ऋग्वेदः सूक्तं १.२१

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं १.२० ऋग्वेदः - मण्डल १
सूक्तं १.२१
मेधातिथिः काण्वः
सूक्तं १.२२ →
दे. इन्द्राग्नी। गायत्री।


इहेन्द्राग्नी उप ह्वये तयोरित्स्तोममुश्मसि ।
ता सोमं सोमपातमा ॥१॥
ता यज्ञेषु प्र शंसतेन्द्राग्नी शुम्भता नरः ।
ता गायत्रेषु गायत ॥२॥
ता मित्रस्य प्रशस्तय इन्द्राग्नी ता हवामहे ।
सोमपा सोमपीतये ॥३॥
उग्रा सन्ता हवामह उपेदं सवनं सुतम् ।
इन्द्राग्नी एह गच्छताम् ॥४॥
ता महान्ता सदस्पती इन्द्राग्नी रक्ष उब्जतम् ।
अप्रजाः सन्त्वत्रिणः ॥५॥
तेन सत्येन जागृतमधि प्रचेतुने पदे ।
इन्द्राग्नी शर्म यच्छतम् ॥६॥


सायणभाष्यम्

‘इहेन्द्राग्नी' इत्यादिकं षडृचं चतुर्थं सूक्तम्। तस्य ऋषिच्छन्दसी पूर्ववत् । देवता त्वनुक्रम्यते - इह षळैन्द्राग्नम् ' इति । विनियोगस्तु - अग्निष्टोने अच्छावाकशस्त्रे ‘ इहेन्द्राग्नी उप ह्वये ' इति सूक्तम् । ‘ स्तोत्रमग्रे शस्त्रात्' इति खण्डे ' इहेन्द्राग्नी उपेयं वामस्य मन्मन इति नव' ( आश्व. श्रौ. ५. १०) इति सूत्रितत्वात् । तथा अभिप्लवषडहे प्रातःसवने अच्छावाकशस्त्रे स्तोमातिशंसनार्थमेतदेव सूक्तम् । तथा च सूत्रितम् ‘अभिप्लवपृष्ठ्याहानि ' इत्युपक्रम्य- इहेन्द्राग्नी इन्द्राग्नी आ गतम् ' ( आश्व. श्रौ. ७. ५) इति ॥


इ॒हेन्द्रा॒ग्नी उप॑ ह्वये॒ तयो॒रित्स्तोम॑मुश्मसि ।

ता सोमं॑ सोम॒पात॑मा ॥१

इ॒ह । इ॒न्द्रा॒ग्नी इति॑ । उप॑ । ह्व॒ये॒ । तयोः॑ । इत् । स्तोम॑म् । उ॒श्म॒सि॒ ।

ता । सोम॑म् । सो॒म॒ऽपात॑मा ॥१

इह । इन्द्राग्नी इति । उप । ह्वये । तयोः । इत् । स्तोमम् । उश्मसि ।

ता । सोमम् । सोमऽपातमा ॥१

“इह अस्मिन्कर्मणि "इन्द्राग्नी देवौ "उप "ह्वये आह्वयामि “तयोरित् इन्द्राग्न्योरेव "स्तोमं स्तोत्रं “उश्मसि कामयामहे । "सोमपातमा अतिशयेन सोमं पातुं क्षमौ तौ द्वौ देवौ "सोमं पिबताम् इति शेषः ॥ इन्द्राग्नी । अत्र देवताद्वन्द्वेऽपि पूर्वपदस्य आनङ् न भवति । तत्र हि द्वन्द्वे इत्यनुवृत्तौ पुनर्द्वन्द्वग्रहणात् लोकप्रसिद्धसाहचर्याणामेव द्वन्द्वे आनङ् इत्युक्तम् (का. ६. ३. २६ )। तस्मात् अत्र अवग्रहे ह्रस्व इन्द्रशब्दः । ‘ समासस्य ' इत्यन्तोदात्तत्वम् । ‘देवताद्वन्द्वे च ' ( पा. सू. ६. २. १४१ ) इति उभयपदप्रकृतिस्वरत्वं तु न भवति । अग्निशब्दस्यानुदात्तादित्वेन ‘नोत्तरपदेऽनुदात्तादौ ' ( पा. सू. ६. २. १४२ ) इति प्रतिषेधात् । उश्मसि ।' वश कान्तौ । लटो मस् । ‘इदन्तो मसि' (पा. सू. ७. १. ४६ ) इति इकारोपजनः । अदादित्वात् शपो लुक् । मसेर्ङित्त्वात् ' ग्रहिज्या° ' इत्यादिना संप्रसारणम् । ता सोमपातमा । उभयत्र ‘सुपां सुलक्°' इति आकारः ॥


