ऋग्वेदः सूक्तं १.५२

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं १.५१ ऋग्वेदः - मण्डल १
सूक्तं १.५२
सव्य आङ्गिरसः
सूक्तं १.५३ →
दे. इन्द्रः। जगती, १३-१५ त्रिष्टुप्।


त्यं सु मेषं महया स्वर्विदं शतं यस्य सुभ्वः साकमीरते ।
अत्यं न वाजं हवनस्यदं रथमेन्द्रं ववृत्यामवसे सुवृक्तिभिः ॥१॥
स पर्वतो न धरुणेष्वच्युतः सहस्रमूतिस्तविषीषु वावृधे ।
इन्द्रो यद्वृत्रमवधीन्नदीवृतमुब्जन्नर्णांसि जर्हृषाणो अन्धसा ॥२॥
स हि द्वरो द्वरिषु वव्र ऊधनि चन्द्रबुध्नो मदवृद्धो मनीषिभिः ।
इन्द्रं तमह्वे स्वपस्यया धिया मंहिष्ठरातिं स हि पप्रिरन्धसः ॥३॥
आ यं पृणन्ति दिवि सद्मबर्हिषः समुद्रं न सुभ्वः स्वा अभिष्टयः ।
तं वृत्रहत्ये अनु तस्थुरूतयः शुष्मा इन्द्रमवाता अह्रुतप्सवः ॥४॥
अभि स्ववृष्टिं मदे अस्य युध्यतो रघ्वीरिव प्रवणे सस्रुरूतयः ।
इन्द्रो यद्वज्री धृषमाणो अन्धसा भिनद्वलस्य परिधीँरिव त्रितः ॥५॥
परीं घृणा चरति तित्विषे शवोऽपो वृत्वी रजसो बुध्नमाशयत् ।
वृत्रस्य यत्प्रवणे दुर्गृभिश्वनो निजघन्थ हन्वोरिन्द्र तन्यतुम् ॥६॥
ह्रदं न हि त्वा न्यृषन्त्यूर्मयो ब्रह्माणीन्द्र तव यानि वर्धना ।
त्वष्टा चित्ते युज्यं वावृधे शवस्ततक्ष वज्रमभिभूत्योजसम् ॥७॥
जघन्वाँ उ हरिभिः सम्भृतक्रतविन्द्र वृत्रं मनुषे गातुयन्नपः ।
अयच्छथा बाह्वोर्वज्रमायसमधारयो दिव्या सूर्यं दृशे ॥८॥
बृहत्स्वश्चन्द्रममवद्यदुक्थ्यमकृण्वत भियसा रोहणं दिवः ।
यन्मानुषप्रधना इन्द्रमूतयः स्वर्नृषाचो मरुतोऽमदन्ननु ॥९॥
द्यौश्चिदस्यामवाँ अहेः स्वनादयोयवीद्भियसा वज्र इन्द्र ते ।
वृत्रस्य यद्बद्बधानस्य रोदसी मदे सुतस्य शवसाभिनच्छिरः ॥१०॥
यदिन्न्विन्द्र पृथिवी दशभुजिरहानि विश्वा ततनन्त कृष्टयः ।
अत्राह ते मघवन्विश्रुतं सहो द्यामनु शवसा बर्हणा भुवत् ॥११॥
त्वमस्य पारे रजसो व्योमनः स्वभूत्योजा अवसे धृषन्मनः ।
चकृषे भूमिं प्रतिमानमोजसोऽपः स्वः परिभूरेष्या दिवम् ॥१२॥
त्वं भुवः प्रतिमानं पृथिव्या ऋष्ववीरस्य बृहतः पतिर्भूः ।
विश्वमाप्रा अन्तरिक्षं महित्वा सत्यमद्धा नकिरन्यस्त्वावान् ॥१३॥
न यस्य द्यावापृथिवी अनु व्यचो न सिन्धवो रजसो अन्तमानशुः ।
नोत स्ववृष्टिं मदे अस्य युध्यत एको अन्यच्चकृषे विश्वमानुषक् ॥१४॥
आर्चन्नत्र मरुतः सस्मिन्नाजौ विश्वे देवासो अमदन्ननु त्वा ।
वृत्रस्य यद्भृष्टिमता वधेन नि त्वमिन्द्र प्रत्यानं जघन्थ ॥१५॥


सायणभाष्यम्

‘त्यं सु मेषम् ' इति पञ्चदशर्चं द्वितीयं सूक्तं सव्यस्यार्षमैन्द्रम् । त्रयोदशी पञ्चदशी त्रिष्टुभौ शिष्टा जगत्यः । तथा चानुक्रान्तं- ‘ त्यं सु त्रयोदश्यन्त्ये त्रिष्टुभौ ' इति । गवामयनस्य मध्यमेऽहनि विषुवत्संज्ञके मरुत्वतीयशस्त्रे इदं सूक्तम् । विषुवान्दिवाकीर्त्यः' इति खण्डे सूत्रितं- त्यं सु मेषं कया शुभेति च मरुत्वतीयम्' ( आश्व. श्रौ. ८. ६ ) इति ॥


त्यं सु मे॒षं म॑हया स्व॒र्विदं॑ श॒तं यस्य॑ सु॒भ्व॑ः सा॒कमीर॑ते ।

अत्यं॒ न वाजं॑ हवन॒स्यदं॒ रथ॒मेन्द्रं॑ ववृत्या॒मव॑से सुवृ॒क्तिभि॑ः ॥१

त्यम् । सु । मे॒षम् । म॒ह॒य॒ । स्वः॒ऽविद॑म् । श॒तम् । यस्य॑ । सु॒ऽभ्वः॑ । सा॒कम् । ईर॑ते ।

अत्य॑म् । न । वाज॑म् । ह॒व॒न॒ऽस्यद॑म् । रथ॑म् । आ । इन्द्र॑म् । व॒वृ॒त्या॒म् । अव॑से । सु॒वृ॒क्तिऽभिः॑ ॥१

त्यम् । सु । मेषम् । महय । स्वःऽविदम् । शतम् । यस्य । सुऽभ्वः । साकम् । ईरते ।

अत्यम् । न । वाजम् । हवनऽस्यदम् । रथम् । आ । इन्द्रम् । ववृत्याम् । अवसे । सुवृक्तिऽभिः ॥१

