सामग्री पर जाएँ

ऋग्वेदः सूक्तं १.७३

विकिस्रोतः तः
← सूक्तं १.७२ ऋग्वेदः - मण्डल १
सूक्तं १.७३
पराशरः शाक्त्यः
सूक्तं १.७४ →
दे. अग्निः। त्रिष्टुप्।


रयिर्न यः पितृवित्तो वयोधाः सुप्रणीतिश्चिकितुषो न शासुः ।
स्योनशीरतिथिर्न प्रीणानो होतेव सद्म विधतो वि तारीत् ॥१॥
देवो न यः सविता सत्यमन्मा क्रत्वा निपाति वृजनानि विश्वा ।
पुरुप्रशस्तो अमतिर्न सत्य आत्मेव शेवो दिधिषाय्यो भूत् ॥२॥
देवो न यः पृथिवीं विश्वधाया उपक्षेति हितमित्रो न राजा ।
पुरःसदः शर्मसदो न वीरा अनवद्या पतिजुष्टेव नारी ॥३॥
तं त्वा नरो दम आ नित्यमिद्धमग्ने सचन्त क्षितिषु ध्रुवासु ।
अधि द्युम्नं नि दधुर्भूर्यस्मिन्भवा विश्वायुर्धरुणो रयीणाम् ॥४॥
वि पृक्षो अग्ने मघवानो अश्युर्वि सूरयो ददतो विश्वमायुः ।
सनेम वाजं समिथेष्वर्यो भागं देवेषु श्रवसे दधानाः ॥५॥
ऋतस्य हि धेनवो वावशानाः स्मदूध्नीः पीपयन्त द्युभक्ताः ।
परावतः सुमतिं भिक्षमाणा वि सिन्धवः समया सस्रुरद्रिम् ॥६॥
त्वे अग्ने सुमतिं भिक्षमाणा दिवि श्रवो दधिरे यज्ञियासः ।
नक्ता च चक्रुरुषसा विरूपे कृष्णं च वर्णमरुणं च सं धुः ॥७॥
यान्राये मर्तान्सुषूदो अग्ने ते स्याम मघवानो वयं च ।
छायेव विश्वं भुवनं सिसक्ष्यापप्रिवान्रोदसी अन्तरिक्षम् ॥८॥
अर्वद्भिरग्ने अर्वतो नृभिर्नॄन्वीरैर्वीरान्वनुयामा त्वोताः ।
ईशानासः पितृवित्तस्य रायो वि सूरयः शतहिमा नो अश्युः ॥९॥
एता ते अग्न उचथानि वेधो जुष्टानि सन्तु मनसे हृदे च ।
शकेम रायः सुधुरो यमं तेऽधि श्रवो देवभक्तं दधानाः ॥१०॥


सायणभाष्यम्

‘ रयिर्न' इति दशर्चं नवमं सूक्तं पराशरस्यार्षं त्रैष्टुभमाग्नेयम् । अनुक्रान्तं च-’ रयिर्न ' इति । प्रातरनुवाकाश्विनशस्त्रयोरुक्तो विनियोगः ॥


र॒यिर्न यः पि॑तृवि॒त्तो व॑यो॒धाः सु॒प्रणी॑तिश्चिकि॒तुषो॒ न शासुः॑ ।

स्यो॒न॒शीरति॑थि॒र्न प्री॑णा॒नो होते॑व॒ सद्म॑ विध॒तो वि ता॑रीत् ॥१

र॒यिः । न । यः । पि॒तृ॒ऽवि॒त्तः । व॒यः॒ऽधाः । सु॒ऽप्रनी॑तिः । चि॒कि॒तुषः॑ । न । शासुः॑ ।

स्यो॒न॒ऽशीः । अति॑थिः । न । प्री॒णा॒नः । होता॑ऽइव । सद्म॑ । वि॒ध॒तः । वि । ता॒री॒त् ॥१

