ऋग्वेदः सूक्तं १.२०
← सूक्तं १.१९ | ऋग्वेदः - मण्डल १ सूक्तं १.२० मेधातिथिः काण्वः |
सूक्तं १.२१ → |
दे. इन्द्राग्नी। गायत्री |
अयं देवाय जन्मने स्तोमो विप्रेभिरासया ।
अकारि रत्नधातमः ॥१॥
य इन्द्राय वचोयुजा ततक्षुर्मनसा हरी ।
शमीभिर्यज्ञमाशत ॥२॥
तक्षन्नासत्याभ्यां परिज्मानं सुखं रथम् ।
तक्षन्धेनुं सबर्दुघाम् ॥३॥
युवाना पितरा पुनः सत्यमन्त्रा ऋजूयवः ।
ऋभवो विष्ट्यक्रत ॥४॥
सं वो मदासो अग्मतेन्द्रेण च मरुत्वता ।
आदित्येभिश्च राजभिः ॥५॥
उत त्यं चमसं नवं त्वष्टुर्देवस्य निष्कृतम् ।
अकर्त चतुरः पुनः ॥६॥
ते नो रत्नानि धत्तन त्रिरा साप्तानि सुन्वते ।
एकमेकं सुशस्तिभिः ॥७॥
अधारयन्त वह्नयोऽभजन्त सुकृत्यया ।
भागं देवेषु यज्ञियम् ॥८॥
सायणभाष्यम्
।। श्रीगणेशाय नमः ।।
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ।।
अथ प्रथमाष्टके द्वितीयोऽध्याय आरभ्यते । तत्र ' अयं देवाय ' इत्यष्टर्चं सूक्तम् । तस्य ऋषि- च्छन्दसी पूर्ववत् । ऋभुदेवताकत्वमनुक्रम्यते' अयमष्टावार्भवम् ' इति । विनियोगस्तु सूक्तस्य लैङ्गिकः स्मार्तो वा द्रष्टव्यः । व्यूढस्य प्रथमे छन्दोमे वैश्वदेवशस्त्रे ' अयं देवाय जन्मने ' इति आर्भवस्तृचः । ' अथ च्छन्दोमाः ' इति खण्डे सूत्रितम्-' अभित्वा देव सवितः प्रेतां यज्ञस्य शंभुवायं देवाय जन्मन इति तृचाः ' ( आश्व. श्रौ. ८. ९) इति ।।
अ॒यं दे॒वाय॒ जन्म॑ने॒ स्तोमो॒ विप्रे॑भिरास॒या ।
अका॑रि रत्न॒धात॑मः ॥१
अ॒यम् । दे॒वाय॑ । जन्म॑ने । स्तोमः॑ । विप्रे॑भिः । आ॒स॒या ।
अका॑रि । र॒त्न॒ऽधात॑मः ॥१
अयम् । देवाय । जन्मने । स्तोमः । विप्रेभिः । आसया ।
अकारि । रत्नऽधातमः ॥१
ऋभवो हि मनुष्याः सन्तस्तपसा देवत्वं प्राप्ताः । ते चात्र सूक्ते देवताः । तत्संघो जायमानवाचिना जन्मशब्देन एकवचनान्तेन अत्र निर्दिश्यते । “जन्मने जायमानाय ऋभुसंघरूपाय “देवाय तत्प्रीत्यर्थम् “अयं “स्तोमः स्तोत्रविशेषः “विप्रेभिः मेधाविभिः ऋत्विग्भिः “आसया स्वकीयेनास्येन “अकारि निष्पादितः । कीदृशः स्तोमः । “रत्नधातमः अतिशयेन रमणीयमणिमुक्तादिधनप्रदः । स्तोत्रेण तुष्टा ऋभवो धनं प्रयच्छन्तीत्यर्थः ॥ आसया। आस्यशब्दात् तृतीयैकवचनस्य • सुपां सुलुक् । इत्यादिना याजादेशः । व्यत्ययेन प्रकृतियकारस्य लोपः । ‘ चितः 'इत्यन्तोदात्तः । रत्नधातमः । रत्नानि दधातीति रत्नधाः । कृदुत्तरपदप्रकृतिस्वरत्वम् ॥