“त्यं तं प्रसिद्धं “मेषं शत्रुभिः सह स्पर्धमानं “स्वर्विदम् । स्वरादित्यो द्यौर्वा । तस्य वेदितारं लब्धारं वा । यद्वा । स्वः सुष्ठ्वरणीयं धनं तस्य लम्भयितारम् । एवंगुणविशिष्टमिन्द्रं हे अध्वयों “सु "महय सम्यक् पूजय । “यस्य इन्द्रस्य “शतं शतसंख्याकाः “सुभ्वः स्तोतारः “साकं सहैव युगपदेव “ईरते स्तुतौ प्रवर्तन्ते । यद्वा । यस्येन्द्रस्य रथं शतं सुभ्वः शतसंख्याका अश्वाः साकं सह ईरते गमयन्ति । तम् “इन्द्रम् "अवसे अस्मद्रक्षणाय "सुवृक्तिभिः सुष्ठ्वावर्जकैः स्तोत्रैः “रथम् “आ “ववृत्यां रथं प्रत्यावर्तयामि । कीदृशं रथम् । “हवनस्यदं हवनमाह्वानं यागं वा प्रति वेगेन गच्छन्तम् । वेगगमने दृष्टान्तः । “अत्यं “न “वाजं गमनसाधनमश्वमिव ॥ महय । ‘ मह पूजायाम्'। चुरादिरदन्तः । संहितायाम् ‘ अन्येषामपि दृश्यते' इति दीर्घत्वम् । सुभ्वः । सुष्ठु भवन्तीति सुभ्वः स्तोतारः । ‘ क्विप् च ' इति क्विप् । कृदुत्तरपदप्रकृतिस्वरत्वम् । जसि ‘ ओः सुपि' इति यणादेशस्य 'न भूसुधियोः' इति प्रतिषेधे प्राप्ते ‘छन्दस्युभयथा ' इति उभयथाभावात् यणादेशः । उदात्तस्वरितयोर्यणः' इति परस्य जसोऽनुदात्तस्य स्वरितत्वम् । ईरते । ‘ ईर गतौ कम्पने च'। अदादित्वात् शपो लुक् । झस्य अदादेशः । टेः एत्वम् । अनुदात्तेत्त्वात् लसार्वधातुकानुदात्तत्वे धातुस्वरः शिष्यते । यद्वृत्तयोगादनिघातः । तत्र हि पञ्चमीनिर्देशेऽपि व्यवहितेऽपि कार्यमिष्यते (का. ८. १. ६६) इत्युक्तम् । अत्यम् । अत्य इत्यश्वनाम, ‘ अत्यः हयः ' ( नि. १. १४. १ ) इति पाठात् । वाजम् । वाज्यते गम्यतेऽनेनेति वाजः । वज व्रज गतौ'। करणे घञ् ।' अजिव्रज्योश्च ' ( पा. सू. ७, ३.६० ) इत्यत्र चशब्दस्य अनुक्तसमुच्चयार्थत्वात् वाजः वाज्यम् इत्यत्रापि कुत्वाभावः इत्युक्तम् । हवनस्यदम् । ‘ स्यन्दू प्रस्रवणे'। स्यदो जवे' (पा.सू. ६. ४.२८) इति वेगे गम्यमाने घञन्तो निपातितः । अंत एव नलोपो वृद्ध्यभावश्च । न च ‘न धातुलोप आर्धधातुके' ( पा. सू. १. १. ४ ) इति वृद्धेः प्रतिषेधः इग्लक्षणा हि वृद्धिस्तत्र प्रतिषिध्यते । न चेयमिग्लक्षणा । घञो ञित्त्वात् उत्तरपदस्याद्युदात्तत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वेन तदेव शिष्यते । ववृत्याम् । ‘ वृतु वर्तने । लिङि व्यत्ययेन परस्मैपदम् । ‘बहुलं छन्दसि ' इति शपः श्लुः । द्विर्वचनादि । यासुटो ङित्त्वात् लघूपधगुणाभावः । ‘ तिङ्ङतिङः' इति निघातः ॥


स पर्व॑तो॒ न ध॒रुणे॒ष्वच्यु॑तः स॒हस्र॑मूति॒स्तवि॑षीषु वावृधे ।

इन्द्रो॒ यद्वृ॒त्रमव॑धीन्नदी॒वृत॑मु॒ब्जन्नर्णां॑सि॒ जर्हृ॑षाणो॒ अन्ध॑सा ॥२

सः । पर्व॑तः । न । ध॒रुणे॑षु । अच्यु॑तः । स॒हस्र॑म्ऽऊतिः । तवि॑षीषु । व॒वृ॒धे॒ ।

इन्द्रः॑ । यत् । वृ॒त्रम् । अव॑धीत् । न॒दी॒ऽवृत॑म् । उ॒ब्जन् । अर्णां॑सि । जर्हृ॑षाणः । अन्ध॑सा ॥२

सः । पर्वतः । न । धरुणेषु । अच्युतः । सहस्रम्ऽऊतिः । तविषीषु । ववृधे ।

इन्द्रः । यत् । वृत्रम् । अवधीत् । नदीऽवृतम् । उब्जन् । अर्णांसि । जर्हृषाणः । अन्धसा ॥२

“अन्धसा सोमलक्षणेनान्नेन “जर्हषाणः अत्यर्थं हृष्यन् “इन्द्रो “यत् यदा “वृत्रं त्रयाणां लोकानामावरीतारमसुरम् “अवधीत् हतवान् । कीदृशं वृत्रम् । “नदीवृतम् । नदनात् नद्य आपः । तासामावरीतारम् । किं कुर्वन्निन्द्रः । “अर्णाँसि जलानि “उब्जन् अधःपातयन् । तदानीं “सः इन्द्रः “पर्वतो “न पर्ववान् शिलोच्चय इव “धरुणेषु सर्वस्य धारकेषूदकेषु मध्ये "अच्युतः चलनराहित्येन स्थितः “सहस्रमूतिः बहुविधरक्षणवान् “तविषीषु बलेषु “वावृधे प्रवृद्धो बभूव ॥ धरुणेषु ।' धारयतेर्णिलुक् च' इति उनप्रत्ययः । प्रत्ययस्वरः । सहस्रमूतिः । सहस्रम् ऊतयो यस्यासौ । लुगभावश्छान्दसः । ववृधे । संहितायामभ्यासस्य ‘ अन्येषामपि दृश्यते ' इति दीर्घत्वम् । नदीवृतम् । नदीं वृणोतीति नदीवृत् ।। क्विप् । तुगागमः । उब्जन् । उब्ज आर्जवे'। विकरणस्वरः । अर्णांसि ।' उदके नुट् च ' ( उ. सू. ४. ६३६ ) इति अर्तेः असुन्प्रत्ययः, तत्संनियोगेन नुडागमश्च । नित्त्वादाद्युदात्तत्वम् । जर्हृषाणः । ‘ हृष तुष्टौ । यङ्लुगन्तात् व्यत्ययेन शानच् । 'अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । यद्वा । यङन्तादेव शानचि • बहुलं छन्दसि ' इति शपो लुक् । 'छन्दस्युभयथा ' इति शानचः आर्धधातुकत्वात् अतोलोपयलोपौ । सार्वधातुकत्वाच्च अभ्यस्तस्याद्युदात्तत्वम् । अन्धसा । अद्यते इत्यन्धः । ‘ अदेर्नुम् धश्च' (उ. सू. ४. ६४५) इति असुन्, धातोः नुमागमो धकारान्तादेशश्च । नित्त्वादाद्युदात्तत्वम् ॥


स हि द्व॒रो द्व॒रिषु॑ व॒व्र ऊध॑नि च॒न्द्रबु॑ध्नो॒ मद॑वृद्धो मनी॒षिभि॑ः ।

इन्द्रं॒ तम॑ह्वे स्वप॒स्यया॑ धि॒या मंहि॑ष्ठरातिं॒ स हि पप्रि॒रन्ध॑सः ॥३

सः । हि । द्व॒रः । द्व॒रिषु॑ । व॒व्रः । ऊध॑नि । च॒न्द्रऽबु॑ध्नः । मद॑ऽवृद्धः । म॒नी॒षिऽभिः॑ ।

इन्द्र॑म् । तम् । अ॒ह्वे॒ । सु॒ऽअ॒प॒स्यया॑ । धि॒या । मंहि॑ष्ठऽरातिम् । सः । हि । पप्रिः॑ । अन्ध॑सः ॥३

सः । हि । द्वरः । द्वरिषु । वव्रः । ऊधनि । चन्द्रऽबुध्नः । मदऽवृद्धः । मनीषिऽभिः ।

इन्द्रम् । तम् । अह्वे । सुऽअपस्यया । धिया । मंहिष्ठऽरातिम् । सः । हि । पप्रिः । अन्धसः ॥३

