ऋग्वेदः सूक्तं १.१४०
← सूक्तं १.१३९ | ऋग्वेदः - मण्डल १ सूक्तं १.१४० दीर्घतमा औचथ्यः |
सूक्तं १.१४१ → |
दे. अग्निः। जगती, १० त्रिष्टुब्वा, १२-१३ त्रिष्टुप् । |
वेदिषदे प्रियधामाय सुद्युते धासिमिव प्र भरा योनिमग्नये ।
वस्त्रेणेव वासया मन्मना शुचिं ज्योतीरथं शुक्रवर्णं तमोहनम् ॥१॥
अभि द्विजन्मा त्रिवृदन्नमृज्यते संवत्सरे वावृधे जग्धमी पुनः ।
अन्यस्यासा जिह्वया जेन्यो वृषा न्यन्येन वनिनो मृष्ट वारणः ॥२॥
कृष्णप्रुतौ वेविजे अस्य सक्षिता उभा तरेते अभि मातरा शिशुम् ।
प्राचाजिह्वं ध्वसयन्तं तृषुच्युतमा साच्यं कुपयं वर्धनं पितुः ॥३॥
मुमुक्ष्वो मनवे मानवस्यते रघुद्रुवः कृष्णसीतास ऊ जुवः ।
असमना अजिरासो रघुष्यदो वातजूता उप युज्यन्त आशवः ॥४॥
आदस्य ते ध्वसयन्तो वृथेरते कृष्णमभ्वं महि वर्पः करिक्रतः ।
यत्सीं महीमवनिं प्राभि मर्मृशदभिश्वसन्स्तनयन्नेति नानदत् ॥५॥
भूषन्न योऽधि बभ्रूषु नम्नते वृषेव पत्नीरभ्येति रोरुवत् ।
ओजायमानस्तन्वश्च शुम्भते भीमो न शृङ्गा दविधाव दुर्गृभिः ॥६॥
स संस्तिरो विष्टिरः सं गृभायति जानन्नेव जानतीर्नित्य आ शये ।
पुनर्वर्धन्ते अपि यन्ति देव्यमन्यद्वर्पः पित्रोः कृण्वते सचा ॥७॥
तमग्रुवः केशिनीः सं हि रेभिर ऊर्ध्वास्तस्थुर्मम्रुषीः प्रायवे पुनः ।
तासां जरां प्रमुञ्चन्नेति नानददसुं परं जनयञ्जीवमस्तृतम् ॥८॥
अधीवासं परि मातू रिहन्नह तुविग्रेभिः सत्वभिर्याति वि ज्रयः ।
वयो दधत्पद्वते रेरिहत्सदानु श्येनी सचते वर्तनीरह ॥९॥
अस्माकमग्ने मघवत्सु दीदिह्यध श्वसीवान्वृषभो दमूनाः ।
अवास्या शिशुमतीरदीदेर्वर्मेव युत्सु परिजर्भुराणः ॥१०॥
इदमग्ने सुधितं दुर्धितादधि प्रियादु चिन्मन्मनः प्रेयो अस्तु ते ।
यत्ते शुक्रं तन्वो रोचते शुचि तेनास्मभ्यं वनसे रत्नमा त्वम् ॥११॥
रथाय नावमुत नो गृहाय नित्यारित्रां पद्वतीं रास्यग्ने ।
अस्माकं वीराँ उत नो मघोनो जनाँश्च या पारयाच्छर्म या च ॥१२॥
अभी नो अग्न उक्थमिज्जुगुर्या द्यावाक्षामा सिन्धवश्च स्वगूर्ताः ।
गव्यं यव्यं यन्तो दीर्घाहेषं वरमरुण्यो वरन्त ॥१३॥
सायणभाष्यम्
एकविंशेऽनुवाके सप्तदश सूक्तानि । तत्र ‘वेदिषदे' इति प्रथमं सूक्तं त्रयोदशर्चम् । उचथ्यपुत्रस्य दीर्घतमस आर्षम् आग्नेयम् । अन्त्ये त्रिष्टुभौ । शिष्टास्त्रिष्टुबन्तपरिभाषया जगत्यः । दशमी त्रिष्टुब्जगती वा । अत्यष्टिपरिभाषा निवृत्ता । अत्रानुक्रमणिका-' वेदिषदे सप्तोना दीर्घतमा औचथ्य आग्नेयं तु द्वित्रिष्टुबन्तं तु त्रिष्टुब्दशमी वा ' इति । प्रातरनुवाकस्याग्नेये क्रतौ जागते छन्दसि इदमादीनि तृतीयवर्जितानि षट् सूक्तानि विनियुक्तानि । तथाश्विनशस्त्रे षण्णां तृतीयवर्जितानां सूक्तानां विनियोगः ॥ सूत्रितं च- वेदिषद इति षण्णां तृतीयमुद्धरेत् ' ( आश्व. श्रौ. ४. १३ ) इति ॥
वे॒दि॒षदे॑ प्रि॒यधा॑माय सु॒द्युते॑ धा॒सिमि॑व॒ प्र भ॑रा॒ योनि॑म॒ग्नये॑ ।
वस्त्रे॑णेव वासया॒ मन्म॑ना॒ शुचिं॑ ज्यो॒तीर॑थं शु॒क्रव॑र्णं तमो॒हन॑म् ॥१
वे॒दि॒ऽसदे॑ । प्रि॒यऽधा॑माय । सु॒ऽद्युते॑ । धा॒सिम्ऽइ॑व । प्र । भ॒र॒ । योनि॑म् । अ॒ग्नये॑ ।
वस्त्रे॑णऽइव । वा॒स॒य॒ । मन्म॑ना । शुचि॑म् । ज्यो॒तिःऽर॑थम् । शु॒क्रऽव॑र्णम् । त॒मः॒ऽहन॑म् ॥१
