ऋग्वेदः सूक्तं १.६६
← सूक्तं १.६५ | ऋग्वेदः - मण्डल १ सूक्तं १.६६ पराशरः शाक्त्यः |
सूक्तं १.६७ → |
दे. अग्निः। द्विपदा विराट् । |
रयिर्न चित्रा सूरो न संदृगायुर्न प्राणो नित्यो न सूनुः ॥१॥
तक्वा न भूर्णिर्वना सिषक्ति पयो न धेनुः शुचिर्विभावा ॥२॥
दाधार क्षेममोको न रण्वो यवो न पक्वो जेता जनानाम् ॥३॥
ऋषिर्न स्तुभ्वा विक्षु प्रशस्तो वाजी न प्रीतो वयो दधाति ॥४॥
दुरोकशोचिः क्रतुर्न नित्यो जायेव योनावरं विश्वस्मै ॥५॥
चित्रो यदभ्राट् छ्वेतो न विक्षु रथो न रुक्मी त्वेषः समत्सु ॥६॥
सेनेव सृष्टामं दधात्यस्तुर्न दिद्युत्त्वेषप्रतीका ॥७॥
यमो ह जातो यमो जनित्वं जारः कनीनां पतिर्जनीनाम् ॥८॥
तं वश्चराथा वयं वसत्यास्तं न गावो नक्षन्त इद्धम् ॥९॥
सिन्धुर्न क्षोदः प्र नीचीरैनोन्नवन्त गावः स्वर्दृशीके ॥१०॥
सायणभाष्यम्
‘रयिः' इति दशर्चं द्वैपदमध्ययनतः पञ्चर्चं द्वितीयं सूक्तं पराशरस्यार्षमाग्नेयम् । अनुक्रान्तं च --’ रयिः' इति । विनियोगो लैङ्गिकः ॥
र॒यिर्न चि॒त्रा सूरो॒ न सं॒दृगायु॒र्न प्रा॒णो नित्यो॒ न सू॒नुः ॥१
र॒यिः । न । चि॒त्रा । सूरः॑ । न । स॒म्ऽदृक् । आयुः॑ । न । प्रा॒णः । नित्यः॑ । न । सू॒नुः ॥१
रयिः । न । चित्रा । सूरः । न । सम्ऽदृक् । आयुः । न । प्राणः । नित्यः । न । सूनुः ॥१
तक्वा॒ न भूर्णि॒र्वना॑ सिषक्ति॒ पयो॒ न धे॒नुः शुचि॑र्वि॒भावा॑ ॥२
तक्वा॑ । न । भूर्णिः॑ । वना॑ । सि॒स॒क्ति॒ । पयः॑ । न । धे॒नुः । शुचिः॑ । वि॒भाऽवा॑ ॥२
तक्वा । न । भूर्णिः । वना । सिसक्ति । पयः । न । धेनुः । शुचिः । विभाऽवा ॥२
अयमग्निः “रयिर्न धनमिव “चित्रा चायनीयो विचित्ररूपो वा “सूरो न सूर्य इव “संदृक् संद्रष्टा सर्वेषां वस्तूनां दर्शयिता “आयुर्न प्राणः आयुर्मुखे संचरन् प्राणः प्रश्वसन्वायुरिव' प्रियतमः । यद्वा । यथा प्राणवायुः आयुः जीवनमवस्थापयति । तथा चाम्नायते-’ यावद्ध्यस्मिन् शरीरे प्राणो वसति तावदायुः' (कौ.उ.३.२) इति । एवमग्निरपि जाठररूपेणायुषोऽवस्थापयिता। “नित्यः “न “सूनुः नित्यो ध्रुवः पुत्र इव प्रियकारी। यथौरसः पुत्रः पितुर्हितमेवाचरति तद्वदयमपि हितस्य स्वर्गस्य प्रापयिता । तथा चाम्नायते-’ पुत्रः पित्रे लोककृज्जातवेदः' (तै. ब्रा. ३. ७. ७. १०) इति । “तक्वा “न गतिमानश्व इव “भूर्णिः भर्ता । यथाश्व उपर्यारूढं पुरुषं बिभर्ति धारयति पोषयति वा तद्वदयमपीत्यर्थः। “पयो “न “धेनुः पय इव प्रीणयिता “शुचिः दीप्तः “विभावा विशिष्टप्रकाशयुक्तः । एवंगुणविशिष्टोऽग्निः “वना वनान्यरण्यानि “सिषक्ति दग्धुं समवैति सेवते वा ॥ चित्रा । ‘सुपां सुलुक् ' इति सोः पूर्वसवर्णदीर्घत्वम् । नित्यः ।' नेर्ध्रुवे ' ( पा. म. ४. २. १०४ ) इति त्यप् । प्रत्ययस्य पित्त्वादनुदात्तत्वे उपसर्गस्वर एव शिष्यते । तक्वा । ‘ तक हसने ' । गतिकर्मसु पठितत्वादत्र गत्यर्थः । तकति गच्छतीति तक्वा । अन्येभ्योऽपि दृश्यन्ते ' इति वनिप् । भूर्णिः । ‘ घृणिः पृश्निः' इत्यादौ भरतेर्निप्रत्ययान्तो निपातितः ॥
दा॒धार॒ क्षेम॒मोको॒ न र॒ण्वो यवो॒ न प॒क्वो जेता॒ जना॑नाम् ॥३
दा॒धार॑ । क्षेम॑म् । ओकः॑ । न । र॒ण्वः । यवः॑ । न । प॒क्वः । जेता॑ । जना॑नाम् ॥३
दाधार । क्षेमम् । ओकः । न । रण्वः । यवः । न । पक्वः । जेता । जनानाम् ॥३
ऋषि॒र्न स्तुभ्वा॑ वि॒क्षु प्र॑श॒स्तो वा॒जी न प्री॒तो वयो॑ दधाति ॥४
ऋषिः॑ । न । स्तुभ्वा॑ । वि॒क्षु । प्र॒ऽश॒स्तः । वा॒जी । न । प्री॒तः । वयः॑ । द॒धा॒ति॒ ॥४
ऋषिः । न । स्तुभ्वा । विक्षु । प्रऽशस्तः । वाजी । न । प्रीतः । वयः । दधाति ॥४
अयमग्निः “क्षेमं लब्धस्य धनस्य रक्षणं “दाधार धारयति । स्तोतृभ्यो दत्तस्य धनस्य रक्षणं कर्तुं शक्नोतीति भावः । “ओको “न निवासस्थानं गृहमिव “रण्वः रमणीयः । यद्वा । गन्तव्यः । गृहवत् सर्वैः प्राप्यते इत्यर्थः। "यवो “न यव इव “पक्वः । यथा पक्वो यव उपभोगयोग्यः भवति तद्वदग्निरपि पाकादिकार्यहेतुतया उपभोग्यः इत्यर्थः । “जनानां “जेता शत्रुजनानां मध्येऽभिभविता “ऋषिर्न मन्त्रद्रष्टा ऋषिरिव "स्तुभ्वा देवानां स्तोता "विक्षु यजमानलक्षणेषु मनुष्येषु “प्रशस्तः प्रख्यातः “वाजी “न अश्व इव "प्रीतः हर्षयुक्तः । यथाश्वो हर्षयुक्तो युद्धाभिमुखं गच्छति तद्वदयमपि देवानां हविर्वहने हर्षयुक्तो भवतीत्यर्थः । एवंभूतोऽग्निः “वयः अन्नं “दधाति दधातु । अस्मभ्यं ददात्वित्यर्थः । वय इत्यन्ननाम। ‘ वयः क्षद्म' इति तन्नामसु पाठात् ॥ दाधार । तुजादीनाम् ' इति अभ्यासस्य दीर्घत्वम् । क्षेमम् । क्षियति निवसत्यनेनेति क्षेमः । ‘ अर्तिस्तुसु ' इत्यादिना मन् । नित्त्वादाद्युदात्तत्वम् । रण्वः । ‘ रवि धवि गत्यर्थाः । अस्मात् कर्मणि कप्रत्ययः । इदित्त्वात् नुम् । जेता । तृनन्त आद्युदात्तः । जनानाम् । यतश्च निर्धारणम् ' ( पा. सू. २. ३. ४१ ) इति निर्धारणे षष्ठी, नेयं कर्मणि षष्ठी इति ‘न लोकाव्ययनिष्ठा । इति षष्ठीप्रतिषेधो न भवति । स्तुभ्वा। स्तोभतिः स्तुतिकर्मा । ‘ अन्येभ्योऽपि दृश्यन्ते' इति क्वनिप्॥
दु॒रोक॑शोचि॒ः क्रतु॒र्न नित्यो॑ जा॒येव॒ योना॒वरं॒ विश्व॑स्मै ॥५
दु॒रोक॑ऽशोचिः । क्रतुः॑ । न । नित्यः॑ । जा॒याऽइ॑व । योनौ॑ । अर॑म् । विश्व॑स्मै ॥५
