सामग्री पर जाएँ

शतपथब्राह्मणम्/काण्डम् ३/अध्यायः २/कृष्णाजिनदीक्षा

विकिस्रोतः तः


३.२.१ अथ कृष्णाजिनदीक्षा

दक्षिणेनाहवनीयं प्राचीनग्रीवे कृष्णाजिने उपस्तृणाति । तयोरेनमधि दीक्षयति यदि द्वे भवतस्तदनयोर्लोकयो रूपं तदेनमनयोर्लोकयोरधि दीक्षयति - ३.२.१.१

सम्बद्धान्ते भवतः । सम्बद्धान्ताविव हीमौ लोकौ तर्द्मसमुते पश्चाद्भवतस्तदिमावेव लोकौ मिथुनीकृत्य तयोरेनमधि दीक्षयति - ३.२.१.२

यद्यु एक भवति । तदेषां लोकानां रूपं तदेनमेषु लोकेष्वधि दीक्षयति यानि शुक्लानि तानि दिवो रूपं यानि कृष्णानि तान्यस्यै यदि वेतरथा यान्येव कृष्णानि तानि दिवो रूपं यानि शुक्लानि तान्यस्यै यान्येव बभ्रूणीव हरीणि तान्यन्तरिक्षस्य रूपं तदेनमेषु लोकेष्वधि दीक्षयति - ३.२.१.३

अन्तकमु तर्हि पश्चात्प्रत्यस्येत् । तदिमानेव लोकान्मिथुनीकृत्य तेष्वेनमधिदीक्षयति - ३.२.१.४

अथ जघनेन कृष्णाजिने पश्चात् प्राङ्जान्वाक्न उपविशति स यत्र शुक्लानां च कृष्णानां च संधिर्भवति तदेवमनिमृश्य जपत्यृसामयोः शिल्पे स्थ इति यद्वै प्रतिरूपं तच्छिल्पमृचां च साम्नां च प्रतिरूपे स्थ इत्येवैतदाह - ३.२.१.५

ते वामारभ इति । गर्भो वा एष भवति यो दीक्षते स छन्दांसि प्रविशति तस्मान्न्यक्नाङ्गुलिरिव भवति न्यक्नाङ्गुलय इव हि गर्भाः - ३.२.१.६

स यदाह । ते वामारभ इति ते वां प्रविशामीत्येवैतदाह ते मा पातमाऽस्य यज्ञस्योदृच इति ते मा गोपायतमास्य यज्ञस्य संस्थाया इत्येवैतदाह - ३.२.१.७

अथ दक्षिणेन जानुनारोहति । शर्मासि शर्म मे यच्छेति चर्म वा एतत्कृष्णस्य तदस्य तन्मानुषं शर्म देवत्रा तस्मादाह शर्मासि शर्म मे यच्छेति नमस्ते अस्तु मा मा हिंसीरिति श्रेयांसं वा एष उपाधिरोहति यो यज्ञं यज्ञो हि कृष्णाजिनं तस्मा एवैतद्यज्ञाय निह्नुते तथो हैनमेष यज्ञो न हिनस्ति तस्मादाह नमस्ते अस्तु मा मा हिंसीरिति - ३.२.१.८

स वै जघनार्ध इवैवाग्र आसीत । अथ यदग्र एव मध्य उपविशेद्य एनं तत्रानुष्ठ्या हरेद्द्रप्स्यति वा प्र वा पतिष्यतीति तथा हैव स्यात्तस्माज्जघनार्ध इवैवाग्र आसीत - ३.२.१.९

अथ मेखलां परिहरते । अङ्गिरसो ह वै दीक्षितानबल्यमविन्दत्तेनान्यद्व्रतादशनमवाकल्पयंस्त एतामूर्जमपश्यन्त्समाप्तिं तां मध्यत आत्मन ऊर्जमदधत समाप्तिं तया समाप्नुवंस्तथो एवैष एतां मध्यत आत्मन ऊर्जं धत्ते समाप्तिं तया समाप्नोति - ३.२.१.१०