रयिः । न । यः । पितृऽवित्तः । वयःऽधाः । सुऽप्रनीतिः । चिकितुषः । न । शासुः ।

स्योनऽशीः । अतिथिः । न । प्रीणानः । होताऽइव । सद्म । विधतः । वि । तारीत् ॥१

“पितृवित्तः पितुः सकाशाल्लब्धः “रयिः धनमिव "यः अग्निः “वयोधाः अन्नस्य दाता । यथा पैतृकं धनं विश्रम्भेण व्यवह्रियमाणं सत् अन्नप्रदं भवति तद्वदग्निरपि सर्वेषु यज्ञेषु विश्रम्भेण व्यवहृतः सन् अन्नप्रदो भवतीत्यर्थः । “चिकितुषो “न विदुषो धर्मशास्त्राभिज्ञस्य “शासुः शासनमिव "सुप्रणीतिः सुखेन प्रणेतव्यः । यथा विद्वच्छासनं सर्वेष्वनुष्ठेयेषु तत्तत्संशयनिर्णयाय नीयते तद्वदग्निरपि सर्वेषु यज्ञेषु प्रणीयते । यश्च “स्योनशीः सुखप्रदे गार्हपत्यायतनादौ शयानः “अतिथिर्न सुखासने उपवेशितः अर्घपाद्यादिभिः सत्कृतोऽतिथिरिव “प्रीणानः हविर्भिस्तर्पणीयः सोऽग्निः “विधतः परिचरतो यजमानस्य "सद्म गृहं “वि “तारीत् प्रवर्धयति ददाति वा । तत्र दृष्टान्तः । “होतेव । होता होमकर्ताध्वर्युस्तत्तत्कर्मकरणेन फलैर्यजमानस्य गृहं यथा वर्धयति तद्वत् ॥ पितृवित्तः । ‘ विद्लृ लाभे ' । कर्मणि निष्ठा । ‘ यस्य विभाषा' इति इट्प्रतिषेधः । ‘ विभाषा गमहनविदविशाम्' इति क्वसौ अस्य धातोः इटः विकल्पितत्वात् तत्रापि विशिसाहचर्यात्तौदादिक एव विदिर्गृह्यते इत्युक्तम् (का. ७.२. ६८)। • वित्तो भोगप्रत्यययोः' (पा. सू. ८. २. ५८ ) इति निष्ठानत्वाभावो निपातितः । वयोधाः । “डुधाञ् धारणपोषणयोः '। ‘आतो मनिन् ' इति विच् । सुप्रणीतिः। प्रणीयत इति प्रणीतिः । कर्मणि क्तिन् । ‘ तादौ च° ' इति गतेः प्रकृतिस्वरत्वम् । पुनः सुशब्देन समासे कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणात् कृदुत्तरपदप्रकृतिस्वरत्वम् । चिकितुषः । लिटः क्वसुः । षष्ठ्येकवचने ‘वसोः संप्रसारणम् ' इति संप्रसारणम् । शासिवसिघसीनां च' इति षत्वम् । शासुः । ‘ शासु अनुशिष्टौ'। ' शॄस्वृस्निहि । इत्यादिना विधीयमान उप्रत्ययो बहुलवचनादस्मादपि द्रष्टव्यः । तत्र ‘ नित्' इत्यनुवृत्तेराद्युदात्तत्वम्। स्योनशीः । स्योनमिति सुखनाम । स्योने सुखकरे गार्हपत्यादिस्थाने शेते इति स्योनशीः । ‘ क्विप् च' इति क्विप् । प्रीणानः । ‘ प्रीञ् तर्पणे ' । कर्मणि शानचि व्यत्ययेन श्ना। विधतः । ‘ विध विधाने'। ‘ विधतिः परिचरणकर्मा' इति नैरुक्ताः । तुदादित्वात् शप्रत्ययः । ‘ शतुरनुमः' इति विभक्तेरुदात्तत्वम् ॥


दे॒वो न यः स॑वि॒ता स॒त्यम॑न्मा॒ क्रत्वा॑ नि॒पाति॑ वृ॒जना॑नि॒ विश्वा॑ ।

पु॒रु॒प्र॒श॒स्तो अ॒मति॒र्न स॒त्य आ॒त्मेव॒ शेवो॑ दिधि॒षाय्यो॑ भूत् ॥२

दे॒वः । न । यः । स॒वि॒ता । स॒त्यऽम॑न्मा । क्रत्वा॑ । नि॒ऽपाति॑ । वृ॒जना॑नि । विश्वा॑ ।

पु॒रु॒ऽप्र॒श॒स्तः । अ॒मतिः॑ । न । स॒त्यः । आ॒त्माऽइ॑व । शेवः॑ । दि॒धि॒षाय्यः॑ । भू॒त् ॥२

