शतपथब्राह्मणम्/काण्डम् ३/अध्यायः ७/ब्राह्मण १

विकिस्रोतः तः
Jump to navigation Jump to search

यूपस्य प्रतिष्ठा

३.७.१.

अभ्रिमादत्ते । देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामाददे नार्यसीति समान एतस्य यजुषो बन्धुर्योषो वा एषा यदभ्रिस्तस्मादाह नार्यसीति- ३.७.१.[१]

अथावटं परिलिखति । इदमहं रक्षसां ग्रीवा अपिकृन्तामीति वज्रो वा अभ्रिर्वज्रेणैवैतन्नाष्ट्राणां रक्षसां ग्रीवा अपिकृन्तति -३.७.१.[२]

अथ खनति । प्राञ्चमुत्करमुत्किरत्युपरेण सम्मायावटं खनति तदग्रेण प्राञ्चं यूपं निदधात्येतावन्मात्राणि बर्हींष्युपरिष्टादधि निदधाति तदेवोपरिष्टाद्यूपशकलमधिनिदधाति पुरस्तात्पार्श्वतश्चषालमुपनिदधात्यथ यवमत्यः प्रोक्षण्यो भवन्ति सोऽसावेव बन्धुः - ३.७.१.[३]

स यवानावपति । यवोऽसि यवयास्मद्द्वेषो यवयारातीरिति नात्र तिरोहितमिवास्त्यथ
प्रोक्षत्येको वै प्रोक्षणस्य बन्धुर्मेध्यमेवैतत्करोति - ३.७.१.[४]

स प्रोक्षति । दिवे त्वान्तरिक्षाय त्वा पृथिव्यै त्वेति वज्रो वै यूप एषां लोकानामभिगुप्त्या एषां त्वा लोकानामभिगुप्त्यै प्रोक्षामीत्येवैतदाह - ३.७.१.[५]

अथ याः प्रोक्षण्यः परिशिष्यन्ते । ता अवटेऽवनयति शुन्धन्तां लोकाः पितृषदना इति पितृदेवत्यो वै कूपः खातस्तमेवैतन्मेध्यं करोति - ३.७.१.[६]

अथ बर्हींषि । प्राचीनाग्राणि चोदीचीनाग्राणि चावस्तृणाति पितृषदनमसीति पितृदेवत्यं
वा अस्यैतद्भवति यन्निखातं स यथा निखात ओषधिषु मितः स्यादेवमेतास्वोषधिषु मितो भवति - ३.७.१.[७]

अथ यूपशकलं प्रास्यति । तेजो ह वा एतद्वनस्पतीनां यद्बाह्याशकलस्तस्माद्यदा
बाह्याशकलमपतक्ष्णुवन्त्यथ शुष्यन्ति तेजो ह्येषामेतत्तद्यद्यूपशकलम्प्रास्यति सतेजसं मिनवानीति तद्यदेष एव भवति नान्य एष हि यजुष्कृतो मेध्यस्तस्माद्यूपशकलं प्रास्यति - ३.७.१.[८]

स प्रास्यति । अग्रेणीरसि स्वावेश उन्नेतॄणामिति पुरस्ताद्वा अस्मादेषोऽपच्छिद्यते
तस्मादाहाग्रेणीरसि स्वावेश उन्नेतॄणामित्येतस्य वित्तादधि त्वा स्थास्यतीत्यधि ह्येनं
तिष्ठति तस्मादाहैतस्य वित्तादधि त्वा स्थास्यतीति - ३.७.१.[९]

अथ स्रुवेणोपहत्याज्यम् । अवटमभिजुहोति नेदधस्तान्नाष्ट्रा रक्षांस्युपोत्तिष्ठानिति वज्रो वा आज्यं तद्वज्रेणैवैतन्नाष्ट्रा रक्षांस्यवबाधते तथाधस्तान्नाष्ट्रा रक्षांसि नोपोत्तिष्ठन्त्यथ पुरस्तात्परीत्योदङ्ङासीनो यूपमनक्ति स आह यूपायाज्यमानायानुब्रूहीति- ३.७.१.[१०]