सा वै शाणी भवति । मृद्व्यसदिति न्वेव शाणी यत्र वै प्रजापतिरजायत गर्भो भूत्वैतस्माद्यज्ञात्तस्य यन्नेदिष्ठमुल्बमासीत्ते शणास्तस्मात्ते पूतयो वान्ति यद्वस्य जराय्वासीत्तद्दीक्षितवसनमन्तरं वा उल्बं जरायुणो भवति तस्मादेषान्तरा वाससो भवति स यथैवातः प्रजापतिरजायत गर्भो भूत्वैतस्माद्यज्ञादेवमेवैषोऽतो जायते गर्भो भूत्वैतस्माद्यज्ञात् - ३.२.१.११

सा वै त्रिवृद्भवति । त्रिवृद्ध्यन्नं पशवो ह्यन्नं पिता माता यज्जायते तत्तृतीयं तस्मात्त्रिवृद्भवति - ३.२.१.१२

मुञ्जवल्शेनान्वस्ता भवति । वज्रो वै शरो विरक्षस्तायै स्तुकासर्गं सृष्टा भवति सा यत्प्रसलवि सृष्टा स्याद्यथेदमन्या रज्जवो मानुषी स्याद्यद्वपसलवि सृष्टा स्यात्पितृदेवत्या स्यात्तस्मात्स्तुकासर्गं सृष्टा भवति - ३.२.१.१३

तां परिहरते । ऊर्गस्याङ्गिरसीत्यङ्गिरसो ह्येतामूर्जमपश्यन्नूर्णम्रदा ऊर्जम्मयि धेहीति नात्र तिरोहितमिवास्ति - ३.२.१.१४

अथ नीविमुद्गूहते । सोमस्य नीविरसीत्यदीक्षितस्य वा अस्यैषाग्रे नीविर्भवत्यथात्र दीक्षितस्य सोमस्य तस्मादाह सोमस्य नीविरसीति - ३.२.१.१५

अथ प्रोर्णुते । गर्भो वा एष भवति यो दीक्षते प्रावृता वै गर्भो उल्बेनेव जरायुणेव तस्माद्वै प्रोर्णुते - ३.२.१.१६

स प्रोर्णुते । विष्णोः शर्मासि शर्म यजमानस्येत्युभयं वा एषोऽत्र भवति यो दीक्षते विष्णुश्च यजमानश्च यदह दीक्षते तद्विष्णुर्भवति यद्यजते तद्यजमानस्तस्मादाह विष्णोः शर्मासि शर्म यजमानस्येति - ३.२.१.१७

अथ कृष्णविषाणां सिचि बध्नीते । देवाश्च वा असुराश्चोभये प्राजापत्याः प्रजापतेः पितुर्दायमुपेयुर्मन एव देवा उपायन्वाचमसुरा यज्ञमेव तद्देवा उपायन्वाचमसुरा अमूमेव देवा उपायन्निमामसुराः - ३.२.१.१८

ते देवा यज्ञमब्रुवन् । योषा वा इयं वागुपमन्त्रयस्व ह्वयिष्यते वै त्वेति स्वयं वा हैवैक्षत योषा वा इयं वागुपमन्त्रयै ह्वयिष्यते वै मेति तामुपामन्त्रयत सा हास्मा आरकादिवैवाग्र आसूयत्तस्मादु स्त्रीपुंसोपमन्त्रितारकादिवैवाग्रेऽसूयति स होवाचारकादिव वै म आसूयीदिति - ३.२.१.१९

ते होचुः । उपैव भगवो मन्त्रयस्व ह्वयिष्यते वै त्वेति तामुपामन्त्रयत सा हास्मै निपलाशमिवोवाद तस्मादु स्त्री पुंसोपमन्त्रिता निपलाशमिवैव वदति स होवाच निपलाशमिव वै मेऽवादीदिति - ३.२.१.२०