वेदिऽसदे । प्रियऽधामाय । सुऽद्युते । धासिम्ऽइव । प्र। भर । योनिम् । अग्नये ।
वस्त्रेणऽइव । वासय । मन्मना । शुचिम् । ज्योतिःऽरथम् । शुक्रऽवर्णम् । तमःऽहनम् ॥१॥
हे अध्वर्यो "वेदिषदे वेद्यां सीदते नित्यं “प्रियधामाय प्रियधाम्ने प्रियस्थानाय उत्तरवेदिलक्षणप्रियाय “सुद्युते शोभनद्योतनाय "अग्नये अग्रनयनादिगुणविशिष्टाय "योनिं स्थानं वेद्याख्यं “धासिमिव हवीरूपमन्नमिव “प्र “भर प्रहर प्रकर्षेण संपादयेत्यर्थः। तच्च स्थानं “वस्त्रेणेव तेन यथा मार्दवाय आस्तृणाति तद्वत् "मन्मना मननीयेन संभारेण बर्हिषा वा वेदिस्थान “वासय आच्छादय । कीदृशं तत्स्थानमिति तदुच्यते। “शुचिम् उत्पवनप्रोक्षणादिना अमेध्यासुरादीनाम् अपगतत्वात् शुद्धं “ज्योतीरथं ज्योतिषः आज्यादेरग्नेर्वा रथस्थानीयम् आधारभूतत्वात् “शुक्रवर्णम् अग्न्युपेतत्वाद्दीप्तवर्णम् अत एव “तमोहनं तमसोऽन्धकारस्य हन्तारमज्ञानस्य वा । अग्निसाध्ययज्ञादिद्वारा ज्ञानविचारकत्वादिति भावः । यद्वा । तस्यां योनौ स्थाने वस्त्रेण यथा गोपनीयं वस्तु गोपयन्ति तद्वत्तमग्निं वासय निवासय स्थापय । मन्मना मननीयेन हृद्येन वस्त्रसदृशेन मृदुकाष्ठादिना आच्छादय वा । कीदृशम्। ज्योतीरथं दीप्तिरथोपेतम् । शेषं पूर्ववत् ॥
अ॒भि द्वि॒जन्मा॑ त्रि॒वृदन्न॑मृज्यते संवत्स॒रे वा॑वृधे ज॒ग्धमी॒ पुन॑ः ।
अ॒न्यस्या॒सा जि॒ह्वया॒ जेन्यो॒ वृषा॒ न्य१॒॑न्येन॑ व॒निनो॑ मृष्ट वार॒णः ॥२
अ॒भि । द्वि॒ऽजन्मा॑ । त्रि॒ऽवृत् । अन्न॑म् । ऋ॒ज्य॒ते॒ । सं॒व॒त्स॒रे । व॒वृ॒धे॒ । ज॒ग्धम् । ई॒मिति॑ । पुन॒रिति॑ ।
अ॒न्यस्य॑ । आ॒सा । जि॒ह्वया॑ । जेन्यः॑ । वृषा॑ । नि । अ॒न्येन॑ । व॒निनः॑ । मृ॒ष्ट॒ । वा॒र॒णः ॥२
अभि । द्विऽजन्मा । त्रिऽवृत् । अन्नम्। ऋज्यते । संवत्सरे । ववृधे । जग्धम् । ईमिति । पुनरिति ।
अन्यस्य । आसा । जिह्वया । जेन्यः । वृषा । नि । अन्येन । वनिनः । मृष्ट । वारणः ॥२॥
"द्विजन्मा द्वाभ्यामरणीभ्यां जायमानः । यद्वा । मथनेन आधानसंस्कारेण च उत्पन्नत्वात् द्विजन्मत्वम् ॥ ‘अन्येभ्योऽपि दृश्यन्ते ' इति मनिन् । अयमग्निः "त्रिवृदन्नम् आज्यपुरोडाशसोमरूपेण त्रिप्रकारमन्नमदनीयम् "अभि “ऋज्यते प्राप्नोति अभितः आभिमुख्येन नयति भक्षयति ॥ ‘ऋज गतिस्थानार्जनोपार्जनेषु'। व्यत्ययेन श्यन् ॥ यद्वा । भृज्यते ॥ ‘भ्रस्जो पाके' । पक्वं करोति वा । किंच “ईं इदम् ॥ ईमित्यत्र सांहितिको मलोपश्छान्दसः ॥ "जग्धं भक्षितं “संवत्सरे पूर्णे “पुनः "ववृधे अग्निर्वर्धयति । जीर्णस्य पुनर्वृद्ध्यभावात् यजमानं हविर्वृद्धया प्रतिसंवत्सरं यागसमर्थं करोतीत्यर्थः । यद्वा । एकवारं भक्षितं हविः पुनः संवत्सरे पूर्णे संवत्सरे उदरस्थं वर्धते वर्धयति वा भक्षितारम् । किंचायमग्निः "वृषा वर्षकः सन् "अन्यस्य हविषः “आसा आस्येन "जिह्वया "जेन्यः प्रभूतो भवतीति शेषः । यद्वा । वर्षिता सन् एकेन रूपेणान्यस्य यज्ञे होत्रादेर्जिह्वया तदुपलक्षितया स्रुचा जेन्यः प्रवृद्धो भवति । तथा "अन्येन दावाग्निरूपेण “वारणः सर्वेषां वारकः सन् "वनिनः वनसंबन्धिनो वृक्षान् "नि "मृष्ट निमार्ष्टि दहतीत्यर्थः ॥ मृजेश्छन्दसे लङि व्यत्ययेन आत्मनेपदम् ॥
