ऋग्वेदः सूक्तं १.८०

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं १.७९ ऋग्वेदः - मण्डल १
सूक्तं १.८०
गोतमो राहूगणः
सूक्तं १.८१ →
दे. इन्द्रः, १६ इन्द्रः, (अथर्वा, मनुः दध्यङ् च)। पंक्तिः


इत्था हि सोम इन्मदे ब्रह्मा चकार वर्धनम् ।
शविष्ठ वज्रिन्नोजसा पृथिव्या निः शशा अहिमर्चन्ननु स्वराज्यम् ॥१॥
स त्वामदद्वृषा मदः सोमः श्येनाभृतः सुतः ।
येना वृत्रं निरद्भ्यो जघन्थ वज्रिन्नोजसार्चन्ननु स्वराज्यम् ॥२॥
प्रेह्यभीहि धृष्णुहि न ते वज्रो नि यंसते ।
इन्द्र नृम्णं हि ते शवो हनो वृत्रं जया अपोऽर्चन्ननु स्वराज्यम् ॥३॥
निरिन्द्र भूम्या अधि वृत्रं जघन्थ निर्दिवः ।
सृजा मरुत्वतीरव जीवधन्या इमा अपोऽर्चन्ननु स्वराज्यम् ॥४॥
इन्द्रो वृत्रस्य दोधतः सानुं वज्रेण हीळितः ।
अभिक्रम्याव जिघ्नतेऽपः सर्माय चोदयन्नर्चन्ननु स्वराज्यम् ॥५॥
अधि सानौ नि जिघ्नते वज्रेण शतपर्वणा ।
मन्दान इन्द्रो अन्धसः सखिभ्यो गातुमिच्छत्यर्चन्ननु स्वराज्यम् ॥६॥
इन्द्र तुभ्यमिदद्रिवोऽनुत्तं वज्रिन्वीर्यम् ।
यद्ध त्यं मायिनं मृगं तमु त्वं माययावधीरर्चन्ननु स्वराज्यम् ॥७॥
वि ते वज्रासो अस्थिरन्नवतिं नाव्या अनु ।
महत्त इन्द्र वीर्यं बाह्वोस्ते बलं हितमर्चन्ननु स्वराज्यम् ॥८॥
सहस्रं साकमर्चत परि ष्टोभत विंशतिः ।
शतैनमन्वनोनवुरिन्द्राय ब्रह्मोद्यतमर्चन्ननु स्वराज्यम् ॥९॥
इन्द्रो वृत्रस्य तविषीं निरहन्सहसा सहः ।
महत्तदस्य पौंस्यं वृत्रं जघन्वाँ असृजदर्चन्ननु स्वराज्यम् ॥१०॥
इमे चित्तव मन्यवे वेपेते भियसा मही ।
यदिन्द्र वज्रिन्नोजसा वृत्रं मरुत्वाँ अवधीरर्चन्ननु स्वराज्यम् ॥११॥
न वेपसा न तन्यतेन्द्रं वृत्रो वि बीभयत् ।
अभ्येनं वज्र आयसः सहस्रभृष्टिरायतार्चन्ननु स्वराज्यम् ॥१२॥
यद्वृत्रं तव चाशनिं वज्रेण समयोधयः ।
अहिमिन्द्र जिघांसतो दिवि ते बद्बधे शवोऽर्चन्ननु स्वराज्यम् ॥१३॥
अभिष्टने ते अद्रिवो यत्स्था जगच्च रेजते ।
त्वष्टा चित्तव मन्यव इन्द्र वेविज्यते भियार्चन्ननु स्वराज्यम् ॥१४॥
नहि नु यादधीमसीन्द्रं को वीर्या परः ।
तस्मिन्नृम्णमुत क्रतुं देवा ओजांसि सं दधुरर्चन्ननु स्वराज्यम् ॥१५॥
यामथर्वा मनुष्पिता दध्यङ्धियमत्नत ।
तस्मिन्ब्रह्माणि पूर्वथेन्द्र उक्था समग्मतार्चन्ननु स्वराज्यम् ॥१६॥

सायणभाष्यम्

' इत्था ' इति षोडशर्चं सप्तमं सूक्तं गोतमस्यार्षमैन्द्रं पङ्क्तिच्छन्दस्कम् । अनुक्रान्तं च - ' इत्था षोळशैन्द्रं पाङ्क्तं हि । हिशब्दप्रयोगात् तुह्यादिपरिभाषया इदमुत्तरे च द्वे पङ्क्तिच्छन्दस्के। पृष्ठ्यषडहस्य पञ्चमेऽहनि मरुत्वतीये इदं सूक्तम्। सूत्रितं च-अवितासीत्था हीन्द्र पिब तुभ्यमिति मरुत्वतीयम्' (आश्व. श्रौ. ७. १२ ) इति । चतुर्विंशेऽहनि अच्छावाकस्याद्यस्तृचो वैकल्पिकोऽनुरूपः । ‘होत्रकाणाम् ' इति खण्डे सूत्रितम् - ' इत्था हि सोम इन्मद उभे यदिन्द्र रोदसी ' ( आश्व. श्रौ. ७. ४) इति । महाव्रते निष्केवल्यस्य दक्षिणपक्षे ' इत्था हि ' इत्येका । तथैव पञ्चमारण्यके सूत्रितम् -' इत्था हि सोम इन्मद इति पङ्क्तिः ' ( ऐ. आ. ५. २. २ ) इति ॥


