सामग्री पर जाएँ

ऋग्वेदः सूक्तं १.१६०

विकिस्रोतः तः
← सूक्तं १.१५९ ऋग्वेदः - मण्डल १
सूक्तं १.१६०
दीर्घतमा औचथ्यः
सूक्तं १.१६१ →
दे. द्यावापृथिवी। जगती


ते हि द्यावापृथिवी विश्वशम्भुव ऋतावरी रजसो धारयत्कवी ।
सुजन्मनी धिषणे अन्तरीयते देवो देवी धर्मणा सूर्यः शुचिः ॥१॥
उरुव्यचसा महिनी असश्चता पिता माता च भुवनानि रक्षतः ।
सुधृष्टमे वपुष्ये न रोदसी पिता यत्सीमभि रूपैरवासयत् ॥२॥
स वह्निः पुत्रः पित्रोः पवित्रवान्पुनाति धीरो भुवनानि मायया ।
धेनुं च पृश्निं वृषभं सुरेतसं विश्वाहा शुक्रं पयो अस्य दुक्षत ॥३॥
अयं देवानामपसामपस्तमो यो जजान रोदसी विश्वशम्भुवा ।
वि यो ममे रजसी सुक्रतूययाजरेभि स्कम्भनेभिः समानृचे ॥४॥
ते नो गृणाने महिनी महि श्रवः क्षत्रं द्यावापृथिवी धासथो बृहत् ।
येनाभि कृष्टीस्ततनाम विश्वहा पनाय्यमोजो अस्मे समिन्वतम् ॥५॥


सायणभाष्यम्

‘ ते हि ' इति पञ्चर्चं चतुर्थं सूक्तं दैर्घतमसं जागतं द्यावापृथिव्यम् । ‘ते हि ' इत्यनुक्रान्तम् ॥ चतुर्विंशेऽहनि वैश्वदेवशस्त्रे द्यावापृथिव्यनिविद्धानमेतत्सूक्तं - ‘ते हि द्यावापृथिवी यज्ञस्य वो रथ्यमिति वैश्वदेवम् ' ( आश्व. श्रौ. ७. ४ ) इति सूत्रितत्वात् । तथा पृष्ठ्याभिप्लवषडहयोर्द्वितीयेऽहनि वैश्वदेवे द्यावापृथिव्यं निविद्धानीयं, चातुर्विंशिकं तृतीयसवनम् ( आश्व. श्रौ. ७. ६) इति आभिप्लविके द्वितीयेऽहनि अतिदिष्टत्वात्। आभिप्लविकात् द्वितीयादह्नः पृष्ठ्यस्य द्वितीयेऽहनि एतत्सूक्तमतिदेशतः प्राप्तं, ‘पृष्ठ्यस्याभिप्लवेनोक्ते अहनी आद्ये आद्याभ्याम् ' ( आश्व. श्रौ. ७. १०) इति सूत्रितत्वात् । प्रथमा आश्विनशस्त्रे विनियुक्ता । ‘ संस्थितेष्वाश्विनाय' इत्यत्र सूत्रितं - ते हि द्यावापृथिवी विश्वशंभुवा विश्वस्य देवीमृचयस्य ' ( आश्व. श्रौ. ६. ५) इति ।


ते हि द्यावा॑पृथि॒वी वि॒श्वश॑म्भुव ऋ॒ताव॑री॒ रज॑सो धार॒यत्क॑वी ।

सु॒जन्म॑नी धि॒षणे॑ अ॒न्तरी॑यते दे॒वो दे॒वी धर्म॑णा॒ सूर्य॒ः शुचि॑ः ॥१

ते इति॑ । हि । द्यावा॑पृथि॒वी इति॑ । वि॒श्वऽश॑म्भुवा । ऋ॒तव॑री॒ इत्यृ॒तऽव॑री । रज॑सः । धा॒र॒यत्क॑वी॒ इति॑ धा॒र॒यत्ऽक॑वी ।

सु॒जन्म॑नी॒ इति॑ सु॒ऽजन्म॑नी । धि॒षणे॒ इति॑ । अ॒न्तः । ई॒य॒ते॒ । दे॒वः । दे॒वी इति॑ । धर्म॑णा । सूर्यः॑ । शुचिः॑ ॥१

ते इति । हि । द्यावापृथिवी इति । विश्वऽशम्भुवा । ऋतवरी इत्यृतऽवरी । रजसः । धारयत्कवी इति धारयत्ऽकवी ।

सुजन्मनी इति सुऽजन्मनी । धिषणे इति । अन्तः । ईयते । देवः । देवी इति । धर्मणा । सूर्यः । शुचिः ॥१