कृ॒ष्ण॒प्रुतौ॑ वेवि॒जे अ॑स्य स॒क्षिता॑ उ॒भा त॑रेते अ॒भि मा॒तरा॒ शिशु॑म् ।
प्रा॒चाजि॑ह्वं ध्व॒सय॑न्तं तृषु॒च्युत॒मा साच्यं॒ कुप॑यं॒ वर्ध॑नं पि॒तुः ॥३
कृ॒ष्ण॒ऽप्रुतौ॑ । वे॒वि॒जे इति॑ । अ॒स्य॒ । स॒ऽक्षितौ॑ । उ॒भा । त॒रे॒ते॒ इति॑ । अ॒भि । मा॒तरा॑ । शिशु॑म् ।
प्रा॒चाऽजि॑ह्वम् । ध्व॒सय॑न्तम् । तृ॒षु॒ऽच्युत॑म् । आ । साच्य॑म् । कुप॑यम् । वर्ध॑नम् । पि॒तुः ॥३
कृष्णऽप्रुतौ । वेविजे इति । अस्य । सऽक्षितौ । उभा । तरेते इति । अभि। मातरं । शिशुम् ।
प्राचाऽजिह्वम्। ध्वसयन्तम् । तृषुऽच्युतम् । आ । साच्यम् । कुपयम् । वर्धनम् । पितुः ॥३॥
“अस्य अग्नेः "मातरा मातृस्थानीये उत्पादयित्र्यौ “उभा उभे अरण्याख्ये मातरौ “वेविजे चलतः ॥ ‘ओविजी भयचलनयोः । अस्मात् यङ्लुगन्तात् व्यत्ययेन आत्मनेपदमेकवचनं च । ‘लोपस्त आत्मनेपदेषु ' इति तलोपः । ‘चादिलोपे विभाषा' इति निघाताभावः ॥ मथनोपक्रमे "कृष्णप्रुतौ अग्निसंपर्कात् कृष्णवर्णतां प्राप्नुवत्यौ प्रापयन्त्यौ वा भूमिं तथा “सक्षितौ समानकार्यमग्न्युत्पादनं गच्छन्त्यौ एवंभूते मातरौ “शिशुं शिशुवदुत्पत्तिसमये अत्यल्पमग्निम् "अभि "तरेते आभिमुख्येन प्राप्नुतश्च । कीदृशं शिशुम् । प्राचाजिह्वं प्राग्देशस्थितजिह्वास्थानीयज्वालं “ध्वसयन्तं तमो नाशयन्तं “तृषुच्युतम् अरणीभ्यां क्षिप्रं निर्गच्छन्तम् अक्लेशेन योनेः सकाशात् शीघ्रमुत्पद्यमानम्। "आ ईषत् "साच्यं समवेतव्यं मृदुकाष्ठचूर्णादिना “कुपयं गोपनीयं "पितुः पालकस्य यजमानस्य “वर्धनं प्रवर्धनं प्रवर्धयितारम् । उक्तप्रकारैः लौकिकशिशुसाधारणैः उपेतं शिशुमग्निं मातरावुत्पादयतः इत्यर्थः ॥
मु॒मु॒क्ष्वो॒३॒॑ मन॑वे मानवस्य॒ते र॑घु॒द्रुव॑ः कृ॒ष्णसी॑तास ऊ॒ जुव॑ः ।
अ॒स॒म॒ना अ॑जि॒रासो॑ रघु॒ष्यदो॒ वात॑जूता॒ उप॑ युज्यन्त आ॒शव॑ः ॥४
मु॒मु॒क्ष्वः॑ । मन॑वे । मा॒न॒व॒स्य॒ते । र॒घु॒ऽद्रुवः॑ । कृ॒ष्णऽसी॑तासः । ऊं॒ इति॑ । जुवः॑ ।
अ॒स॒म॒नाः । अ॒जि॒रासः॑ । र॒घु॒ऽस्यदः॑ । वात॑ऽजूताः । उप॑ । यु॒ज्य॒न्ते॒ । आ॒शवः॑ ॥४
मुमुक्ष्वः । मनवे । मानवस्यते । रघुऽद्रुवः । कृष्णऽसीतासः । ॐ इति । जुवः ।
असमनाः । अजिरासः । रघुऽस्यदः । वातऽजूताः । उप । युज्यन्ते । आशवः ॥ ४ ॥
“मनवे मननवते “मानवस्यते मानवान् ऋत्विजः कर्मार्थमिच्छते यजमानाय तदर्थमध्वर्य्वादिभिः अग्नेर्ज्वालाः “उप "युज्यन्ते यज्ञेषु। सूक्तस्याग्नेयत्वात् औचित्यात् ज्वाला इति गम्यते । कीदृश्यस्ताः । “मुमुक्ष्वः मुमुक्षव आहुतिद्वारा यजमानं मोक्तुमिच्छन्त्यः ब्रह्मलोकं प्रापयन्त्यः ॥ 'जसादिषु च्छन्दसि वावचनम्' इति गुणाभावः। ज्वालानामाहुतिद्वारा ब्रह्मलोकप्राप्तिसाधनत्वं काली कराली' इत्युपक्रम्य श्रूयते-’एतेषु यश्चरते भ्राजमानेषु यथाकालं चाहुतयो ह्याददायन्। तं नयन्त्येताः सूर्यस्य रश्मयो यत्र देवानां पतिरेकोऽधिवासः ' (मु. उ. १. २. ४-५) इति । "रघुद्रुवः क्षिप्रं गच्छन्त्यः "कृष्णसीतासः कृष्णमार्गाः । उकारः समुच्चयार्थः। “जुवः जवनशीलाः शीघ्रकारिण्यः स्वव्यापारेषु “असमनाः असमानमनस्काः । काश्चन प्राङ्मुख्यो गच्छन्ति काश्चन प्रत्यङमुख्यः इति विविधमनस्काः॥ व्यत्ययेनैकवचनम् ॥ यद्वा । असमना भिन्नवर्णाः । भिन्नवर्णत्वं च तत्रैव श्रूयते-’काली कराली च मनोजवा च सुलोहिता या च सुधूम्रवर्णा। स्फुलिङ्गिनी विश्वभुवी च देवी लेलायमान इति सप्त जिह्वाः' इति । “अजिरासः गमनशीलाः "रघुस्यदः शीघ् स्यन्दमानाः "वातजूताः वातप्रेरिताः । ‘तृतीया कर्मणि ' इति पूर्वपदप्रकृतिस्वरत्वम् । "आशवः व्यापनशीलाः ॥
