ऋग्वेदः सूक्तं १.१४

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं १.१३ ऋग्वेदः - मण्डल १
सूक्तं १.१४
मेधातिथिः काण्वः।
सूक्तं १.१५ →
दे. विश्वे देवाः (विश्वैर्देवैः सहितोऽग्निः), ३ इन्द्रवायुबृहस्पतिमित्रग्निपूषभगादित्यमरुद्गणाः, १० विश्वदेवाग्नीन्द्रवायुमित्रधामानि, ११ अग्निः। गायत्री


ऐभिरग्ने दुवो गिरो विश्वेभिः सोमपीतये ।
देवेभिर्याहि यक्षि च ॥१॥
आ त्वा कण्वा अहूषत गृणन्ति विप्र ते धियः ।
देवेभिरग्न आ गहि ॥२॥
इन्द्रवायू बृहस्पतिं मित्राग्निं पूषणं भगम् ।
आदित्यान्मारुतं गणम् ॥३॥
प्र वो भ्रियन्त इन्दवो मत्सरा मादयिष्णवः ।
द्रप्सा मध्वश्चमूषदः ॥४॥
ईळते त्वामवस्यवः कण्वासो वृक्तबर्हिषः ।
हविष्मन्तो अरंकृतः ॥५॥
घृतपृष्ठा मनोयुजो ये त्वा वहन्ति वह्नयः ।
आ देवान्सोमपीतये ॥६॥
तान्यजत्राँ ऋतावृधोऽग्ने पत्नीवतस्कृधि ।
मध्वः सुजिह्व पायय ॥७॥
ये यजत्रा य ईड्यास्ते ते पिबन्तु जिह्वया ।
मधोरग्ने वषट्कृति ॥८॥
आकीं सूर्यस्य रोचनाद्विश्वान्देवाँ उषर्बुधः ।
विप्रो होतेह वक्षति ॥९॥
विश्वेभिः सोम्यं मध्वग्न इन्द्रेण वायुना ।
पिबा मित्रस्य धामभिः ॥१०॥
त्वं होता मनुर्हितोऽग्ने यज्ञेषु सीदसि ।
सेमं नो अध्वरं यज ॥११॥
युक्ष्वा ह्यरुषी रथे हरितो देव रोहितः ।
ताभिर्देवाँ इहा वह ॥१२॥


सायणभाष्यम्

‘ ऐभिरग्ने' इत्यादिकस्य द्वादशर्चस्य तृतीयसूक्तस्य ऋषिच्छन्दसी पूर्ववत् । तच्च सूक्तं बहुदेवताकम् । अत एवानुक्रम्यते - ऐभिर्वैश्वदेवम्' इति । विनियोगस्तु -व्यूढद्वादशाहस्य प्रथमे छन्दोमे तृतीयसवने वैश्वदेवशस्त्रे ‘ऐभिरग्ने दुवो गिरः' इति सूक्तम् । तथा च सूत्रितम् -' अथ छन्दोमाः समुद्रादूर्मिः' इत्युपक्रम्य “ ऐभिरग्ने दुवो गिर इति वैश्वदेवम् ' ( आश्व. श्रौ. ८. ९) इति ॥