“ते “हि ते खलु प्रसिद्धे “द्यावापृथिवी "अन्तः तयोरन्तराले “शुचिः शुद्धो विश्वस्य शोचयिता वा “देवः दीप्यमानः “सूर्यः “धर्मणा प्रकाशोदकदानादिधारणेन युक्तः सन् “ईयते सर्वदा गच्छति ॥ ‘ ईङ् गतौ'। दैवादिकः ॥ तादृशं कर्म युवयोरनुग्रहादिति स्तुतिः । कीदृश्यौ ते। “विश्वशंभुवा । विश्वं सुखभावयितृ ययोः ते विश्वशंभुवा । विश्वस्य सुखयित्र्यावित्यर्थः । “ऋतावरी ऋतवत्यौ ॥ ऋतशब्दात् छन्दसीवनिपौ' इति वनिप् । वनो र च' इति ङीब्रेफौ ॥ “रजसः उदकस्य उदकोत्पत्तौ । ‘ उदकं रज उच्यते ' ( निरु. ४. १९) इति निरुक्तम् । “धारयत्कवी अकृच्छ्रेण धारकं कवि ययोस्ते तादृश्यौ । उदकोत्पादनाय अप्रयत्नवत्यौ इत्यर्थः । यद्वा । धारयस्कविर्मनीषी आदित्यो ययोस्ते तादृश्यौ । वृष्ट्युदकधारयत्सूर्योपेते इत्यर्थः। "सुजन्मनी शोभनजन्मवत्यौ “धिषणे धर्षणोपेते स्वव्यापारेषु प्रगल्भे इत्यर्थः। “देवी द्योतमाने । अत्र यद्यपि धिषणे इत्येतत् ‘धिषणे रोदसी' (नि. ३. ३०. ३ ) इति तन्नामसु उक्तत्वात् द्यावापृथिवीनाम, तथापि द्यावापृथिवी इत्यस्य विद्यमानत्वात् यौगिकं द्रष्टव्यम् ।


उ॒रु॒व्यच॑सा म॒हिनी॑ अस॒श्चता॑ पि॒ता मा॒ता च॒ भुव॑नानि रक्षतः ।

सु॒धृष्ट॑मे वपु॒ष्ये॒३॒॑ न रोद॑सी पि॒ता यत्सी॑म॒भि रू॒पैरवा॑सयत् ॥२

उ॒रु॒ऽव्यच॑सा । म॒हिनी॒ इति॑ । अ॒स॒श्चता॑ । पि॒ता । मा॒ता । च॒ । भुव॑नानि । र॒क्ष॒तः॒ ।

सु॒धृष्ट॑मे॒ इति॑ सु॒ऽधृष्ट॑मे । व॒पु॒ष्येः॒३॒॑ इति॑ । न । रोद॑सी॒ इति॑ । पि॒ता । यत् । सी॒म् । अ॒भि । रू॒पैः । अवा॑सयत् ॥२

उरुऽव्यचसा । महिनी इति । असश्चता । पिता । माता । च । भुवनानि । रक्षतः ।

सुधृष्टमे इति सुऽधृष्टमे । वपुष्येः इति । न । रोदसी इति । पिता । यत् । सीम् । अभि । रूपैः । अवासयत् ॥२

“उरुव्यचसा प्रभूतव्यचनवत्यौ अतिविस्तीर्णे “महिनी अत एव महत्यौ “असश्चता असज्जमाने परस्परवियुक्ते इत्यर्थः। "पिता पालयित्री द्यौः “माता निर्मात्री पृथिवी “च इत्युभे "भुवनानि भूतजातानि "रक्षतः पालयतः । ‘ द्यौष्पितः पृथिवि मातः' (ऋ. सं. ६. ५१. ५) इत्यादिश्रुतेर्मातापितृरूपत्वम् । किंच "सुधृष्टमे अतिशयेन धृष्टे ॥ छान्दसस्तकारलोपः ॥ प्रगल्भे “रोदसी द्यावापृथिव्यौ "वपुष्ये "न वपुषो हिते इव । प्राणिनां पितराविव शरीररक्षके इत्यर्थः । तदेवोपपादयति । “यत् यस्मात् “सीं सर्वतः “पिता पितृस्थानीयो द्यौः “रूपैः निरूपणसाधनैः प्रशस्तैः प्रकाशैः निरूप्यमाणैर्वृष्ट्यादिभिर्वा “अभि “अवासयत् अभिवासयति अधितिष्ठति तस्मात् पिता माता च भुवनानि रक्षतः ॥