आद॑स्य॒ ते ध्व॒सय॑न्तो॒ वृथे॑रते कृ॒ष्णमभ्वं॒ महि॒ वर्प॒ः करि॑क्रतः ।
यत्सीं॑ म॒हीम॒वनिं॒ प्राभि मर्मृ॑शदभिश्व॒सन्स्त॒नय॒न्नेति॒ नान॑दत् ॥५
आत् । अ॒स्य॒ । ते । ध्व॒सय॑न्तः । वृथा॑ । ई॒र॒ते॒ । कृ॒ष्णम् । अभ्व॑म् । महि॑ । वर्पः॑ । करि॑क्रतः ।
यत् । सी॒म् । म॒हीम् । अ॒वनि॑म् । प्र । अ॒भि । मर्मृ॑शत् । अ॒भि॒ऽश्व॒सन् । स्त॒नय॑न् । एति॑ । नान॑दत् ॥५
आत् । अस्य । ते । ध्वसयन्तः । वृथा। ईरते । कृष्णम् । अभ्वम् ।
महि। वर्पः। करिक्रतः ।। यत् । सीम्। महीम् । अवनिम्। प्र। अभि । मर्मृशत् ।। अभिऽश्वसन् । स्तनयन् । एति । नानदत् ॥ ५ ॥
“आत् अनन्तरम् अस्य स्तूयमानस्याग्ने "ते प्रसिद्धा विस्फुलिङ्गाः "वृथा सहैव "ईरते सर्वतो गच्छन्ति । कीदृशास्ते । “ध्वसयन्तः तमांसि ध्वंसयन्तः तथा "कृष्णवर्णम् "अभ्वं महान्तमभिभवद्गमनमार्गं “महि महत् "वर्पः रूपं प्रकाशं "करिक्रतः अत्यर्थं कुर्वन्तः। कस्मिन् काले इति तदुच्यते । “यत् यदा “महीं महतीम् "अवनिं भूमिं “सीं सर्वतः “मर्मृशत् पुनःपुनरामृशत् ॥ मृशेर्यङलुगन्तात् शतरि ‘अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् ॥ "अभिश्वसन सर्वतश्चेष्टमानः स्तनयन् शब्दं कुर्वन् “नानदत् अत्यर्थं शब्दयन् ॥ पूर्ववत् प्रत्ययस्वरौ ॥ अभितः प्रकर्षेण “एति गच्छति । यदा इतस्ततो जिह्वाभिर्लेलिहानो भुगुभुगुध्वनिं कुर्वन् ज्वलति तदैव विस्फुलिङ्गा उद्भवन्तीत्यर्थः ॥ ॥ ५ ॥
भूष॒न्न योऽधि॑ ब॒भ्रूषु॒ नम्न॑ते॒ वृषे॑व॒ पत्नी॑र॒भ्ये॑ति॒ रोरु॑वत् ।
ओ॒जा॒यमा॑नस्त॒न्व॑श्च शुम्भते भी॒मो न शृङ्गा॑ दविधाव दु॒र्गृभि॑ः ॥६
भूष॑न् । न । यः । अधि॑ । ब॒भ्रूषु॑ । नम्न॑ते । वृषा॑ऽइव । पत्नीः॑ । अ॒भि । ए॒ति॒ । रोरु॑वत् ।
ओ॒जा॒यमा॑नः । त॒न्वः॑ । च॒ । शु॒म्भ॒ते॒ । भी॒मः । न । शृङ्गा॑ । द॒वि॒धा॒व॒ । दुः॒ऽगृभिः॑ ॥६
भूषन् । न । यः। अधि । बभ्रूषु । नम्नते। वृषाऽइव । पत्नीः । अभि । एति । रोरुवत् ।
ओजायमानः । तन्वः । च । शुम्भते । भीमः । न । शृङ्गा । दविधाय । दुःऽगृभिः ॥६॥
“यः अग्निः "बभ्रूषु बभ्रुवर्णास्वोषधीषु भरणकुशलासु वा जगताम् "अधि अधिकं "नम्नते नमति काष्ठानि प्रविशति । नमतेर्लेटि अडागमः । व्यत्ययेन श्ना । यद्वा । लटि छान्दसः शपः श्लुः । व्यत्ययेन हलादिशेषाभावः।। "भूषन्न भूतान्येव स्वतेजसा भूषयन्निव। किंचायं प्रविशन् "वृषेव सेक्ता वृषभ इव "पत्नीः तमेव पालयित्रीः समर्धयित्रीः ओषधीः "रोरुवत् । रौतेर्यङ्लुगन्तात् शतरि ‘अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् ॥ अत्यर्थं शब्दयन् "अभ्येति अभितो गच्छति । प्रथमम् ओषधीः प्रविश्य पश्चात् प्रबुद्धः सन् ता एव दहतीत्यर्थः । किंचैवं कृत्वा “ओजायमानः । ओज इति बलनाम । स्वयं बलमिवाचरन् ॥ ‘कर्तुः क्यङ् सलोपश्च' इति क्यङ्सलोपौ ॥ धूमादिभिर्विना केवलं तेजोरूप एव सन् “तन्वश्च “शुम्भते स्वशरीरभूता ज्वाला अपि दीपयति पोषयतीत्यर्थः । किंच प्रवृद्धज्वालः "दुर्गृभिः केनचिदपि ग्रहीतुमशक्यः सन् “भीमो "न भयंकरो मृग इव स यथा दुर्ग्रहः सन् शृङ्गं चालयति तद्वदयमपि शृङ्गाणि' शृङ्गवदुन्नता ज्वालाः "दविधाव अत्यर्थं चालयति ।। धुनोतेर्यङ्लुगन्तात् लिटि रूपम् । अस्य च दाधर्त्यादौ इति शब्देन संग्रहो द्रष्टव्यः ॥