“सः पूर्वोक्तगुणविशिष्टः इन्द्रः “द्वरिषु आवरीतृषु शत्रुषु “द्वरः "हि अतिशयेनावरीता खलु । शत्रुजयशील इत्यर्थः । यस्मात् “ऊधनि उद्धृतजलवति अन्तरिक्षे "वव्रः संभक्तो व्याप्य वर्तते । अत एव चन्द्रबुध्नः सर्वासां प्रजानामाह्लादकमूलः अन्तरिक्षस्य सर्वाह्लादकत्वात् । “मदवृद्धः । माद्यन्ति एभिरिति मदाः सोमाः तैर्वर्धितः । एवंभूतो य इन्द्रः "मंहिष्ठरातिं प्रवृद्धधनं प्रवृद्धदानं वा "तम् “इन्द्रं "मनीषिभिः मनस ईषितृभिः प्राज्ञैर्ऋत्विग्भिः सह “स्वपस्यया “धिया शोभनकर्मयोग्यया बुद्ध्या “अह्वे आह्वयामि। "हि यस्मात् “सः इन्द्रः “अन्धसः अन्नस्य अस्मदपेक्षितस्य “पप्रिः पूरयिता॥ द्वरः । द्वृ इत्येके । द्वरति आवृणोतीति द्वरः। पचाद्यच् । चित्स्वरेणान्तोदात्तत्वम् । द्वरिषु । ‘ अच इः' इति कर्तरि इप्रत्ययः । वव्रः। ‘वृङ् संभक्तौ' । व्रियते संभज्यते इति वव्रः । “घञर्थे कविधानं स्थास्नापाव्यधिहनियुध्यर्थम् ' ( पा. सू. ३. ३. ५८. ४ ) इति परिगणनस्य उपलक्षणार्थत्वात् कर्मणि कप्रत्ययः । द्विर्भावश्छान्दसः । ऊधनि । उत् ऊर्ध्वं ध्रियतेऽस्मिन् जलमिति ऊधः । सप्तम्येकवचने ‘ अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः, छन्दस्यपि दृश्यते ' ( पा. सू. ७. १. ७५-७६ ) इति इशिग्रहणात् ऊधस्शब्दस्यापि अनङादेशः । यद्वा । ‘ऊधसोऽनङ्' (पा. सू. ५. ४. १३१) इति समासे विधीयमानः अनङादेशः छान्दसत्वात् केवलादपि भवति । चन्द्रबुध्नः । ‘ चदि आह्लादने दीप्तौ च । इदित्त्वात् नुम् ।' स्फायितञ्चि°' इत्यादिना रक् । प्रत्ययस्वरेणान्तोदात्तत्वम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वेन तदेव शिष्यते । मदवृद्धः । मदी हर्षे'। ‘ मदोऽनुपसर्गे ' इति करणे अप् । तस्य पित्त्वादुनुदात्तत्वे धातुस्वरः । तृतीया कर्मणि ' इति पूर्वपदप्रकृतिस्वरत्वम् । अह्वे । “ह्वेञ् स्पर्धायां शब्दे च' । छन्दसि लुङ्लङ्लिटः' इति वर्तमाने लुङि ‘ आत्मनेपदेष्वन्यतरस्याम् ' (पा. सू. ३. १. ५४ ) इति च्लेः अङादेशः । ‘आतो लोप इटि च' इति आकारलोपः । गुणः । स्वपस्यया । अप इति कर्मनाम । शोभनमपः स्वपः । तदर्हतीति स्वपस्यः । 'छन्दसि च ' इति यप्रत्ययः । मंहिष्ठरातिम् । 'महि वृद्धौ' । अतिशयेन मंहित्री मंहिष्ठा। ‘तुश्छन्दसि' इति इष्ठन्प्रत्ययः। ‘तुरिष्ठेमेयःसु' इति तृलोपः । नित्त्वादाद्युदात्तत्वम् । मंहिष्ठा रातिर्यस्य । ‘ स्त्रियाः पुंवत् ' ( पा. सू. ६. ३. ३४ ) इति पुंवद्भावात् ह्रस्वत्वम् । ‘ बहुव्रीहौ प्रकृत्या' इति पूर्वपदप्रकृतिस्वरत्वम् । पप्रिः । ‘ पॄ पालनपूरणयोः '। ‘आदृगमहनजनः' इति किन्प्रत्ययः । ‘उदोष्य्चपूर्वस्य ' इति उत्वस्य ‘ बहुलं छन्दसि ' इति वचनादभावे यणादेशः । लिङ्वद्भावात् “ द्विर्वचनेऽचि' इति स्थानिवद्भावे सति द्विर्भावोरदत्वहलादिशेषाः । नित्त्वादाद्युदात्तत्वम् ॥


आ यं पृ॒णन्ति॑ दि॒वि सद्म॑बर्हिषः समु॒द्रं न सु॒भ्व१॒॑ः स्वा अ॒भिष्ट॑यः ।

तं वृ॑त्र॒हत्ये॒ अनु॑ तस्थुरू॒तय॒ः शुष्मा॒ इन्द्र॑मवा॒ता अह्रु॑तप्सवः ॥४

आ । यम् । पृ॒णन्ति॑ । दि॒वि । सद्म॑ऽबर्हिषः । स॒मु॒द्रम् । न । सु॒ऽभ्वः॑ । स्वाः । अ॒भिष्ट॑यः ।

तम् । वृ॒त्र॒ऽहत्ये॑ । अनु॑ । त॒स्थुः॒ । ऊ॒तयः॑ । शुष्माः॑ । इन्द्र॑म् । अ॒वा॒ताः । अह्रु॑तऽप्सवः ॥४

आ । यम् । पृणन्ति । दिवि । सद्मऽबर्हिषः । समुद्रम् । न । सुऽभ्वः । स्वाः । अभिष्टयः ।

तम् । वृत्रऽहत्ये । अनु । तस्थुः । ऊतयः । शुष्माः । इन्द्रम् । अवाताः । अह्रुतऽप्सवः ॥४

सद्म सदनं स्थानं बर्हिःशब्दोपलक्षितो यज्ञो येषां सोमानां ते सोमाः “दिवि स्वर्गलोकेऽवस्थितं “यम् इन्द्रम् “आ “पृणन्ति आ समन्तात् पूरयन्ति । तत्र दृष्टान्तः । सुष्ठु भवन्तीति "सुभ्वः नद्यः “समुद्रं “न । यथा नद्यः समुद्रं पूरयन्ति तद्वदित्यर्थः । कीदृश्यो नद्यः। “स्वाः समुद्रस्य स्वभूताः । तथा चाम्नायते-- समुदाय वयुनाय सिन्धूनां पतये नमः' (तै. सं. ४. ६. २. ६) इति । “अभिष्टयः आभिमुख्येन गमनवत्यः “ऊतयः अवितारो मरुतः “वृत्रहत्ये वृत्रहनने निमित्तभूते सति “तम् “इन्द्रम् "अनु “तस्थुः अनुलक्ष्य स्थिता बभूवुः । कीदृशा मरुतः । “शुष्माः शत्रूणां शोषयितारः “अवाताः । वान्ति प्रतिकूल्येन गच्छन्तीति वाताः शत्रवः तद्रहिताः । अह्रुतप्सवः अकुटिलरूपाः शोभनावयवा इत्यर्थः ॥ पृणन्ति । पॄ पालनपूरणयोः'। क्रैयादिकः ।' प्वादीनां ह्रस्वः' इति ह्रस्वत्वम् । ‘ श्नाभ्यस्तयोरातः' इति आकारलोपः । प्रत्ययस्वरः । यद्वृत्तयोगादनिघातः । सद्मबर्हिषः । ‘ षद्लृ विशरणगत्यवसादनेषु' । सीदन्त्यस्मिन्निति सद्म । औणादिकोऽधिकरणे मनिन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वेन तदेव शिष्यते । सुभ्वः। भवतेः ‘ क्विप् च' इति क्विप् । कृदुत्तरपदप्रकृतिस्वरत्वम् । जसि ‘ ओः सुपि' इति यणादेशस्य न भूसुधियोः' इति प्रतिषेधे प्राप्ते 'छन्दस्युभयथा ' इति यणादेशः । उदात्तस्वरितयोर्यणः' इति अनुदात्तस्य जसः स्वरितत्वम् । अभिष्टयः । इष्टय एषणानि । ' उपसर्गाश्चाभिवर्जम् ' इति वचनात् अभिः अन्तोदात्तः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वेन स एव शिष्यते । एमन्नादित्वात् पररूपत्वम् । वृत्रहत्ये । ‘ हनस्त च ' इति हन्तेः भावे क्यप् तकारान्तादेशश्च । प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः शिष्यते। अह्रुतप्सवः । ‘ह्वृ कौटिल्ये' । अस्मात् निष्टायां ‘ह्रु ह्वरेश्छन्दसि ' ( पा. सू. ७. २. ३१ ) इति ह्रुआदेशः । ‘प्सा भक्षणे' इत्यस्मात् औणादिको डुप्रत्ययः। न ह्रुतप्सवः अह्रुतप्सवः । अव्ययपूर्वपदप्रकृतिस्वरत्वम्॥