स वह्नि॑ः पु॒त्रः पि॒त्रोः प॒वित्र॑वान्पु॒नाति॒ धीरो॒ भुव॑नानि मा॒यया॑ ।

धे॒नुं च॒ पृश्निं॑ वृष॒भं सु॒रेत॑सं वि॒श्वाहा॑ शु॒क्रं पयो॑ अस्य दुक्षत ॥३

सः । वह्निः॑ । पु॒त्रः । पि॒त्रोः । प॒वित्र॑ऽवान् । पु॒नाति॑ । धीरः॑ । भुव॑नानि । मा॒यया॑ ।

धे॒नुम् । च॒ । पृश्नि॑म् । वृ॒ष॒भम् । सु॒ऽरेत॑सम् । वि॒श्वाहा॑ । शु॒क्रम् । पयः॑ । अ॒स्य॒ । धु॒क्ष॒त॒ ॥३

सः । वह्निः । पुत्रः । पित्रोः । पवित्रऽवान् । पुनाति । धीरः । भुवनानि । मायया ।

धेनुम् । च । पृश्निम् । वृषभम् । सुऽरेतसम् । विश्वाहा । शुक्रम् । पयः । अस्य । धुक्षत ॥३

“पित्रोः मातापित्रोर्द्यवापृथिव्योः ।। पिता मात्रा ' इति पिता शिष्यते । ‘ उदात्तयणः । इति पितुर्विभक्तिरुदात्ता ।। “पुत्रः पुरुत्राता पुत्रस्थानीयः आदित्यः पवित्रवान् 'पावनरश्मियुक्तः “धीरः धीमान् "सः “वह्निः फलस्य वोढा धारकः सन् 'मायया प्रज्ञया स्वकीयया “भुवनानि भूतजातानि “पुनाति पावयति प्रकाशयतीत्यर्थः । किंच स एव पुत्रः “पृश्निं शुक्लवर्णां “धेनुं प्रीणयित्रीं भूमिं “सुरेतसं शोभनसामर्थ्यं शोभनोदकं वा “वृषभं सेक्तारं द्युलोकं “च मायया पुनाति प्रकाशयतीत्यर्थः । कदा । "विश्वाहा सर्वाण्यप्यहानि सर्वकालमित्यर्थः । किंच “अस्य द्युलोकस्य । यद्वा ॥ कर्मणि षष्ठी । इमं द्युलोकम् । “शुक्रं “पयः दीप्तं पयःसदृशमुदकं “धुक्षत दोग्धि ॥ दुहेश्छान्दसे लुङि ‘ शल इगुपधादनिटः क्सः' इति च्लेः क्सादेशः ।। ईदृशो महानुभावः आदित्यस्तयोः पुत्रः इति द्यावापृथिव्योः स्तुतिः ॥


अ॒यं दे॒वाना॑म॒पसा॑म॒पस्त॑मो॒ यो ज॒जान॒ रोद॑सी वि॒श्वश॑म्भुवा ।

वि यो म॒मे रज॑सी सुक्रतू॒यया॒जरे॑भि॒ः स्कम्भ॑नेभि॒ः समा॑नृचे ॥४

अ॒यम् । दे॒वाना॑म् । अ॒पसा॑म् । अ॒पःऽत॑मः । यः । ज॒जान॑ । रोद॑सी॒ इति॑ । वि॒श्वऽश॑म्भुवा ।

वि । यः । म॒मे । रज॑सी॒ इति॑ । सु॒क्र॒तु॒ऽयया॑ । अ॒जरे॑भिः । स्कम्भ॑नेभिः । सम् । आ॒नृ॒चे॒ ॥४