ता य॒ज्ञेषु॒ प्र शं॑सतेन्द्रा॒ग्नी शु॑म्भता नरः ।

ता गा॑य॒त्रेषु॑ गायत ॥२

ता । य॒ज्ञेषु॑ । प्र । शं॒स॒त॒ । इ॒न्द्रा॒ग्नी इति॑ । शु॒म्भ॒त॒ । न॒रः॒ ।

ता । गा॒य॒त्रेषु॑ । गा॒य॒त॒ ॥२

ता । यज्ञेषु । प्र । शंसत । इन्द्राग्नी इति । शुम्भत । नरः ।

ता । गायत्रेषु । गायत ॥२

हे "नरः मनुष्याः ऋत्विजः “ता पूर्वोक्तौ तौ "इन्द्राग्नी "यज्ञेषु अनुष्ठीयमानकर्मसु "प्र "शंसत शस्त्रैः। तथा “शुम्भत नानाविधैरलंकारैः शोभितौ कुरुत । तथा “ता पूर्वोक्तौ ताविन्द्राग्नी "गायत्रेषु गायत्रीच्छन्दस्केषु मन्त्रेषु सामरूपेण "गायत ॥ ता । ‘ सुपां सुलुक्° ' इति आकारः । शुम्भत । अस्य संहितायाम् अन्येषामपि दृश्यते ' ( पा. सू. ६. ३. १३७ ) इति दीर्घः ॥


ता मि॒त्रस्य॒ प्रश॑स्तय इन्द्रा॒ग्नी ता ह॑वामहे ।

सो॒म॒पा सोम॑पीतये ॥३

ता । मि॒त्रस्य॑ । प्रऽश॑स्तये । इ॒न्द्रा॒ग्नी इति॑ । ता । ह॒वा॒म॒हे॒ ।

सो॒म॒ऽपा । सोम॑ऽपीतये ॥३

ता । मित्रस्य । प्रऽशस्तये । इन्द्राग्नी इति । ता । हवामहे ।

सोमऽपा । सोमऽपीतये ॥३

"मित्रस्य स्नेहविषयस्य मम अनुष्ठातुः "प्रशस्तये "ता पूर्वोक्तौ देवौ संपद्येताम् इति शेषः । यद्वा । मित्रस्य मम संबन्धिनौ ताविन्द्राग्नी प्रशस्तये प्रशंसितुमिच्छामः इति शेषः । "सोमपा सोमपानक्षमौ “ता पूर्वोक्तौ "इन्द्राग्नी "सोमपीतये सोमपानार्थं "हवामहे आह्वयामः ॥ प्रशस्तये । 'तुमर्थाच्या भाववचनात् ' (पा. सू. २. ३. १५) इति चतुर्थी । कृदुत्तरपदप्रकृतिस्वरत्वं बाधित्वा • तादौ च निति कृत्यतौ ' (पा. सू. ६. २. ५० ) इति गतेः प्रकृतिस्वरत्वम् । सोमपीतये । सोमस्य पीतिर्यस्मिन्कर्मणि तस्मै । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । सोमस्य पीतिः इति तत्पुरुषे वा दासीभारादित्वात् पूर्वपदप्रकृतिस्वरत्वम् ॥


उ॒ग्रा सन्ता॑ हवामह॒ उपे॒दं सव॑नं सु॒तम् ।

इ॒न्द्रा॒ग्नी एह ग॑च्छताम् ॥४

उ॒ग्रा । सन्ता॑ । ह॒वा॒म॒हे॒ । उप॑ । इ॒दम् । सव॑नम् । सु॒तम् ।

इ॒न्द्रा॒ग्नी इति॑ । आ । इ॒ह । ग॒च्छ॒ता॒म् ॥४

उग्रा । सन्ता । हवामहे । उप । इदम् । सवनम् । सुतम् ।

इन्द्राग्नी इति । आ । इह । गच्छताम् ॥४

“सुतम् अभिषवोपेतम् "इदम् अनुष्ठीयमानं "सवनं प्रातःसवनादिरूपं कर्म "उप सामीप्येन प्राप्तुम् "उग्रा "सन्ता वैरिवधादिषु क्रूरौ सन्तौ देवौ "हवामहे आह्वयामः । "इन्द्राग्नी देवौ “इह कर्मणि "आ "गच्छताम् ॥ सन्ता। अस्तेः शतरि ‘ श्नसोरल्लोपः '। सवनं सुतम् इति द्वयं • सेमं नः स्तोममा गहि ' (ऋ. सं. १. १६, ५) इत्यत्रोक्तम् ॥