अ॒भि स्ववृ॑ष्टिं॒ मदे॑ अस्य॒ युध्य॑तो र॒घ्वीरि॑व प्रव॒णे स॑स्रुरू॒तय॑ः ।

इन्द्रो॒ यद्व॒ज्री धृ॒षमा॑णो॒ अन्ध॑सा भि॒नद्व॒लस्य॑ परि॒धीँरि॑व त्रि॒तः ॥५

अ॒भि । स्वऽवृ॑ष्टिम् । मदे॑ । अ॒स्य॒ । युध्य॑तः । र॒घ्वीःऽइ॑व । प्र॒व॒णे । स॒स्रुः॒ । ऊ॒तयः॑ ।

इन्द्रः॑ । यत् । व॒ज्री । धृ॒षमा॑णः । अन्ध॑सा । भि॒नत् । व॒लस्य॑ । प॒रि॒धीन्ऽइ॑व । त्रि॒तः ॥५

अभि । स्वऽवृष्टिम् । मदे । अस्य । युध्यतः । रघ्वीःऽइव । प्रवणे । सस्रुः । ऊतयः ।

इन्द्रः । यत् । वज्री । धृषमाणः । अन्धसा । भिनत् । वलस्य । परिधीन्ऽइव । त्रितः ॥५

“ऊतयः मरुतः "मदे सोमपानेन हर्षे सति “अस्य इन्द्रस्य “युध्यतः वृत्रेण सह युध्यमानस्य पुरतः “स्ववृष्टिं स्वभूतवृष्टिमन्तं वृत्रम् “अभि आभिमुख्येन 'सस्रुः जग्मुः । "रघ्वीरिव “प्रवणे । यथा गमनस्वभावा आप निम्नदेशे गच्छन्ति । “यत् यदा “अन्धसा सोमलक्षणेनान्नेन पीतेन “धृषमाणः प्रगल्भः सन् "वज्री वज्रवान् “इन्द्रः “वलस्य संवृण्वतः एतत्संज्ञकमसुरं “भिनत् व्यदारयत् अवधीदित्यर्थः । तत्र दृष्टान्तः । “त्रितः “परिधीनिव। देवानां हविर्लेपनिघर्षणाय अग्नेः सकाशात् अप्सु एकतो द्वितस्त्रित इति त्रयः पुरुषा जज्ञिरे । तथा च तैत्तिरीयैः समाम्नातं- ‘ सोऽङ्गारेणापः । अभ्यपातयत् । तत एकतोऽजायत । स द्वितीयमभ्यपातयत् । ततो द्वितोऽजायत । स तृतीयमभ्यपातयत् । ततस्त्रितोऽजायत' (तै. ब्रा. ३. २. ८. १०-११) इति । तत्रोदकपानार्थं प्रवृत्तस्य कूपे पतितस्य प्रतिरोधाय असुरैः परिधयः परिधायकाः कूपस्याच्छादकाः स्थापिताः । तान्यथा स अभिनत् तद्वत् ॥ स्ववृष्टिम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । युध्यतः । ' युध संप्रहारे । दैवादिकः । व्यत्ययेन शतृ । अदुपदेशात् लसार्वधातुकानुदात्तत्वे श्यनो नित्त्वादाद्युदात्तत्वम् । रघ्वीः । रघि गत्यर्थः । ‘ रङ्घिबंह्योर्नलोपश्च' ( उ. सू. १. २९) इति उप्रत्ययः । ‘वोतो गुणवचनात्' इति ङीष् । जसि ‘वा छन्दसि ' इति पूर्वसवर्णदीर्घत्वम् । ङीष्स्वरः शिष्यते । धृषमाणः ।' ञिधृषा प्रागल्भ्ये ' । श्नुप्रत्यये प्राप्ते व्यत्ययेन शः आत्मनेपदं च । अदुपदेशात् लसार्वधातुकानुदात्तत्वे विकरणस्वरः शिष्यते । भिनत् । लङि ‘ बहुलं छन्दस्यमाङ्योगेऽपि ' इति अडभावः । विकरणस्वरः । यद्वृत्तयोगादनिघातः । वलस्य । वल संवरणे'। वलति संवृणोति सर्वमिति वलः । पचाद्यच् ।' क्रियाग्रहणं कर्तव्यम्' इति कर्मणः संप्रदानत्वात् चतुर्थ्यर्थे षष्ठी । परिधीन् । परिधीयन्ते इति परिधयः ।' उपसर्गे घोः किः '(पा, सू. ३. ३.९२ ) इति दधातेः कर्मणि किप्रत्ययः । ‘ आतो लोप इटि च' इति आकारलोपः । कृदुत्तरपदप्रकृतिस्वरत्वम् ॥ ॥ १२ ॥


परीं॑ घृ॒णा च॑रति तित्वि॒षे शवो॒ऽपो वृ॒त्वी रज॑सो बु॒ध्नमाश॑यत् ।

वृ॒त्रस्य॒ यत्प्र॑व॒णे दु॒र्गृभि॑श्वनो निज॒घन्थ॒ हन्वो॑रिन्द्र तन्य॒तुम् ॥६

परि॑ । ई॒म् । घृ॒णा । च॒र॒ति॒ । ति॒त्वि॒षे । शवः॑ । अ॒पः । वृ॒त्वी । रज॑सः । बु॒ध्नम् । आ । अ॒श॒य॒त् ।

वृ॒त्रस्य॑ । यत् । प्र॒व॒णे । दुः॒ऽगृभि॑श्वनः । नि॒ऽज॒घन्थ॑ । हन्वोः॑ । इ॒न्द्र॒ । त॒न्य॒तुम् ॥६

परि । ईम् । घृणा । चरति । तित्विषे । शवः । अपः । वृत्वी । रजसः । बुध्नम् । आ । अशयत् ।

वृत्रस्य । यत् । प्रवणे । दुःऽगृभिश्वनः । निऽजघन्थ । हन्वोः । इन्द्र । तन्यतुम् ॥६

यो वृत्रः "अपो “वृत्वी उदकान्यावृत्य “रजसः “बुध्नम् अन्तरिक्षस्योपरिप्रदेशम् “आशयत् आश्रित्याशेत तस्य “वृत्रस्य "प्रवणे प्रकर्षेण वननीयेऽन्तरिक्षे वर्तमानस्य दुर्गृभिश्वनः दुर्ग्रहव्यापनस्य । तस्य हि व्यापनं न केनापि ग्रहीतुं शक्यते । ‘स इमान् लोकानावृणोत्' इति श्रुतेः । एवंभूतस्य वृत्रस्य “हन्वोः मुखपार्श्वयोः हे “इन्द्र “यत् यदा “तन्यतुं प्रहारं विस्तारयन्तं यद्वा शब्दकारिणं वज्रम् । तृतीयार्थे द्वितीया । तन्यतुना वज्रेण “निजघन्थ नितरां प्रजहर्थं तदानीम् “ईम् एनं त्वाम् इन्द्रं "घृणा शत्रुजयलक्षणा दीप्तिः “परि “चरति परितो व्याप्नोति । त्वदीयं “शवः बलं च तित्विषे प्रदिदीपे ॥ तित्विषे । ‘ त्विष दीप्तौ । लिटि प्रत्ययस्वरः । तिङ्परत्वात् निघाताभावः । वृत्वी । ‘ वृञ् वरणे । स्नात्व्यादयश्च ' ( पा. सू. ७. १. ४९) इति आदिग्रहणात् क्त्वाप्रत्ययस्य ईकारः । रजसः । रञ्ज रागे'। रजन्त्यस्मिन् गन्धर्वादयः इति रजोऽन्तरिक्षम् । असुनि • रजकरजनरजःसूपसंख्यानम्' ( का. ६. ४. २४. ४) इति नलोपः । नित्त्वादाद्युदात्तत्वम् । अशयत् । शीङो व्यत्ययेन परस्मैपदम् । बहुलं छन्दसि ' इति शपो लुगभावः । दुर्गृभिश्वनः । ‘ ग्रह उपादाने ' , ' अशू व्याप्तौ ' इत्यनयोः दुःशब्दे उपपदे पृषोदरादित्वात् अभिमतरूपस्वरसिद्धिः । निजघन्थ । ‘हन हिंसागत्योः'। लिटि थलि क्रादिनियमात्प्राप्तस्य इटः ‘ उपदेशेऽत्वतः ' ( पा. सू. ७. २, ६२) इति निषेधः । ‘ अभ्यासाच्च' इति अभ्यासादुत्तरस्य हकारस्य घत्वम् । ' लिति' इति प्रत्ययात् पूर्वस्योदात्तत्वम्। तिङि चोदात्तवति' इति गतेः निघातः । यद्वृत्तयोगात् निघाताभावः । तन्यतुम् । 'तनु विस्तारे '। अस्मात् ‘ ऋतन्यञ्जि° ' ( उ. सू. ४. ४४२ ) इत्यादिना यतुच् । यद्वा । ‘ स्तन शब्दे ' इत्यस्मात् बहुलवचनात् यतुच्प्रत्यये सकारलोपः ॥