ऐभि॑रग्ने॒ दुवो॒ गिरो॒ विश्वे॑भि॒ः सोम॑पीतये ।

दे॒वेभि॑र्याहि॒ यक्षि॑ च ॥१

आ । ए॒भिः॒ । अ॒ग्ने॒ । दुवः॑ । गिरः॑ । विश्वे॑भिः । सोम॑ऽपीतये ।

दे॒वेभिः॑ । या॒हि॒ । यक्षि॑ । च॒ ॥१

आ । एभिः । अग्ने । दुवः । गिरः । विश्वेभिः । सोमऽपीतये ।

देवेभिः । याहि । यक्षि । च ॥१

हे “अग्ने “एभिः अस्मिन् यज्ञे संभावितैः "विश्वेभिः "देवेभिः सर्वैर्देवैः सह "सोमपीतये सोमपानोपेतयागार्थं "दुवः अस्मदीयां परिचर्यां “गिरः अस्मदीयाः स्तुतीश्च प्रति “आ "याहि आगच्छ । “यक्षि “च आगत्य यज च ॥ एभिः । पूर्वनिर्दिष्टानां देवानाम् इदमा परामर्शात् इदमोऽन्वादेशेऽशनुदात्तस्तृतीयादौ ' इति अश् अनुदात्तः । शित्त्वात् सर्वादेशः । ‘ नेदमदसोरकोः ' ( पा. सू. ७. १. ११ ) इति भिस ऐसादेशाभावः । विभक्तिरनुदात्तैव । न च ‘ उडिदम् °' इत्यादिना विभक्तेरुदात्तत्वं तत्र ‘ अन्तोदात्तात् ' ( पा. सू. ६. १. १६९) इत्यधिकारात् । दुवः । ‘ नब्विषयस्यानिसन्तस्य' (फि. सू. २६ ) इत्याद्युदात्तत्वम् । विश्वेभिः । विश्वशब्दो विशेः क्वनन्तः नित्त्वादाद्युदात्तः । ‘ बहुलं छन्दसि ' (पा. सू. ७. १. १० ) इति भिस ऐस् न भवति । ‘ बहुवचने झल्येत् ' ( पा. सू. ७. ३. १०३ ) इति एत्वम् । सोमपीतये । सोमशब्दः ‘अर्तिस्तुसु' (उ. सू. १. १३७) इत्यादिना मनन्तो नित्त्वादाद्युदात्तः । सोमस्य पीतिर्यस्मिन् यागे स सोमपीतिः । तस्मै । तादर्थ्ये चतुर्थी । देवेभिः । ‘ बहुलं छन्दसि ' इति भिस ऐसादेशाभावः । ‘ बहुवचने झल्येत् ' इति एत्वम् । यक्षि। यजेर्लोट: सिप् । बहुलं छन्दसि ' ( पा. सू. २. ४. ७३ ) इति शपो लुक् । व्रश्चादिना षत्वम् । ‘ षढोः कः सि' (पा. सू. ८. २. ४१ ) इति कत्वम् । सेर्हिरादेशश्छान्दसत्वात् न भवति । सिपः पित्त्वेनानुदात्तत्वात् धातुस्वर एव ॥


आ त्वा॒ कण्वा॑ अहूषत गृ॒णन्ति॑ विप्र ते॒ धिय॑ः ।

दे॒वेभि॑रग्न॒ आ ग॑हि ॥२

आ । त्वा॒ । कण्वाः॑ । अ॒हू॒ष॒त॒ । गृ॒णन्ति॑ । वि॒प्र॒ । ते॒ । धियः॑ ।

दे॒वेभिः॑ । अ॒ग्ने॒ । आ । ग॒हि॒ ॥२

आ । त्वा । कण्वाः । अहूषत । गृणन्ति । विप्र । ते । धियः ।

देवेभिः । अग्ने । आ । गहि ॥२

हे विप्र मेधाविन् अग्ने “कण्वाः मेधाविन ऋत्विजः “त्वा यज्ञनिष्पादकं त्वाम् “आ “अहूषत आह्वयन्ति । तथा “ते “धियः त्वदीयानि कर्माणि “गृणन्ति कथयन्ति । ततो हे “अग्ने “देवेभिः देवैः सह “आ “गहि आगच्छ। ‘ विप्रः' इत्यादिषु चतुर्विंशतिसंख्याकेषु मेधाविनामसु कण्वः ऋभुः' (नि. ३. १५. ७ ) इति पठितम् ॥ त्वा । “त्वामौ द्वितीयायाः' (पा. सू. ८. १. २३) इति त्वादेशः सर्वानुदात्तः । कण्वाः। कण शब्दार्थः । ‘ अशिप्रुषिलटिकणिखटि' ( उ. सू. १. १४९) इत्यादिना क्वन् । नित्त्वादाद्युदात्तः । अहूषत । “ ह्वेञ् स्पर्धायां शब्दे च'। ‘ छन्दसि लुङ्लङ्लिटः' इति वर्तमाने लुङ् । ञित्त्वादात्मनेपदं झः । ‘ आत्मनेपदेष्वनतः' (पा. सू. ७. १. ५) इति अदादेशः । च्लेः सिच। एकाचः० ' ( पा. सू. ७. २. १०) इति इट्प्रतिषेधः । ‘ बहुलं छन्दसि ' इति संप्रसारणं परपूर्वत्वम् । हलः' ( पा. सू. ६. ४. २ ) इति दीर्घत्वम् ।' आदेशप्रत्यययोः ' ( पा. सू. ८. ३. ५९ ) इति षत्वम् । छान्दसत्वात् ऊकारस्य न गुणः । अडागमः। गृणन्ति ।' गॄ शब्दे'। लट् । झि । ‘ झोऽन्तः । ‘क्र्यादिभ्यः श्ना' । ‘ प्वादीनां ह्रस्वः' (पा. सू. ७. ३. ८० ) इति धातोर्ह्रस्वत्वम् ।। ‘ श्नाभ्यस्तयोरातः ' ( पा. सू. ६. ४. ११२ ) इति आकारलोपः । ऋवर्णाच्चेति वक्तव्यम् ' ( का. ८. ४. १. १ ) इति णत्वम् । तिङः स्वर एव शिष्यते । विप्र । आमन्त्रितनिघातः । ते । अनुदात्तम्' इत्यनुवृत्तौ ‘ तेमयावेकवचनस्य ' ( पा. सू. ८. १. २२ ) इति षष्ठ्याः ते इति आदेशः । देवेभिः । छान्दस ऐसभावः । गहि ।' गम्लृ सृप्लृ गतौ ' । लोटः सिप् । ‘सेर्हयपिच्च'। “कर्तरि शप्' । तस्य ‘ बहुलं छन्दसि ' इति लुक् । अनुदात्तोपदेश' ( पा. सू. ६. ४. ३७ ) इत्यादिना मकारलोपः । तस्य असिद्धवदत्रा भात् ' ( पा. सू. ६. ४. २२ ) इति असिद्धत्वात् ' अतो हेः ' ( पा. सू. ६. ४. १०५) इति हेर्लुक् न भवति ॥