सोऽनक्ति । देवस्त्वा सविता मध्वानक्त्विति सविता वै देवानां प्रसविता यजमानो वा एष निदानेन यद्यूपः सर्वं वा इदं मधु यदिदं किं च तदेनमनेन सर्वेण संस्पर्शयति तदस्मै सविता प्रसविता प्रसौति तस्मादाह देवस्त्वा सविता मध्वानक्त्विति - ३.७.१.[११]

अथ चषालमुभयतः प्रत्यज्य प्रतिमुञ्चति । सुपिप्पलाभ्यस्त्वौषधीभ्य इति पिप्पलं हैवास्यैतद्यन्मध्ये संगृहीतमिव भवति तिर्यग्वा इदं वृक्षे पिप्पलमाह तं स यदेवेदं सम्बन्धनं चान्तरोपेनितमिव तदेवैतत्करोति तस्मान्मध्ये संगृहीतमिव भवति - ३.७.१.[१२]

आन्तमग्निष्ठामनक्ति । यजमानो वा अग्निष्ठा रस आज्यं रसेनैवैतद्यजमानमनक्ति तस्मादान्तमग्निष्ठामनक्त्यथ परिव्ययणम्प्रतिसमन्तं परिमृशत्यथाहोच्छ्रीयमाणायानुब्रूहीति - ३.७.१.[१३]

स उच्छ्रयति । द्यामग्रेणास्पृक्ष आन्तरिक्षं मध्येनाप्राः पृथिवीमुपरेणादृंहीरिति वज्रो वै यूप एषां लोकानामभिजित्यै तेन वज्रेणेमांल्लोकान्त्स्पृणुत एभ्यो लोकेभ्यः सपत्नान्निर्भजति- ३.७.१.[१४]

अथ मिनोति । या ते धामान्युश्मसि गमध्यै यत्र गावो भूरिशृङ्गा अयासः अत्राह तदुरुगायस्य विष्णोः परमं पदमवभारि भूरीत्येतया त्रिष्टुभा मिनोति वज्रस्त्रिष्टुब्वज्रो यूपस्तस्मात्त्रिष्टुभा मिनोति - ३.७.१.[१५]

सम्प्रत्यग्निमग्निष्ठां मिनोति । यजमानो वा अग्निष्ठाग्निरु वै यज्ञः स यदग्नेरग्निष्ठां ह्वलयेद्ध्वलेद्ध यज्ञाद्यजमानस्तस्मात्सम्प्रत्यग्निमग्निष्ठां मिनोत्यथ पर्यूहत्यथ पर्यृषत्यथाप उपनिनयति -३.७.१.[१६]

अथैवमभिपद्य वाचयति । विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे इन्द्रस्य युज्यः सखेति वज्रं वा एष प्राहार्षीद्यो यूपमुदशिश्रियद्विष्णोर्विजितिम्पश्यतेत्येवैतदाह यदाह विष्णोः कर्माणि पश्यत यतो व्रतानि पश्पशे इन्द्रस्य युज्यः सखेतीन्द्रो वै यज्ञस्य देवता वैष्णवो यूपस्तं सेन्द्रं करोति तस्मादाहेन्द्रस्य युज्यः सखेति -३.७.१.[१७]

अथ चषालमुदीक्षते । तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः दिवीव चक्षुराततमिति वज्रं वा एष प्राहार्षीद्यो यूपमुदशिश्रियत्ता विष्णोर्विजितिम्पश्यतेत्येवैतदाह यदाह तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः दिवीव चक्षुराततमिति - ३.७.१.[१८]

अथ परिव्ययति । अनग्नतायै न्वेव परिव्ययति तस्मादत्रेव परिव्ययत्यत्रेव हीदं वासो भवत्यन्नाद्यमेवास्मिन्नेतद्दधात्यत्रेव हीदमन्नं प्रतितिष्ठति तस्मादत्रेव परिव्ययति - ३.७.१.[१९]

त्रिवृता परिव्ययति । त्रिवृद्ध्यन्नं पशवो ह्यन्नं पिता माता यज्जायते तत्तृतीयं तस्मात्त्रिवृता परिव्ययति - ३.७.१.[२०]