ह्र॒दं न हि त्वा॑ न्यृ॒षन्त्यू॒र्मयो॒ ब्रह्मा॑णीन्द्र॒ तव॒ यानि॒ वर्ध॑ना ।

त्वष्टा॑ चित्ते॒ युज्यं॑ वावृधे॒ शव॑स्त॒तक्ष॒ वज्र॑म॒भिभू॑त्योजसम् ॥७

ह्र॒दम् । न । हि । त्वा॒ । नि॒ऽऋ॒षन्ति॑ । ऊ॒र्मयः॑ । ब्रह्मा॑णि । इ॒न्द्र॒ । तव॑ । यानि॑ । वर्ध॑ना ।

त्वष्टा॑ । चि॒त् । ते॒ । युज्य॑म् । व॒वृ॒धे॒ । शवः॑ । त॒तक्ष॑ । वज्र॑म् । अ॒भिभू॑तिऽओजसम् ॥७

ह्रदम् । न । हि । त्वा । निऽऋषन्ति । ऊर्मयः । ब्रह्माणि । इन्द्र । तव । यानि । वर्धना ।

त्वष्टा । चित् । ते । युज्यम् । ववृधे । शवः । ततक्ष । वज्रम् । अभिभूतिऽओजसम् ॥७

हे "इन्द्र “यानि "ब्रह्माणि स्तोत्रशस्त्ररूपाणि मन्त्रजातानि “तव “वर्धना वर्धयितॄणि तानि “त्वा त्वां “न्यृषन्ति “हि नितरां प्राप्नुवन्त्येव । तत्र दृष्टान्तः । “ऊर्मयः जलप्रवाहाः "ह्रदं “न । यथा जलाशयं प्राप्नुवन्ति तद्वत् । “त्वष्टा “चित् स त्वष्टा च देवः "ते तव "युज्यं योग्यं "शवः बलं “ववृधे प्रावर्धयत् । अपि च "अभिभूत्योजसं शत्रूणामभिभवितृणा ओजसा बलेन युक्तं "वज्रं “ततक्ष तीक्ष्णीचकार । न्यृषन्ति । ‘ऋषी गतौ ' । तौदादिकः । अदुपदेशात् लसार्वधातुकानुदात्तत्वे विकरणस्वरः । ‘ हि च ' इति निघातप्रतिषेधः । ऊर्मयः । ‘ ऋ गतौ ' । ऋच्छन्ति गच्छन्तीति ऊर्मयः । ‘ अर्तेरू च ' ( उ. सू. ४. ६३४ ) इति मिप्रत्ययः । गुणे सति अकारस्य ऊकारादेशश्च । प्रत्यय स्वरः । वर्धना। वृषु वृद्धौ'। वर्धते एभिरिति वर्धना । करणे ल्युट् । 'शेश्छन्दसि ' इति शेर्लोपः। ततक्ष। तक्षू त्वक्षू तनूकरणे'। लिटि णलि लित्स्वरेण प्रत्ययात् पूर्वस्योदात्तत्वम् । पादादित्वात् निघाताभावः । अभिभूत्योजसम् । अभिभूयतेऽनेनेति अभिभूति । करणे क्तिन् ।' तादौ च निति । इति गतेः प्रकृतिस्वरत्वम् । अभिभूति ओजो यस्य । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् ॥


ज॒घ॒न्वाँ उ॒ हरि॑भिः सम्भृतक्रत॒विन्द्र॑ वृ॒त्रं मनु॑षे गातु॒यन्न॒पः ।

अय॑च्छथा बा॒ह्वोर्वज्र॑माय॒समधा॑रयो दि॒व्या सूर्यं॑ दृ॒शे ॥८

ज॒घ॒न्वान् । ऊं॒ इति॑ । हरि॑ऽभिः । स॒म्भृ॒त॒क्र॒तो॒ इति॑ सम्भृतऽक्रतो । इन्द्र॑ । वृ॒त्रम् । मनु॑षे । गा॒तु॒ऽयन् । अ॒पः ।

अय॑च्छथाः । बा॒ह्वोः । वज्र॑म् । आ॒य॒सम् । अधा॑रयः । दि॒वि । आ । सूर्य॑म् । दृ॒शे ॥८

जघन्वान् । ऊं इति । हरिऽभिः । सम्भृतक्रतो इति सम्भृतऽक्रतो । इन्द्र । वृत्रम् । मनुषे । गातुऽयन् । अपः ।

अयच्छथाः । बाह्वोः । वज्रम् । आयसम् । अधारयः । दिवि । आ । सूर्यम् । दृशे ॥८

हे "संभृतक्रतो संपादितकर्मन् संपादितप्रज्ञ वा “इन्द्र "मनुषे जनाय "गातुयन् गातुं मार्गमिच्छन् "वृत्रं लोकानामावरकमसुरं "हरिभिः अश्वैर्युक्तस्त्वं “जघन्वान् "उ हतवान् खलु । तदनन्तरम् “अपः वृष्ट्युदकानि प्रावर्तय इत्यध्याहारः । “बाह्वोः त्वदीययोर्हस्तयोः "आयसम् अयोमयं “वज्रम् “अयच्छथाः अग्रहीः । आकारः समुच्चयार्थः । “सूर्यं च “दिवि द्युलोके “दृशे द्रष्टुं सर्वेषामस्माकं दर्शनाय "अधारयः स्थापयांचकृषे ॥ जघन्वान् । हन्तेर्लिटः क्वसुः । ‘ विभाषा गमहनविदविशाम्' ( पा. सू. ७. २. ६८ ) इति इडागमस्य विकल्पोक्तेरभावः । गातुयन् गातुमिच्छसि । 'छन्दसि परेच्छायामपि ' ( का. ३. १. ८.२ ) इति क्यच् । न च्छन्दस्यपुत्रस्य ' इति दीर्घप्रतिषेधः । क्यजन्तात् शतरि अदुपदेशात् लसार्वधातुकानुदात्तत्वे क्यच एव स्वरः शिष्यते । बाह्वोः । ‘ उदात्तयणो हल्पूर्वात्' इति विभक्तेरुदात्तत्वम् ।।