ता म॒हान्ता॒ सद॒स्पती॒ इन्द्रा॑ग्नी॒ रक्ष॑ उब्जतम् ।

अप्र॑जाः सन्त्व॒त्रिण॑ः ॥५

ता । म॒हान्ता॑ । सद॒स्पती॒ इति॑ । इन्द्रा॑ग्नी॒ इति॑ । रक्षः॑ । उ॒ब्ज॒त॒म् ।

अप्र॑जाः । स॒न्तु॒ । अ॒त्रिणः॑ ॥५

ता । महान्ता । सदस्पती इति । इन्द्राग्नी इति । रक्षः । उब्जतम् ।

अप्रजाः । सन्तु । अत्रिणः ॥५

तौ पूर्वोक्तौ "इन्द्राग्नी "रक्षः राक्षसजातिम् “उब्जतम् ऋजु कुरुतं क्रौर्यं परित्याजयतमित्यर्थः । कीदृशौ । "महान्ता महान्तौ गुणैरधिकौ "सदस्पती सभापालकौ । तयोः प्रसादात् "अत्रिणः भक्षकाः राक्षसाः "अप्रजाः अनुत्पन्नाः "सन्तु ॥ महान्ता । ‘ सान्तमहतः संयोगस्य' ( पा. सू. ६. ४. १०) इति दीर्घः । सदस्पती । सदसः पती इति समासे षष्ठ्या लुकि प्रातिपदिकसकारस्य रुत्वाभावश्छान्दसः। उभे वनस्पत्यादिषु युगपत् ' ( पा. सू. ६. २. १४० ) इति उभयपदप्रकृतिस्वरत्वम् । इन्द्राग्नी । आमन्त्रिताद्युदात्तत्वम् । अप्रजाः । प्रजायन्ते इति प्रजाः । अन्येष्वपि दृश्यते ' (पा. सू. ३. २. १०१ ) इति जनेः डप्रत्ययः । न प्रजाः अप्रजाः। प्रजाशब्दस्य बहुव्रीहौ हि नित्यमसिच् प्रजामेधयोः' ( पा. सू. ५. ४. १२२ ) इति असिजादेशः स्यात् । अव्ययपूर्वपदप्रकृतिस्वरः । अत्रिणः । तृजन्तस्य अत्तृशब्दस्य जसश्छान्दसः इनुडागमः।' चितः' इति ऋकार उदात्तः । तस्य यणादेशे ‘उदात्तयणो हल्पूर्वात् ' (पा. सू. ६. १. १७४ ) इति इकार उदात्तः ॥


तेन॑ स॒त्येन॑ जागृत॒मधि॑ प्रचे॒तुने॑ प॒दे ।

इन्द्रा॑ग्नी॒ शर्म॑ यच्छतम् ॥६

तेन॑ । स॒त्येन॑ । जा॒गृ॒त॒म् । अधि॑ । प्र॒ऽचे॒तुने॑ । प॒दे ।

इन्द्रा॑ग्नी॒ इति॑ । शर्म॑ । य॒च्छ॒त॒म् ॥६

तेन । सत्येन । जागृतम् । अधि । प्रऽचेतुने । पदे ।

इन्द्राग्नी इति । शर्म । यच्छतम् ॥६

हे “इन्द्राग्नी "सत्येन अवश्यफलप्रदानादवितथेन "तेन अस्माभिरनुष्ठितेन कर्मणा 'प्रचेतुने प्रकर्षेण फलभोगज्ञापके “पदे स्वर्गलोकादिस्थाने "अधि “जागृतं आधिक्येन सावधानौ भवतम् । ततः अस्मभ्यं "शर्म "यच्छतं सुखं गृहं वा दत्तम् । ‘गयः कृदरः' इत्यादिषु द्वाविंशतिसंख्याकेषु गृहनामसु ‘ शर्म वर्म' (नि. ३. ४. २१) इत्युक्तम् ॥ जागृतम् । ‘ जागृ निद्राक्षये'। ‘अदिप्रभृतिभ्यः शपः इति शपो लुक्। ‘ तिङ्ङतिङः' इति निघातः । प्रचेतुने । ‘ चिती संज्ञाने 'इत्यस्मात् ण्यन्तात् बाहुलकादौणादिक उनप्रत्ययः । समासे कृदुत्तरपदप्रकृतिस्वरत्वम् । इन्द्राग्नी । ‘ इहेन्द्राग्नी ' इत्यत्रोक्तम् । आमन्त्रितत्वदाद्युदात्तत्वमत्र विशेषः । शृणाति हिनस्ति दुःखमिति शर्म। ‘शॄ हिंसायाम् ' । ‘ अन्येभ्योऽपि दृश्यन्ते' इति मनिन् । यच्छतम् । इषुगमियमां छः ' ( पा. सू. ७. ३. ७७ ) इति छः ॥ ॥ ३ ॥

[सम्पाद्यताम्]

१.२१.५

न मृत्युरासीदित्येताम् आचिख्यासां प्रचक्षते । अभिशापोऽप्रजाः सन्तु भद्रमाशीस्तु गोतमे ।।बृहद्देवता १.५८ ।।

मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.२१&oldid=204396" इत्यस्माद् पुनः प्राप्तिः