स सं॒स्तिरो॑ वि॒ष्टिर॒ः सं गृ॑भायति जा॒नन्ने॒व जा॑न॒तीर्नित्य॒ आ श॑ये ।
पुन॑र्वर्धन्ते॒ अपि॑ यन्ति दे॒व्य॑म॒न्यद्वर्प॑ः पि॒त्रोः कृ॑ण्वते॒ सचा॑ ॥७
सः । स॒म्ऽस्तिरः॑ । वि॒ऽस्तिरः॑ । सम् । गृ॒भा॒य॒ति॒ । जा॒नन् । ए॒व । जा॒न॒तीः । नित्यः॑ । आ । श॒ये॒ ।
पुनः॑ । व॒र्ध॒न्ते॒ । अपि॑ । य॒न्ति॒ । दे॒व्य॑म् । अ॒न्यत् । वर्पः॑ । पि॒त्रोः । कृ॒ण्व॒ते॒ । सचा॑ ॥७
सः । सम्ऽस्तिरः । विऽस्तिरः । सम् । गृभायति । जानन्। एव । जानतीः । नित्यः । आ । शये ।
पुनः । वर्धन्ते । अपि । यन्ति । देव्यम् । अन्यत् । वर्पः । पित्रोः । कृण्वते । सचा ॥ ७॥
“सः अग्निः "संस्तिरः आच्छन्नः ॥ संपूर्वात् स्तृणातेर्मूलविभुजादित्वात् कप्रत्ययः (पा. सू. ३. २. ५. २.)। ‘परादिश्छन्दसि बहुलम्' इत्युत्तरपदाद्युदात्तत्वम् ॥ तथा "विस्तिरः कदाचित् विस्तीर्णः सन् "सं "गृभायति संगृह्णात्योषधीः । किंचायं "जानन्नेव यजमानार्थं प्रवृद्धेन भवितव्यम् अतो ज्वालाभिः संयोज्यः इत्यधिगच्छन्नेव “जानतीः यजमानार्थं प्रवृद्धाभिर्भवितव्यम् इत्यवगच्छन्तीर्ज्वालाः “नित्यः अविच्छिन्नः सन् "आ “शये आशेते आश्रयतीत्यर्थः ॥ ‘लोपस्त आत्मनेपदेषु' इति तलोपः । एवंभूतज्वालाः "पुनः पूर्वं प्रवृद्धा एव पुनरपि यागयोग्या यथा भवन्ति तथा “वर्धन्ते । “देव्यं यागादिव्यवहारयोग्यं स्तुत्यं वा अग्निम् "अपि "यन्ति प्राप्नुवन्ति । यद्यप्यग्निज्वालयोरेकत्वं तथापि ‘राहोः शिरः' इतिवदौपचारिको गन्तृगन्तव्यभावः । किचैवं प्रवृद्धा ज्वाला ओषधयो वा “सचा अग्निना सह "पित्रोः जगत्पालयित्रोस्ताभ्यां संभूय द्यावापृथिव्योः "अन्यत् पूर्वमविद्यमानं तेजोमयं "वर्पः रूपं "कृण्वते कुर्वन्ति लोकद्वयं स्पृशन्तीत्यर्थः ।।
तम॒ग्रुव॑ः के॒शिनी॒ः सं हि रे॑भि॒र ऊ॒र्ध्वास्त॑स्थुर्म॒म्रुषी॒ः प्रायवे॒ पुन॑ः ।
तासां॑ ज॒रां प्र॑मु॒ञ्चन्ने॑ति॒ नान॑द॒दसुं॒ परं॑ ज॒नय॑ञ्जी॒वमस्तृ॑तम् ॥८
तम् । अ॒ग्रुवः॑ । के॒शिनीः॑ । सम् । हि । रे॒भि॒रे । ऊ॒र्ध्वाः । त॒स्थुः॒ । म॒म्रुषीः॑ । प्र । आ॒यवे॑ । पुन॒रिति॑ ।
तासा॑म् । ज॒राम् । प्र॑ऽमु॒ञ्चन् । ए॒ति॒ । नान॑दत् । असु॑म् । पर॑म् । ज॒नय॑न् । जी॒वम् । अस्तृ॑तम् ॥८
तम् । अग्रुवः । केशिनीः । सम् । हि । रेभिरे। ऊर्ध्वाः । तस्थुः । मम्रुषीः । प्र। आयवे । पुनरिति ।
तासाम् । जराम् । प्रऽमुञ्चन् । एति । नानदत् । असुम् । परम् । जनयन्। जीवम् । अस्तृतम् ॥८॥