देवः । न । यः । सविता । सत्यऽमन्मा । क्रत्वा । निऽपाति । वृजनानि । विश्वा ।

पुरुऽप्रशस्तः । अमतिः । न । सत्यः । आत्माऽइव । शेवः । दिधिषाय्यः । भूत् ॥२

“देवो न "सविता द्योतमानः सर्वस्य प्रेरकः सूर्य इव “यः अग्निः "सत्यमन्मा सत्यज्ञानो यथार्थदर्शी सोग्निः “क्रत्वा आत्मीयेन कर्मणा "विश्वा “वृजनानि । विभक्तिव्यत्ययः । सर्वेभ्यः संग्रामेभ्यः “निपाति नितरां पालयति । वर्ज्यन्ते हिंस्यन्तेऽस्मिन्निति वृजनं संग्रामः । अपि च “पुरुप्रशस्तः पुरुभिर्यजमानैः स्तुतोऽग्निः “अमतिर्न । रूपनामैतत् । रूपमिव “सत्यः बाधरहितः । रूप्यत इति रूपं स्वरूपम् । यथा पृथिव्यादेः स्वरूपमागमापायिषु विशेषेषु सत्स्वपि स्वयमैकरूप्येण नित्यं भवति तद्वदग्निरप्युच्चावचेषु सर्वेषु कर्मसु स्वयमेक एवं व्याप्य वर्तते । सोऽग्निः “शेवः सुखकरः । तत्र दृष्टान्तः । “आत्मेव । परमप्रेमास्पदतया निरतिशयानन्दस्वरूपः आत्मा यथा सर्वान् सुखयति । ‘ एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति' (बृ. उ. ४. ३. ३२ ) • एष ह्येवानन्दयाति (तै.आ. ८.७) इति च श्रवणात् । तद्वदग्निरपि स्वर्गादिफलहेतुतया सुखयति । एवंभूतोऽग्निः “दिधिषाय्यो “भूत् सर्वैर्यजमानैर्धारणीयो भवति । परित्यागे हि वीरहत्यालक्षणो दोषो भवति । तथा च तैतिरीयकं– वीरहा वा एष देवानां योऽग्निमुद्वासयते' ( तै. सं. १.५. २. १ ) इति । सत्यमन्मा । मननं मन्म। ‘ मन ज्ञाने । 'अन्येभ्योऽपि दृश्यन्ते' इति मनिन् । सत्यमवितथं मन्म यस्य । बहुव्रीहिस्वरः। वृजनानि ।' वृजी वर्जने'। ‘कॄपॄवृजि°' इत्यादिना क्युप्रत्ययः । पुरूप्रशस्तः । तृतीया कर्मणि ' इति पूर्वपदप्रकृतिस्वरत्वे प्राप्ते ‘प्रवृद्धादीनां च ' ( पा. सू. ६. २. १४७ ) इत्युत्तरपदान्तोदात्तत्वम्। स ह्याकृतिगण इत्युक्तम् । अमतिः। ‘अम गत्यादिषु'। ‘अमेरतिः'। दिधिषाय्यः । दधातेः दिधिषाय्यः' (उ. सू. ३. ३७७ ) इति साय्यप्रत्ययान्तो निपात्यते ॥


दे॒वो न यः पृ॑थि॒वीं वि॒श्वधा॑या उप॒क्षेति॑ हि॒तमि॑त्रो॒ न राजा॑ ।

पु॒र॒ःसदः॑ शर्म॒सदो॒ न वी॒रा अ॑नव॒द्या पति॑जुष्टेव॒ नारी॑ ॥३

दे॒वः । न । यः । पृ॒थि॒वीम् । वि॒श्वऽधा॑याः । उ॒प॒ऽक्षेति॑ । हि॒तऽमि॑त्रः । न । राजा॑ ।