ते होचुः । उपैव भगवो मन्त्रयस्व ह्वयिष्यते वै त्वेति तामुपामन्त्रयत सा हैनं जुहुवे तस्मादु स्त्री पुमांसं ह्वयत एवोत्तमं स होवाचाह्वत वै मेति - ३.२.१.२१

ते देवा ईक्षांचक्रिरे । योषा वा इयं वाग्यदेनं न युवितेहैव मा तिष्ठन्तमभ्येहीति ब्रूहि तां तु न आगतां प्रतिप्रब्रूतादिति सा हैनं तदेव तिष्ठन्तमभ्येयाय तस्मादु स्त्री पुमांसं संस्कृते तिष्ठन्तमभ्यैति तां हैभ्य आगतां प्रतिप्रोवाचेयं वा आगादिति - ३.२.१.२२

तां देवाः । असुरेभ्योऽन्तरायंस्तां स्वीकृत्याग्नावेव परिगृह्य सर्वहुतमजुहवुराहुतिर्हि देवानां स यामेवामूमनुष्टुभा जुहवुस्तदेवैनां तद्देवाः स्व्यकुर्वत तेऽसुरा आत्तवचसो हेऽलवो हेऽलव इति वदन्तः पराबभूवुः - ३.२.१.२३

तत्रैतामपि वाचमूदुः । उपजिज्ञास्यां स म्लेच्छस्तस्मान्न ब्राह्मणो म्लेच्छेदसुर्या हैषा वाक्।एवमेवैष द्विषतां सपत्नानामादत्ते वाचं तेऽस्यात्तवचसः पराभवन्ति य एवमेतद्वेद - ३.२.१.२४

सोऽयं यज्ञो वाचमभिदध्यौ । मिथुन्येनया स्यामिति तां संबभूव - ३.२.१.२५

इन्द्रो ह वा ईक्षांचक्रे । महद्वा इतोऽभ्वं जनिष्यते यज्ञस्य च मिथुनाद्वाचश्च यन्मा तन्नाभिभवेदिति स इन्द्र एव गर्भो भूत्वैतन्मिथुनम्प्रविवेश - ३.२.१.२६

स ह संवत्सरे जायमान ईक्षांचक्रे । महावीर्या वा इयं योनिर्या मामदीधरत यद्वै मेतो महदेवाभ्वं नानुप्रजायेत यन्मा तन्नाभिभवेदिति - ३.२.१.२७

तां प्रतिपरामृश्यावेष्ट्याच्छिनत् । तां यज्ञस्य शीर्षन्प्रत्यदधाद्यज्ञो हि कृष्णः स यः स यज्ञस्तत्कृष्णाजिनं योषा योनिः सा कृष्णविषाणाथ यदेनामिन्द्र आवेष्ट्याच्छिनत्तस्मादावेष्टितेव स यथैवात इन्द्रोऽजायत गर्भो भूत्वैतस्मान्मिथुनादेवमेवैषोऽतो जायते गर्भो भूत्वैतस्मान्मिथुनात् - ३.२.१.२८

तां वा उत्तानामिव बध्नाति । उत्तानेव वै योनिर्गर्भं बिभर्त्यथ दक्षिणाम्भ्रुवमुपर्युपरि ललाटमुपस्पृशतीन्द्रस्य योनिरसीतीन्द्रस्य ह्येषा योनिरतो वा ह्येनां प्रविशन्प्रविशत्यतो वा जायमानो जायते तस्मादाहेन्द्रस्य योनिरसीति - ३.२.१.२९

अथोल्लिखति । सुसस्याः कृषीस्कृधीति यज्ञमेवैतज्जनयति यदा वै सुषमम्भवत्यथालं यज्ञाय भवति यदो दुःषमं भवति न तर्ह्यात्मने च नालम्भवति तद्यज्ञमेवैतज्जनयति - ३.२.१.३०