इ॒न्द्र॒वा॒यू बृह॒स्पतिं॑ मि॒त्राग्निं पू॒षणं॒ भग॑म् ।

आ॒दि॒त्यान्मारु॑तं ग॒णम् ॥३

इ॒न्द्र॒वा॒यू इति॑ । बृह॒स्पति॑म् । मि॒त्रा । अ॒ग्निम् । पू॒षण॑म् । भग॑म् ।

आ॒दि॒त्यान् । मारु॑तम् । ग॒णम् ॥३

इन्द्रवायू इति । बृहस्पतिम् । मित्रा । अग्निम् । पूषणम् । भगम् ।

आदित्यान् । मारुतम् । गणम् ॥३

इन्द्रादिदेवान् “मारुतं मरुतां वायूनां संबन्धिनं "गणं च हे अग्ने यक्षि इति पदद्वयमनुवर्तते ।। इन्द्रश्च वायुश्च इन्द्रवायू ।' देवताद्वन्द्वे च ' (पा. सू. ६. ३. २६ ) इति प्राप्तस्य आनङः ‘ उभयत्र वायोः प्रतिषेधो वक्तव्यः' (पा. सू. ६. ३. २६. १ ) इति प्रतिषेधः। ‘ देवताद्वन्द्वे च' (पा. सू. ६. २. १४१ ) इति प्राप्तस्योभयपदप्रकृतिस्वरस्य ‘नोत्तरपदेऽनुदात्तादौ ' ( पा. सू. ६. २. १४२ ) इति निषेधः । समासान्तोदात्तत्वमेव । बृहस्पतिम् । तद्बृहतोः करपत्योश्चौरदेवतयोरभिधेययोः सुट् तलोपो वक्तव्यः' (पा. म. ६. १. १५७ ) इति तलोपः सुडागमश्च । बृहच्छब्दमाद्युदात्तं केचित् वर्णयन्तीति वामनः । ‘ पा रक्षणे '। पातीति पतिः ।' पातेर्डतिः' (उ. सू. ४. ४९७ )। प्रत्ययस्वरेणाद्युदात्तः । समासे ‘ उभे वनस्पत्यादिषु युगपत् ' ( पा. सू. ६. २. १४० ) इति उभयपदप्रकृतिस्वरत्वम् । मित्रा । द्वितीयायाः ‘सुपां सुलुक् ' ( पा. सू. ७. १. ३९ ) इत्यादिना विभक्तेः आजादेशः । आदित्यान् । अदितेरपत्यानि आदित्याः । ‘दित्यदित्यादित्यपत्युत्तरपदण्ण्यः ' (पा. सू. ४. १. ८५)। प्रत्ययस्वरः । मारुतम् । मरुतां विकारः । ‘अनुदात्तादेश्च'। (पा. सू. ४. ३. १४० ) इति अञ् । ञित्वादाद्युदात्तः ॥