पु॒रः॒ऽसदः॑ । श॒र्म॒ऽसदः॑ । न । वी॒राः । अ॒न॒व॒द्या । पति॑जुष्टाऽइव । नारी॑ ॥३

देवः । न । यः । पृथिवीम् । विश्वऽधायाः । उपऽक्षेति । हितऽमित्रः । न । राजा ।

पुरःऽसदः । शर्मऽसदः । न । वीराः । अनवद्या । पतिजुष्टाऽइव । नारी ॥३

“देवो “न द्योतमानः सूर्य इव “यः अग्निः “विश्वधायाः सर्वस्य जगतो धर्ता । यथा सूर्यो वृष्ट्यादिप्रदानेन सर्वं जगत् धत्ते एवमग्निरपि यज्ञादिसाधनेन कृत्स्नस्य जगतो धारयिता । सोऽग्निः “पृथिवीं पृथिव्याम् "उपक्षेति सर्वेषां प्रियः सन् यज्ञगृहादौ निवसति । तत्र दृष्टान्तः । “हितमित्रो “न "राजा । हितान्यनुकूलानि मित्राणि यस्य तादृशो राजा यथा सुखेन निवसति तद्वत् । यथा सर्वजनमित्रो राजा एवमग्निरपि सर्वजनमित्र इत्यर्थः । न ह्यग्निं कश्चन द्विष्टे । यस्याग्नेः “पुरःसदः पुरस्तात् सीदन्त उपविशन्तः पुरुषाः “शर्मसदो “न “वीराः पितृगृहे वर्तमानाः पुत्राः इव वर्तन्ते । पिता पुत्रानिव अग्निः स्वस्य परिचारकान् रक्षतीति भावः । सोऽयमग्निरतिशयेन शुद्धः कर्मयोग्यो भवति । तत्र दृष्टान्तः । “अनवद्या अनिन्दिता “पतिजुष्टेव “नारी स्वपतिना सेविता स्वीकृता योषिदिव । सा यथा पातिव्रत्येन शुद्धा सती सर्वकर्मयोग्या भवति एवमग्निरपि ॥ विश्वधायाः । ‘ गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं च ' इति वचनात् कारकपूर्वादपि दधातेः “वहिहाधाञ्भ्यश्छन्दसि' इति असुन् । ‘णित्’ इत्यनुवृत्तेः ‘आतो युक् चिण्कृतोः' इति युक् । मरुद्वृधादित्वात् पूर्वपदान्तोदात्तत्वम् । उपक्षेति । ‘ क्षि निवासगत्योः '। बहुलं छन्दसि ' इति विकरणस्य लुक् । अनवद्या । बहुव्रीहौ ‘नञ्सुभ्याम् इत्युत्तरपदान्तोदात्तत्वम् । पतिजुष्टेव । तृतीया कर्मणि ' इति पूर्वपदप्रकृतिस्वरत्वम् । नारी । ‘ नृनरयोर्वृद्धिश्च ' (पा. सू. ४. १. ७३ ग. ) इति शार्ङ्गस्वादिषु पाठात् ङीनन्त आद्युदात्तः ॥


तं त्वा॒ नरो॒ दम॒ आ नित्य॑मि॒द्धमग्ने॒ सच॑न्त क्षि॒तिषु॑ ध्रु॒वासु॑ ।

अधि॑ द्यु॒म्नं नि द॑धु॒र्भूर्य॑स्मि॒न्भवा॑ वि॒श्वायु॑र्ध॒रुणो॑ रयी॒णाम् ॥४

तम् । त्वा॒ । नरः॑ । दमे॑ । आ । नित्य॑म् । इ॒द्धम् । अ॒ग्ने॒ । सच॑न्त । क्षि॒तिषु॑ । ध्रु॒वासु॑ ।

अधि॑ । द्यु॒म्नम् । नि । द॒धुः॒ । भूरि॑ । अ॒स्मि॒न् । भव॑ । वि॒श्वऽआ॑युः । ध॒रुणः॑ । र॒यी॒णाम् ॥४

तम् । त्वा । नरः । दमे । आ । नित्यम् । इद्धम् । अग्ने । सचन्त । क्षितिषु । ध्रुवासु ।

अधि । द्युम्नम् । नि । दधुः । भूरि । अस्मिन् । भव । विश्वऽआयुः । धरुणः । रयीणाम् ॥४

हे “अग्ने “तं “त्वा पूर्वोक्तगुणविशिष्टं त्वां नरः “यज्ञस्य नेतारो यजमानाः “ध्रुवासु “क्षितिषु निश्चलासु चलनरहितासु भूमिषु । निरुपद्रवेषु ग्रामेष्वित्यर्थः। “दमे स्वकीये यज्ञगृहे "नित्यम् “इद्धम् अनवरतं समिद्भिः प्रज्वलितं कृत्वा "आ "सचन्त आभिमुख्येन सेवन्ते । किंच “अस्मिन् अग्नौ “द्युम्नं हविर्लक्षणमन्नं “भूरि चरुपुरोडाशादिरूपेण बहुविधम् “अधि “नि दधुः स्थापितवन्तः । एवंगुणविशिष्टो योऽग्निः स त्वं “विश्वायुः उक्तप्रकारेण सर्वान्नो भूत्वा “रयीणां धनानां “धरुणः धारयिता “भव । अस्मभ्यं दातुं धनानि धारयेत्यर्थः ॥ सचन्त । ‘ षच समवाये । छान्दसो वर्तमाने लङ् । ‘ बहुलं छन्दस्यमाङ्योगेऽपि ' इति अडभावः । भव । ‘ द्व्यचोऽतस्तिङः' इति संहितायां दीर्घः । धरुणः । ‘ धारेर्णिलुक् च ' इति उनप्रत्ययः ॥


वि पृक्षो॑ अग्ने म॒घवा॑नो अश्यु॒र्वि सू॒रयो॒ दद॑तो॒ विश्व॒मायुः॑ ।

स॒नेम॒ वाजं॑ समि॒थेष्व॒र्यो भा॒गं दे॒वेषु॒ श्रव॑से॒ दधा॑नाः ॥५

वि । पृक्षः॑ । अ॒ग्ने॒ । म॒घऽवा॑नः । अश्युः॑ । वि । सू॒रयः॑ । दद॑तः । विश्व॑म् । आयुः॑ ।