दुरोकऽशोचिः । क्रतुः । न । नित्यः । जायाऽइव । योनौ । अरम् । विश्वस्मै ॥५
चि॒त्रो यदभ्रा॑ट् छ्वे॒तो न वि॒क्षु रथो॒ न रु॒क्मी त्वे॒षः स॒मत्सु॑ ॥६
चि॒त्रः । यत् । अभ्रा॑ट् । श्वे॒तः । न । वि॒क्षु । रथः॑ । न । रु॒क्मी । त्वे॒षः । स॒मत्ऽसु॑ ॥६
चित्रः । यत् । अभ्राट् । श्वेतः । न । विक्षु । रथः । न । रुक्मी । त्वेषः । समत्ऽसु ॥६
"दुरोकशोचिः दुष्प्रापतेजाः “क्रतुर्न “नित्यः। क्रतुः कर्मणां कर्ता । स इव ध्रुवः । यथा सः कर्मसु ध्रुवोऽप्रमत्तः सन् जागर्ति तद्वदयमप्यग्निः कर्मसु रक्षसां दहने ध्रुवो जागर्तीत्यर्थः । “योनौ गृहे वर्तमाना “जायेव योषिदिव अग्निहोत्रादिगृहे वर्तमानो वह्निः “विश्वस्मै सर्वस्मै यष्टृजनाय "अरम् अलं भूषणं भवति । यथा जायया गृहमलंकृतं भवति तद्वदग्निना यज्ञगृहमप्यलंकृतं सत् दृश्यते इत्यर्थः । “चित्रः चायनीयो विचित्रदीप्तिर्वा “यत् यदायमग्निः “अभ्राट् भ्राजते तदानीं “श्वेतो “न शुभ्रवर्ण आदित्य इव भवति। रात्रौ हि अहनि सूर्य इवाग्निः' प्रकाशको भवति । "विक्षु प्रजासु “रथो “न रथ इव “रुक्मी सुवर्णवद्रोचमानदीप्तियुक्तः “समत्सु संग्रामेषु “त्वेषः दीप्तः । एवंभूतोऽग्निर्यदभ्राडिति पूर्वेणान्वयः ॥ दुरोकशोचिः । ‘ उच समवाये । ‘ ईषद्दुःसुषु° ' इति कृच्छ्रार्थे खल् । बहुलवचनात् कुत्वम् । लित्स्वरेण प्रत्ययात् पूर्वस्योदात्तत्वम् । दुरोकं शोचिस्तेजो यस्य । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । अरम् । वालमूल° ' ( पा. म. ८. २. १८) इत्यादिना लकारस्य रेफादेशः । अभ्राट् । ‘ भ्राजृ दीप्तौ ' । लङि व्यत्ययेन परस्मैपदम् । ‘ बहुलं छन्दसि ' इति शपो लुक् । व्रश्चादिषत्वे जश्त्वम्। अडागम उदात्तः । यद्वृत्तयोगादनिघातः। समत्सु । समानं माद्यन्त्येष्विति समदः संग्रामाः । औणादिकः अधिकरणे क्विप्। समानस्य च्छन्दसि ' इति सभावः । यद्वा । सम्यगत्ति भक्षयति वीरानिति समत् । संपूर्वादत्तेः ‘क्विप् च ' इति क्विप् ॥
सेने॑व सृ॒ष्टामं॑ दधा॒त्यस्तु॒र्न दि॒द्युत्त्वे॒षप्र॑तीका ॥७
सेना॑ऽइव । सृ॒ष्टा । अम॑म् । द॒धा॒ति॒ । अस्तुः॑ । न । दि॒द्युत् । त्वे॒षऽप्र॑तीका ॥७
सेनाऽइव । सृष्टा । अमम् । दधाति । अस्तुः । न । दिद्युत् । त्वेषऽप्रतीका ॥७
य॒मो ह॑ जा॒तो य॒मो जनि॑त्वं जा॒रः क॒नीनां॒ पति॒र्जनी॑नाम् ॥८
य॒मः । ह॒ । जा॒तः । य॒मः । जनि॑ऽत्वम् । जा॒रः । क॒नीना॑म् । पतिः॑ । जनी॑नाम् ॥८
यमः । ह । जातः । यमः । जनिऽत्वम् । जारः । कनीनाम् । पतिः । जनीनाम् ॥८