अथ न दीक्षितः । काष्ठेन वा नखेन वा कण्डूयेत गर्भो वा एष भवति यो दीक्षते यो वै गर्भस्य काष्ठेन वा नखेन वा कण्डूयेदपास्यन्म्रित्येत्ततो दीक्षितः पामनो भवितोर्दीक्षितं वा अनु रेतांसि ततो रेतांसि पामनानि जनितोः स्वा वै योनी रेतो न हिनस्त्येषा वा एतस्य स्वा योनिर्भवति यत्कृष्णविषाणा तथो हैनमेषा न हिनस्ति तस्माद्दीक्षितः कृष्णविषाणयैव कण्डूयेत नान्येन कृष्णविषाणायाः - ३.२.१.३१

यजमानेन दण्डग्रहणम्।

अथास्मै दण्डं प्रयच्छति । वज्रो वै दण्डो विरक्षस्तायै - ३.२.१.३२

औदुम्बरो भवति । अन्नं वा ऊर्गुदुम्बर ऊर्जोऽन्नाद्यस्यावरुद्ध्यै तस्मादौदुम्बरो भवति - ३.२.१.३३

मुखसम्मितो भवति । एतावद्वै वीर्यं स यावदेव वीर्यं तावांस्तद्भवति यन्मुखसम्मितः - ३.२.१.३४
 
तमुच्छ्रयति । उच्छ्रयस्व वनस्पत ऊर्ध्वो मा पाह्यंहस आस्य यज्ञस्योदृच इत्यूर्ध्वो
मा गोपायास्य यज्ञस्य संस्थाया इत्येवैतदाह - ३.२.१.३५

अत्र हैके । अङ्गुलिश्च न्यचन्ति वाचं च यच्छन्त्यतो हि किं च न जपिष्यन्भवतीति वदन्तस्तदु तथा न कुर्याद्यथा पराञ्चं धावन्तमनुलिप्सेत तं नानुलभेतैवं ह स यज्ञं नानुलभते तस्मादमुत्रैवाङ्गुलीर्न्यचेदमुत्र वाचं यच्छेत् - ३.२.१.३६

अथ यद्दीक्षितः । ऋचं वा यजुर्वा साम वाऽभिव्याहरत्यभिस्थिरमभिस्थिरमेवैतद्यज्ञमारभते तस्मादमुत्रैवाङ्गुलीर्न्यचेदमुत्र वाचं यच्छेत् - ३.२.१.३७

अथ यद्वाचं यच्छति । वाग्वै यज्ञो यज्ञमेवैतदात्मन्धत्तेऽथ यद्वाचंयमो व्याहरति तस्मादु हैष विसृष्टो यज्ञः पराङावर्तते तत्रो वैष्णवीमृचं वा यजुर्वा जपेद्यज्ञो वै विष्णुस्तद्यज्ञं पुनरारभते तस्यो हैषा प्रायश्चित्तिः - ३.२.१.३८

अथैक उद्वदति । दीक्षितोऽयं ब्राह्मणो दीक्षितोऽयं ब्राह्मण इति निवेदितमेवैनमेतत्सन्तं देवेभ्यो निवेदयत्ययं महावीर्यो यो यज्ञम्प्रापदित्ययं युष्माकैकोऽभूत्तं गोपायतेत्येवैतदाह त्रिष्कृत्व आह त्रिवृद्धि यज्ञः - ३.२.१.३९

अथ यद्ब्राह्मण इत्याह । अनद्धेव वा अस्यातः पुरा जानं भवतीदं ह्याहू रक्षांसि योषितमनुसचन्ते तदुत रक्षांस्येव रेत आदधतीत्यथात्राद्धा जायते यो ब्रह्मणो यो यज्ञाज्जायते तस्मादपि राजन्यं वा वैश्यं वा ब्राह्मण इत्येव ब्रूयाद्ब्रह्मणो हि जायते यो यज्ञाज्जायते तस्मादाहुर्न सवनकृतं हन्यादेनस्वी हैव सवनकृतेति - ३.२.१.४०