प्र वो॑ भ्रियन्त॒ इन्द॑वो मत्स॒रा मा॑दयि॒ष्णव॑ः ।

द्र॒प्सा मध्व॑श्चमू॒षद॑ः ॥४

प्र । वः॒ । भ्रि॒य॒न्ते॒ । इन्द॑वः । म॒त्स॒राः । मा॒द॒यि॒ष्णवः॑ ।

द्र॒प्साः । मध्वः॑ । च॒मू॒ऽसदः॑ ॥४

प्र । वः । भ्रियन्ते । इन्दवः । मत्सराः । मादयिष्णवः ।

द्रप्साः । मध्वः । चमूऽसदः ॥४

हे इन्द्रादिदेवाः "वः युष्मदर्थम् “इन्दवः सोमाः “प्र “भ्रियन्ते प्रकर्षेण संपाद्यन्ते । कीदृशाः । “मत्सराः तृप्तिकराः । ‘ मत्सरः सोमो मन्दतेस्तृप्तिकर्मणः' ( निरु. २. ५) इति यास्कः । “मादयिष्णवः हर्षहेतवः “द्रप्साः बिन्दुरूपाः "मध्वः मधुराः 'चमूषदः चमूषु चमसादिपात्रेष्व्यवस्थिताः। प्र। 'व्यवहिताश्च ( पा. सू. १. ४. ८२ ) इति व्यवहितप्रयोगः । भ्रियन्ते । भृञो यकि ‘ रिङशयग्लिङ्लक्षु' (पा. सू. ७. ४. २८) इति रिङादेशः । हृञो वा । 'हृग्रहोर्भश्छन्दसि ' ( पा. सू. ८. २. ३२. १ ) इति हकारस्य भकारः । इन्दवः ।' उन्दी क्लेदने । उन्दन्ति पात्राणीति । ‘ नित् । इत्यनुवृत्तौ ‘ उन्देरिच्चादेः ' (उ. सू. १. १२) इति उप्रत्ययः आदेः इकारश्च । नित्त्वादाद्युदात्तः। मत्सराः । ‘ मद तृप्तियोगे'। चित्' इत्यनुवृत्तौ ‘कृधूमदिभ्यः कित्' ( उ. सू. ३. ३५३ ) इति सरप्रत्ययः । ‘ तितुत्रतथसिसुसरकसेषु च ' ( पा. सू. ७. २. ९ ) इति इट्प्रतिषेधः । चित्त्वादन्तोदात्तः । मादयिष्णवः । ‘ मदी हर्षग्लेपनयोः । मदेर्ण्यन्तात् “ णेश्छन्दसि' (पा. सू. ३. २. १३७ ) इति इष्णुच् । णेरनिटि ' ( पा. सू. ६. ४. ५१ ) इति णिलोपे प्राप्ते ‘अयामन्ताल्वाय्येल्विष्णुषु । (पा. सू. ६. ४. ५५ ) इति अयादेशः । चित्त्वादन्तोदात्तः । मध्वः । मधुशब्द आद्युदात्त उक्तः । मधुशव्दस्य व्यत्ययेन पुंलिङ्गत्वम्। संज्ञापूर्वको विधिरनित्यः' इति ‘जसि च ' (पा. सू. ७. ३.१०९) इति गुणो न भवति । चमूषदः । ‘ चमु छमु जमु झमु अदने । चम्यते भक्ष्यते येषु चमसेषु ते चम्वः । ‘ कृपिचमि° ' ( उ. सू. १. ८१ ) इत्यादिना ऊः । तत्र सीदन्तीति चमूषदः । ‘ सत्सूद्विष० (पा.सू.. . ३. २. ६१) इत्यादिना क्विप् । सुषमादेः आकृतिगणत्वात् षत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम्॥


ईळ॑ते॒ त्वाम॑व॒स्यव॒ः कण्वा॑सो वृ॒क्तब॑र्हिषः ।

ह॒विष्म॑न्तो अरं॒कृत॑ः ॥५

ईळ॑ते । त्वाम् । अ॒व॒स्यवः॑ । कण्वा॑सः । वृ॒क्तऽब॑र्हिषः ।

ह॒विष्म॑न्तः । अ॒र॒म्ऽकृतः॑ ॥५

ईळते । त्वाम् । अवस्यवः । कण्वासः । वृक्तऽबर्हिषः ।

हविष्मन्तः । अरम्ऽकृतः ॥५

हे अग्ने "त्वाम् ईळते ऋत्विजः स्तुवन्ति । कीदृशाः । "अवस्यवः । अवनं रक्षणं तद्धेतून् देवानिच्छन्तः । "कण्वासः मेधाविनः “वृक्तबर्हिषः आस्तरणार्थं छिन्नदर्भाः "हविष्मन्तः हविर्युक्ताः “अरंकृतः अलंकर्तारः ॥ ईळते । ‘ ईड स्तुतौ । अनुदात्तेत्त्वात् लटो झः । ‘ अदिप्रभृतिभ्यः शपः । इति शपो लुक् । झस्य अदादेशः । टेः एत्वम् । ' तास्यनुदात्तेत् ° ' (पा. सू. ६. १. १८६) इत्यादिना लसार्वधातुकस्यानुदात्तत्वात् धातुस्वर एव शिष्यते । अवस्यवः । अवन्तीत्यवा देवाः । तानतिशयेनेच्छन्ति । ‘सुप आत्मनः क्यच् । ‘ क्यचि च' (पा. सू. ७. ४. ३३) इति ईत्वं न भवति । ‘ न च्छन्दस्यपुत्रस्य' (पा. सू. ७. ४. ३५) इति निषेधात् । ‘ सर्वप्रातिपदिकेभ्यो लालसायां सुग्वक्तव्यः' ( पा. म. ७. १. ५१. २) इति सुक् । ‘ क्याच्छन्दसि ' ( पा. सू. ३. २. १७०) इति उप्रत्ययः । अतो लोपः । प्रत्ययस्वरेणान्तोदात्तत्वम् । कण्वासः । कण शब्दार्थः । कणन्ति ध्वनन्ति स्तोत्रादिपाठेनेति कण्वा ऋत्विजः । ‘ अशिप्रुषि° ' ( उ. सू. १. १४९ ) इत्यादिना क्वन् । नित्त्वादाद्युदात्तः । ‘ आज्जसेरसुक् ' (पा. सू. ७. १. ५० ) इति असुक् । वृक्तबर्हिषः । वृक्तम् उक्तम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । हविष्मन्तः । हविरेषामस्तीति हविष्मन्तः । तसौ मत्वर्थे ' (पा. सू. १. ४. १९ ) इति भत्वेन अपदत्वात् न रुत्वम् । अरंकृतः । अलंकुर्वन्तीत्यरंकृतः । ‘ क्विप् च ' इति । क्विप् । ह्रस्वस्य तुक् । 'कपिलकादीनां संज्ञाच्छन्दसोर्वा लो रत्वमापद्यते ' ( पा. म. ८. २. १८) इति लकारस्य रेफादेशः ॥