"तम् अग्निम् "अग्रुवः अग्रतः स्थिताः । यद्वा । अङ्गुलिनामैतत् । अङ्गुलय इव अकुटिलाः । “केशिनीः केशस्थानीयोर्ध्वभाविकार्ष्ण्योपेता: ज्वालाः “सं “रेभिरे “हि परिरम्भं कुर्वन्ति खलु आलिङ्गन्ति । किंचैवं कुर्वत्यः “मम्रुषीः मृता अङ्गारभावापन्ना अपि ॥ म्रियतेः क्वसुप्रत्ययान्तात् ङीपि रूपम् ॥ “आयवे आगच्छतेऽग्नये भर्त्रे “पुनः स्वोपद्रवमजानत्यः “ऊर्ध्वाः “प्र “तस्थुः ऊर्ध्वमुखा उन्नताः प्रतस्थिरे मृतप्राया अपि प्रत्युत्थानं कृतवत्य इत्यर्थः । एवं कृतवतीषु सतीषु स भर्ताग्निः “तासां ज्वालानां “जरां वयोहानिं “प्रमुञ्चन् प्रकर्षेण मोचयन् “नानदत् जरापरिहाराय मन्त्रयन्निव अत्यर्थं शब्दयन् । न केवलं जराहानिरेव अपि तु “परं निरतिशयम् “असुं प्राणम् “अस्तृतं काष्ठोदकादिप्रक्षेपेणाप्यहिंसितं “जीवं प्राणधारणसामर्थ्यं “जनयन् उत्पादयन् एति गच्छति । तासां ज्वालाना संनिधिं प्राप्नोति । यथा लोके काश्चन रमण्यो रमणेन सह निर्भरं क्रीडित्वा पश्चात् प्रोषिते तस्मिन् विरहेण जीर्णा म्रियमाणाः पश्चात् तस्मिन्नागते सति स्वदौर्बल्यमगणयित्वा संतोषेण परिष्वङ्गाय चेष्टन्ते । स भर्ता मन्त्रोच्चारणेन जराम् अपनीय उचितप्रदानेन प्राणयन् रक्षति इत्ययं भावोऽत्रानुसंधेयः॥
अ॒धी॒वा॒सं परि॑ मा॒तू रि॒हन्नह॑ तुवि॒ग्रेभि॒ः सत्व॑भिर्याति॒ वि ज्रय॑ः ।
वयो॒ दध॑त्प॒द्वते॒ रेरि॑ह॒त्सदानु॒ श्येनी॑ सचते वर्त॒नीरह॑ ॥९
अ॒धी॒वा॒सम् । परि॑ । मा॒तुः । रि॒हन् । अह॑ । तु॒वि॒ऽग्रेभिः॑ । सत्व॑ऽभिः । या॒ति॒ । वि । ज्रयः॑ ।
वयः॑ । दध॑त् । प॒त्ऽवते॑ । रेरि॑हत् । सदा॑ । अनु॑ । श्येनी॑ । स॒च॒ते॒ । व॒र्त॒निः । अह॑ ॥९
अधीवासम् । परि। मातुः । रिहन्। अह । तुविऽग्रेभिः । सत्वऽभिः । याति । वि। ज्रयः ।
वयः । दधत् । पत्ऽवते । रेरिहत् । सद। अनु । श्येनी । सचते । वर्तनिः। अह ॥९॥
दावाग्निः स्तूयते । अयमग्निः "मातुः भूतानां निर्मातुर्भूमेः "अधीवासम् उपर्याच्छादनस्थानीयं तृणगुल्मौषध्यादिकं “परि परितः “रिहन् लिहन् । “अह इति प्रसिद्धौ । यद्वा । मातुर्भूमेरधीवासम् उपरि धार्यमाणं वस्त्रं परि परितो रिहन् संपादयन् । “तुविग्रेभिः प्रभूतं शब्दयद्भिः प्रभूतगमनैर्वा "सत्वभिः प्राणिभिः सहितः "ज्रयः ज्रयसा जवेन “वि याति विविधं गच्छति। किंच 'पद्वते पादवते द्विपदे चतुष्पदे च “वयः अन्नं तत्तदुचितं “दधत् ददत् । विवने दावानले भीत्या पलायमानान् प्राणिनो व्याघ्रादयो भक्षयन्तीति प्रसिद्धम् । किं कुर्वन् । “सदा सर्वदा तृणादिकं “रेरिहत् दहन। किंच “श्येनी श्यामवर्णः वर्तनिः मार्गो वियान्तम् “अनु अनुक्रमेण “सचते सेवते । यत्र यत्राग्निर्गच्छति तत्र तत्र मार्गोऽपि कृष्णो भवति । “अह इति प्रसिद्धौ ॥
अ॒स्माक॑मग्ने म॒घव॑त्सु दीदि॒ह्यध॒ श्वसी॑वान्वृष॒भो दमू॑नाः ।
अ॒वास्या॒ शिशु॑मतीरदीदे॒र्वर्मे॑व यु॒त्सु प॑रि॒जर्भु॑राणः ॥१०
अ॒स्माक॑म् । अ॒ग्ने॒ । म॒घव॑त्ऽसु । दी॒दि॒हि॒ । अध॑ । श्वसी॑वान् । वृ॒ष॒भः । दमू॑नाः ।
अ॒व॒ऽअस्य॑ । शिशु॑ऽमतीः । अ॒दी॒देः॒ । वर्म॑ऽइव । यु॒त्ऽसु । प॒रि॒ऽजर्भु॑राणः ॥१०
अस्माकम् । अग्ने । मघवत्ऽसु । दीदिहि । अध । श्वसीवान् । वृषभः । दमूनाः ।।
अवऽअस्य । शिशुऽमतीः । अदीदेः । वर्मऽइव । युत्ऽसु । परिऽजर्भुराणः ॥ १० ॥