इ॒त्था हि सोम॒ इन्मदे॑ ब्र॒ह्मा च॒कार॒ वर्ध॑नम् ।

शवि॑ष्ठ वज्रि॒न्नोज॑सा पृथि॒व्या निः श॑शा॒ अहि॒मर्च॒न्ननु॑ स्व॒राज्य॑म् ॥१

इ॒त्था । हि । सोमे॑ । इत् । मदे॑ । ब्र॒ह्मा । च॒कार॑ । वर्ध॑नम् ।

शवि॑ष्ठ । व॒ज्रि॒न् । ओज॑सा । पृ॒थि॒व्याः । निः । श॒शाः॒ । अहि॑म् । अर्च॑न् । अनु॑ । स्व॒ऽराज्य॑म् ॥१

इत्था । हि । सोमे । इत् । मदे । ब्रह्मा । चकार । वर्धनम् ।

शविष्ठ । वज्रिन् । ओजसा । पृथिव्याः । निः । शशाः । अहिम् । अर्चन् । अनु । स्वऽराज्यम् ॥१

हे "शविष्ठ अतिशयेन बलवन् "वज्रिन् वज्रवन्निन्द्र "इत्था "हि इत्थमेव अनेन शास्त्रोक्तप्रकारेणैव “मदे मदकरे हर्षकरे "सोमे त्वया पीते सति “ब्रह्मा ब्राह्मणः स्तोता "वर्धनं तव वृद्धिकरं स्तोत्रं “चकार अनेन सूक्तेन कृतवान् । "इत् इत्येतत् पादपूरणम् । अतस्त्वम् "ओजसा बलेन “पृथिव्याः सकाशात् "अहिम् आगत्य हन्तारं वृत्रं "निः "शशाः निःशेषेण अशाः । मा बाधस्वेति शासनं कृत्वा पृथिव्याः सकाशात् निरगमयः इत्यर्थः । किं कुर्वन् । "स्वराज्यं स्वस्य राज्यं राजत्वम् "अनु अनुलक्ष्य "अर्चन् पूजयन् स्वस्य स्वामित्वं प्रकटयन्नित्यर्थः॥ शशाः । ‘ शासु अनुशिष्टौ । लङि लुकि प्राप्ते ' बहुलं छन्दसि ' इति शपः श्लुः । स्वराज्यम् । राज्ञो भावः कर्म वा राज्यम्। ‘ पत्यन्तपुरोहितादिभ्यो यक्' इति यक्। तत्र हि ' राजासे' (पा. सू. ५. १. १२८ ग. ) इति पठ्यते । स्वस्य राज्यं स्वराज्यम् ।' अकर्मधारये राज्यम् ' (पा. सू. ६. २. १३०) इत्युत्तरपदाद्युदात्तत्वम् ॥


स त्वा॑मद॒द्वृषा॒ मद॒ः सोमः॑ श्ये॒नाभृ॑तः सु॒तः ।

येना॑ वृ॒त्रं निर॒द्भ्यो ज॒घन्थ॑ वज्रि॒न्नोज॒सार्च॒न्ननु॑ स्व॒राज्य॑म् ॥२

सः । त्वा॒ । अ॒म॒द॒त् । वृषा॑ । मदः॑ । सोमः॑ । श्ये॒नऽआ॑भृतः । सु॒तः ।

येन॑ । वृ॒त्रम् । निः । अ॒त्ऽभ्यः । ज॒घन्थ॑ । व॒ज्रि॒न् । ओज॑सा । अर्च॑न् । अनु॑ । स्व॒ऽराज्य॑म् ॥२

सः । त्वा । अमदत् । वृषा । मदः । सोमः । श्येनऽआभृतः । सुतः ।

येन । वृत्रम् । निः । अत्ऽभ्यः । जघन्थ । वज्रिन् । ओजसा । अर्चन् । अनु । स्वऽराज्यम् ॥२

हे इन्द्र "त्वा त्वां "सः "सोमः “अमदत् अमदयत् हर्षं प्रापयत्। कीदृशः सोमः । "वृषा सेचनस्वभावः “मदः मदकरो हर्षकारी “श्येनाभृतः श्येनरूपमापन्नया पक्ष्याकारया गायत्र्या दिवः सकाशादाहृतः "सुतः अभिषुतः । हे “वज्रिन् वज्रवन्निन्द्र “येन पीतेन सोमेन “ओजसा बलकरेण “अद्भ्यः अन्तरिक्षसकाशात् "वृत्रं "निः "जघन्थ हतवानसि । अन्यत् पूर्ववत् ॥ अमदत्। मदी हर्षे'। अस्मात् णिचि • मदी हर्षग्लपनयोः' इति घटादिषु पाठात् मित्त्वे सति ‘मितां ह्रस्वः' इति ह्रस्वत्वम् । लङि ‘ छन्दस्युभयथा ' इति शप आर्धधातुकत्वात् ' णेरनिटि ' इति णिलोपः। अद्भ्यः । आप इत्यन्तरिक्षनाम । अप भि ' ( पा. सू. ७. ४. ४८ ) इति पकारस्य तत्वम् । जघन्थ । क्रादिनियमप्राप्तस्य इटः ‘ उपदेशेऽत्वतः' इति प्रतिषेधः । ‘ अभ्यासाच्च' इति हकारस्य घत्वम् । ‘ लिति' इति प्रत्ययात्पूर्वस्योदात्तत्वम् । यद्वृत्तयोगादनिघातः ॥