घृ॒तपृ॑ष्ठा मनो॒युजो॒ ये त्वा॒ वह॑न्ति॒ वह्न॑यः ।

आ दे॒वान्सोम॑पीतये ॥६

घृ॒तऽपृ॑ष्ठाः । म॒नः॒ऽयुजः॑ । ये । त्वा॒ । वह॑न्ति । वह्न॑यः ।

आ । दे॒वान् । सोम॑ऽपीतये ॥६

घृतऽपृष्ठाः । मनःऽयुजः । ये । त्वा । वहन्ति । वह्नयः ।

आ । देवान् । सोमऽपीतये ॥६

हे अग्ने “त्वा त्वां "ये अश्वाः रथेन “वहन्ति । कीदृशाः । "घृतपृष्ठाः पुष्टाङ्गत्वेन दीप्तपृष्ठाः "मनोयुजः मनःसंकल्पमात्रेण रथे युज्यमानाः "वह्नयः वोढारः तैरश्वैः सोमपीतये सोमपानहेतुयागार्थं “देवान् “आ वह इति शेषः ॥ घृतपृष्ठाः । ‘ घृ क्षरणदीप्त्योः । घृतं दीप्तं पृष्ठं येषां ते घृतपृष्ठाः ।। घृतशब्दः प्रत्ययस्वरेणान्तोदात्तः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । मनसा युञ्जते इति मनोयुजः । ‘ ऋत्विग्दधृक् ' ( पा. सू. ३. २. ५९ ) इत्यादिना क्विन् । कृदुत्तरपदप्रकृतिस्वरत्वम् । त्वा । ‘ त्वामौ द्वितीयायाः' इत्यनुदात्तः त्वादेशः । वहन्ति । शप्तिङोरनुदात्तत्वात् धातुस्वरः । यद्वृत्तयोगात् निघाताभावः । वह्नयः । ‘ निः' ( उ. सू. ४. ४८८ ) इत्यनुवृत्तौ ‘ वहिश्रिश्रुयुद्रुग्लाहात्वरिभ्यो नित् ' ( उ. सू. ४. ४९१ ) इति निप्रत्ययः । तस्य नित्त्वादाद्युदात्तत्वम् । सोमपीतये । उक्तम् । सकारे परतो नकारस्य संहितायां • नश्च' (पा. सू. ८. ३. ३०) इति धुडागमः। ‘ खरि च ' (पा. सू. ८. ४. ५५ ) इति चर्त्वम् । ‘चयो द्वितीयाः शरि पौष्करसादेः' (पा. सू. ८. ४. ४८. ३ ) इति द्वितीयस्थकारः ॥ ॥ २६ ॥


तान्यज॑त्राँ ऋता॒वृधोऽग्ने॒ पत्नी॑वतस्कृधि ।

मध्व॑ः सुजिह्व पायय ॥७

तान् । यज॑त्रान् । ऋ॒त॒ऽवृधः॑ । अग्ने॑ । पत्नी॑ऽवतः । कृ॒धि॒ ।

मध्वः॑ । सु॒ऽजि॒ह्व॒ । पा॒य॒य॒ ॥७

तान् । यजत्रान् । ऋतऽवृधः । अग्ने । पत्नीऽवतः । कृधि ।

मध्वः । सुऽजिह्व । पायय ॥७

हे "अग्ने "तान् इन्द्रादीन् देवान् "यजत्रान् यजनीयान् "ऋतावृधः सत्यस्य यज्ञस्य वा वर्धकान् “पत्नीवतः पत्नीयुक्तान् "कृधि कुरु । हे "सुजिह्व शोभनजिह्वोपेत "मध्वः मधुरस्य सोमस्य भागं देवान् “पायय ॥ यजत्रान् । ‘ अमिनक्षियजिबन्धिपतिभ्योऽत्रन् ' ( उ. सू. ३. ३८५) इति यजेः अत्रन् प्रत्ययः । ऋतावृधः । ‘ वृधु वृद्धौ ' । अन्तर्भावितण्यर्थात् ' क्विप् च ' ( पा. सू. ३. २. ७६ ) इति क्विप् । अन्येषामपि दृश्यते ' ( पा. सू. ६. ३. १३७ ) इति पूर्वपदस्य दीर्घत्वम् । वृधेर्धातुस्वरः । समासे कृदुत्तरपदप्रकृतिस्वरत्वम् । अग्ने । पादादित्वात् नामन्त्रितनिघातः । षाष्ठिकमाद्युदात्तत्वम् । पत्नीवतः । ‘ पत्युर्नो यज्ञसंयोगे' (पा. सू. ४. १. ३३) इति ङीप्; इकारस्य च नकारः । ता एषां सन्तीति मतुप् । छन्दसीरः ' ( पा. सू. ८. २. १५) इति वत्वम् । पतिशब्दो डतिप्रत्ययान्तत्वादाद्युदात्तः । ङीम्मतुपोरनुदात्तत्वात् स एव शिष्यते । कृधि । कृञो लोटः सिः । ‘ सेर्ह्यपिच्च ' ( पा. सू. ३. ४. ८७ ) इति हिः । ‘ बहुलं छन्दसि' इति विकरणलुक् । ' श्रुशृणुपृकृवृभ्यश्छन्दसि' ( पा. सू. ६. ४. १०२ ) इति हेर्धिरादेशः । ङित्त्वाद्गुणाभावः । मध्वः। उक्तम् । सुजिह्व । आमन्त्रितनिघातः । पायय । पा पाने '। पिबन्तं प्रयुङ्क्ते इति ' हेतुमति च ' ( पा. सू. ३. १. २६ ) इति णिच् । ‘ शाच्छासाह्वाव्यावेपां युक्' (पा. सू. ७. ३. ३७) इति युक्। पूर्वस्यामन्त्रितस्य अविद्यमानवत्वम् । अत एव अव्यवधायकत्वात् मध्व इत्यपेक्ष्य “ तिङ्तितसङः' इति निघातः ॥