य इन्द्रा॑य वचो॒युजा॑ तत॒क्षुर्मन॑सा॒ हरी॑ ।
शमी॑भिर्य॒ज्ञमा॑शत ॥२
ये । इन्द्रा॑य । व॒चः॒ऽयुजा॑ । त॒त॒क्षुः । मन॑सा । हरी॒ इति॑ ।
शमी॑भिः । य॒ज्ञम् । आ॒श॒त॒ ॥२
ये । इन्द्राय । वचःऽयुजा । ततक्षुः । मनसा । हरी इति ।
शमीभिः । यज्ञम् । आशत ॥२
“ये ऋभवः “इन्द्राय इन्द्रप्रीत्यर्थं “वचोयुजा ताडनादिकं विना वाङ्मात्रेण रथे युज्यमानौ सुशिक्षितौ "हरी एतन्नामकावश्वौ “मनसा “ततक्षुः संपादितवन्तः । ऋभूणां सत्यसंकल्पत्वात् तत्संकल्पमात्रेण इन्द्रस्याश्वौ संपन्नावित्यर्थः । ते ऋभवः “शमीभिः ग्रहचमसादिनिष्पादनरूपैः कर्मभिः “यज्ञम् अस्मदीयम् "आशत व्याप्तवन्तः । अपः अप्नः' इत्यादिषु षड्विंशतिसंख्याकेषु कर्मनामसु • शमी शिमी (नि. २. १. २३ ) इति पठितम् । वचोयुजा । वचसा युञ्जाते । सत्सूद्विष° ' इत्यादिना क्विप् । ‘ सुपां सुलुक्' इत्यादिना विभक्तेः आकारः। कृदुत्तरपदप्रकृतिस्वरः । ततक्षुः। तक्षू त्वक्षू तनूकरणे'। लिटि झेः उसादेशः । पादादित्वादनिघातः । शमीभिः । शमयन्ति पापानीति शम्यः कर्माणि ।। औणादिकः इन् । कृदिकारादक्तिनः ' ( पा. सू. ४. १. ४५ ग. ) इति ङीष् । वृषादित्वादाद्युदात्तः । आशत । अशू व्याप्तौ ' । लङि झस्य अदादेशः । ‘ स्वादिभ्यः श्नुः । तस्य ‘बहुलं छन्दसि इति लुक् । आडागमः। ‘ तिङ्ङतिङः' इति निघातः ॥
तक्ष॒न्नास॑त्याभ्यां॒ परि॑ज्मानं सु॒खं रथ॑म् ।
तक्ष॑न्धे॒नुं स॑ब॒र्दुघा॑म् ॥३
तक्ष॑न् । नास॑त्याभ्याम् । परि॑ऽज्मानम् । सु॒ऽखम् । रथ॑म् ।
तक्ष॑न् । धे॒नुम् । स॒बः॒ऽदुघा॑म् ॥३
तक्षन् । नासत्याभ्याम् । परिऽज्मानम् । सुऽखम् । रथम् ।
तक्षन् । धेनुम् । सबःऽदुघाम् ॥३
“नासत्याभ्याम् अश्विदेवप्रीत्यर्थं “रथं “तक्षन् ऋभवो देवाः कंचिद्रथमतक्षन् तक्षणेन संपादितवन्तः । कीदृशम् । “परिज्मानं परितो गन्तारं “सुखं उपर्युपवेशने सुखकरम् । किंच ”धेनुx कांचिद्गां “तक्षन् । धातूनामनेकार्थत्वात् तक्षतिरत्र संपादनवाची । कीदृशीं धेनुम् । "सबर्दुघां सबरः क्षीरस्य दोग्ध्रीम् ॥ तक्षन् ।' बहुलं छन्दसि° ' ( पा. सू. ६. ४. ७५ ) इति अडभावः । नासत्याभ्याम् । न विद्यते सत्यं ययोस्तौ असत्यौ । न असत्यौ नासत्यौ ।' नभ्राण्नपात्' ( पा. सू. ६. ३. ७५) इत्यादिना नलोपाभावः। परिज्मानम् । अजेः परिपूर्वस्य ‘ श्वन्नुक्षन् ' ( उ. सू. १. १५७ ) इत्यादिना मन्प्रत्यये अकारलोपः आद्युदात्तत्वं च निपातनात् । सबर्दुघाम् । सबः पयः दोग्धीति सबर्दुघा । 'दुहः कब्धश्च ' ( पा. सू. ३. २. ७० ) इति कप् । सबर् इति रेफान्तं प्रातिपदिकं क्षीरवाची इति संप्रदायविदः। कपः पित्त्वादनुदात्तत्वम् । धातुस्वर एव शिष्यते । समासे कृदुत्तरपदप्रकृतिस्वरः॥