प्रेह्य॒भी॑हि धृष्णु॒हि न ते॒ वज्रो॒ नि यं॑सते ।

इन्द्र॑ नृ॒म्णं हि ते॒ शवो॒ हनो॑ वृ॒त्रं जया॑ अ॒पोऽर्च॒न्ननु॑ स्व॒राज्य॑म् ॥३

प्र । इ॒हि॒ । अ॒भि । इ॒हि॒ । धृ॒ष्णु॒हि । न । ते॒ । वज्रः॑ । नि । यं॒स॒ते॒ ।

इन्द्र॑ । नृ॒म्णम् । हि । ते॒ । शवः॑ । हनः॑ । वृ॒त्रम् । जयाः॑ । अ॒पः । अर्च॑न् । अनु॑ । स्व॒ऽराज्य॑म् ॥३

प्र । इहि । अभि । इहि । धृष्णुहि । न । ते । वज्रः । नि । यंसते ।

इन्द्र । नृम्णम् । हि । ते । शवः । हनः । वृत्रम् । जयाः । अपः । अर्चन् । अनु । स्वऽराज्यम् ॥३

हे 'इन्द्र "प्रेहि प्रकर्षेण गच्छ। "अभीहि । हन्तव्यान् शत्रूनाभिमुख्येन प्राप्नुहि । प्राप्य च “धृष्णुहि । तान् शत्रूनभिभव । "ते तव "वज्रः "न "नि "यंसते शत्रुभिर्न नियम्यते अप्रतिहतगतिरित्यर्थः । तथा “ते “शवः त्वदीयं बलं "नृम्णं नृणां पुरुषाणां नामकमभिभावकं "हि यस्मादेवं तस्मात् "वृत्रम् असुरं मेघं वा "हनः जहि । ततोऽनन्तरं तेन निरुद्धाः "अपः उदकानि "जयाः जय । वृत्रं हत्वा तेनावृतमुदकं लभस्वेत्यर्थः । अन्यत् समानम् ॥ यंसते । यमेः कर्मणि लेटि ‘ सिब्बहुलम्” इति सिप् । ‘लेटोऽडाटौ' इति अडागमः। हनः । लोडर्थे छान्दसो लङ । बहुलं छन्दसि ' इति शपो लुगभावः । शपः पित्त्वादनुदात्तत्वे धातुस्वरः शिष्यते । पूर्वपदस्यासमानवाक्यस्थत्वात् निघाताभावः । जयाः । जयतेर्लेटि आडागमः । पूर्ववत्स्वरः ।।


निरि॑न्द्र॒ भूम्या॒ अधि॑ वृ॒त्रं ज॑घन्थ॒ निर्दि॒वः ।

सृ॒जा म॒रुत्व॑ती॒रव॑ जी॒वध॑न्या इ॒मा अ॒पोऽर्च॒न्ननु॑ स्व॒राज्य॑म् ॥४

निः । इ॒न्द्र॒ । भूम्याः॑ । अधि॑ । वृ॒त्रम् । ज॒घ॒न्थ॒ । निः । दि॒वः ।

सृ॒ज । म॒रुत्व॑तीः । अव॑ । जी॒वऽध॑न्याः । इ॒माः । अ॒पः । अर्च॑न् । अनु॑ । स्व॒ऽराज्य॑म् ॥४

निः । इन्द्र । भूम्याः । अधि । वृत्रम् । जघन्थ । निः । दिवः ।

सृज । मरुत्वतीः । अव । जीवऽधन्याः । इमाः । अपः । अर्चन् । अनु । स्वऽराज्यम् ॥४

हे "इन्द्र "भूम्याः "अधि भूलोकस्योपरि "वृत्रं "निः "जघन्थ निःशेषेण हतवानसि । तथा “दिवः द्युलोकात् "निः जघन्थ । हत्वा च "इमाः “अपः वृष्ट्युदकानि "अव "सृज अधः पातय । कीदृशीरपः । "मरुत्वतीः मरुद्भिः संयुक्ताः "जीवधन्याः जीवाः प्राणिनो धन्यास्तृप्ता याभिस्ताः । अन्यत् समानम् ॥


इन्द्रो॑ वृ॒त्रस्य॒ दोध॑त॒ः सानुं॒ वज्रे॑ण हीळि॒तः ।

अ॒भि॒क्रम्याव॑ जिघ्नते॒ऽपः सर्मा॑य चो॒दय॒न्नर्च॒न्ननु॑ स्व॒राज्य॑म् ॥५

इन्द्रः॑ । वृ॒त्रस्य॑ । दोध॑तः । सानु॑म् । वज्रे॑ण । ही॒ळि॒तः ।

अ॒भि॒ऽक्रम्य॑ । अव॑ । जि॒घ्न॒ते॒ । अ॒पः । सर्मा॑य । चो॒दय॑न् । अर्च॑न् । अनु॑ । स्व॒ऽराज्य॑म् ॥५

इन्द्रः । वृत्रस्य । दोधतः । सानुम् । वज्रेण । हीळितः ।

अभिऽक्रम्य । अव । जिघ्नते । अपः । सर्माय । चोदयन् । अर्चन् । अनु । स्वऽराज्यम् ॥५

