शतपथब्राह्मणम्/काण्डम् ३/अध्यायः ७

विकिस्रोतः तः


ब्राह्मण १ यूपस्य प्रतिष्ठा

१ अभ्यादानादि बर्हिरवस्तरणपर्यन्तं सेतिकर्तव्यताकं समन्त्रकमौदुम्बर्यवटवद्यूपावटनिर्माणविधानं तत्र यूपस्यातष्टो मूलभाग उपरस्तत्संमितं यूपावटं कुर्यादिति विशेषकथनम्, अवटस्य पूर्वदेशे प्राक्सस्थं यूपनिधानं यूपाग्रे मुष्टिपरिमिते बर्हिषां निधानं तदुपरिष्टात् यूपशकलनिधानं तत्पुरस्तात्पार्श्वतो वा चषालनिधानमिति निधाने क्रमविशेषनिरूपणं च, सार्थवादं यूपशकलस्य गर्ते स्थापनविधानं, समंत्रकं शकलप्रासनविधानं, स्रुवेणाज्यमादायावटमभि-लक्ष्य तूष्णीं होमविधानं, सार्थवादं समंत्रकं सप्रैषं यूपस्याञ्जनविधानं, चषालस्योभयतः प्रत्यञ्जनपूर्वक यूपस्योपरि समंत्रकं प्रतिमुञ्चन विधानम्, उक्तयूपफलरूपत्वस्य लौकिकवृक्षस्य दृष्टान्तेन दृढीकरणं, पुनर- ञ्जनविधानं, रशनावेष्टनप्रदेशे समन्त्रमाज्येन परिमर्शनविधानम्, उच्छ्रयण- सम्प्रैषकथनं, समंत्रकं यूपोच्छ्रयणविधानं समंत्रकं यूथस्य मानकरणं, तन्मंत्रस्या- धियज्ञपरतया व्याख्यानं मन्त्रस्य त्रिष्टुत्वं यूपमानस्योचितमिति प्रशंसनं च, माने विशेषकथनं, यूपमन्वारभ्य वाचनविधानं, वाचनमन्त्रस्य तात्पर्यव्याख्यानं, मंत्रतत्तात्पर्यसहितं चषालस्योदीक्षणकथनं, रशनापरिव्ययणं विधाय तस्य सहेतुकं प्रशंसनं, रशनायाः सोपपत्तिकं त्रैगुण्यत्वकथनं, परिव्ययणे मन्त्रकथन समंत्रकं सप्रकारं सार्थवादं यूपशकलस्य स्वरोरवगूहनविधानं, यूपशकल-रशना-चषालानां क्रमेणोर्ध्वमावित्वात्स्वर्गारोहणसोपानत्वेन प्रशंसनं, स्वरुशब्दनिर्वचनं, यूपस्य लोकत्रयजपात्मना प्रशंसनं, यूपस्य पूर्वार्द्धं भूमौ यन्मानं तस्य दण्डसाम्यतः स्तवनं, प्रकारान्तरेण पूर्वार्द्धमभिमातुं भूयो द्योतनम्, अष्टाश्रित्वनिगमनं, यूपे निगूढस्य स्वरोरुत्तरत्र प्रतिपत्तिकर्मत्वेन यूपप्रतिनिध्यात्मना होमाभिधानं, तत्र मन्त्रकथनंचेत्यादि.

ब्राह्मण २ यूपैकादशिनी

२ अग्नीषोमीययूपप्रसंगाद्यूपैकादशिनीं विधातुमुपोद्घातः, तत्र यूपैकदशिनीविधानं तस्मिन्पक्षे द्वाशोपशयविधानं, तेषां यूपानां दक्षिणदेशे भूमौ निखातं कृत्वा तूष्णीं स्थापनविधानम्, उपशयस्य रक्षोनाशकत्वेन प्रशंसनं निधानमन्त्रकथनं च, अग्निष्ठप्रमुखानां सर्वेषां यूपानां निखननादिकं सुत्यायाः पूर्वेद्युः कर्तव्य मित्येकीयपक्षमुपन्यस्य तन्निराकरणं, युक्त्या प्रातः परेद्युः पशूपाकरणकाले कर्तव्यमिति स्वपक्षस्य निगमनम्, एका-दशिनीपक्षे केन क्रमेणोच्छ्रयणमिति तत्क्रमनिरूपणं, प्रसङ्गात्पात्नीवतपशुप्रयोगकथनं तत्र पत्नीयूपस्योच्छ्रयणं तत्प्रशंसनं च, पात्नीवतपशोरितरपशुवत्सञ्ज्ञपनप्राप्तौ पर्यग्नीकरणानंतरमुत्सर्जनविधानं, संज्ञपनपक्षे दोषोद्भावनं चेति।


ब्राह्मण ३ अग्नीषोमीय पशुयागः

३ अग्नीषोमीयपशुयागः, पशुनियोजनार्थं सर्वथा यूपस्यावश्यकत्वं द्योतयितुमाख्यायिका, सार्थवादं पशूपाकरणाग्निमन्थनयोरनंतरं यूपे पशुनियोजनविधानं, केवलनियोजनपक्षमुदाहृत्य तन्निराकरणं, क्रममुक्त्वा इदानीं सार्थवादं पशोरुपाकरणविधानं, समंत्रकं तृणादानविधानं तन्मंत्रव्याख्यानं चेत्यादि.


ब्राह्मण ४ पशुनियोजन प्रकारः

४ नियोजनप्रकार-तत्र समंत्रकं सम्बन्धनकथनं, देवतानिर्देशप्रयोजनसहितं समंत्रकं पशुनियोजनं, समंत्रकं पशोः प्रोक्षणविधानं, प्रोक्षणमंत्रस्य परमप्रयोजनकथनं, प्रोक्षणशेषस्योदकस्य पानार्थं पशोर्मुखसमीपे धारणविधानं, समंत्रकं पशोरधस्तादुपोक्षणविधानं, सामिधेनी- प्रैषादिप्रयाजान्तं कर्म प्रकृतिवत्, तत्र विशेषस्तु उत्तरमाघारमाघार्यासंस्पर्शयन् स्रुचौ पुनः पर्येत्य पशोर्ललाटांस श्रोणिषु समंत्रकमुत्तराधारावशिष्टाज्येन समञ्जनविधानं तत्प्रशंसनं च, अवयवावयविभेदेन मंत्रभेदकथनं, तेषां मंत्राणां क्रमेण व्याख्यानं, सप्रयोजनं द्वितीयस्य मैत्रावरुणस्याश्रावणविधानम्, अध्वर्युकर्तृकं यजमानप्रवरणं, यजमान प्रवरणनिगदस्यार्थविवरणं, क्रमेण व्याख्यानं चेत्यादि.