ये यज॑त्रा॒ य ईड्या॒स्ते ते॑ पिबन्तु जि॒ह्वया॑ ।

मधो॑रग्ने॒ वष॑ट्कृति ॥८

ये । यज॑त्राः । ये । ईड्याः॑ । ते । ते॒ । पि॒ब॒न्तु॒ । जि॒ह्वया॑ ।

मधोः॑ । अ॒ग्ने॒ । वष॑ट्ऽकृति ॥८

ये । यजत्राः । ये । ईड्याः । ते । ते । पिबन्तु । जिह्वया ।

मधोः । अग्ने । वषट्ऽकृति ॥८

"ये देवाः "यजत्राः यष्टव्याः तथा "ये देवाः "ईड्याः स्तुत्याः “ते सर्वेऽपि "वषट्कृति वषट्कारकाले वषट्कारयुक्ते यागे वा हे "अग्ने "ते त्वदीयया "जिह्वया "मधोः मधुरस्य सोमस्य भागं "पिबन्तु । यजत्राः । गतम् । ईड्याः । ‘ ईड स्तुतौ ।' ऋहलोर्ण्यत् । तित्स्वरिते प्राप्ते ईडवन्दवृशंसदुहां ण्यतः (पा. सू. ६. १. २१४ ) इत्याद्युदात्तत्वम् । द्वितीयस्य तेशब्दस्य युष्मदादेशस्य सर्वानुदात्तत्वम् । मधोः । उप्रत्ययस्य नित्वादाद्युदात्तत्वमुक्तम् । अग्ने । आमन्त्रितनिघातः । वषट्कृति । करोतेः संपदादिभ्यो भावे क्विप् । वषट् इत्यस्य करणं यस्मिन् यागे इति बहुव्रीहिः। वषट् इत्यस्य निपातत्वदाद्युदात्तत्वम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् ॥


आकीं॒ सूर्य॑स्य रोच॒नाद्विश्वा॑न्दे॒वाँ उ॑ष॒र्बुध॑ः ।

विप्रो॒ होते॒ह व॑क्षति ॥९

आकी॑म् । सूर्य॑स्य । रो॒च॒नात् । विश्वा॑न् । दे॒वान् । उ॒षः॒ऽबुधः॑ ।

विप्रः॑ । होता॑ । इ॒ह । व॒क्ष॒ति॒ ॥९

आकीम् । सूर्यस्य । रोचनात् । विश्वान् । देवान् । उषःऽबुधः ।

विप्रः । होता । इह । वक्षति ॥९

"विप्रः मेधावी "होता होमनिष्पादकोऽग्निः "उषर्बुधः उषःकाले योगगमनाय प्रबुध्यमानान् "विश्वान् “देवान "सूर्यस्य संबन्धिनः "रोचनात् स्वर्गलोकात् "इह कर्मणि "आकीं “वक्षति आवहतु॥ आकीम् । निपात आद्युदात्तः । सूर्यस्य । सूर्यशब्दो ‘ राजसूयसूर्य° ' ( पा. सू. ३. १. ११४ ) इत्यादिना क्यप्प्रत्ययान्तो निपातितः । क्यपः पित्त्वात् धातुस्वरेणाद्युदात्तः । रोचनात् रोचमानात् । “ रुच दीप्तौ ' । ‘अनुदात्तेतश्च हलादेः' (पा. सू. ३. २. १४९ ) इति कर्तरि युच् । चितः' इत्यन्तोदात्तत्वम् । विश्वान् । विशेः क्वनन्तो नित्त्वादाद्युदात्तः । उपर्बुधः। उषर्बुध्यन्ते इत्युषर्बुधः। ‘क्विप् च' (पा. सू. ३. २. ७६ ) इति क्विप् । धातुस्वरेण उकार उदात्तः । समासे कृदुत्तरपदप्रकृतिस्वरत्वम् । विप्रः । ‘ऋज़ेन्द्र ' ( उ. सू. २. १८६ ) इत्यादिना रन् । नित्वादाद्युदात्तः । होता । ह्वयतेस्ताच्छील्ये तृन् । ‘बहुलं छन्दसि ' इति संप्रसारणम् । परपूर्वत्वम् । गुणः । नित्त्वादाद्युदात्तः । इह । ‘ इदमो हः ' ( पा. सू. ५. ३. ११ ) इति हप्रत्ययः । इदम इश् ' ( पा. सू. ५. ३. ३) इति इश् । शित्त्वात् सर्वादेशः । प्रत्ययस्वरः । वक्षति। वहेः प्रार्थनायां लिङर्थे लेट् । तस्य तिप्। कर्तरि शप् । शपि परतः ‘ सिब्बहुलं लेटि' ( पा. सू. ३. १. ३४) इति सिप् । ढत्वकत्वषत्वानि। ‘तिङ्ङतिङः' इति निघातः ।।