स॒नेम॑ । वाज॑म् । स॒म्ऽइ॒थेषु॑ । अ॒र्यः । भा॒गम् । दे॒वेषु॑ । श्रव॑से । दधा॑नाः ॥५

वि । पृक्षः । अग्ने । मघऽवानः । अश्युः । वि । सूरयः । ददतः । विश्वम् । आयुः ।

सनेम । वाजम् । सम्ऽइथेषु । अर्यः । भागम् । देवेषु । श्रवसे । दधानाः ॥५

हे “अग्ने “मघवानः हविर्लक्षणेन धनेन युक्ता यजमानाः “पृक्षः अन्नानि “वि “अश्युः व्याप्नुवन्तु । त्वयानुगृहीताः सर्वाण्यन्नानि लभन्ताम् । ये च “सूरयः विद्वांसः त्वां स्तुवन्ति । “ददतः ये च तुभ्यं हवींषि ददतः प्रयच्छन्तो वर्तन्ते ते सर्वे “विश्वमायुः सर्वं जीवितं “वि अश्युः व्याप्नुवन्तु । वयं च “समिथेषु संग्रामेषु “अर्यः अरेः शत्रोः संबन्धिनं “वाजं अन्नं “सनेम त्वदनुग्रहात् संभजेमहि । तदनन्तरं “देवेषु त्वत्प्रमुखेष्विन्द्रादिषु “श्रवसे यशसे तदर्थं “भागं हविर्भागं “दधानाः स्थापयन्तो भूयास्मेति शेषः ॥ अश्युः । ‘ अशू व्याप्तौ ' । व्यत्ययेन परस्मैपदम् । ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् । ददतः । नाभ्यस्ताच्छतुः' इति नुमागमप्रतिषेधः । ‘ अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । सनेम । वन षण संभक्तौ ' । व्यत्ययेन शः । अर्यः । अरिशब्दात् षष्येततकवचने “ जसादिषु च्छन्दसि वावचनम् ' इति घेर्ङिति' इति गुणाभावे यणादेशः। अरिशब्दः ‘अच इः' इति इप्रत्ययान्तः अन्तोदात्तः। उदात्तयण:०' इति विभक्तेरुदात्तत्वम् । भागम् । ‘कर्षात्वतः' इत्यन्तोदात्तत्वम् ॥ ॥१९॥


ऋ॒तस्य॒ हि धे॒नवो॑ वावशा॒नाः स्मदू॑ध्नीः पी॒पय॑न्त॒ द्युभ॑क्ताः ।

प॒रा॒वतः॑ सुम॒तिं भिक्ष॑माणा॒ वि सिन्ध॑वः स॒मया॑ सस्रु॒रद्रि॑म् ॥६

ऋ॒तस्य॑ । हि । धे॒नवः॑ । वा॒व॒शा॒नाः । स्मत्ऽऊ॑ध्नीः । पी॒पय॑न्त । द्युऽभ॑क्ताः ।

प॒रा॒ऽवतः॑ । सु॒ऽम॒तिम् । भिक्ष॑माणाः । वि । सिन्ध॑वः । स॒मया॑ । स॒स्रुः॒ । अद्रि॑म् ॥६