“हीळितः क्रुद्धः "इन्द्रः "अभिक्रम्य आभिमुख्येन गत्वा "दोधतः भृशं कम्पमानस्य “वृत्रस्य “सानुं समुच्छ्रितं हनुप्रदेशं "वज्रेण “अव "जिघ्नते प्रहरति । किं कुर्वन् । "अपः वृष्ट्युदकानि "सर्माय सरणाय निर्गमनाय “चोदयन् प्रेरयन् ॥ दोधतः । ‘धूञ् कम्पने'। अस्मात् यङ्लुगन्तात् शतरि अन्त्यलोपश्छान्दसः ।' अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । हीळितः । ‘हेडृ होडृ अनादरे '। ‘ हेळते' ( निं. २. १२. २ ) इत्येतत् क्रुध्यतिकर्मसु पठितम् । अस्मान्निष्ठायां वर्णव्यापत्त्या ईकारः । जिघ्नते । हन्तेर्लटि व्यत्ययेन आत्मनेपदं बहुवचनं च । ‘ बहुलं छन्दसि ' इति शपः श्लुः । ‘ इत्' इत्यनुवृत्तौ ‘ बहुलं छन्दसि ' इति अभ्यासस्य इत्वम् । ‘गमहन' इत्यादिना उपधालोपः । समाय । ‘ सृ गतौ । “ अर्तिस्तुसु ' इत्यादिना भावे मन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् ॥ ॥ २९ ॥


अधि॒ सानौ॒ नि जि॑घ्नते॒ वज्रे॑ण श॒तप॑र्वणा ।

म॒न्दा॒न इन्द्रो॒ अन्ध॑स॒ः सखि॑भ्यो गा॒तुमि॑च्छ॒त्यर्च॒न्ननु॑ स्व॒राज्य॑म् ॥६

अधि॑ । सानौ॑ । नि । जि॒घ्न॒ते॒ । वज्रे॑ण । श॒तऽप॑र्वणा ।

म॒न्दा॒नः । इन्द्रः॑ । अन्ध॑सः । सखि॑ऽभ्यः । गा॒तुम् । इ॒च्छ॒ति॒ । अर्च॑न् । अनु॑ । स्व॒ऽराज्य॑म् ॥६

अधि । सानौ । नि । जिघ्नते । वज्रेण । शतऽपर्वणा ।

मन्दानः । इन्द्रः । अन्धसः । सखिऽभ्यः । गातुम् । इच्छति । अर्चन् । अनु । स्वऽराज्यम् ॥६

इन्द्रः "शतपर्वणा शतसंख्याकधाराभिर्युक्तेन "वज्रेण "सानौ “अधि "नि "जिघ्नते । अधिः सप्तम्यर्थानुवादी । समुच्छ्रिते वृत्रस्य कपोलादौ स्थाने नितरां हिनस्ति । स च "इन्द्रः "मन्दानः मन्दमानः स्तूयमानः सन् 'सखिभ्यः समानख्यानेभ्यः स्तोतृभ्यः "अन्धसः अन्नस्य "गातुं मार्गमुपायम् "इच्छति । अन्यत् पूर्ववत् ॥ मन्दानः । मदि स्तुतौ ' । कर्मणि शानचि यक्। छन्दस्युभयथा' इति शानच आर्धधातुकत्वात् अतोलोपयलोपौ । अनुदात्तेतः परत्वात् शानचो लसार्वधातुकानुदात्तत्वे सति यक एवोदात्तत्वम् । अनुदात्ते शानचि तस्य यको लोपे सति उदात्तनिवृत्तिस्वरेण शानच उदात्तत्वं प्राप्नोति । एवं तर्हि शानच आर्धधातुकत्वादेव लसार्वधातुकानुदात्तत्वाभावे चित्स्वर एवावशिष्यते ॥


इन्द्र॒ तुभ्य॒मिद॑द्रि॒वोऽनु॑त्तं वज्रिन्वी॒र्य॑म् ।

यद्ध॒ त्यं मा॒यिनं॑ मृ॒गं तमु॒ त्वं मा॒यया॑वधी॒रर्च॒न्ननु॑ स्व॒राज्य॑म् ॥७

इन्द्र॑ । तुभ्य॑म् । इत् । अ॒द्रि॒ऽवः॒ । अनु॑त्तम् । व॒ज्रि॒न् । वी॒र्य॑म् ।

यत् । ह॒ । त्यम् । मा॒यिन॑म् । मृ॒गम् । तम् । ऊं॒ इति॑ । त्वम् । मा॒यया॑ । अ॒व॒धीः॒ । अर्च॑न् । अनु॑ । स्व॒ऽराज्य॑म् ॥७

इन्द्र । तुभ्यम् । इत् । अद्रिऽवः । अनुत्तम् । वज्रिन् । वीर्यम् ।

यत् । ह । त्यम् । मायिनम् । मृगम् । तम् । ऊं इति । त्वम् । मायया । अवधीः । अर्चन् । अनु । स्वऽराज्यम् ॥७

अद्रिरिति मेघनाम । हे "अद्रिवः वाहनरूपमेघयुक्त "वज्रिन् वज्रवन् "इन्द्र "तुभ्यमित् षष्ठ्यर्थे चतुर्थी । तवैव "वीर्यं सामर्थ्यम् "अनुत्तं शत्रुभिरतिरस्कृतम् । "यद्ध यस्मात् खलु "मायिनं मायाविनं “त्यं तं प्रसिद्धं वञ्चयितारम् । लोकोपद्रवकारिणमित्यर्थः । 'मृगं मृगरूपमापन्नं "तं वृत्रं “त्वम् अपि "मायया एव "अवधीः हतवानसि ॥ अनुत्तम् । 'नसत्तनिषत्त° ' इति निपातनात् निष्ठानत्वाभावः । अवधीः । हन्तेः ‘लुङि च ' इति वधादेशः । स चोदन्तः । तस्य अतो लोपे सति स्थानिवद्भावात् सिचि वृद्ध्यभावः ॥