स परिव्ययति । परिवीरसि परि त्वा दैवीर्विशो व्ययन्तां परीमं यजमानं रायो मनुष्याणामिति तद्यजमानायाशिषमाशास्ते यदाह परीमं यजमानं रायो मनुष्याणामिति-३.७.१.[२१]

अथ यूपशकलमवगूहति । दिवः सूनुरसीति प्रजा हैवास्यैषा तस्माद्यदि यूपैकादशिनी स्यात्स्वं स्वमेवावगूहेदविपर्यासं तस्य हैषा मुग्धानुव्रता प्रजा जायतेऽथ यो विपर्यासमवगूहति न स्वंस्वं तस्य हैषा मुग्धाननुव्रता प्रजा जायते तस्मादु स्वं स्वमेवावगूहेदविपर्यासम्- ३.७.१.[२२]

स्वर्गस्यो हैष लोकस्य समारोहणः क्रियते । यद्यूपशकल इयं रशना रशनायै यूपशकलो यूपशकलाच्चषालं चषालात्स्वर्गं लोकं समश्नुते - ३.७.१.[२३]

अथ यस्मात्स्वरुर्नाम । एतस्माद्वा एषोऽपच्छिद्यते तस्यैतत्स्वमेवारुर्भवति तस्मात्स्वरुर्नाम - ३.७.१.[२४]

तस्य यन्निखातम् । तेन पितृलोकं जयत्यथ यदूर्ध्वं निखातादा रशनायै तेन मनुष्यलोकं जयत्यथ यदूर्ध्वं रशनाया आ चषालात्तेन देवलोकं जयत्यथ यदूर्ध्वं चषालाद्द्व्यङ्गुलं वा त्र्यङ्गुलं वा साध्या इति देवास्तेन तेषां लोकं जयति सलोको वै साध्यैर्देवैर्भवति य एवमेतद्वेद - ३.७.१.[२५]

तं वै पूर्वार्धे मिनोति । वज्रो वै यूपो वज्रो दण्डः पूर्वार्धं वै दण्डस्याभिपद्य प्रहरति पूर्वार्ध एष यज्ञस्य तस्मात्पूर्वार्धे मिनोति - ३.७.१.[२६]

यज्ञेन वै देवाः । इमां जितिं जिग्युर्यैषामियं जितिस्ते होचुः कथं न इदम्मनुष्यैरनभ्यारोह्यं स्यादिति ते यज्ञस्य रसं धीत्वा यथा मधु मधुकृतो निर्धयेयुर्विदुह्य यज्ञं यूपेन योपयित्वा तिरोऽभवन्नथ यदेनेनायोपयंस्तस्माद्यूपो नाम पुरस्ताद्वै प्रज्ञा पुरस्तान्मनोजवस्तस्मात्पूर्वार्धे मिनोति- ३.७.१.[२७]

स वा अष्टाश्रिर्भवति । अष्टाक्षरा वै गायत्री पूर्वार्धो वै यज्ञस्य गायत्री पूर्वार्ध एष यज्ञस्य तस्मादष्टाश्रिर्भवति - ३.७.१.[२८]

तं ह स्मैतं देवा अनुप्रहरन्ति । यथेदमप्येतर्ह्येकेऽनुप्रहरन्तीति देवा अकुर्वन्निति ततो रक्षांसि यज्ञमनूदपिबन्त - ३.७.१.[२९]

ते देवा अध्वर्युमब्रुवन् । यूपशकलमेव जुहुधि तदहैष स्वगाकृतो भविष्यति तथो रक्षांसि यज्ञं नानूत्पास्यन्तेऽयं वै वज्र उद्यत इति - ३.७.१.[३०]

सोऽध्वर्युः । यूपशकलमेवाजुहोत्तदहैष स्वगाकृत आसीत्तथो रक्षांसि यज्ञं नानूदपिबन्तायं वै वज्र उद्यत इति - ३.७.१.[३१]

तथो एवैष एतत् । यूपशकलमेव जुहोति तदहैष स्वगाकृतो भवति तथो रक्षांसि यज्ञं नानूत्पिबन्तेऽयं वै वज्र उद्यत इति स जुहोति दिवं ते धूमो गच्छतु स्वर्ज्योतिः पृथिवीं भस्मनापृण स्वाहेति।। - ३.७.१.[३२]