ऋतस्य । हि । धेनवः । वावशानाः । स्मत्ऽऊध्नीः । पीपयन्त । द्युऽभक्ताः ।

पराऽवतः । सुऽमतिम् । भिक्षमाणाः । वि । सिन्धवः । समया । सस्रुः । अद्रिम् ॥६

“ऋतस्य “हि ऋतं देवयजनदेशं प्राप्तमग्निमेव “धेनवः अग्निहोत्रादिहविषां दोग्ध्र्यो गावः “पीपयन्त क्षीरादिलक्षणं गव्यमपाययन् । कीदृश्यो गावः । “वावशानाः अग्निं पुनःपुनः कामयमाना: “स्मदूध्नीः । स्मच्छब्दो नित्यशब्दसमानार्थः । नित्यमूधसा युक्ताः । सर्वदा पयसः प्रदात्र्य इत्यर्थः । “द्युभक्ताः दिवा प्रकाशेन संभक्ताः संश्लिष्टाः तेजस्विन्य इत्यर्थः । अपि च “सिन्धवः स्यन्दनशीला नद्यः “सुमतिम् अस्याग्नेः शोभनामनुग्रहात्मिकां बुद्धिं “भिक्षमाणाः याचमानाः सत्यः “अद्रिं “समया अद्रेः पर्वतस्य समीपे “परावतः दूरदेशात् “वि सस्रुः विशेषेण गच्छन्ति प्रवहन्ति । अग्नये दातव्यानां हविषां निष्पत्तये प्रवहन्तीत्यर्थः ॥ ऋतस्य । क्रियाग्रहणं कर्तव्यम् ' इति कर्मणः संप्रदानत्वात् चतुर्थ्यर्थे षष्ठी । वावशानाः । वश कान्तौ ' । यङन्तात् शानच् । ‘ न वशः ' ( पा. सू. ६. १. २० ) इति संप्रसारणप्रतिषेधः । ‘ बहुलं छन्दसि ' इति शपो लुक् । ‘ छन्दस्युभयथा ' इति शानच आर्धधातुकत्वात् अतोलोपयलोपौ । अत एव लसार्वधातुकानुदात्तत्वाभावे चित्स्वर एव शिष्यते । स्मदूध्नीः । स्मत् नित्यान्यूधांसि यासाम् ।' ऊधसोऽनङ्' ( पा. सू. ५. ४. १३१ ) इति अनङादेशः समासान्तः । ‘ संख्याव्ययादेर्ङीप् ' ( पा. सू. ४. १. २६ ) इति ङीप् । भसंज्ञायाम् ‘ अलोपोऽनः' इति अलोपः। ङीपः पित्त्वादनुदात्तत्वे बहुव्रीहिस्वर एव शिष्यते । पीपयन्त । ‘पा पाने ' । अस्मात् हेतुमति णिच् । “शाच्छासाह्वा ' इति युक्। ण्यन्तात् लुङि च्लेः चङादेशादि । ‘ चंङ्यन्यतरस्याम्' इति चङः पूर्वस्योदात्तत्वम् । ' हि च ' इति निघातप्रतिषेधः । परावतः परागतात् । दूरं हि परागतं भवति । अस्मिन् धात्वर्थे गम्यमाने ' उपसर्गाच्छन्दसि धात्वर्थे ' (पा. सू. ५. १. ११८) इति वतिः ॥


त्वे अ॑ग्ने सुम॒तिं भिक्ष॑माणा दि॒वि श्रवो॑ दधिरे य॒ज्ञिया॑सः ।

नक्ता॑ च च॒क्रुरु॒षसा॒ विरू॑पे कृ॒ष्णं च॒ वर्ण॑मरु॒णं च॒ सं धुः॑ ॥७

त्वे इति॑ । अ॒ग्ने॒ । सु॒ऽम॒तिम् । भिक्ष॑माणाः । दि॒वि । श्रवः॑ । द॒धि॒रे॒ । य॒ज्ञियाः॑ ।

नक्ता॑ । च॒ । च॒क्रुः । उ॒षसा॑ । विरू॑पे॒ इति॒ विऽरू॑पे । कृ॒ष्णम् । च॒ । वर्ण॑म् । अ॒रु॒णम् । च॒ । सम् । धु॒रिति॑ धुः ॥७

त्वे इति । अग्ने । सुऽमतिम् । भिक्षमाणाः । दिवि । श्रवः । दधिरे । यज्ञियाः ।

नक्ता । च । चक्रुः । उषसा । विरूपे इति विऽरूपे । कृष्णम् । च । वर्णम् । अरुणम् । च । सम् । धुरिति धुः ॥७

हे “अग्ने “सुमतिं शोभनामनुग्रहात्मिकां बुद्धिं “भिक्षमाणाः याचमानाः “यज्ञियासः यज्ञार्हाः सर्वे देवाः "दिवि द्योतमाने “त्वे त्वयि “श्रवः हविर्लक्षणमन्नं “दधिरे अस्थापयन् । अग्निर्देवानामन्नादः' (तै. ब्रा. ३.१.४.१.) इति श्रुतेः। तदनन्तरं तादृशे हविर्युक्तायानुष्ठानाय “विरूपे विविधरूपे “उषसा उषःकालोपलक्षितमहः । “नक्ता “च नक्तं रात्रिं च “चक्रुः अकुर्वन् । एतदेव स्पष्टयति । "कृष्णं “च “वर्णं रात्र्यां श्यामलवर्णमन्धकारम् अह्नि “अरुणम् आरोचनं श्वेतवर्णं तेजः “च "सं “धुः सम्यक् स्थापितवन्तः ॥ त्वे। सुपां सुलुक् ' इति सप्तम्याः शेआदेशः । नक्ता । तेनैव द्वितीयाया डादेशः । उषसा । तेनैव विभक्तेः आकारः । धुः । डुधाञ् धारणपोषणयोः' । लुङि ‘गातिस्था०' इति सिचो लुक् । आतः' इति झेः जुसादेशः । ‘ बहुलं छन्दस्यमाङ्योगेऽपि ' इति अडभावः ॥