वि ते॒ वज्रा॑सो अस्थिरन्नव॒तिं ना॒व्या॒३॒॑ अनु॑ ।

म॒हत्त॑ इन्द्र वी॒र्यं॑ बा॒ह्वोस्ते॒ बलं॑ हि॒तमर्च॒न्ननु॑ स्व॒राज्य॑म् ॥८

वि । ते॒ । वज्रा॑सः । अ॒स्थि॒र॒न् । न॒व॒तिम् । ना॒व्याः॑ । अनु॑ ।

म॒हत् । ते॒ । इ॒न्द्र॒ । वी॒र्य॑म् । बा॒ह्वोः । ते॒ । बल॑म् । हि॒तम् । अर्च॑न् । अनु॑ । स्व॒ऽराज्य॑म् ॥८

वि । ते । वज्रासः । अस्थिरन् । नवतिम् । नाव्याः । अनु ।

महत् । ते । इन्द्र । वीर्यम् । बाह्वोः । ते । बलम् । हितम् । अर्चन् । अनु । स्वऽराज्यम् ॥८

हे इन्द्र "ते तव "वज्रासः वज्राः त्वत्सकाशान्निर्गतान्यायुधानि "नाव्याः नावा तार्याः "नवतिं नवतिसंख्याका वृत्रेण निरुद्धा नदीः "अनु उपलक्ष्य "वि "अस्थिरन विविधम् अस्थिषत। सर्वत्र व्याप्य वर्तमानं वृत्रं हन्तुं तव वज्र एकोऽप्यनेक इवासीदित्यर्थः । किं च "इन्द्र "ते तव "वीर्यं "महत् प्रभूतम् । अन्यैरजेयमित्यर्थः । तथा “ते "बाह्वोः त्वदीययोर्हस्तयोः “बलं "हितं निहितम् । त्वदीयौ बाहू अप्यतिशयेन बलिनावित्यर्थः । अन्यत् पूर्ववत् ॥ अस्थिरन् । तिष्ठतेर्लुङि • समवप्रविभ्यः स्थः' इत्यात्मनेपदम् । मन्त्रे घस' ' इति च्लेर्लुक् । स्थाघ्वोरिच्च' (पा. सू. १. २. १७ ) इति इत्वम् । व्यत्ययेन झस्य रनादेशः। नाव्याः । ‘ नौवयोधर्म' (पा. सू. ४. ४. ९१ ) इत्यादिना यत् । ‘ यतोऽनावः' इति पर्युदासात् ‘तित्स्वरितम्' इति स्वरितत्वम् । बाह्वोः । उदात्तयणः' इति विभक्त्युदात्तत्वम् ॥


स॒हस्रं॑ सा॒कम॑र्चत॒ परि॑ ष्टोभत विंश॒तिः ।

श॒तैन॒मन्व॑नोनवु॒रिन्द्रा॑य॒ ब्रह्मोद्य॑त॒मर्च॒न्ननु॑ स्व॒राज्य॑म् ॥९

स॒हस्र॑म् । सा॒कम् । अ॒र्च॒त॒ । परि॑ । स्तो॒भ॒त॒ । विं॒श॒तिः ।

श॒ता । ए॒न॒म् । अनु॑ । अ॒नो॒न॒वुः॒ । इन्द्रा॑य । ब्रह्म॑ । उत्ऽय॑तम् । अर्च॑न् । अनु॑ । स्व॒ऽराज्य॑म् ॥९

सहस्रम् । साकम् । अर्चत । परि । स्तोभत । विंशतिः ।

शता । एनम् । अनु । अनोनवुः । इन्द्राय । ब्रह्म । उत्ऽयतम् । अर्चन् । अनु । स्वऽराज्यम् ॥९

"सहस्रं सहस्रसंख्याका मनुष्याः "साकमर्चत एनमिन्द्रं युगपदेवापूजयन् । तथा “विंशतिः । षोडशर्त्विजो यजमानः पत्नी च सदस्यः शमिता चेति विंशतिसंख्याकाः। तेषां या विंशतिसंख्या सा “परि “ष्टोभत परितः सर्वतोऽस्तौत् । तथा च “शता शतसंख्याका ऋषयः “एनम् इन्द्रम् "अन्वनोनवुः पुनः पुनरस्तुवन् । अस्मा एव "इन्द्राय “ब्रह्म हविर्लक्षणमन्नम् "उद्यतं दातुमूर्ध्वं धृतम् । अत एवंविध इन्द्रो वृत्रमहन्नित्यर्थः । अन्यत् पूर्ववत् ॥ परि ष्टोभत । स्तोभतिः स्तुतिकर्मा । ' उपसर्गात्सुनोति° ' इति पत्वम् । अनोनवुः ।,' णु स्तुतौ । अस्मात् यङ्लुगन्तात् लुङि • सिजभ्यस्तविदिभ्यश्च ' इति झेः उसादेशः । उद्यतम् । ‘ यम उपरमे ' । उत्पूर्वादस्मात् कर्मणि निष्ठा । ‘ अनुदात्तोपदेश' इत्यादिना अनुनासिकलोपः । ‘ गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् ॥


