष्टान्तः । “गावः दोग्र्योः धेनवः “शिशुं “न शिशुमिव वत्समिव तं यथा लिहन्ति तद्वत् । तदेवाह । “तमीं तमेवैनं “नरां नराणां यजमानानां “सुरभिष्टमम् अतिशयेन सुरभिं “जनयः फलस्योत्पादयित्र्यः “गिरः स्तुतयः “नसन्त व्याप्नुवन्ति । नसतिर्व्यप्तिकर्मा । तत्र दृष्टान्तः । “जनयः “न उत्पादयित्र्यः “पत्नीः पत्न्यः पतिमिव ।


उ॒त न॑ ईं म॒रुतो॑ वृ॒द्धसे॑ना॒ः स्मद्रोद॑सी॒ सम॑नसः सदन्तु ।

पृष॑दश्वासो॒ऽवन॑यो॒ न रथा॑ रि॒शाद॑सो मित्र॒युजो॒ न दे॒वाः ॥

उत । नः । ईम् । मरुतः । वृद्धऽसेनाः । स्मत् । रोदसी इति । सऽमनसः । सदन्तु ।

पृषत्ऽअश्वासः । अवनयः । न । रथाः । रिशादसः । मित्रऽयुजः । न । देवाः ॥ ८ ॥

“उत अपि च “नः अस्मदीयम् “ईम् इदानीम् एनं यागं वा “मरुतः “स्मत् सह अपि "सदन्तु गच्छन्तु । कुतो देशात् । “रोदसी रोदस्योर्द्यावापृथिव्योः सकाशात् । यद्वा । रोदस्यावपि गच्छताम् । कीदृशास्ते मरुतः । “वृद्धसेनाः प्रवृद्धबलाः “समनसः समानमनस्काः “पृषदश्वासः पृषद्वर्णाश्वाः । ‘पृषत्यो मरुताम् ' (नि. १, १५, ६) इति यास्कः । “अवनयो “न यथैव नमनस्वभावाः “रथाः रंहणस्वभावा रथवन्तो वा ।। मत्वर्थों लुप्यते ।। यद्वा । अवनयो रक्षका रथा इव स्थिताः। “रिशादसः । रिशाः शत्रवः । तेषाम् अत्तारः “मित्रयुजः “देवाः “न मैत्रीयुक्ता व्यवहर्तारः ऋत्विज इव । यद्वा । मैत्रीयुक्ता अन्ये देवा यथा गच्छन्ति तद्वत् ॥


प्र नु यदे॑षां महि॒ना चि॑कि॒त्रे प्र यु॑ञ्जते प्र॒युज॒स्ते सु॑वृ॒क्ति ।

अध॒ यदे॑षां सु॒दिने॒ न शरु॒र्विश्व॒मेरि॑णं प्रुषा॒यन्त॒ सेना॑ः ॥

प्र । नु । यत् । एषाम् । महिना । चिकित्रे । प्र । युञ्जते । प्रऽयुजः । ते । सुऽवृक्ति ।

अध । यत् । एषाम् । सुऽदिने । न । शरुः । विश्वम्। आ । इरिणम् । प्रुषायन्त । सेनाः ॥९॥

“एषां मरुतां “महिना महिमा वृष्टिलक्षणः “यत् यस्मात् “प्र “चिकित्रे प्रज्ञायते । यद्वा । एषां महत्त्वेन युक्ता नराः चिकित्रे जानन्त्यनुष्ठेयम् । “नु इति पूरणः । ततः “ते ज्ञातारः “सुवृक्ति ॥ सुपो लुक् ॥ सुष्ठुतीनां “प्रयुजः प्रयोगान् “प्र “युञ्जते । “अध अथ प्रयोगानन्तरं “यत् यस्मात् “एषां “सेनाः वृष्ट्युत्पादकाः “विश्वं सर्वं भुवनम् “इरिणम् ऊषरप्रदेशं यथा तथा सर्वतः “प्रुषायन्त उत्पादयन्ति । तत्र दृष्टान्तः । “सुदिने मेघावरणादिरहिते दिने “शरुः अन्धकारहिंसकः प्रकाश इव। स यथा सर्वमावृणोति तथा मरुत्सेना वृष्ट्या सर्वम् ऊषरं करोति । यद्वा । मरुन्महिमा वृष्टिर्भवति । तदा सस्यादिसमृद्धौ सत्यां प्रयोगं कुर्वन्ति । यदा यजन्ति तदा मरुत्सेनाः सर्वा महीमुन्दन्तीत्येवं महानुभावा मरुत इति तेषां स्तुतिः ॥ ।


प्रो अ॒श्विना॒वव॑से कृणुध्वं॒ प्र पू॒षणं॒ स्वत॑वसो॒ हि सन्ति॑ ।

अ॒द्वे॒षो विष्णु॒र्वात॑ ऋभु॒क्षा अच्छा॑ सु॒म्नाय॑ ववृतीय दे॒वान् ॥

प्रो इति। अश्विनौ । अवसे । कृणुध्वम् । प्र । पूषणम् । स्वऽतवसः । हि । सन्ति ।

अद्वेषः । विष्णुः । वातः । ऋभुक्षाः । अच्छ। सुम्नाय । ववृतीय । देवान् ॥ १० ॥

हे ऋत्विजः “अश्विनौ एतन्नामकौ देवावुद्दिश्य “अवसे अस्मद्रक्षणाय “प्रो “कृणुध्वं स्तुतिं प्रकर्षेण कृणुध्वम् । “पूषणं पोषकम् एतन्नामकं देवमपि अवसे प्रकर्षेण स्तुतिं कृणुध्वम् । किंच ये “स्वतवसः स्वायत्तबलाः “सन्ति तानपि प्र कृणुध्वम् । के ते। "अद्वेषः द्वेषरहितः “विष्णुः व्याप्तः एतन्नामको देवः । प्रथममनाहूतोऽपि न कुप्यतीति वक्तुम् अद्वेषः इत्युक्तम् । तथा “वातः सर्वत्र संचारी वायुः “ऋभुक्षाः पतिरिन्द्रश्च । एतानपि प्र कृणुध्वम् । अतोऽहं स्वायत्तबलान् सर्वानपि “देवान् “सुम्नाय सुखाय "अच्छ आभिमुख्येन “ववृतीय स्तोत्रैः अभिवर्तयेयम् ॥


इ॒यं सा वो॑ अ॒स्मे दीधि॑तिर्यजत्रा अपि॒प्राणी॑ च॒ सद॑नी च भूयाः ।

नि या दे॒वेषु॒ यत॑ते वसू॒युर्वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥

इयम् । सा। वः । अस्मे इति । दीधितिः । यजत्राः । अपिऽप्राणी। च । सदनी । च । भूयाः ।

नि । या । देवेषु । यतते । वसुऽयुः । विद्याम । इषम् । वृजनम् । जीरऽदानुम् ॥ ११ ॥

हे “यजत्राः यष्टव्या देवाः “वः युष्मत्संबन्धिनी “सा “इयं प्रसिद्धा "दीधितिः दीप्तिः “अस्मे अस्माकम् “अपिप्राणी सर्वदा चेष्टयित्री “सदनी “च निवासवती च “भूयाः भूयात् भवतु । “या दीधितिः “वसूयुः वसुमती “देवेषु “नि यतते नियमेन प्रयत्नं करोति । तानपि प्रकाशितुं सैव भूयात् । विद्याम इति गतः ॥ ॥ ५ ॥


"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१८६&oldid=154903" इत्यस्माद् पुनः प्राप्तिः