बृ॒हत्स्वश्च॑न्द्र॒मम॑व॒द्यदु॒क्थ्य१॒॑मकृ॑ण्वत भि॒यसा॒ रोह॑णं दि॒वः ।

यन्मानु॑षप्रधना॒ इन्द्र॑मू॒तय॒ः स्व॑र्नृ॒षाचो॑ म॒रुतोऽम॑द॒न्ननु॑ ॥९

बृ॒हत् । स्वऽच॑न्द्रम् । अम॑ऽवत् । यत् । उ॒क्थ्य॑म् । अकृ॑ण्वत । भि॒यसा॑ । रोह॑णम् । दि॒वः ।

यत् । मानु॑षऽप्रधनाः । इन्द्र॑म् । ऊ॒तयः॑ । स्वः॑ । नृ॒ऽसाचः॑ । म॒रुतः॑ । अम॑दन् । अनु॑ ॥९

बृहत् । स्वऽचन्द्रम् । अमऽवत् । यत् । उक्थ्यम् । अकृण्वत । भियसा । रोहणम् । दिवः ।

यत् । मानुषऽप्रधनाः । इन्द्रम् । ऊतयः । स्वः । नृऽसाचः । मरुतः । अमदन् । अनु ॥९

"बृहत् बृहत्साम स्तोतारो यजमानाः “भियसा वृत्रभयेन “यत् यदा “उक्थ्यम् उक्थार्हं स्तोत्रयोग्यम् “अकृण्वत अकुर्वन् । कीदृशं बृहत्साम । “स्वश्चन्द्रं स्वकीयेन चन्द्रेणाह्लादकेन तेजसा युक्तं "अमवत् । अमति शत्रुन् रुजत्यनेनेति अमो बलम् । तद्युक्तम् । "दिवः स्वर्गस्य “रोहणम् आरोहणहेतुभूतम् । एवंविधेन स्तोत्रेण वृत्राद्भीता इन्द्रमस्तोषतेत्यर्थः । “यत् यदा “मानुषप्रधनाः ।' प्रकीर्णान्यस्मिन्धनानि भवन्ति' (निरु. ९. २३) इति नैरुक्तव्युत्पत्त्या प्रधनमिति संग्रामनाम। मनुष्यहितसंग्रामाः “ऊतयः “स्वः द्युलोकस्य रक्षितारः “मरुतः “नृषाचः प्राणरूपेण नॄन् सेवमाना भूत्वा “इन्द्रम् अपि तेनैव रूपेण “अनु “अमदन् आनुपूर्व्येण हर्षं प्रापयन् । तदानीं स इन्द्रो वृत्रवधं प्रति उद्युक्तो बभूवेति शेषः ॥ स्वश्चन्द्रम् । स्वकीयं चन्द्रं यस्य । “ ह्रस्वाच्चन्द्रोत्तरपदे मन्त्रे' (पा. सू. ६. १. १५१ ) इति सुट् । श्रुत्वेन शकारः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । भियसा । भीशब्दस्य तृतीयैकवचने छान्दसः असुगागमः तस्य उदात्तत्वं च । नृषाचः । ‘ षच समवाये । अयं सेवनार्थ इति यास्कः । वहश्च' (पा. सू. ३. २. ६४ ) इत्यत्र चशब्दस्यानुक्तसमुच्चयार्थत्वादस्मादपि ण्विप्रत्ययः । अमदन् । मदी हर्षे'। णिचि ‘मदी हर्षग्लेपनयोः' इति घटादिषु पाठात् मित्त्वे सति ‘मितां ह्रस्वः' इति ह्रस्वत्वम् । लङि ‘ छन्दस्युभयथा' इति शप आर्धधातुकत्वात् ' णेरनिटि ' इति णिलोपः ॥


द्यौश्चि॑द॒स्याम॑वाँ॒ अहे॑ः स्व॒नादयो॑यवीद्भि॒यसा॒ वज्र॑ इन्द्र ते ।

वृ॒त्रस्य॒ यद्ब॑द्बधा॒नस्य॑ रोदसी॒ मदे॑ सु॒तस्य॒ शव॒साभि॑न॒च्छिर॑ः ॥१०

द्यौः । चि॒त् । अ॒स्य॒ । अम॑ऽवान् । अहेः॑ । स्व॒नात् । अयो॑यवीत् । भि॒यसा॑ । वज्रः॑ । इ॒न्द्र॒ । ते॒ ।

वृ॒त्रस्य॑ । यत् । ब॒द्ब॒धा॒नस्य॑ । रो॒द॒सी॒ इति॑ । मदे॑ । सु॒तस्य॑ । शव॑सा । अभि॑नत् । शिरः॑ ॥१०

द्यौः । चित् । अस्य । अमऽवान् । अहेः । स्वनात् । अयोयवीत् । भियसा । वज्रः । इन्द्र । ते ।

वृत्रस्य । यत् । बद्बधानस्य । रोदसी इति । मदे । सुतस्य । शवसा । अभिनत् । शिरः ॥१०

“अमवान् बलवान् “द्यौश्चित् द्युलोकोऽपि “अस्य "अहेः वृत्रस्य “स्वनात् शब्दात् "भियसा भयेन “अयोयवीत् अत्यर्थं पृथग्भूत आसीत् । अकम्पतेत्यर्थः । हे “इन्द्र “ते तव “सुतस्य अभिषवादिभिः संस्कृतस्य सोमस्य पानेन "मदे हर्षे जाते सति त्वदीयः “वज्रः "रोदसी द्यावापृथिव्यौ “बद्बधानस्य बाधनशीलस्य “वृत्रस्य "शिरः “यत् यदा “शवसा बलेन “अभिनत् अच्छिनत् । तदानीं द्युलोको भयराहित्येन निश्चलो बभूवेति शेषः ॥ अयोयवीत् ।' यु मिश्रणामिश्रणयोः '। अस्मात् यङ्लुगन्तात् लङि ‘यङो वा ' (पा. सू. ७. ३. ९४ ) इति अपृक्तप्रत्ययस्य ईडागमः । अडागम उदात्तः । बद्बधानस्य । ‘ बाधृ विलोडने ' । ताच्छीलिके चानशि ‘ बहुलं छन्दसि ' इति शपः श्लुः । हलादिशेषाभावो धातोर्ह्रस्वत्वं च छान्दसत्वात् । चितः' इत्यन्तोदात्तत्वम् ॥ ॥ १३ ॥


यदिन्न्वि॑न्द्र पृथि॒वी दश॑भुजि॒रहा॑नि॒ विश्वा॑ त॒तन॑न्त कृ॒ष्टय॑ः ।

अत्राह॑ ते मघव॒न्विश्रु॑तं॒ सहो॒ द्यामनु॒ शव॑सा ब॒र्हणा॑ भुवत् ॥११

यत् । इत् । नु । इ॒न्द्र॒ । पृ॒थि॒वी । दश॑ऽभुजिः । अहा॑नि । विश्वा॑ । त॒तन॑न्त । कृ॒ष्टयः॑ ।

अत्र॑ । अह॑ । ते॒ । म॒घ॒ऽव॒न् । विऽश्रु॑तम् । सहः॑ । द्याम् । अनु॑ । शव॑सा । ब॒र्हणा॑ । भु॒व॒त् ॥११

यत् । इत् । नु । इन्द्र । पृथिवी । दशऽभुजिः । अहानि । विश्वा । ततनन्त । कृष्टयः ।

अत्र । अह । ते । मघऽवन् । विऽश्रुतम् । सहः । द्याम् । अनु । शवसा । बर्हणा । भुवत् ॥११