यान्रा॒ये मर्ता॒न्सुषू॑दो अग्ने॒ ते स्या॑म म॒घवा॑नो व॒यं च॑ ।

छा॒येव॒ विश्वं॒ भुव॑नं सिसक्ष्यापप्रि॒वान्रोद॑सी अ॒न्तरि॑क्षम् ॥८

यान् । रा॒ये । मर्ता॑न् । सुसू॑दः । अ॒ग्ने॒ । ते । स्या॒म॒ । म॒घऽवा॑नः । व॒यम् । च॒ ।

छा॒याऽइ॑व । विश्व॑म् । भुव॑नम् । सि॒स॒क्षि॒ । आ॒प॒प्रि॒ऽवान् । रोद॑सी॒ इति॑ । अ॒न्तरि॑क्षम् ॥८

यान् । राये । मर्तान् । सुसूदः । अग्ने । ते । स्याम । मघऽवानः । वयम् । च ।

छायाऽइव । विश्वम् । भुवनम् । सिसक्षि । आपप्रिऽवान् । रोदसी इति । अन्तरिक्षम् ॥८

“यान् “मर्तान् मनुष्यानस्मान् “राये धनाय “सुषूदः अग्निहोत्रादिकर्मसु प्रेरयसि “ते तादृशाः “वयं “च "मघवानः धनिनः “स्याम भवेम । “रोदसी द्यावापृथिव्यौ “अन्तरिक्षं च "आपप्रिवान् स्वतेजसा वृष्ट्युदकेन व आपूरितवांस्त्वं च "विश्वं "भुवनं सर्वं जगत् "सिसक्षि सेवसे अनुगृह्य सर्वं रक्षसीत्यर्थः । तत्र दृष्टान्तः । “छायेव । यथा छत्रादेः छाया आतपादिजनितं क्लेशं निवार्य रक्षति तद्वत् ॥ राये । ऊडिदम् ' इति विभक्तेरुदात्तत्वम् । सुषूदः । 'षूद प्रेरणे'। लेटि अडागमः । ‘ बहुलं छन्दसि ' इति शपः श्लुः । ‘ अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् ।' यद्वृत्तान्नित्यम् । इति निघातप्रतिषेधः । सिसक्षि । ' षच समवाये' । बहुलं छन्दसि ' इति शपः श्लुः । ‘ इत्' इत्यनुवृत्तौ ‘ बहुलं छन्दसि ' इति अभ्यासस्य इत्वम् । आपप्रिवान् ।' प्रा पूरणे'। लिटः क्वसुः । ‘ वस्वेकाजाद्धसाम्' इति इडागमः । ‘ आतो लोप इटि च ' इति आकारलोपः । ‘ द्विर्वचनेऽचि' इति स्थानिवद्भावात् द्विर्भावादि ॥


अर्व॑द्भिरग्ने॒ अर्व॑तो॒ नृभि॒र्नॄन्वी॒रैर्वी॒रान्व॑नुयामा॒ त्वोताः॑ ।

ई॒शा॒नासः॑ पितृवि॒त्तस्य॑ रा॒यो वि सू॒रयः॑ श॒तहि॑मा नो अश्युः ॥९

अर्व॑त्ऽभिः । अ॒ग्ने॒ । अर्व॑तः । नृऽभिः॑ । नॄन् । वी॒रैः । वी॒रान् । व॒नु॒या॒म॒ । त्वाऽऊ॑ताः ।

ई॒शा॒नासः॑ । पि॒तृ॒ऽवि॒त्तस्य॑ । रा॒यः । वि । सू॒रयः॑ । श॒तऽहि॑माः । नः॒ । अ॒श्युः॒ ॥९

अर्वत्ऽभिः । अग्ने । अर्वतः । नृऽभिः । नॄन् । वीरैः । वीरान् । वनुयाम । त्वाऽऊताः ।