इन्द्रो॑ वृ॒त्रस्य॒ तवि॑षीं॒ निर॑ह॒न्सह॑सा॒ सहः॑ ।

म॒हत्तद॑स्य॒ पौंस्यं॑ वृ॒त्रं ज॑घ॒न्वाँ अ॑सृज॒दर्च॒न्ननु॑ स्व॒राज्य॑म् ॥१०

इन्द्रः॑ । वृ॒त्रस्य॑ । तवि॑षीम् । निः । अ॒ह॒न् । सह॑सा । सहः॑ ।

म॒हत् । तत् । अ॒स्य॒ । पौंस्य॑म् । वृ॒त्रम् । ज॒घ॒न्वान् । अ॒सृ॒ज॒त् । अर्च॑न् । अनु॑ । स्व॒ऽराज्य॑म् ॥१०

इन्द्रः । वृत्रस्य । तविषीम् । निः । अहन् । सहसा । सहः ।

महत् । तत् । अस्य । पौंस्यम् । वृत्रम् । जघन्वान् । असृजत् । अर्चन् । अनु । स्वऽराज्यम् ॥१०

"इन्द्रो "वृत्रस्य असुरस्य “तविषीं बलं स्वकीयेन बलेन "निरहन् हतवान् । "सहसा सहनेन अभिभवसाधनेनायुधेन "सहः अभिभवसाधनं वृत्रायुधं निरहन् । "अस्य इन्द्रस्य “तत् "पौंस्यं बलं "महत अतिप्रौढम्। यस्मादयं "वृत्रं "जघन्वान् हतवान् हत्वा च तन्निरुद्धा अप: "असृजत् तस्मात् वृत्रान्निरगमयत् । अन्यत् पूर्ववत् ॥ पौंस्यम् । 'पुंस अभिवर्धने' । चुरादिः । ‘ अचो यत्' इति यत् । यतोऽनावः । इत्याद्युदात्तत्वम् । जघन्वान् । हन्तेर्लिटः क्वसुः । ‘ विभाषा गमहनविद° ' इति इटः विकल्पादभावः । ‘ अभ्यासाच्च' इति अभ्यासादुत्तरस्य हन्तेर्हकारस्य धत्वम् ॥ ॥ ३० ॥


इ॒मे चि॒त्तव॑ म॒न्यवे॒ वेपे॑ते भि॒यसा॑ म॒ही ।

यदि॑न्द्र वज्रि॒न्नोज॑सा वृ॒त्रं म॒रुत्वाँ॒ अव॑धी॒रर्च॒न्ननु॑ स्व॒राज्य॑म् ॥११

इ॒मे । चि॒त् । तव॑ । म॒न्यवे॑ । वेपे॑ते॒ इति॑ । भि॒यसा॑ । म॒ही इति॑ ।

यत् । इ॒न्द्र॒ । व॒ज्रि॒न् । ओज॑सा । वृ॒त्रम् । म॒रुत्वा॑न् । अव॑धीः । अर्च॑न् । अनु॑ । स्व॒ऽराज्य॑म् ॥११

इमे । चित् । तव । मन्यवे । वेपेते इति । भियसा । मही इति ।

यत् । इन्द्र । वज्रिन् । ओजसा । वृत्रम् । मरुत्वान् । अवधीः । अर्चन् । अनु । स्वऽराज्यम् ॥११

"मही महत्यौ “इमे द्यावापृथिव्यावपि हे इन्द्र “तव "मन्यवे त्वदीयकोपात् "भियसा भीत्या "वेपेते कम्पेते । हे "वज्रिन् वज्रवन् "इन्द्र “मरुत्वान् मरुद्भिर्युक्तस्त्वम् “ओजसा बलेन "यत् यदा “वृत्रं "अवधीः तदानीं द्यावापृथिव्यावपि भयेनाकम्पिषातामित्यर्थः ॥ वेपेते । टुवेपृ कम्पने ' । भियसा । ञिभी भये । औणादिकः कसिप्रत्ययः ।।


न वेप॑सा॒ न त॑न्य॒तेन्द्रं॑ वृ॒त्रो वि बी॑भयत् ।

अ॒भ्ये॑नं॒ वज्र॑ आय॒सः स॒हस्र॑भृष्टिराय॒तार्च॒न्ननु॑ स्व॒राज्य॑म् ॥१२

न । वेप॑सा । न । त॒न्य॒ता । इन्द्र॑म् । वृ॒त्रः । वि । बी॒भ॒य॒त् ।

अ॒भि । ए॒न॒म् । वज्रः॑ । आ॒य॒सः । स॒हस्र॑ऽभृष्टिः । आ॒य॒त॒ । अर्च॑न् । अनु॑ । स्व॒ऽराज्य॑म् ॥१२