"यदिन्नु यदा खलु “पृथिवी “दशभुजिः दशगुणिता भवेत् यदि वा "कृष्टयः सर्वे मनुष्याः “विश्वा सर्वाणि "अहानि "ततनन्त विस्तारयेयुः । हे “मघवन् धनवन् "इन्द्र “अत्राह अत्रैव पूर्वोक्तेष्वेव देशकालकर्तृकेषु “ते त्वदीयं “सहः वृत्रवधादिकारणं बलं "विश्रुतं विख्यातं प्रसिद्धम् । “शवसा त्वदीयेन बलेन कृता "बर्हणा वृत्रादेर्वधरूपा क्रिया “द्यामनु “भुवत् अनुभवति । यथा द्यौर्महती तथा त्वत्कृतं वृत्रादेर्हिंसनमपि महदिति भावः ॥ ततनन्त । ‘ तनु विस्तारे'। स्वरितेत्त्वात् आत्मनेपदम् । लिङर्थे लङि उप्रत्यये प्राप्ते व्यत्ययेन शप् । छान्दसो द्विर्भावः । यद्वा । ‘ बहुलं छन्दसि ' इति उप्रत्ययस्य श्लौ सति पुनरपि व्यत्ययेन शप् । शपः पित्त्वादनुदात्तत्वम् । तिङश्च लसार्वधातुकस्वरेण धातुस्वरः शिष्यते । ‘ बहुलं छन्दस्यमाङयोगेऽपि ' इति अडभावः । यद्वृत्तयोगादनिघातः । विश्रुतम् । श्रु श्रवणे'। कर्मणि निष्ठा । ‘ गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । बर्हणा । ‘ वर्ह वल्ह परिभाषणहिंसाच्छादनेषु'। अस्मात् औणादिकः क्युप्रत्ययः । बवयोरभेद इति वकारस्य बत्वम् । प्रत्ययस्वरः । ‘ निबर्हयति' ( नि. २. १९. ३० ) इति वधकर्मसु पठितं च । भुवत् ।' भू सत्तायाम्'। लेटि अडागमः । इतश्च लोपः' इति इकारलोपः। ‘बहुलं छन्दसि ' इति शपो लुक् । ‘ भूसुवोस्तिङि' इति गुणप्रतिषेधे उवङादेशः ॥


त्वम॒स्य पा॒रे रज॑सो॒ व्यो॑मन॒ः स्वभू॑त्योजा॒ अव॑से धृषन्मनः ।

च॒कृ॒षे भूमिं॑ प्रति॒मान॒मोज॑सो॒ऽपः स्व॑ः परि॒भूरे॒ष्या दिव॑म् ॥१२

त्वम् । अ॒स्य । पा॒रे । रज॑सः । विऽओ॑मनः । स्वभू॑तिऽओजाः । अव॑से । धृ॒ष॒त्ऽम॒नः॒ ।

च॒कृ॒षे । भूमि॑म् । प्र॒ति॒ऽमान॑म् । ओज॑सः । अ॒पः । स्व१॒॑रिति॑ स्वः॑ । प॒रि॒ऽभूः । ए॒षि॒ । आ । दिव॑म् ॥१२

त्वम् । अस्य । पारे । रजसः । विऽओमनः । स्वभूतिऽओजाः । अवसे । धृषत्ऽमनः ।

चकृषे । भूमिम् । प्रतिऽमानम् । ओजसः । अपः । स्वरिति स्वः । परिऽभूः । एषि । आ । दिवम् ॥१२

हे “धृषन्मनः शत्रूणां धर्षकमनोयुक्तेन्द्र “अस्य अस्माभिः परिदृश्यमानस्य “व्योमनः व्याप्तस्य अन्तरिक्षस्य “रजसः लोकस्य “पारे उपरिप्रदेशे वर्तमानः “स्वभूत्योजाः स्वभूतबलः “त्वम् “अवसे अस्मद्रक्षणार्थं “भूमिं भूलोकं “चकृषे कृतवानसि । किंच “ओजसः बलवतां बलस्य “प्रतिमानं प्रतिनिधिरभूः । तथा “स्वः सुष्ठु अरणीयं गन्तव्यम् । आपः इति अन्तरिक्षनाम । "अपः अन्तरिक्षलोकं “आ "दिवं द्युलोकं च “परिभूः परिग्रहीता । परिपूर्वो भवतिः परिग्रहणार्थः । “एषि प्राप्नोषि॥ अस्य । ‘ ऊडिदम्' इति विभक्तेरुदात्तत्वम् । व्योमनः। अवतिर्गत्यर्थः, अव रक्षणगतिकान्ति' इत्यभिधानात्। विशेषेण गच्छति व्याप्नोतीति व्योम । यद्वा । वृष्टिप्रदानेन विशेषेण प्राणिनोऽवति रक्षतीति व्योम । ‘ अन्येभ्योऽपि दृश्यन्ते ' इति मनिन् । ज्वरत्वर' ' इत्यादिना उपधाया वकारस्य च ऊठ्। गुणः । दासीभारादित्वात् पूर्वपदप्रकृतिस्वरत्वम् । यद्वा । भावे मनिन् । विविधम् ओम रक्षणं यस्मिन् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । यणादेशे ‘उदात्तस्वरितयोर्यणः' इति परस्यानुदात्तस्य स्वरितस्वम् । स्वः । सुपूर्वात् अर्तेः ‘ अन्येभ्योऽपि दृश्यन्ते ' इति विच् । अव्ययादाप्सुपः ' ( पा. सू. २. ४. ८२ ) इति सुपो लुक् ।' न्यङ्स्वरौ स्वरितौ' (फि. सू. ७४ ) इति स्वरितत्वम् ॥


भूनाम्न्येकाहे मरुत्वतीयशस्त्रे निविद्धानीयात् सूक्तात् पुरा • त्वं भुवः प्रतिमानम्' इत्येषा शंसनीया । तथैवासूत्रयत्- ‘ शस्यमुक्तं बृहस्पतिसवेन त्वं भुवः प्रतिमानं पृथिव्याः ' ( आश्व. श्रौ. ९. ५) इति ॥

त्वं भु॑वः प्रति॒मानं॑ पृथि॒व्या ऋ॒ष्ववी॑रस्य बृह॒तः पति॑र्भूः ।

विश्व॒माप्रा॑ अ॒न्तरि॑क्षं महि॒त्वा स॒त्यम॒द्धा नकि॑र॒न्यस्त्वावा॑न् ॥१३

त्वम् । भु॒वः॒ । प्र॒ति॒ऽमान॑म् । पृ॒थि॒व्याः । ऋ॒ष्वऽवी॑रस्य । बृ॒ह॒तः । पतिः॑ । भूः॒ ।

विश्व॑म् । आ । अ॒प्राः॒ । अ॒न्तरि॑क्षम् । म॒हि॒ऽत्वा । स॒त्यम् । अ॒द्धा । नकिः॑ । अ॒न्यः । त्वाऽवा॑न् ॥१३

त्वम् । भुवः । प्रतिऽमानम् । पृथिव्याः । ऋष्वऽवीरस्य । बृहतः । पतिः । भूः ।

विश्वम् । आ । अप्राः । अन्तरिक्षम् । महिऽत्वा । सत्यम् । अद्धा । नकिः । अन्यः । त्वाऽवान् ॥१३

हे इन्द्र “त्वं “पृथिव्याः प्रथिताया विस्तीर्णाया भूमेः । “प्रतिमानं "भुवः प्रतिनिधिर्भवसि । यथा भूर्लोको महानचिन्त्यशक्तिः एवं त्वमपीत्यर्थः । तथा “ऋष्ववीरस्य । वरयन्ति विक्रान्ता भवन्तीति वीरा देवाः । ऋष्वा दर्शनीया वीरा यस्य स तथोक्तः । तस्य “बृहतः बृंहितस्य प्रवृद्धस्य स्वर्गलोकस्य “पतिर्भूः पालयितासि । तथा “अन्तरिक्षम् अन्तरा क्षान्तं द्यावापृथिव्योर्मध्ये वर्तमानमाकाशं “विश्वं सर्वमपि “महित्वा महत्त्वेन "सत्यम् “आप्राः निश्चयेन आ समन्तादपूरयः । अतः “त्वावान् त्वत्सदृशः "अन्यः कश्चित् “नकिः अस्ति नास्तीति यदेतत् तत् “अद्धा सत्यमेव ॥ भुवः । भवतेलेंटि सिपि अडागमः । उवङादेशः । पृथिव्याः । ‘ उदात्तयणो हल्पूर्वात् ' इति विभक्तिरुदात्ता । बृहतः । ‘ बृहन्महतोरुपसंख्यानम्' इति विभक्तेरुदात्तत्वम् । भूः । छान्दसे वर्तमाने लुङि ‘ बहुलं छन्दस्यमाङ्योगेऽपि ' इति अडभावः । अप्राः । ‘ प्रा पूरणे '। अदादिकः । लङि अडागमः। महित्वा । ‘सुपां सुलुक्' इति तृतीयाया डादेशः । त्वावान् । ‘वतुप्प्रकरणे युष्मदस्मद्यांक छन्दसि सादृश्य उपसंख्यानम् ' ( पा. सू. ५. २. ३९. १ ) इति सादृश्यार्थे वतुप् । 'प्रत्ययोत्तरपदयोश्च ' इति मपर्यन्तस्य त्वादेशः । ‘ आ सर्वनाम्नः' इति आत्वम् । प्रत्ययस्य पित्त्वादनुदात्तत्वे प्रातिपदिकस्वर एव शिष्यते ॥