द्वितीये छन्दोमे वैश्वदेवशस्त्रे ‘युवाना पितरा पुनः' इति आर्भवस्तृचः । द्वितीयस्य ‘अग्निं वो देवम् ' इति खण्डे सूत्रितं - ‘ मही द्यौः पृथिवी च नो युवाना पितरा पुनरिति तृचौ '( आश्व. श्रौ. ८. १०) इति ॥
युवा॑ना पि॒तरा॒ पुन॑ः स॒त्यम॑न्त्रा ऋजू॒यव॑ः ।
ऋ॒भवो॑ वि॒ष्ट्य॑क्रत ॥४
युवा॑ना । पि॒तरा॑ । पुन॒रिति॑ । स॒त्यऽम॑न्त्राः । ऋ॒जु॒ऽयवः॑ ।
ऋ॒भवः॑ । वि॒ष्टी । अ॒क्र॒त॒ ॥४
युवाना । पितरा । पुनरिति । सत्यऽमन्त्राः । ऋजुऽयवः ।
ऋभवः । विष्टी । अक्रत ॥४
“ऋभव एतन्नामका देवाः पितरौ स्वकीयौ मातापितरौ पूर्वं वृद्धावपि “पुनः “युवाना तरुणौ “अक्रत कृतवन्तः । कीदृशाः । “सत्यमन्त्राः अवितथमन्त्रसामर्थ्योपेताः । पुरश्चरणाद्यनुष्ठानेन सिद्धमन्त्रत्वात् यद्यत्फलमुद्दिश्य मन्त्राः प्रयुज्यन्ते तत्तत्फलं तथैव संपद्यते । तस्मात् जीर्णयोः पित्रोर्युवत्वं संपादयितुं समर्था इत्यर्थः । “ऋजूयवः ऋजुतामात्मन इच्छन्तः छलरहिता इत्यर्थः । अत एव एतेषामनुष्ठिता मन्त्राः सिध्यन्ति । “विष्टी विष्टयो व्याप्तियुक्ताः । सर्वेषु कार्येषु एतदीयस्य मन्त्रसामर्थ्यस्याप्रतिघातोऽत्र व्याप्तिरुच्यते । ऋभुशब्दं यास्क एवं निर्वक्ति- ऋभव उरु भान्तीति वर्तेन भान्तीति वर्तेन भवन्तीति वा ' ( निरु. ११. १५ ) इति ॥ युवाना । युवन्शब्दो यौतेः कनिनन्तो नित्त्वादाद्युदात्तः । ‘ सुपां सुलुक् ' इत्यादिना विभक्तेः आकारः । पितरा । पूर्ववदाकारः । सत्यमन्त्राः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरः । ‘ऋजुशब्दो भावपरः । ऋजुत्वमात्मन इच्छन्ति । क्यच् ।' अकृत्सार्वधातुकयोर्दीर्घः' ( पा. सू. ७. ४, २५ ) इति दीर्घः । ‘ क्याच्छन्दसि ' ( पा. सू. ३. २. १७० ) इति उप्रत्ययः ।। प्रत्ययस्वरः । विष्टी । “ विष्लृ व्याप्तौ ' । ‘क्तिच्क्तौ च संज्ञायाम् ' ( पा. सू. ३. ३. १७४ ) इति क्तिच् । ‘ तितुत्र° ' इत्यादिना इट्प्रतिबन्धः । तस्मात् जसः ‘इयाडियाजीकाराणामुपसंख्यानम् ( पा. सू. ७. १. ३९. १ ) इति तस्य ईकारादेशः । स च ‘ अलोऽन्त्यस्य ' ( पा. सू. १. १. ५२ ) इति सकारस्य भवति । ततः ‘आद्गुणः' इति गुणे कृते ‘ प्रथमयोः पूर्वसवर्णः' (पा. सू. ६. १. १०२ ) इति पूर्वसवर्णदीर्घः । तं बाधित्वा परत्वात् ' जसि च ' (पा. सू. ७. ३. १०९) इति ह्रस्वस्य गुणेन भवितव्यमिति चेत्, न। संज्ञापूर्वकस्य विधेरनित्यत्वात् । अक्रत । कृञो लुङ । आत्मनेपदम् । झस्य अदादेशः। ‘ मन्त्रे घस' (पा. सू. २. ४. ८०) इत्यादिना च्लेर्लुक् । यणादेशः । अडागमः । निघातः ॥
सं वो॒ मदा॑सो अग्म॒तेन्द्रे॑ण च म॒रुत्व॑ता ।
आ॒दि॒त्येभि॑श्च॒ राज॑भिः ॥५
सम् । वः॒ । मदा॑सः । अ॒ग्म॒त॒ । इन्द्रे॑ण । च॒ । म॒रुत्व॑ता ।
आ॒दि॒त्येभिः॑ । च॒ । राज॑ऽभिः ॥५
सम् । वः । मदासः । अग्मत । इन्द्रेण । च । मरुत्वता ।
आदित्येभिः । च । राजऽभिः ॥५
हे ऋभवः “वः युष्माकं संबन्धिनः “मदासः मदहेतवः सोमाः “इन्द्रेण “च "आदित्येभिः आदित्यैः “च "सम् “अग्मत संगताः । ऋभूणामिन्द्रादित्यैः सह सोमपानं तृतीयसवनेऽस्ति । अत एव आवाहननिगदः आश्वलायनेनैवं पठितः - इन्द्रमादित्यवन्तमृभुमन्तं विभुमन्तं वाजवन्तं बृहस्पतिवन्तं विश्वदेव्यावन्तमावह ' ( आश्व. श्रौ. ५. ३) इति । कीदृशेनेन्द्रेण "मरुत्वता मरुद्भिर्युक्तेन । अत एव मन्त्रान्तरमेवमाम्नायते - मरुद्भिरिन्द्र सख्यं ते अस्तु ' ( ऋ. सं. ८.९६. ७) इति । कीदृशैरादित्येभिः । “राजभिः दीप्यमानैः ॥ मदासः । माद्यति एभिरिति मदाः सोमाः । ‘ मदोऽनुपसर्गे ' (पा. सू. ३. ३. ६७ ) इत्यप् । तस्य पित्त्वादनुदात्तत्वम् । धातुस्वर एव शिष्यते । आजसेरसुक् ' इति जसः असुगागमः । अग्मत। गमेः संपूर्वात् लुङ् । समो गम्यृच्छि° ' (पा. सू. १. ३. २९ ) इत्यादिना आत्मनेपदम् । झस्य अदादेशः । ‘ मन्त्रे घस ' इत्यादिना । च्लेर्लुक् ।' गमहन' (पा. सू. ६. ४. ९८ ) इत्यादिना उपधालोपः । ‘ व्यवहिताश्च ' इति समो व्यवहितप्रयोगः । निघातः । मरुत्वता । मरुतोऽस्य सन्तीति मरुत्वान् ।' तसौ मत्त्वर्थे ' ( पा. सू. १. ४. १९ ) इति भसंज्ञया पदसंज्ञाया बाधितत्वात् जश्त्वाभावः । ‘ झयः ' ( पा. सू. ८. २. १०) इति मतुपो वत्वम् । आदित्येभिः । ‘ बहुलं छन्दसि ' ( पा. सू. ७. १. १०) इति भिस ऐसादेशाभावे ' बहुवचने झल्येत्' इति एत्वम् । राजभिः । राजन्शब्दस्य कनिनन्तत्वेन नित्त्वादाद्युदात्तत्वम् ॥ ॥ १ ॥
उ॒त त्यं च॑म॒सं नवं॒ त्वष्टु॑र्दे॒वस्य॒ निष्कृ॑तम् ।
