ऋग्वेदः सूक्तं १.१५८
← सूक्तं १.१५७ | ऋग्वेदः - मण्डल १ सूक्तं १.१५८ दीर्घतमा औचथ्यः |
सूक्तं १.१५९ → |
दे. अश्विनौ। त्रिष्टुप्, ६ अनुष्टुप् |
वसू रुद्रा पुरुमन्तू वृधन्ता दशस्यतं नो वृषणावभिष्टौ ।
दस्रा ह यद्रेक्ण औचथ्यो वां प्र यत्सस्राथे अकवाभिरूती ॥१॥
को वां दाशत्सुमतये चिदस्यै वसू यद्धेथे नमसा पदे गोः ।
जिगृतमस्मे रेवतीः पुरंधीः कामप्रेणेव मनसा चरन्ता ॥२॥
युक्तो ह यद्वां तौग्र्याय पेरुर्वि मध्ये अर्णसो धायि पज्रः ।
उप वामवः शरणं गमेयं शूरो नाज्म पतयद्भिरेवैः ॥३॥
उपस्तुतिरौचथ्यमुरुष्येन्मा मामिमे पतत्रिणी वि दुग्धाम् ।
मा मामेधो दशतयश्चितो धाक्प्र यद्वां बद्धस्त्मनि खादति क्षाम् ॥४॥
न मा गरन्नद्यो मातृतमा दासा यदीं सुसमुब्धमवाधुः ।
शिरो यदस्य त्रैतनो वितक्षत्स्वयं दास उरो अंसावपि ग्ध ॥५॥
दीर्घतमा मामतेयो जुजुर्वान्दशमे युगे ।
अपामर्थं यतीनां ब्रह्मा भवति सारथिः ॥६॥
सायणभाष्यम्
॥ श्रीगणेशाय नमः ॥
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥
अथ तृतीयाध्याय आरभ्यते'। 'वसू रुद्रा' इत्येतत् अनुवाकापेक्षया द्वितीयं सूक्तं षडृचं दैर्घतमसम् । पूर्वत्र ‘ आश्विनं तु ' इत्युक्तत्वात् इदमप्याश्विनम् । अनादेशपरिभाषया त्रैष्टुभम् । ‘ दीर्घतमा मामतेयः' इत्यन्त्या अनुष्टुप् । तथा चानुक्रान्तं - ‘ वसू अन्त्यानुष्टुप् ' इति ॥ अस्य विशेषविनियोगो लैङ्गिकः ॥
वसू॑ रु॒द्रा पु॑रु॒मन्तू॑ वृ॒धन्ता॑ दश॒स्यतं॑ नो वृषणाव॒भिष्टौ॑ ।
दस्रा॑ ह॒ यद्रेक्ण॑ औच॒थ्यो वां॒ प्र यत्स॒स्राथे॒ अक॑वाभिरू॒ती ॥१
वसू॒ इति॑ । रु॒द्रा । पु॒रु॒मन्तू॒ इति॑ पु॒रु॒ऽमन्तू॑ । वृ॒धन्ता॑ । द॒श॒स्यत॑म् । नः॒ । वृ॒ष॒णौ॒ । अ॒भिष्टौ॑ ।
दस्रा॑ । ह॒ । यत् । रेक्णः॑ । औ॒च॒थ्यः । वा॒म् । प्र । यत् । स॒स्राथे॒ इति॑ । अक॑वाभिः । ऊ॒ती ॥१
वसू इति । रुद्रा । पुरुमन्तू इति पुरुऽमन्तू । वृधन्ता । दशस्यतम् । नः । वृषणौ । अभिष्टौ ।
दस्रा । ह । यत् । रेक्णः । औचथ्यः । वाम् । प्र । यत् । सस्राथे इति । अकवाभिः । ऊती ॥१
हे “वृषणौ कामानां वर्षितारौ “दस्रा अस्मद्विरोध्युपक्षपयितारौ हे अश्विनौ युवां “नः अस्मभ्यं “दशस्यतं दत्तं दित्सितं फलम् । कीदृशौ युवाम् । “वसू वासयितारौ प्रजानाम् । वसुना धनेन तद्वन्तौ वा ॥ मत्वर्थो लुप्यते ॥ "रुद्रा रुद्रौ । रुद्दुःखं तद्धेतुभूतं पापं वा । तस्य द्रावयितारौ । संग्रामे भयंकरं शब्दयन्तौ वा । रुद्रो रौतीति सतः ' (निरु. १०. ५) इति यास्कः । “पुरुमन्तू बहूनां ज्ञातारौ ॥ मनेरौणादिकः तुन्प्रत्ययः ॥ “वृधन्ता वर्धमानौ स्तोत्रादिना “अभिष्टौ आभिमुख्येन पूजितौ अभीष्टसाधकौ वा । हशब्दः उक्तगुणप्रसिद्धिद्योतनार्थः । किमर्थं दीयते इति चेत् । “यत् यस्मात् “औचथ्यः उचथ्यस्य पुत्रो दीर्घतमाः “वां युवां “रेक्णः धनं स्तुतिव्याजेन प्रार्थयते तदर्थम् । यद्वा । अयं यजमानो यद्यस्मात् रेक्णो हविर्लक्षणमन्नं वां युवाभ्यां दास्यति ददातीति शेषः । यस्माच्च “अकवाभिः अकुत्सितैः “ऊती ऊतिभिः रक्षणैः ॥ ‘ सुपां सुलुक्° ' इति तृतीयायाः पूर्वसवर्णदीर्घः ॥ “प्र “सस्राथे प्रसारयथः प्रकर्षेण दत्थः तस्माद्दशस्यतम् । यस्मादभिमतप्रदौ यस्माच्चायं प्रार्थयते ददाति वा हविः तस्माद्दशस्यतमित्यर्थः ॥
को वां॑ दाशत्सुम॒तये॑ चिद॒स्यै वसू॒ यद्धेथे॒ नम॑सा प॒दे गोः ।
जि॒गृ॒तम॒स्मे रे॒वती॒ः पुरं॑धीः काम॒प्रेणे॑व॒ मन॑सा॒ चर॑न्ता ॥२
कः । वा॒म् । दा॒श॒त् । सु॒ऽम॒तये॑ । चि॒त् । अ॒स्यै । वसू॒ इति॑ । यत् । धेथे॒ इति॑ । नम॑सा । प॒दे । गोः ।
जि॒गृ॒तम् । अ॒स्मे इति॑ । रे॒वतीः॑ । पुर॑म्ऽधीः । का॒म॒प्रेण॑ऽइव । मन॑सा । चर॑न्ता ॥२
कः । वाम् । दाशत् । सुऽमतये । चित् । अस्यै । वसू इति । यत् । धेथे इति । नमसा । पदे । गोः ।
जिगृतम् । अस्मे इति । रेवतीः । पुरम्ऽधीः । कामप्रेणऽइव । मनसा । चरन्ता ॥२
हे “वसू वासयितारावश्विनौ “वां युवयोः संबन्धिन्यै “अस्यै वक्ष्यमाणरूपायै "सुमतये “चित् शोभनबुद्ध्यै । चित् पूजायामप्यर्थे वा । स्वल्पेनैव हविषा महत्फलप्रदानरूपायै ईदृश्यै अपि बुद्ध्यै प्रीणनाय “कः “दाशत् को दद्यात् दातुं शक्नुयात् । युवयोः प्रभावस्यातिमहत्त्वादिति भावः ॥ दाशतेर्लेट्यडागमः ॥ कथं मतेः सौष्ठवमिति तदुच्यते । “यत् यस्मात्कारणात् गोः “पदे भूम्याः सर्वैर्गन्तव्यायाः स्तुत्याया वा वेदिरूपायाः स्थाने। एतावती वै पृथिवी यावती वेदिः' (तै. सं. २. ६. ४. ३ ) इति श्रुतेः। गौरिति भूमिनाम । तथा च निरुक्तं - गौरिति पृथिव्या नामधेयं यद्दूरं गता भवति यच्चास्यां भूतानि गच्छन्ति गातेर्वौकारो नामकरणः ' (निरु. २. ५ ) इति । तादृशे स्थाने अस्माभिः प्रार्थितौ सन्तौ “नमसा हविर्लक्षणेन यवमात्रप्रकारेणान्नेन’ “धेथे धारयथो बहुप्रदानविषयां बुद्धिम् ।। दधातेर्लटि • बहुलं छन्दसि ' इति विकरणस्य लुक् । धातोर्ह्रस्वत्वम् । ‘ आतो ङितः ' (पा. सू. ७. २. ८१ ) इति इयादेशः ॥ यस्मादेवं तस्मात् “अस्मे अस्मभ्यं “रेवतीः क्षीरादिधनवतीः “पुरंधीः शरीरधारिकाः शरीराभिवृद्धिहेतूः गाः “जिगृतं शब्दयतं दत्तमित्यर्थः॥‘गॄ शब्दे'। छान्दसः शपः श्लुः । अभ्यासस्येत्वं ह्रस्वत्वं च ॥ पुनस्तावेव विशेष्येते । “कामप्रेणेव । इवशब्दः एवकारार्थः । कामपूरकेणैव “मनसा सह “चरन्ता चरन्तौ । यजमानस्य कामाः पूरणीया इति कृतसंकल्पावित्यर्थः ॥ ‘ प्रा पूरणे'। कामं प्रातीति कामप्रः । आतोऽनुपसर्गे कः' ।
यु॒क्तो ह॒ यद्वां॑ तौ॒ग्र्याय॑ पे॒रुर्वि मध्ये॒ अर्ण॑सो॒ धायि॑ प॒ज्रः ।
उप॑ वा॒मव॑ः शर॒णं ग॑मेयं॒ शूरो॒ नाज्म॑ प॒तय॑द्भि॒रेवै॑ः ॥३
यु॒क्तः । ह॒ । यत् । वा॒म् । तौ॒ग्र्याय॑ । पे॒रुः । वि । मध्ये॑ । अर्ण॑सः । धायि॑ । प॒ज्रः ।
उप॑ । वा॒म् । अवः॑ । श॒र॒णम् । ग॒मे॒य॒म् । शूरः॑ । न । अज्म॑ । प॒तय॑त्ऽभिः । एवैः॑ ॥३
युक्तः । ह । यत् । वाम् । तौग्र्याय । पेरुः । वि । मध्ये । अर्णसः । धायि । पज्रः ।
उप । वाम् । अवः । शरणम् । गमेयम् । शूरः । न । अज्म । पतयत्ऽभिः । एवैः ॥३
अत्रेतिहासमाहुः । तौग्र्यनामकं राजानं युद्धे शत्रवः पराभाव्य पाशैर्दृढं बद्ध्वा समुद्रमध्ये प्रचिक्षिपुः । स च उत्तरीतुमशक्तः सन् अश्विनौ तुष्टाव । तौ च तुष्टौ शीघ्रमेव रथमश्वैर्योजयित्वा समुद्रमागत्य तमुत्तार्य अपालयतामिति । अयमर्थः ‘ अजोहवीदश्विना तौग्र्यः' (ऋ. सं १. ११७. १५) इत्यादिमन्त्रान्तरे प्रसिद्धः । सोऽत्रोच्यते । हे अश्विनौ “वां युवयोः संबन्धी “पेरुः पारणकुशलो रथः “युक्तो "ह अश्वैर्युक्तः खलु । हशब्दो मन्त्रान्तरप्रसिद्धिद्योतनार्थः । स च उदाहृतः । कस्मै । “तौग्र्याय एतन्नाम्ने राज्ञे तद्बन्धमोचनार्थम् । कुत्रेति तदुच्यते । “अर्णसः अम्भसः “मध्ये समुद्रस्य मध्ये । स च “पज्रः पाजसा बलेन तीर्णः सन् "वि “धायि धारितः स्थापितः । यस्मादेवं तस्मात् “वां युवयोः “अवः रक्षणं “शरणम् “उप “गमेयं संप्राप्नुयाम् ऐहिकदुःखाद्विमुक्तो युष्मत्स्थानं संभजेयम् । गतौ दृष्टान्तः । “पतयद्भिरेवैः अश्वैः “शूरो “न शूर इव । स यथा “अज्म जित्वा निर्भयं स्वगृहं प्राप्नोति तद्वत् ॥
उप॑स्तुतिरौच॒थ्यमु॑रुष्ये॒न्मा मामि॒मे प॑त॒त्रिणी॒ वि दु॑ग्धाम् ।
मा मामेधो॒ दश॑तयश्चि॒तो धा॒क्प्र यद्वां॑ ब॒द्धस्त्मनि॒ खाद॑ति॒ क्षाम् ॥४
उप॑ऽस्तुतिः । औ॒च॒थ्यम् । उ॒रु॒ष्ये॒त् । मा । माम् । इ॒मे इति॑ । प॒त॒त्रिणी॒ इति॑ । वि । दु॒ग्धा॒म् ।