“सृष्टा प्रेरिता “सेनेव स्वामिना सह वर्तमाना भटसंहतिरिव अयमग्निः "अमं शत्रूणां भयं दधाति विदधाति । करोतीत्यर्थः । यद्वा । सृष्टा सेनेव अमं बलं दधाति । स यथा बलवती तद्वदग्निरपि बलवानित्यर्थः । निदर्शनान्तरमुच्यते । दिद्युदिति वज्रनाम । तेन चात्रेषुर्लक्ष्यते । “त्वेषप्रतीका दीप्तमुखा “अस्तुर्न दिद्युत् क्षेप्तुः संबन्धिनी इषुरिव । सो यथा भीषयते तद्वदग्निरपि राक्षसादीन् भीषयते इत्यर्थः । अत्र निरुक्तं-- सेनेव सृष्टा भयं वा बलं वा दधात्यस्तुरिव दिद्युत्त्वेषप्रतीका' ( निरु. १०. २१ ) इत्यादि । यच्छति ददाति स्तोतृभ्यः कामानिति यमोऽग्निरुच्यते । यद्वा । इन्द्राग्न्योर्युगपदुत्पन्नत्वादग्नेर्यमत्वम् । अस्मिन्नर्थे यास्केन मन्त्रब्राह्मणे दर्शिते-’ यमो ह जात इन्द्रेण सह संगतः । यमाविहेह मातरेत्यपि निगमो भवति' ( निरु. १०, २१ ) इति । यः “जातः उत्पन्नो भूतसंघो यच्च “जनित्वं जनयितव्यमुत्पत्स्यमानं भूतजातं तदुभयमपि “यमो "ह अग्निरेव। सर्वेषां भावानामाहुतिद्वारा अग्न्यधीनत्वात् । “कनीनां कन्यकानां “जारः जरयिता । यतो विवाहसमये अग्नौ लाजादिद्रव्यहोमे सति तासां कन्यात्वं निवर्तते । अतो जरयितेत्युच्यते । तथा “जनीनां जायानां कृतविवाहानां “पतिः भर्ता । तथा चाख्यायते- अनुपजातपुरुषसंभोगेच्छावस्थां स्त्रियं सोमो लेभे । स च सोमः ईषदुपजातभोगेच्छां तां विश्वावसवे गन्धर्वाय प्रादात् । स च गन्धर्वो विवाहसमयेऽग्नये प्रददौ । अग्निश्च मनुजाय भर्त्रे धनपुत्रैः सहितामिमां प्रायच्छत् ' इति । इममर्थं काचिदृक् स्पष्टं ब्रूते-'सोमो ददद्गन्धर्वाय गन्धर्वो दददग्नये । रयिं च पुत्रांश्चादादग्निर्मह्यमथो इमाम् ' ( ऋ. सं. १०. ८५. ४१ ) इति । यास्कस्त्वाह- तृतीयो अग्निष्टे पतिरित्यपि निगमो भवति' ( निरु. १०. २१ ) इति । यद्वा । जनीनां पालयिता यतोऽयम् अनुष्ठितैर्यागैः फलं प्रयच्छति ॥ सेनेव । इनेन सह वर्तते इति सेना । ‘ वोपसर्जनस्य ' इति सभावः । बहुव्रीहिस्वरः । जनित्वम् । जनी प्रादुर्भावे'। ‘ कृत्यार्थे तवैकेन् इति कर्मणि त्वन्प्रत्ययः । इडागमः । नित्त्वादाद्युदात्तत्वम् । जारः । जरयतीति जारः । दारजारौ कर्तरि णिलुक् च' (पा. सू. ३. ३. २०. ४ ) इति निपात्यते । कनीनाम् । कन्याशब्दात षष्ठ्येकवचने ‘ बहुलं छन्दसि ' इति बहुलग्रहणात् संप्रसारणम् । परपूर्वत्वम् । जनीनाम् । जन्यन्ते आसु इति जनयः स्त्रियः । ‘ इन्सर्वधातुभ्यः' इति इन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् ॥
तं व॑श्च॒राथा॑ व॒यं व॑स॒त्यास्तं॒ न गावो॒ नक्ष॑न्त इ॒द्धम् ॥९
तम् । वः॒ । च॒राथा॑ । व॒यम् । व॒स॒त्या । अस्त॑म् । न । गावः॑ । नक्ष॑न्ते । इ॒द्धम् ॥९