अग्निष्टोमे प्रउगशस्त्रस्य याज्या ‘विश्वेभिः सोम्यं मधु ' इति । ‘ स्तोत्रमग्रे शस्त्रात्' इति खण्डे सूत्रितं - विश्वेभिः सोम्यं मध्विति याज्या ' ( आश्व. श्रौ. ५. १० ) इति ॥

विश्वे॑भिः सो॒म्यं मध्वग्न॒ इन्द्रे॑ण वा॒युना॑ ।

पिबा॑ मि॒त्रस्य॒ धाम॑भिः ॥१०

विश्वे॑भिः । सो॒म्यम् । मधु॑ । अग्ने॑ । इन्द्रे॑ण । वा॒युना॑ ।

पिब॑ । मि॒त्रस्य॑ । धाम॑ऽभिः ॥१०

विश्वेभिः । सोम्यम् । मधु । अग्ने । इन्द्रेण । वायुना ।

पिब । मित्रस्य । धामऽभिः ॥१०

हे "अग्ने त्वं "विश्वेभिः सर्वैः पूषभगादिभिर्देवैः "इन्द्रेण "वायुना "मित्रस्य संबन्धिभिः “धामभिः तेजोभिमूर्तिविशेषरूपैश्च सह "सोम्यं सोमसंबन्धि "मधु मधुरं भागं "पिब ॥ विश्वेभिः । ‘ बहुलं छन्दसि ' ( पा. सू. ७. १. १०) इति भिस ऐसादेशाभावः । सोम्यम् । सोममर्हति यः' (पा.सू. ४. ४. १३७ ) इत्यनुवृत्तौ ‘मये च ' ( पा. सू. ४. ४. १३८ ) इति यप्रत्ययः सोमस्य विकार इत्यर्थे । “यस्येति च ' ( पा. सू. ६. ४. १४८ ) इति अकारलोपः । प्रत्ययस्वरः । मधु । ‘फलि. पाटिनमिमनि° ' ( उ. सू. १. १८) इत्यादिना उप्रत्ययः । ‘ नित्' इत्यनुवृत्तेः नित्त्वादाद्युदात्तः । वायुना । ‘ कृवापाजि° ' ( उ. सू. १. १ ) इत्यादिना उण् । ‘आतो युक् चिण्कृतोः ' (पा. सू. ७. ३. ३३ ) इति युक् । प्रत्ययस्वरः । पिब । ‘पा पाने'। लोटः सेर्हिरादेशः । शपि ‘पाघ्रा ' (पा.सू. ७. ३. ७८ ) इत्यादिना पिबादेशः । अतो हेः ' ( पा. सू. ६. ४. १०५ ) इति हेर्लुक् । शपः पित्त्वात् धातुस्वरः। पादादित्वात् न निघातः । द्व्यचोऽतस्तिङः ' (पा. सू. ६. ३. १३५) इति संहितायां दीर्घः । धामभिः । धाञ् । ‘ आतो मनिन् ' (पा. सू. ३. २. ७४) इति मनिन् । नित्स्वरः ।।