मा । माम् । एधः॑ । दश॑ऽतयः । चि॒तः । धा॒क् । प्र । यत् । वा॒म् । ब॒द्धः । त्मनि॑ । खाद॑ति । क्षाम् ॥४
उपऽस्तुतिः । औचथ्यम् । उरुष्येत् । मा । माम् । इमे इति । पतत्रिणी इति । वि । दुग्धाम् ।
मा । माम् । एधः । दशऽतयः । चितः । धाक् । प्र । यत् । वाम् । बद्धः । त्मनि । खादति । क्षाम् ॥४
अत्राख्यानमाहुः । जराझर्झरितगात्रं जात्यन्धं दीर्घतमसं मामतेयं वरिवसितुमशक्नुवानाः स्वगर्भदासा अग्नौ प्रदाहाय प्रचिक्षिपुः । तत्र क्षिप्तोऽश्विनावस्तावीत् । तौ चैनमरक्षताम् । ततोऽप्यम्रियमाणमुदकेषु अपातयन्। तत्र निमग्नः पुनरश्विनौ तुष्टाव । तुष्टौ सन्तौ तौ जलादुदहार्ष्टाम् । एवमवध्यं तं त्रैतनो नामकः कश्चिद्दासः अस्य शिरो वक्षश्च व्यतक्षत् । ततोऽप्यपालयतामिति । तदिदम् ऋग्द्वयाभ्यामुच्यते । हे अश्विनौ “उपस्तुतिः युवां बुद्ध्योपेत्य क्रियमाणा स्तुतिः “औचथ्यम् उचथस्य पुत्रं दीर्घतमसं माम् “उरुष्येत् रक्षेत् दाहाद्युपद्रवात् । 'उरुष्यती रक्षाकर्मा' (निरु. ५. २३) इति यास्कः । एवं सामान्येनोक्त्वा विशेषेण प्रत्युपद्रवपरिहारं प्रार्थयते । “इमे प्रसिद्धे “पतत्रिणी पतनशीले पुनरावर्तनशीले अहोरात्रे “मां “मा “वि “दुग्धां विशेषेण दोहगतसारं मा कार्ष्टां प्राणनिर्गमनानुकूल्यं मा कुरुतामित्यर्थः । किंच “मां “दशतयः दशवार: “चितः संचितः संपादितः “एधः प्रज्वालितेन्धनसंघः “मा “धाक् मा धाक्षीत् ॥ दहतेर्लुङि सिचि हलन्तलक्षणा वृद्धिः। ‘बहुलं छन्दसि ' इति इडभावः । हल्ङ्यादिसंयोगान्तलोपौ ॥ दुःसहदुःखप्राप्तिं दर्शयति । “यत् यस्मात् “वां युवयोः संबन्धी अयं जनः “बद्धः पाशैः गाढं वेष्टितः सन् “त्मनि आत्मनि आत्मना “क्षां भूमिं “खादति भक्षयति गन्तुमशक्तः सन् भूमौ परिलुठतीत्यर्थः । तस्मादुपस्तुतिरौचथ्यमुरुष्येत् इति ॥
अस्याः पञ्चम्या विनियोगमाह शौनकः - ‘ आततायिनमायान्तं दृष्ट्वा व्याघ्रमथो वृकं । न मा गरन्निति जपंस्तेभ्य एव प्रमुच्यते । त्रिरात्रोपोषितो रात्रौ जपेदा सूर्यदर्शनात् । आप्लुत्य प्रयतः सूर्यमुपतिष्ठेद्दिवाकरं । पश्यन्ति तस्करा नैनं तथान्ये पापबुद्धयः । एकः शतानि त्रायेत तस्करेभ्यश्चरन् पथि ' ( ऋग्वि. १. १४१ ) इति ॥
न मा॑ गरन्न॒द्यो॑ मा॒तृत॑मा दा॒सा यदीं॒ सुस॑मुब्धम॒वाधु॑ः ।
शिरो॒ यद॑स्य त्रैत॒नो वि॒तक्ष॑त्स्व॒यं दा॒स उरो॒ अंसा॒वपि॑ ग्ध ॥५
न । मा॒ । ग॒र॒न् । न॒द्यः॑ । मा॒तृऽत॑माः । दा॒साः । यत् । ई॒म् । सुऽस॑मुब्धम् । अ॒व॒ऽअधुः॑ ।