न । वेपसा । न । तन्यता । इन्द्रम् । वृत्रः । वि । बीभयत् ।

अभि । एनम् । वज्रः । आयसः । सहस्रऽभृष्टिः । आयत । अर्चन् । अनु । स्वऽराज्यम् ॥१२

"वृत्रः "इन्द्रं "वेपसा स्वकीयेन वेपनेन कम्पनेन “न “वि “बीभयत् भीतं नाकरोत् । तथा “तन्यता स्वकीयेन घोरेण गर्जनशब्देन "न वि बीभयत् । अपि च इन्द्रेण विसृष्टः “आयसः अयोमयः “सहस्रभृष्टिः अनेकाभिर्धाराभिर्युक्तः "वज्रः “एनं वृत्रम् "अभि “आयत हन्तुमाभिमुख्येनागच्छत् । अन्यत् पूर्ववत् ॥ तन्यता । स्तन शब्दे '। ‘ ऋतन्यञ्जि°' इत्यादिना तनोतेर्विधीयमानो यतुच् बहुलवचनादस्मादपि भवति । अत एव सलोपश्च ।' सुपां सुलुक् ' इति तृतीयाया डादेशः । उदात्तनिवृत्तिस्वरेण तस्योदात्तत्वम् । बीभयत् ।' ञिभी भये । हेतुमति णिच् । अत्र वेपस्तन्यतुभ्यां भयं न हेतोर्वृत्रादिति हेतुभयाभावात् ' बिभेतेर्हेतुभये ' ( पा. सू. ६. १. ५६ ) इति आत्वाभावः। ण्यन्तात् लुङि च्लेश्चङादि । आयत । अय पय गतौ ' । भौवादिरात्मनेपदी ॥


यद्वृ॒त्रं तव॑ चा॒शनिं॒ वज्रे॑ण स॒मयो॑धयः ।

अहि॑मिन्द्र॒ जिघां॑सतो दि॒वि ते॑ बद्बधे॒ शवोऽर्च॒न्ननु॑ स्व॒राज्य॑म् ॥१३

यत् । वृ॒त्रम् । तव॑ । च॒ । अ॒शनि॑म् । वज्रे॑ण । स॒म्ऽअयो॑धयः ।

अहि॑म् । इ॒न्द्र॒ । जिघां॑सतः । दि॒वि । ते॒ । ब॒द्ब॒धे॒ । शवः॑ । अर्च॑न् । अनु॑ । स्व॒ऽराज्य॑म् ॥१३

यत् । वृत्रम् । तव । च । अशनिम् । वज्रेण । सम्ऽअयोधयः ।

अहिम् । इन्द्र । जिघांसतः । दिवि । ते । बद्बधे । शवः । अर्चन् । अनु । स्वऽराज्यम् ॥१३

हे "इन्द्र यत् यदा वृत्रं तव हननार्थं तेन सृष्टाम् "अशनिं च त्वं वज्रण समयोधयः सम्यक् प्रहार्षीः तदानीम् अहिम् आगत्य हन्तारं वृत्रं जिघांसतः हन्तुमिच्छतः “ते तव “शवः बलं “दिवि “बद्वधे बद्धमनुस्यूतं व्याप्तमासीत् । शिष्टं पूर्ववत् । जिघांसतः । हन्तेरिच्छाथै सनि ‘अज्झनगमां सनि ' ( पा. सू. ६. ४. १६ ) इति उपधादीर्घत्वम् । बद्धधे । ‘ बध बन्धने'। कर्मणि लिटि व्यत्ययेन हलादिशेषाभावः ।।


अ॒भि॒ष्ट॒ने ते॑ अद्रिवो॒ यत्स्था जग॑च्च रेजते ।

त्वष्टा॑ चि॒त्तव॑ म॒न्यव॒ इन्द्र॑ वेवि॒ज्यते॑ भि॒यार्च॒न्ननु॑ स्व॒राज्य॑म् ॥१४

अ॒भि॒ऽस्त॒ने । ते॒ । अ॒द्रि॒ऽवः॒ । यत् । स्थाः । जग॑त् । च॒ । रे॒ज॒ते॒ ।

त्वष्टा॑ । चि॒त् । तव॑ । म॒न्यवे॑ । इन्द्र॑ । वे॒वि॒ज्यते॑ । भि॒या । अर्च॑न् । अनु॑ । स्व॒ऽराज्य॑म् ॥१४

अभिऽस्तने । ते । अद्रिऽवः । यत् । स्थाः । जगत् । च । रेजते ।

त्वष्टा । चित् । तव । मन्यवे । इन्द्र । वेविज्यते । भिया । अर्चन् । अनु । स्वऽराज्यम् ॥१४

हे "अद्रिवः वज्रवन् “इन्द्र “ते तव "अभिष्टने सिंहनादे सति "स्थाः स्थावरं "जगत् जङ्गम “च "यत् अस्ति तदुभयं "रेजते कम्पते । “त्वष्टा "चित् वज्रनिर्माता त्वष्टा च "तव "मन्यवे त्वदीयाय कोपाय "भिया भीत्या “वेविज्यते भृशं कम्पते । अन्यत् समानम् ।। स्थाः । तिष्ठतेः । क्विप च । इति क्विप् । वेविज्यते । ‘ ओविजी भयचलनयोः । अस्मात् क्रियासमभिहारे यङ् । सन्यङोः । इति द्विर्भावः । अदुपदेशात् लसार्वधातुकानुदात्तत्वे यङ एव स्वरः शिष्यते । इन्द्रस्यस्य पादादौ वर्तमानस्य आमन्त्रितं पूर्वमविद्यमानवत् ' इति अविद्यमानवत्वेदौ सति अस्य पादादित्वात् ‘ °अपादादौ ' इति पर्युदासात् निघाताभावः ।।