त्वं होता॒ मनु॑र्हि॒तोऽग्ने॑ य॒ज्ञेषु॑ सीदसि ।

सेमं नो॑ अध्व॒रं य॑ज ॥११

त्वम् । होता॑ । मनुः॑ऽहितः । अग्ने॑ । य॒ज्ञेषु॑ । सी॒द॒सि॒ ।

सः । इ॒मम् । नः॒ । अ॒ध्व॒रम् । य॒ज॒ ॥११

त्वम् । होता । मनुःऽहितः । अग्ने । यज्ञेषु । सीदसि ।

सः । इमम् । नः । अध्वरम् । यज ॥११

हे "अग्ने "मनुर्हितः मनुषा होत्रादिरूपेण मनुष्येण हितः संपादितः "होता होमनिष्पादको यः “त्वं "यज्ञेषु "सीदसि तिष्ठसि “सः त्वं “नः अस्मदीयम् “इमम् "अध्वरं यज्ञं "यज निष्पादय ॥ मनुर्हितः । मन्यते इति मनुः । निच्च ' ( उ. सू. २. २७४ ) इत्यनुवृत्तौ ‘ बहुलमन्यत्रापि ' ( उ. सू, २. २७८) उस् । नित्त्वादाद्युदात्तः । हितः । धाञो धातोः ‘ निष्ठा ' इति क्तप्रत्ययः । ‘ दधातेर्हिः' (पा. सू. ७. ४. ४२ ) इति हिरादेशः । मनुषा हितो मनुर्हितः । ‘ कर्तृकरणे कृता बहुलम् ' (पा.सू. २. १. ३२) इति समासः । कृत्स्वरापवादेन तृतीया कर्मणि ' ( पा. सू. ६. २. ४८) इति पूर्वपदप्रकृतिस्वरत्वम् । सीदसि । ‘षद्लृ विशरणगत्यवसादनेषु '। लटः सिप् । शपि • पाघ्राध्मा° ' ( पा. सू. ७. ३. ७८ ) इत्यादिना सीदादेशः । निघातः । सेममित्यत्र संहितायां ' सोऽचि लोपे चेत्पादपूरणम् ' ( पा. सू. ६. १. १३४ ) इति सोर्लोपे गुणः । अध्वरम् । न विद्यते ध्वरो हिंसा यस्मिन् सोऽध्वरः । नञ्सुभ्याम् ' ( पा. सू. ६. २. १७२ ) इत्युत्तरपदान्तोदात्तत्वम् । ‘नो अध्वरम्' इत्यत्र संहितायाम् “ एङः पदान्तादति ' ( पा. सू. ६. १. १०९ ) इति पूर्वरूपं प्राप्तं ' प्रकृत्यान्तःपादमव्यपरे' (पा. सू. ६. १. ११५) इति प्रकृतिभावात् निवर्तते ।


यु॒क्ष्वा ह्यरु॑षी॒ रथे॑ ह॒रितो॑ देव रो॒हित॑ः ।

ताभि॑र्दे॒वाँ इ॒हा व॑ह ॥१२

यु॒क्ष्व । हि । अरु॑षीः । रथे॑ । ह॒रितः॑ । दे॒व॒ । रो॒हितः॑ ।

ताभिः॑ । दे॒वान् । इ॒ह । आ । व॒ह॒ ॥१२

युक्ष्व । हि । अरुषीः । रथे । हरितः । देव । रोहितः ।

ताभिः । देवान् । इह । आ । वह ॥१२

हे “देव अग्ने "रोहितः रोहिच्छब्दाभिधेयास्त्वदीया वडवाः "रथे "युक्ष्व योजय। हिशब्दः पादपूरणार्थः । कीदृशीः । "अरुषीः गतिमतीः "हरितः हर्तुं रथारूढान् पुरुषान् नेतुं समर्थाः। “ताभिः वडवाभिः "इह अस्मिन् कर्मणि "देवान् "आ "वह ॥ युक्ष्व ।' युजिर् योगे'। लोट् । स्वरितेत्त्वादात्मनेपदम् ।' थासः से'। 'सवाभ्यां वामौ'। 'रुधादिभ्यः श्नम्। तस्य बाहुलकात् लुक् । कुत्वषत्वे । प्रत्ययस्वरेणान्तोदात्तः । संहितायां ' द्व्यचोऽतस्तिङः ' ( पा. सू. ६. ३. १३५) इति दीर्घः । अरुषीः । ‘ऋ गतौ । रन्ति (?) गच्छन्तीत्यरुष्यो वडवाः। ‘ ऋहनिभ्यामुषन्' (उ. सू. ४. ५१३)। धातोर्गुणो रपरत्वम् । नित्त्वादाद्युदात्तोऽरुषशब्दः । तस्मात् स्त्रियां छान्दसो ङीप् । शसि ‘ प्रथमयोः पूर्वसवर्णः ' ( पा. सू. ६. १. १०२) इति दीर्घः । रथे। रमेः औणादिकः क्थन्प्रत्ययः । नित्त्वादाद्युदात्तः । हरितः । ‘ हृसृरुहियुषिभ्य इतिः ' ( उ. सू. १. ९७ ) इति हरतेः इतिप्रत्ययः । इकारः प्रत्ययस्वरेणोदात्तः । रोहितः । रुहेरपि तेनैव सूत्रेण इतिः । इकारः प्रत्ययस्वरेणोदात्तः । ताभिः। ‘सावेकाचः°' (पा.सू. ६. १. १६८ ) इति विभक्तेः प्राप्तमुदात्तत्वं • साववर्ण ' (पा. सू. ६. १. १८२) इति निषिध्यते । देवान् इत्यत्र पूर्ववत् रुत्वानुनासिकौ ॥ ॥ २७ ॥

मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१४&oldid=304622" इत्यस्माद् प्रतिप्राप्तम्