शिरः॑ । यत् । अ॒स्य॒ । त्रै॒त॒नः । वि॒ऽतक्ष॑त् । स्व॒यम् । दा॒सः । उरः॑ । अंसौ॑ । अपि॑ । ग्धेति॑ग्ध ॥५
न । मा । गरन् । नद्यः । मातृऽतमाः । दासाः । यत् । ईम् । सुऽसमुब्धम् । अवऽअधुः ।
शिरः । यत् । अस्य । त्रैतनः । विऽतक्षत् । स्वयम् । दासः । उरः । अंसौ । अपि । ग्धेतिग्ध ॥५
“नद्यः नदनशीला: "मातृतमाः मातृवज्जगतां हितकारिण्य आपः “मा मां दीर्घतमसं “गरन् न गिरेयुः निमग्नं मा कुर्युः ॥ ‘ गॄ निगरणे '। लेटि व्यत्ययेन शप् ॥ गिरणप्राप्तिं दर्शयति । “यत् यस्मात् “दासाः अस्मदुपक्षपयितारो मदीयगर्भदासाः “ईम् एनं दीर्घतमसं मां “सुसमुब्धं सुष्ठु संकुचितसर्वाङ्गम् ॥ ‘स्वती पूजायाम्' (पा. म. २. २. १८. ४) इति प्रादिसमासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् ॥ “अवाधुः अवाङ्मुखमपातयन् । किंच "अस्य मम “शिरः सः “त्रैतनः एतन्नामकः “दासः अत्यन्तनिर्घृणः सन् “यत् यस्मात् “वितक्षत् विविधं तष्टवान् तस्मात् स दासः “स्वयं स्वकीयमेव शिरस्तक्षतु । न केवलं शिर एव अपि तु मदीयम् “उरः वक्षःस्थलम्' “अंसौ च “ग्ध हतवान् विदारितवानित्यर्थः ॥ हन्तेर्लुङि छान्दसमेतद्रूपम् ॥ ततः स्वकीयमुरः अंसावपि स्वशस्त्रेणैव तथा कृतवान् । तद्युवयोर्माहात्म्यमिति भावः ॥
दी॒र्घत॑मा मामते॒यो जु॑जु॒र्वान्द॑श॒मे यु॒गे ।
अ॒पामर्थं॑ य॒तीनां॑ ब्र॒ह्मा भ॑वति॒ सार॑थिः ॥६
दी॒र्घऽत॑माः । मा॒म॒ते॒यः । जु॒जु॒र्वान् । द॒श॒मे । यु॒गे ।
अ॒पाम् । अर्थ॑म् । य॒तीना॑म् । ब्र॒ह्मा । भ॒व॒ति॒ । सार॑थिः ॥६
दीर्घऽतमाः । मामतेयः । जुजुर्वान् । दशमे । युगे ।
अपाम् । अर्थम् । यतीनाम् । ब्रह्मा । भवति । सारथिः ॥६
“दीर्घतमाः एतन्नामा महर्षिः स च “मामतेयः ममतायाः पुत्रः “दशमे “युगे दशयुगपर्यन्तं महानुभावयोरश्विनोः प्रभावात् पूर्वोक्ताद्दुःखाद्विमुक्तोऽत्यन्तसुखी स्वपुत्रभार्यादिभिः सहितो जीवितवान्। दशमे युगे अतीते सति जुजुर्वान् जीर्णः वलीपलितगात्रो बभूव । एवंभूतः सन् “अर्थं पुरुषैरर्थ्यमानं कर्मफलं स्वर्गादिकं “यतीनां प्राप्नुवतीनाम् “अपाम् अप्कार्याणां प्रजानाम् । यद्वा । अपाम् अपसां कर्मणाम् अर्थं प्रयोजनं यतीनां तासां प्रजानाम् । “ब्रह्मा ब्रह्मसदृशः परिवृढः “भवति । किंच "सारथिः तद्वन्निर्वाहको भवति देवो भवतीत्यर्थः । एवमस्य वृत्तान्तं मन्त्रोऽनुवदति। स्वयं वा स्वात्मानं पारोक्ष्येण अश्विनोर्महानुभावत्वं प्रकटयितुं ब्रवीति ॥ ॥ १ ॥
मण्डल १ | ||||||
---|---|---|---|---|---|---|
|