अक॑र्त च॒तुर॒ः पुन॑ः ॥६
उ॒त । त्यम् । च॒म॒सम् । नव॑म् । त्वष्टुः॑ । दे॒वस्य॑ । निःऽकृ॑तम् ।
अक॑र्त । च॒तुरः॑ । पुन॒रिति॑ ॥६
उत । त्यम् । चमसम् । नवम् । त्वष्टुः । देवस्य । निःऽकृतम् ।
अकर्त । चतुरः । पुनरिति ॥६
“उत अपि च “त्वष्टुः एतन्नामकस्य “देवस्य संबन्धी तक्षणव्यापारः “नवं नूतनं “त्यं “चमसं तं सोमधारणक्षमं काष्ठपात्रविशेषं “निष्कृतं निःशेषेण संपादितमकरोदिति शेषः । तक्षणव्यापारकुशलस्य त्वष्टुः शिष्याः ऋभवः तेन निर्मितं तमेकं चमसं पुनरपि “चतुरः "अकर्त चतुर्धा विभक्तांश्चमसान् कृतवन्तः । एकस्य चतुर्विधत्वकरणरूपोऽयमर्थो मन्त्रान्तरेऽपि विस्पष्टः - ‘ एक चमसं चतुरः कृणोतन ' (ऋ. सं. १. १६१. २ ) इति ॥ नवम्। णु स्तुतौ' । नूयत इति नवम् । कर्मणि अप्प्रत्ययः । स हि घञोऽपवादत्वात् घञर्थे सर्वत्र भवति । घञ्प्रत्ययश्च ‘अकर्तरि च कारके संज्ञायाम् ' ( पा. सू. ३. ३. १९ ) इति कर्तृव्यतिरिक्ते सर्वत्र कारके भवति । यद्यपि तत्र संज्ञायां इत्युक्तं तथापि चकारस्य संज्ञाव्यभिचारार्थत्वात् असंज्ञायामपि भवत्येव । संबध्यते इति संबन्धः। कर्मणि घञ् इत्युक्तम् । त्वष्टुः । ‘ तक्षू त्वक्षू तनूकरणे'। औणादिकस्तृन् । ऊदित्वात्पक्षे इडभावः (पा. सू. ७. २. ४४ )।' स्कोः संयोगाद्योरन्ते च ' (पा. सू. ८. २. २९) इति ककारलोपः । निष्कृतम् । कृञो निरुपसृष्टात् कर्मणि क्तः । प्रादिसमासे ‘ नित्यं समासेऽनुत्तरपदस्थस्य' (पा. सू. ८. ३. ४५ ) इति षत्वम् । अत्र ‘कर्तृकर्मणोः कृति' ( पा. सू. २. ३. ६५) इति प्राप्ता षष्ठी यद्यपि न लोकाव्यय' (पा. सू. २. ३. ६९) इति निषिद्धा तथापि कर्तुः शेषत्वेन विवक्षितत्वात् ‘कर्तृकरणयोस्तृतीया' (पा. सू. २. ३. १८) इत्येतस्याः प्राप्तेः शैषिकी षष्ठी ( पा. सू. २. ३. ५० )। यथा कर्मणि शेषत्वेन विवक्षिते माषाणामश्नीयात् इति । गतिरनन्तरः' इति निस उदात्तत्वम् । अकर्त अकृषत । कृञो लुङि झस्य व्यत्ययेन तादेशः । ‘ मन्त्रे घस' इत्यादिना च्लेर्लुक् । 'छन्दस्युभयथा ' इति तिङ आर्धधातुकत्वात् ङित्त्वाभावेन गुणः। चतुरः । ‘ चतुरः शसि ' ( पा. सू. ६. १. १६७ ) इत्युकार उदात्तः । पुनः । स्वरादिष्वाद्युदात्तः पठितः ॥
तृतीये छन्दोमे वैश्वदेवशस्त्रे ते नो रत्नानि धत्तन ' इति द्वे ऋचावार्भव्यौ । 'तृतीयस्यागन्म मह इति खण्डे सूत्रितम् - ‘इन्द्र इषे ददातु नस्ते नो रत्नानि धत्तनेत्येका द्वे च' ( आश्व. श्रौ. ८. ११ ) इति ॥