ईशानासः । पितृऽवित्तस्य । रायः । वि । सूरयः । शतऽहिमाः । नः । अश्युः ॥९

हे “अग्ने “त्वोताः त्वया रक्षिताः सन्तो वयम् “अर्वद्भिः अस्मदीयैरश्वैः “अर्वतः शत्रुसंबन्धिनः अश्वान् “नृभिः अस्मदीयैर्भटैः "नॄन् शत्रोर्भटान् । वीर्याज्जायन्ते इति वीराः पुत्राः । तैः "वीरान् शत्रुपुत्रांश्च “वनुयाम हन्याम । वनुष्यतिर्हन्तिकर्मानवगतसंस्कारो भवति ' ( निरु. ५. २ ) इति यास्कः । “पितृवित्तस्य पित्रादिपरंपरया लब्धस्य “रायः धनस्य “ईशानासः स्वामिनः “सूरयः विद्वांसः “नः अस्माकं पुत्राः “शतहिमाः शतं संवत्सरान् जीवन्तः सन्तः “वि “अश्युः विशेषेण भुञ्जताम् । अस्मदीयानां पुत्राणामारोग्यं दीर्घमायुश्च भवत्वित्यर्थः ॥ त्वोताः त्वयोताः ।' प्रत्ययोत्तरपदयोश्च ' इति मपर्यन्तस्य त्वादेशः । व्यत्ययेन आत्वम् । “ तृतीया कर्मणि ' इति पूर्वपदप्रकृतिस्वरत्वम् । शतहिमाः । अत्र हिमशब्देन तद्वान् हेमन्तो लक्ष्यते । ब्राह्मणं च भवति - शतं हिमा इत्याह शतं त्वा हेमन्तानिन्धिषीयेति वावैतदाह ' ( तै. सं. १, ५, ८. ५ ) इति । शतं हिमाः शतं हेमन्तर्तवो येषां ते शतसंवत्सरजीविन इत्यर्थः । अश्युः । ‘ अश भोजने '। ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् ॥


ए॒ता ते॑ अग्न उ॒चथा॑नि वेधो॒ जुष्टा॑नि सन्तु॒ मन॑से हृ॒दे च॑ ।

श॒केम॑ रा॒यः सु॒धुरो॒ यमं॒ तेऽधि॒ श्रवो॑ दे॒वभ॑क्तं॒ दधा॑नाः ॥१०

ए॒ता । ते॒ । अ॒ग्ने॒ । उ॒चथा॑नि । वे॒धः॒ । जुष्टा॑नि । स॒न्तु॒ । मन॑से । हृ॒दे । च॒ ।

श॒केम॑ । रा॒यः । सु॒ऽधुरः॑ । यम॑म् । ते॒ । अधि॑ । श्रवः॑ । दे॒वऽभ॑क्तम् । दधा॑नाः ॥१०

एता । ते । अग्ने । उचथानि । वेधः । जुष्टानि । सन्तु । मनसे । हृदे । च ।

शकेम । रायः । सुऽधुरः । यमम् । ते । अधि । श्रवः । देवऽभक्तम् । दधानाः ॥१०

हे “वेधः । मेधाविनामैतत् । मेधाविन् “अग्ने “एता “उचथानि एतानि इदानीमस्माभिः प्रयुक्तानि स्तोत्राणि "ते तव "मनसे मनोवृत्तये “हृदे तद्वृत्तिमते अन्तःकरणाय “च "जुष्टानि “सन्तु प्रियाणि भवन्तु । "ते तव संबन्धिनः “सुधुरः सुष्ठु निर्वाहकस्य । यद्वा । शोभनं धूर्वति दारिद्र्यं हिनस्तीति सुधूः । तादृशस्य “रायः धनस्य “यमं नियमनं कर्तुं “शकेम शक्ता भूयास्म । किं कुर्वन्तः । “देवभक्तं देवैः संभजनीयं “श्रवः हविर्लक्षणमन्नम् “अधि “दधानाः अग्नेरुपरि धारयन्तः । अग्नौ हविर्भिर्होमं कुर्वन्तः इत्यर्थः ॥ उचथानि । “वच परिभाषणे । रुविदिभ्यां कित्' (उ. सू. ३. ३९५) इति विधीयमानः अथप्रत्ययः कित्त्वं च बहुलवचनादस्मादपि भवति । वच्यादिना संप्रसारणम् । जुष्टानि । जुष्टार्पिते व च्छन्दसि, नित्यं मन्त्रे (पा. सू. ६. १. २०९ - २१० ) इत्याद्युदात्तत्वम् । हृदे। ‘ पद्दन्° ' इत्यादिना हृदयशब्दस्य हृदादेशः । शकेम। ‘ शक्लृ शक्तौ । ‘ लिङ्याशिष्यङ्' । सुधुरः । धुर्वी हिंसार्थः । ‘ क्विप् च ' इति क्विप् । राल्लोपः' इति वकारलोपः । ‘ न पूजनात्' इति समासान्तप्रतिषेधः । देवैर्भक्तं देवभक्तम् । ' तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम् ॥ ॥ २० ॥ ॥ १२ ॥



एकादश सौपर्णसूक्तानि (खिलसूक्तानि १.२- १.१२) ऋ.सं. १.७३ अन्ते पठितव्यानि


मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.७३&oldid=207714" इत्यस्माद् प्रतिप्राप्तम्