तम् । वः । चराथा । वयम् । वसत्या । अस्तम् । न । गावः । नक्षन्ते । इद्धम् ॥९
सिन्धु॒र्न क्षोद॒ः प्र नीची॑रैनो॒न्नव॑न्त॒ गाव॒ः स्व१॒॑र्दृशी॑के ॥१०
सिन्धुः॑ । न । क्षोदः॑ । प्र । नीचीः॑ । ऐ॒नो॒त् । नव॑न्त । गावः॑ । स्वः॑ । दृशी॑के ॥१०
सिन्धुः । न । क्षोदः । प्र । नीचीः । ऐनोत् । नवन्त । गावः । स्वः । दृशीके ॥१०
“वः इति व्यत्ययेन बहुवचनम्। हे अग्ने “तं त्वां “चराथा। चरतीति चरथः पशुः । तत्प्रभवैर्हृदयादिभिः साध्या आहुतिरपि चरथा इत्युच्यते । उपचारात् कार्ये कारणशब्दः । चराथा चरथया पशुप्रभवहृदयादिसाधनया आहुत्या । "वसत्या । वसति निवसतीति स्थावरो व्रीह्यादिर्वसतिः। पूर्ववत् तत्साध्याहुतिर्लक्ष्यते । वसत्या पुरोडाशाद्याहुत्या च “वयम् “इद्धं प्रदीप्तमग्निं “नक्षन्ते व्याप्नुयाम । पुरुषव्यत्ययः । तत्र दृष्टान्तः। “अस्तं “न “गावः । अस्तमिति गृहनाम। यथा गावो गृहं व्याप्नुवन्ति तद्वत् । अत्र यास्कः- ‘तं वश्चराथा चरन्त्या पश्वाहुत्या वसत्या च निवसन्त्यौषधाहुत्यास्तं यथा गाव आप्नुवन्ति तथाप्नुयाम' ( निरु. १०. २१) इति । अयमग्निः सिन्धुर्न “क्षोदः स्यन्दनशीलमुदकमिव "नीचीः नितरामञ्चतीः इतस्ततो नितरामुद्गच्छन्तीर्ज्वालाः “प्र “ऐनोत् प्रेरयति । यथा जलप्रवाहो निम्नदेशे शीघ्रं गच्छति तद्वदग्नेर्ज्वालाः दग्धव्यं प्रति गच्छन्तीति भावः । “स्वः नभसि वर्तमाने “दृशीके दर्शनीये तस्मिन्नग्नौ “गावः गमनस्वभावा रश्मयः “नवन्त संगच्छन्ते । नवतिर्गतिकर्मा ॥ चराथा । चरेरौणादिकः अथक्प्रत्ययः । दीर्घश्छान्दसः । सुपां सुलुक् ' इति विभक्तेः आकारः । वसत्या । ‘ वहिवस्यर्तिभ्यश्चित्' (उ, सू. ४, ५०० ) इति अतिप्रत्ययः । ‘ उदात्तयणः०' इति विभक्तेरुदात्तत्वम् । अस्तम् । अस्यते अस्मिन् सर्वमित्यस्तं गृहम् । ‘असिहसि' इत्यादिना तन्। 'तितुत्र' इति इट्प्रतिषेधः । नित्त्वादाद्युदात्तत्वम् । नक्षन्ते । नक्षतिर्व्र्याप्तिकर्मा । ' नक्ष गतौ । व्यत्ययेनात्मनेपदम् । चादिलोपे विभाषा ' इति निघाताभावः । नीचीः । निपूर्वात् ' अञ्चतेश्चोपसंख्यानम् ' ( पा. सू. ४. १. ६. २ ) इति डीप् ।' अचः' इति अकारलोपे ' चौ ' इति दीर्घत्वम् । ‘न्यधी च ' ( पा. सू. ६. २. ५३) इति गतेः प्रकृतिस्वरत्वम् । ऐनोत् । • इण् गतौ ' । अन्तर्भावितण्यर्थात् छन्दसि लुङ्लङ्लिटः' इति वर्तमाने लङि व्यत्ययेन श्नुः । आडागमो वृद्धिश्च । दृशीके । “ दृशिर् प्रेक्षणे ' । “ अनिदृशिभ्यां च ' इति कीकन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् ।।
मण्डल १ | ||||||
---|---|---|---|---|---|---|
|