ते नो॒ रत्ना॑नि धत्तन॒ त्रिरा साप्ता॑नि सुन्व॒ते ।
एक॑मेकं सुश॒स्तिभि॑ः ॥७
ते । नः॒ । रत्ना॑नि । ध॒त्त॒न॒ । त्रिः । आ । साप्ता॑नि । सु॒न्व॒ते ।
एक॑म्ऽएकम् । सु॒श॒स्तिऽभिः॑ ॥७
ते । नः । रत्नानि । धत्तन । त्रिः । आ । साप्तानि । सुन्वते ।
एकम्ऽएकम् । सुशस्तिऽभिः ॥७
पूर्वास्वृक्षु ये प्रतिपादिता ऋभवः "ते यूयं "सुशस्तिभिः शोभनैरस्मदीयशंसनैर्युक्ताः सन्तः "नः अस्माकं सबन्धिने "सुन्वते सोमाभिषवं कुर्वते यजमानाय "रत्नानि रमणीयानि सुवर्णमणिमुक्तादीनि धनानि “एकमेकं क्रमेण प्रत्येकं “धत्तन प्रयच्छत । सुवर्णादीनां मध्ये प्रतिद्रव्यं यावदपेक्षितं तावदिति विवक्षया एकमेकमित्युक्तम् । कीदृशानि रत्नानि । "त्रिरा त्रिवारम् आवृत्तानि । उत्तमानि मध्यमान्यधमानि च इत्येवं रत्नानां त्रिरावृत्तिः । किंच "साप्तानि सप्तसंख्यानिष्पन्नवर्गरूपाणि कर्माणि च धत्तन संपादयत । कीदृशानि साप्तानि । त्रिरा त्रिवारम् आवृत्तानि । अग्न्याधेयदर्शपूर्णमासादीनां सप्तानां हविर्यज्ञानामेको वर्गः । औपासनहोमो वैश्वदेवमित्यादीनां सप्तानां पाकयज्ञानां वर्गो द्वितीयः । अग्निष्टोमोऽत्यग्निष्टोम इत्यादीनां सप्तानां सोमसंस्थानां वर्गस्तृतीयः ॥ रत्नानि । “ रमु क्रीडायाम् । ‘नित्' इत्यनुवृत्तौ ‘ रमेस्त च' (उ. सू. ३. २९४) इति नप्रत्ययः; तत्संनियोगेन मकारस्य तकारः । नित्त्वादाद्युदात्तः । धत्तन धत्त । ‘ तप्तनप्तनथनाश्च ' इति तशब्दस्य तनादेशः । सप्तानां वर्गः साप्तम्। ‘ सप्तनोऽञ् छन्दसि ' ( पा. सू. ५, १. ६१ ) इति वर्गे अञ्प्रत्ययः । ‘ नस्तद्धिते ' (पा. सू. ६. ४. १४४ ) इति टिलोपः । ञित्त्वादादिवृद्धिः आद्युदात्तत्वं च । अत्र वर्गवचनेनानेन वर्गिणो लक्ष्यन्ते तेन बहुवचनम् । अन्यथा ह्येक एव वर्गस्त्रिरावृत्त इत्येकवचनमेव स्यात् । सुन्वते । ‘ शतुरनुमः' इति विभक्तेरुदात्तत्वम् । एकमेकम् । नित्यवीप्सयोः' इति वीप्सायां द्विर्भावः । एकशब्द इणः कनन्तो नित्त्वादाद्युदात्तः । द्वितीयस्यैकशब्दस्य तस्य परमाम्रेडितम्' इति आम्रेडितसंज्ञायाम् ‘ अनुदात्तं च ' ( पा. सू. ८. १. ३ ) इत्यनुदात्तत्वम् । सुशस्तिभिः । शस्यते आभिरिति शस्तयः ऋचः । ‘ शंसु स्तुतौ ' । करणे क्तिन् । तस्य कित्त्वात् लोपः । शोभनाः शस्तयः इति प्रादिसमासे यद्यपि च क्तिनो नित्त्वादाद्युदात्तत्वेन कृदुत्तरपदप्रकृतिस्वरत्वेन तदेव प्राप्तं, तत्तु परेण ‘ मन्क्तिन्व्याख्यान' (पा. सू. ६. २. १५१ ) इत्यादिना उत्तरपदान्तोदात्तत्वेन बाध्यते ॥