हे "अग्ने अस्माकं मघवत्सु अस्मत्संबन्धिषु अन्नवत्सु यागेषु गृहेषु वा “दीदिहि दीप्यस्व । “अध अथानन्तरं “श्वसीवान् श्वसनवान् ज्वालाभिश्चेष्टवान् अस्मस्प्राणनवान् वा “वृषभः वर्षिता अभिमतानां “दमूनाः दानमना दममना दान्तमना वा सर्वत्र भवेति शेषः । स उक्तलक्षणस्त्वं “शिशुमतीः “अवास्य । शिशुशब्देन तदवस्था लक्ष्यते । शैशववतीर्ज्वाला अपक्षेप्य विहाय “अदीदेः भृशं दीप्यस्व । कीदृशस्त्वम् । "युत्सु संग्रामेषु “वर्मेव कवचमिव “परिजर्भुराणः अस्मद्द्वेष्टॄन् पुनःपुनः परिहरन् । यद्वा । युत्सु संग्रामेषु वर्मेव परिजर्भुराणो भव ॥ हस्तेर्यङ्लुगन्तात् व्यत्ययेन शानच् । ‘अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् ॥ उक्तगुणको भव मघवत्सु यज्ञेषु दीप्यस्व ॥ ॥ ६ ॥
इ॒दम॑ग्ने॒ सुधि॑तं॒ दुर्धि॑ता॒दधि॑ प्रि॒यादु॑ चि॒न्मन्म॑न॒ः प्रेयो॑ अस्तु ते ।
यत्ते॑ शु॒क्रं त॒न्वो॒३॒॑ रोच॑ते॒ शुचि॒ तेना॒स्मभ्यं॑ वनसे॒ रत्न॒मा त्वम् ॥११
इ॒दम् । अ॒ग्ने॒ । सुऽधि॑तम् । दुःऽधि॑तात् । अधि॑ । प्रि॒यात् । ऊं॒ इति॑ । चि॒त् । मन्म॑नः । प्रेयः॑ । अ॒स्तु॒ । ते॒ ।
यत् । ते॒ । शु॒क्रम् । त॒न्वः॑ । रोच॑ते । शुचि॑ । तेन॑ । अ॒स्मभ्य॑म् । व॒न॒से॒ । रत्न॑म् । आ । त्वम् ॥११
इदम् । अग्ने । सुऽधितम् । दुःऽधितात् । अधि । प्रियात् । ऊँ इति । चित् । मन्मनः । प्रेयः । अस्तु । ते ॥
यत् । ते । शुक्रम् । तन्वः । रोचते । शुचि । तेन । अस्मभ्यम् । वनसे । रत्नम् । आ । त्वम् ॥ ११ ॥
हे “अग्ने “इदम् अस्मदीयं सोमादिरूपं हविः । कीदृशं तत् । “दुर्धितात् दुष्टं स्थापितात् कठिनात् काष्ठादेः “अधि उपरि “सुधितं सुहितं सुष्ठु दत्तम् । “मन्मनः मननीयात् “प्रियादु चित् तव हृद्यादपि । उशब्दोऽवधारणे । चिच्छब्दोऽपिशब्दार्थः । “ते तव “प्रेयः अतिप्रियतमम् अस्तु[१] । तत्किमित्याह । हे अग्ने “ते तव “तन्वः शरीरस्य घृतेनोज्ज्वलिताया ज्वालायाः “शुचि निर्मलं “शुक्रं दीप्तं “यत् तेजः “रोचते “तेन सह "रत्नं रमणीयं मणिमुक्तादिकं वितरन् “अस्मभ्यं “वनसे अस्मान् संभजस्व ॥ वनतेर्व्यत्ययेनात्मनेपदम् ॥
रथा॑य॒ नाव॑मु॒त नो॑ गृ॒हाय॒ नित्या॑रित्रां प॒द्वतीं॑ रास्यग्ने ।
अ॒स्माकं॑ वी॒राँ उ॒त नो॑ म॒घोनो॒ जनाँ॑श्च॒ या पा॒रया॒च्छर्म॒ या च॑ ॥१२
रथा॑य । नाव॑म् । उ॒त । नः॒ । गृ॒हाय॑ । नित्य॑ऽअरित्राम् । प॒त्ऽवती॑म् । रा॒सि॒ । अ॒ग्ने॒ ।
अ॒स्माक॑म् । वी॒रान् । उ॒त । नः॒ । म॒घोनः॑ । जना॑न् । च॒ । या । पा॒रया॑त् । शर्म॑ । या । च॒ ॥१२
रथाय । नावम् । उत । नः । गृहाय । नित्यऽअरित्राम् । पत्ऽवतीम् । रासि । अग्ने ।
अस्माकम् । वीरान् । उत । नः । मघोनः । जनान् । च। या । पारयात् । शर्म। या । च ॥१२॥
हे “अग्ने “उत अपि च “रथाय रंहणाय "गृहाय सर्वस्यायतनभूताय “नः अस्माकं यजमानाय “नावं संसारोत्तारिकां सोमयागात्मिकां नावम् । 'यज्ञो वै सुतर्मा नौः ' ( ऐ. ब्रा. १. १३ ) इत्यादिषु श्रुतिषु नौरूपत्वेन स्तुतत्वात् । कीदृशीं ताम् । “नित्यारित्रां नियतर्त्विग्रूपोदकाकर्षणकाष्ठसाधनोपेतां “पद्वतीम् ॥ ‘ह्रस्वनुड्भ्याम्' इति मतुप उदात्तत्वम् ।। द्रव्यदेवतामन्त्रादिरूपपादोपेताम् । ईदृशीं यज्ञात्मिकां नावं “रासि देहि संपादय । रातिर्दानकर्मा ‘ दासति राति (नि. ३. २०. ४ ) इति तन्नामसु पाठात् । सैव विशेष्यते । "उत अपि च "या नौः "अस्माकं “वीरान अस्मत्संबन्धिनः पुत्रादीन् मघोनः हविर्लक्षणान्नवतः करोति । "जनांश्च यजमानानस्मानपि या नौः “पारयात् पारयेत् उत्तारयेत् ॥ पारयतेर्लेटि आडागमः ॥ जननमरणादिबहुदुःखात्मकस्य पारं निरतिशयसुखास्पदं ब्रह्मलोकं प्रापयेत् । एष वः पुण्यः सुकृतो ब्रह्मलोकः' (मु. उ. १.३.६) इति यागाद्यनुष्ठानवता श्रूयमाणत्वात्। एवं प्रापय्य “च या नौः "शर्म सुखं निरतिशयं ब्रह्म प्रापयेत् ‘परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम् ' इत्युक्तत्वात् । चित्तशुद्ध्युत्पादनद्वारा विविदिषन्ति यज्ञेन दानेन' (बृ. उ. ४. ४. २२ ) इति श्रुतेः ।।
अ॒भी नो॑ अग्न उ॒क्थमिज्जु॑गुर्या॒ द्यावा॒क्षामा॒ सिन्ध॑वश्च॒ स्वगू॑र्ताः ।
गव्यं॒ यव्यं॒ यन्तो॑ दी॒र्घाहेषं॒ वर॑मरु॒ण्यो॑ वरन्त ॥१३
अ॒भि । नः॒ । अ॒ग्ने॒ । उ॒क्थम् । इत् । जु॒गु॒र्याः॒ । द्यावा॒क्षामा॑ । सिन्ध॑वः । च॒ । स्वऽगू॑र्ताः ।
गव्य॑म् । यव्य॑म् । यन्तः॑ । दी॒र्घा । अहा॑ । इष॑म् । वर॑म् । अ॒रु॒ण्यः॑ । व॒र॒न्त॒ ॥१३
अभि । नः । अग्ने । उक्थम् । इत् । जुगुर्याः । द्यावाक्षामा । सिन्धवः । च । स्वऽगूर्ताः ।
गव्यम् । यव्यम् । यन्तः । दीर्घा । अहा । इषम् । वरम् । अरुण्यः । वरन्त ॥ १३ ॥
हे अग्ने "नः "उक्थं शस्त्रम् "अभि "जुगुर्याः आभिमुख्येन स्तुहि प्रोत्साहय सम्यक् शस्तमित्यङ्गीकुरु॥ ‘गॄ शब्दे'। लिङि ‘बहुलं छन्दसि' इति विकरणस्य श्लुः । ‘बहुलं छन्दसि' इति उत्वम् ॥ तथा “द्यावाक्षामा द्यावापृथिव्यावपि यज्ञसाधनसंपादनेन प्रोत्साहयताम् । तथा “सिन्धवः स्यन्दनशीला नद्यः च "स्वगूर्ताः स्वयमेव गामिन्यः “गव्यं गोसंभवं क्षीरादिकं गवां तृणाद्युत्पादनद्वारा "यव्यम् । उपलक्षणमेतत् । यवव्रीह्यादिजन्यं पुरोडाशादिकं "यन्तः प्रापयन्तः प्रोत्साहयन्तु । तथा "अरुण्यः अरूणवर्णगोयुक्ताः ॥ मत्वर्थीयो लुप्यते ॥ अरुण्यसाधनभूताः उषसः । तद्धेतुत्वात् ताच्छब्द्यम् । "दीर्घाहा सर्वाण्यहानि सर्वकालम् "इषम् इष्यमाणमन्नरसादिकं "वरं वरणीयं श्रेष्ठम् अन्यदपि यागसाधनं वरन्त प्रापयन्तु ।। ‘वृङ् संभक्तौ ' । अन्तर्भावितण्यर्थात् छान्दसो लङ् । व्यत्ययेन शप् ॥ साधयन्तु । एतत्सर्वमग्नेः प्रसादात् इत्यग्नेरेव स्तुतित्वात् आग्नेयत्वमविरुद्धम् ॥ ॥७॥
टिप्पणी
दीर्घतमा/दीर्घतपा उपरि पौराणिकसंदर्भाः
दीर्घतमा उपरि संक्षिप्त टिप्पणी
अभि द्विजन्मा --(१)त्रिवृद्ध्यन्नं पशवो ह्यन्नं पिता माता यज्जायते तत्तृतीयं तस्मात्त्रिवृद्भवति। माश ३,२,१,१२ ।
(२)त्रिवृता परिव्ययति । त्रिवृद्ध्यन्नं पशवो ह्यन्नं पिता माता यज्जायते तत्तृतीयं तस्मात्त्रिवृता परिव्ययति - माश. ३,७,१,२०
(२) त्रिवृद्वाऽअन्नं कृषिर्वृष्टिर्बीजम् । माश ८,६,२,२
विषुवत्कालः - वैश्वदेवाग्निमारुतशस्त्रे - वेदिषदे प्रिय धामाय सुद्युत इति जातवेदसीयम् ।कौशीतकि ब्रा. २५.९
शांश्रौ. ६.४.११
विषुवत्प्रकरणम् - वेदिषद इति जातवेदसीयम् - शांश्रौ ११.१४.३६
स च दीर्घतमा नाम बभूवर्षिरुचथ्यजः ।। १४ ।। स जातोऽभ्यतपद्देवान् अकस्मादन्धतां गतः । ददुर्देवास्तु तन्नेत्रे ततोऽनन्धो बभूव सः ।। १५ ।। स वेदिषद इत्यस्तोच् चतुर्भिर्जातवेदसम् ।बृ.दे. ४.१६
आश्व.श्रौ. ४.१३.७
मण्डल १ | ||||||
---|---|---|---|---|---|---|
|