अयम् । देवानाम् । अपसाम् । अपःऽतमः । यः । जजान । रोदसी इति । विश्वऽशम्भुवा ।

वि । यः । ममे । रजसी इति । सुक्रतुऽयया । अजरेभिः । स्कम्भनेभिः । सम् । आनृचे ॥४

पूर्वं पुत्रमाहात्म्येनैते प्रशस्य इदानीं स्वोत्पादकस्तुत्या प्रशंसति । “अयं “देवानां मध्ये देवतमः “अपसामपस्तमः । अप इति कर्मनाम । तेन तद्वान् लक्ष्यते । कर्मवतां मध्ये प्रकृष्टकर्मा । अयमित्युक्तं क इत्याह। “यः देवः “विश्वशंभुवा सर्वप्रकारेण भूतानां सुखस्य भावयित्र्यौ “रोदसी द्यावापृथिव्यौ महानुभावे "जजान उत्पादितवान् । न केवलमुत्पादनमात्रं अपि तु “यः देवः "रजसी रञ्जनात्मिके द्यावापृथिव्यौ । रजसी इति द्यावापृथिव्योर्नाम, ‘रजसी सदसी' (नि. ३. ३०.८) इति तन्नामसु पाठात् । उक्तरूपे “वि “ममे विशेषेण परिच्छिनत्ति । किं स्वोपभोगाय नेत्याह। “सुक्रतूयया शोभनकर्मेच्छया । येन कर्मणा प्राणिनां सुखं संभवति तादृक्कर्मेच्छया । अथवा एतदुत्तरत्र संबध्यते । सुक्रतूयया उक्तेन निमित्तेन इमे द्यावापृथिव्यौ "अजरेभिः अजीर्णैर्दृढतरैः "स्कम्भनेभिः गतिप्रतिबन्धसाधनैः शङ्कुभिः “समानृचे सम्यक् सर्वतः पूजितवान् स्थापितवानित्यर्थः ॥ ऋच स्तुतौ'। लिटि रेफसामान्यात् द्विहल्त्वमस्तीति तस्मान्नुड्द्विहलः' इत्यभ्यासस्य नुट् । यस्मादेवं तस्माद्यमेव देवः अयमेव अपस्तमः इत्येवंमहानुभावेन परमेश्वरेणोत्पन्ने इति स्तुतिः ॥


ते नो॑ गृणा॒ने म॑हिनी॒ महि॒ श्रव॑ः क्ष॒त्रं द्या॑वापृथिवी धासथो बृ॒हत् ।

येना॒भि कृ॒ष्टीस्त॒तना॑म वि॒श्वहा॑ प॒नाय्य॒मोजो॑ अ॒स्मे समि॑न्वतम् ॥५

ते । नः॒ । गृ॒णा॒ने इति॑ । म॒हि॒नी॒ इति॑ । महि॑ । श्रवः॑ । क्ष॒त्रम् । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । धा॒स॒थः॒ । बृ॒हत् ।

येन॑ । अ॒भि । कृ॒ष्टीः । त॒तना॑म । वि॒श्वहा॑ । प॒नाय्य॑म् । ओजः॑ । अ॒स्मे इति॑ । सम् । इ॒न्व॒त॒म् ॥५

ते । नः । गृणाने इति । महिनी इति । महि । श्रवः । क्षत्रम् । द्यावापृथिवी इति । धासथः । बृहत् ।

येन । अभि । कृष्टीः । ततनाम । विश्वहा । पनाय्यम् । ओजः । अस्मे इति । सम् । इन्वतम् ॥५

“ते प्रसिद्धे हे “द्यावाथिवी द्यावापृथिव्यौ “गृणाने अस्माभिः स्तूयमाने सत्यौ ॥ कर्मणि कर्तृप्रत्ययः ॥ “महि महदतिप्रभूतं “श्रवः सर्वत्र प्रसिद्धमन्नं सर्वत्र श्रूयमाणां कीर्तिं वा “नः अस्मभ्यं “धासथः धत्तम् ।। दधातेर्लेट्यडागमः । ‘ सिब्बहुलम्' इति सिप् । तथा “बृहत् अतिप्रभूतं “क्षत्रं बलं धासथः । तदेव विशेष्यते । “येन अन्नबलेन “विश्वहा सर्वेष्वपि अहःसु “कृष्टीः पुत्रादिरूपाः प्रजाः "अभि “ततनाम अभितो विस्तारयाम॥ तनोतेर्लोटि छान्दसो विकरणस्य श्लुः। ‘आडुत्तमस्य इति आडागमः । तस्य ‘ छन्दस्युभयथा ' इति आर्धधातुकत्वात् अभ्यस्ताद्युदात्तत्वाभावे धातुस्वरः ॥ कृष्टय इति मनुष्यनाम, कृष्टयः चर्षणयः ' ( नि. २. ३. ७) इति तन्नामसु पाठात् । किंच “पनाय्यं स्तुत्यम् “ओजः शरीरबलम् “अस्मे अस्मासु सम्यक् “इन्वतं व्याप्नुतं प्रवर्धयतमित्यर्थः । इन्वतिर्व्यप्तिवचनः, ‘इन्वति ननक्ष' ( नि. २. १८. १ ) इति तन्नामसु पाठात् ॥ ॥ ३ ॥


मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१६०&oldid=205747" इत्यस्माद् प्रतिप्राप्तम्