अधा॑रयन्त॒ वह्न॒योऽभ॑जन्त सुकृ॒त्यया॑ ।
भा॒गं दे॒वेषु॑ य॒ज्ञिय॑म् ॥८
अधा॑रयन्त । वह्न॑यः । अभ॑जन्त । सु॒ऽकृ॒त्यया॑ ।
भा॒गम् । दे॒वेषु॑ । य॒ज्ञिय॑म् ॥८
अधारयन्त । वह्नयः । अभजन्त । सुऽकृत्यया ।
भागम् । देवेषु । यज्ञियम् ॥८
"वह्नयः चमसादिसाधननिष्पादनेन यज्ञस्य वोढारः ऋभवः "अधारयन्त पूर्वं मनुष्यत्वेन मरणयोग्या अपि अमृतत्वलाभेन प्राणान् धारितवन्तः । तथा च मन्त्रान्तरमाम्नायते- ‘ मर्तासः सन्तो अमृतत्वमानशुः ' (ऋ. सं. १. ११०. ४ ) इति । किंचैते 'सुकृत्यया यज्ञसाधनद्रव्यसंपादनरूपेण शोभनव्यापारेण "देवेषु मध्ये स्थिताः "यज्ञियं यज्ञार्हं "भागं हविर्लक्षणम् "अभजन्त सेवितवन्तः । अयमर्थः ‘ सौधन्वना यज्ञियं भागमानश' (ऋ. सं. ३, ६०. १ ) इत्यादिमन्त्रान्तरे विस्पष्टः । ब्राह्मणेऽपि ‘ ऋभवो वै देवेषु तपसा सोमपीथमभ्यजयन्' ( ऐ. ब्रा. ३. ३०) इत्याद्युपाख्यानं विस्पष्टम् ॥ वह्नयः । नित्' इत्यनुवृत्तौ ‘ वहिश्रि° । इत्यादिना निप्रत्ययः । अभजन्त। पादादित्वादनिघातः । सुकृत्यया । ‘ विभाषा कृवृषोः ' (पा. सू. ३. १. १२० ) इति कृञः कर्मणि क्यप् । शोभनं कृत्यं यस्या भजनक्रियायाः सा सुकृत्या । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वं बाधित्वा ‘ नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । ननु कृत्यशब्दे क्यपः पित्त्वेनानुदात्तत्वात् धातुस्वरेणादिरुदात्तः । ततश्च ' आद्युदात्तं द्व्यच्छन्दसि' ( पा. सू. ६. ३. ११९) इत्यनेनाद्युदात्तत्वेन भवितव्यम् । तेन हि पुरस्तादपवादेन परमपि ‘नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वं बाध्यते इत्युक्तम् । एवं तर्हि ‘ कृञः श च ' ( पा. सू. ३. ३. १०० ) इति स्त्रियां भावे क्यप्प्रत्ययान्तः कृत्याशब्दः । क्यपः पित्त्वेऽपि व्यत्ययेनोदात्तत्वम् । प्रादिसमासे कृदुत्तरपदप्रकृतिस्वरत्वेन तदेव शिष्यते । भागम् । ‘ कर्षात्वतः० ' ( पा. सू. ६. १. १५९ ) इत्यन्तोदात्तः । यज्ञियम् । यज्ञमर्हतीत्यर्थे ' यज्ञर्त्विग्भ्यां घखञौ ' (पा. सू. ५. १. ७१) इति घः । तस्य इयादेशः । प्रत्ययस्वरः ॥ ॥ २ ॥
मण्डल १ | ||||||
---|---|---|---|---|---|---|
|