न यस्य॒ द्यावा॑पृथि॒वी अनु॒ व्यचो॒ न सिन्ध॑वो॒ रज॑सो॒ अन्त॑मान॒शुः ।

नोत स्ववृ॑ष्टिं॒ मदे॑ अस्य॒ युध्य॑त॒ एको॑ अ॒न्यच्च॑कृषे॒ विश्व॑मानु॒षक् ॥१४

न । यस्य॑ । द्यावा॑पृथि॒वी इति॑ । अनु॑ । व्यचः॑ । न । सिन्ध॑वः । रज॑सः । अन्त॑म् । आ॒न॒शुः ।

न । उ॒त । स्वऽवृ॑ष्टिम् । मदे॑ । अ॒स्य॒ । युध्य॑तः । एकः॑ । अ॒न्यत् । च॒कृ॒षे॒ । विश्व॑म् । आ॒नु॒षक् ॥१४

न । यस्य । द्यावापृथिवी इति । अनु । व्यचः । न । सिन्धवः । रजसः । अन्तम् । आनशुः ।

न । उत । स्वऽवृष्टिम् । मदे । अस्य । युध्यतः । एकः । अन्यत् । चकृषे । विश्वम् । आनुषक् ॥१४

"यस्य इन्द्रस्य “व्यचः व्यापनं “द्यावापृथिवी द्यावापृथिव्यौ "न "अनु आनशाते प्राप्तुमसमर्थे बभूवतुः । तथा “रजसः अन्तरिक्षलोकस्योपरि “सिन्धवः स्यन्दनशीला आपो यस्य इन्द्रस्य तेजसः “अन्तम् अवसानं “न “आनशुः न प्रापुः । "उत अपि च सोमपानेन “मदे हर्षे सति “स्ववृष्टिं स्वीकृतवृष्टिं वृत्रादिं "युध्यतः युध्यमानस्य “अस्य इन्द्रस्य बलस्य अन्तं वृत्रादयः “न प्रापुः । अतो हे इन्द्र “एकः त्वम् “अन्यत् स्वव्यतिरिक्तं "विश्वं सर्वं भूतजातम् "आनुषक् आनुषक्तं “चकृषे । सकलमपि भूतजातं त्वदधीनमभूदिति भावः ॥ द्यावापृथिवी । द्यौश्च पृथिवी च । ‘ दिवो द्यावा । (पा. सू. ६. ३. २९) इति द्यावादेश आद्युदात्तो निपातितः । पृथिवीशब्दः ‘षिद्गौरादिभ्यश्च ' इति ङीषन्तोऽन्तोदात्तः । ‘ देवताद्वन्द्वे च ' इति उभयपदप्रकृतिस्वरत्वम् । ‘०अपृथिवीरुद्रपूषमन्थिषु' इति पर्युदासात् ‘नोत्तरपदेऽनुदात्तादौ ' इति निषेधाभावः । व्यचः । 'व्यचेः कुटादित्वमनसि' (का. १. २. १. १) इति वचनात् ङित्त्वाभावे संप्रसारणाभावः । आनशुः । अश्नोतेर्व्यत्ययेन परस्मैपदम् । ‘ अत आदेः' इति अभ्यासस्य आत्वम् । अश्नोतेश्च ' इति नुडागमः ।।


आर्च॒न्नत्र॑ म॒रुत॒ः सस्मि॑न्ना॒जौ विश्वे॑ दे॒वासो॑ अमद॒न्ननु॑ त्वा ।

वृ॒त्रस्य॒ यद्भृ॑ष्टि॒मता॑ व॒धेन॒ नि त्वमि॑न्द्र॒ प्रत्या॒नं ज॒घन्थ॑ ॥१५

आर्च॑न् । अत्र॑ । म॒रुतः॑ । सस्मि॑न् । आ॒जौ । विश्वे॑ । दे॒वासः॑ । अ॒म॒द॒न् । अनु॑ । त्वा॒ ।

वृ॒त्रस्य॑ । यत् । भृ॒ष्टि॒ऽमता॑ । व॒धेन॑ । नि । त्वम् । इ॒न्द्र॒ । प्रति॑ । आ॒नम् । ज॒घन्थ॑ ॥१५

आर्चन् । अत्र । मरुतः । सस्मिन् । आजौ । विश्वे । देवासः । अमदन् । अनु । त्वा ।

वृत्रस्य । यत् । भृष्टिऽमता । वधेन । नि । त्वम् । इन्द्र । प्रति । आनम् । जघन्थ ॥१५

हे इन्द्र त्वां “मरुतः “अत्र अस्मिन् संग्रामे “आर्चन् । ' प्रहर भगवो जहि वीरयस्व' (ऐ. ब्रा. ३. २०) इत्यनेन वचनेन अपूजयन् । “सस्मिन् तस्मिन् यद्वा सर्वस्मिन् “आजौ संग्रामे “विश्वे “देवासः ते सर्वे दानादिगुणयुक्ता मरुतः “त्वा त्वाम् “अनु अमदन् अनुक्रमेण हर्षं प्रापयन् । यद्वा। त्वदीयमदानन्तरं तेऽपि मदं प्राप्ताः । हे “इन्द्र “त्वं “यत् यदा "भृष्टिमता । भ्रंशयति शत्रूनिति भृष्टिः अश्रिः । तद्वता “वधेन हननसाधनेन वज्रेण । अश्रिमत्त्वं च वज्रस्य ब्राह्मणे समाम्नातं - वज्रो वा एष यद्यूपः सोऽष्टाश्रिः कर्तव्योऽष्टाश्रिर्वै वज्रः ' ( ऐ. ब्रा. २. १ ) इति । तेन वज्रेण “वृत्रस्य “आनं “प्रति आननं मुखं प्रति यद्वा श्वासहेतु घ्राणं प्रति “नि जघन्थ नितरां प्राहार्षीः ॥ आर्चन् । •अर्च पूजायाम् । भौवादिकः । आडागम उदात्तः । सस्मिन् । 'तदोः सः सौ ' (पा. सू. ७. २. १०६) इति विधीयमानं सत्वं व्यत्ययेन सप्तम्यामपि द्रष्टव्यम् । यद्वा । सर्वस्मिन्नित्यत्र वर्णलोपो द्रष्टव्यः । देवासः । आज्जसेत्सुक् ।' आनम् आननम् । वर्णलोपश्छान्दसः । यद्वा । ‘अन प्राणने'। अन्यते अनेनेति आनं घ्राणंम् । करणे घञ् । 'कर्षात्वतः' इत्यन्तोदात्तत्वम् । जघन्थ । 'हन हिंसागत्योः'। थलि उपदेशेऽत्वतः' इति इट्प्रतिषेधः । ‘ अभ्यासाच्च' इति अभ्यासादुत्तरस्य हकारस्य घत्वम् । लित्स्वरेण प्रत्ययात् पूर्वस्योदात्तत्वम् ॥ ॥ १४ ॥

मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.५२&oldid=208312" इत्यस्माद् पुनः प्राप्तिः