न॒हि नु याद॑धी॒मसीन्द्रं॒ को वी॒र्या॑ प॒रः ।

तस्मि॑न्नृ॒म्णमु॒त क्रतुं॑ दे॒वा ओजां॑सि॒ सं द॑धु॒रर्च॒न्ननु॑ स्व॒राज्य॑म् ॥१५

न॒हि । नु । यात् । अ॒धि॒ऽइ॒मसि॑ । इन्द्र॑म् । कः । वी॒र्या॑ । प॒रः ।

तस्मि॑न् । नृ॒म्णम् । उ॒त । क्रतु॑म् । दे॒वाः । ओजां॑सि । सम् । द॒धुः॒ । अर्च॑न् । अनु॑ । स्व॒ऽराज्य॑म् ॥१५

नहि । नु । यात् । अधिऽइमसि । इन्द्रम् । कः । वीर्या । परः ।

तस्मिन् । नृम्णम् । उत । क्रतुम् । देवाः । ओजांसि । सम् । दधुः । अर्चन् । अनु । स्वऽराज्यम् ॥१५

“यात् यान्तं सर्वत्र व्याप्य वर्तमानमिन्द्रं "नहि "नु “अधीमसि वयं न ह्यवगच्छामः। यतो वयमल्पाः । परः इत्येतत्सकारान्तमव्ययं वैदूर्यमाचष्टे । परो दिवा पर एना ' ( ऋ. सं. १०. ८२. ५ ) इति यथा । “परः परस्तादतिदूरे मनुष्यैरनवगाह्ये स्थाने "वीर्या वीर्येण सामर्थ्येन वर्तमानम् “इन्द्रं "कः मनुष्यो जानीयात् । न कोऽपीत्यर्थः । कस्मादिति चेत् अत्राह तस्मिन् इति । यस्मात् “तस्मिन् इन्द्रे “देवाः "नृम्णं धनं “उत अपि च "क्रतुं वीर्यकर्म "ओजांसि बलानि च "सं "दधुः स्थापयांचक्रुः तस्मादित्यर्थः।। यात् । । ' या प्रापणे ' । अस्मात् लटः शतृ । ‘सुपां सुलुक् ' इति द्वितीयाया लुक् । अधीमसि । ‘इण् गतौ ' । इदन्तो मसिः । वीर्या । ‘सुपां सुलुक्' इति तृतीयाया आकारः ।।


यामथ॑र्वा॒ मनु॑ष्पि॒ता द॒ध्यङ्धिय॒मत्न॑त ।

तस्मि॒न्ब्रह्मा॑णि पू॒र्वथेन्द्र॑ उ॒क्था सम॑ग्म॒तार्च॒न्ननु॑ स्व॒राज्य॑म् ॥१६

याम् । अथ॑र्वा । मनुः॑ । पि॒ता । द॒ध्यङ् । धिय॑म् । अत्न॑त ।

तस्मि॑न् । ब्रह्मा॑णि । पू॒र्वऽथा॑ । इन्द्रे॑ । उ॒क्था । सम् । अ॒ग्म॒त॒ । अर्च॑न् । अनु॑ । स्व॒ऽराज्य॑म् ॥१६

याम् । अथर्वा । मनुः । पिता । दध्यङ् । धियम् । अत्नत ।

तस्मिन् । ब्रह्माणि । पूर्वऽथा । इन्द्रे । उक्था । सम् । अग्मत । अर्चन् । अनु । स्वऽराज्यम् ॥१६

"अथर्वा एतत्संज्ञक ऋषिः "पिता सर्वासां प्रजानां पितृभूतः "मनुः च "दध्यङ् अथर्वणः पुत्र एतत्संज्ञक ऋषिश्च “यां “धियम् "अत्नत यत्कर्मातन्वत अकुर्वन् "तस्मिन् कर्मणि यानि “ब्रह्माणि हविर्लक्षणान्यन्नानि "उक्था शस्त्ररूपाणि स्तोत्राणि च यानि सन्ति तानि सर्वाणि तस्मिन् "इन्द्रे "समग्मत समगच्छन्त । तत्र दृष्टान्तः । "पूर्वथा पूर्वेषामन्येषां वसिष्ठादीनां यज्ञेषु यथा हवींषि स्तोत्राणि चेन्द्रेण संगच्छन्ते तद्वत् । य इन्द्रः "स्वराज्यं स्वस्य राजत्वम् "अनु "अर्चन् अनुपूजयन् । वृत्रवधादिरूपेण कर्मणा स्वकीयमधिपतित्वं प्रकटयन्नित्यर्थः । अत्नत । ‘ तनु विस्तारे' । 'बहुलं छन्दसि' इति विकरणस्य लुक् । 'तनिपत्योश्छन्दसि' इति उपधालोपः । पूर्वथा । ‘ प्रत्नपूर्वविश्वेमात्थाल् छन्दसि ' (पा. सू. ५. ३. १११) इति इवार्थे पूर्वशब्दात् थाल्प्रत्ययः । लित्स्वरेण प्रत्ययात्पूर्वस्योदातत्वम् । उक्था । ‘शेश्छन्दसि बहुलम्' इति शेर्लोपः । समग्मत ।' समो गम्यृच्छिभ्याम्' इति आत्मनेपदम् । लुङि • मन्त्रे घस ! इति च्लेर्लुक् । ‘गमहन' इत्यादिना उपधाया लोपः ॥ ॥३१॥


वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् । पुमर्थाश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥


इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक्संहिताभाष्ये प्रथमाष्टके पञ्चमोऽध्यायः समाप्तः ॥


मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.८०&oldid=196736" इत्यस्माद् पुनः प्राप्तिः