ऋग्वेदः सूक्तं १.१५९

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं १.१५८ ऋग्वेदः - मण्डल १
सूक्तं १.१५९
दीर्घतमा औचथ्यः
सूक्तं १.१६० →
दे. द्यावापृथिवी। जगती।


प्र द्यावा यज्ञैः पृथिवी ऋतावृधा मही स्तुषे विदथेषु प्रचेतसा ।
देवेभिर्ये देवपुत्रे सुदंससेत्था धिया वार्याणि प्रभूषतः ॥१॥
उत मन्ये पितुरद्रुहो मनो मातुर्महि स्वतवस्तद्धवीमभिः ।
सुरेतसा पितरा भूम चक्रतुरुरु प्रजाया अमृतं वरीमभिः ॥२॥
ते सूनवः स्वपसः सुदंससो मही जज्ञुर्मातरा पूर्वचित्तये ।
स्थातुश्च सत्यं जगतश्च धर्मणि पुत्रस्य पाथः पदमद्वयाविनः ॥३॥
ते मायिनो ममिरे सुप्रचेतसो जामी सयोनी मिथुना समोकसा ।
नव्यंनव्यं तन्तुमा तन्वते दिवि समुद्रे अन्तः कवयः सुदीतयः ॥४॥
तद्राधो अद्य सवितुर्वरेण्यं वयं देवस्य प्रसवे मनामहे ।
अस्मभ्यं द्यावापृथिवी सुचेतुना रयिं धत्तं वसुमन्तं शतग्विनम् ॥५॥


सायणभाष्यम्

‘प्र द्यावा' इति पञ्चर्चं तृतीयं सूक्तं दैर्घतमसं जागतं द्यावापृथिव्यम् । अनुक्रान्तं च - ‘ प्र द्यावा पञ्च द्यावापृथिव्यं तु जागतं तु' इति ॥ अग्निष्टोमे पृष्ठ्यस्य षष्ठेऽहनि च द्यावापृथिव्यनिविद्धानमेतत् सूक्तम् । तथा च सूत्रं - प्र द्यावेति दैर्घतमसम्' (आश्व. श्रौ. ५. १८) इति ॥ आद्या द्यावापृथिव्ये पशौ हविषो याज्या । तथा च सूत्रितं - प्र द्यावा यज्ञैः पृथिवी ऋतावृधा मृळा नो रुद्रोत नो मयस्कृधीति द्वे' ( आश्व. श्रौ. ३. ८) इति ।


प्र द्यावा॑ य॒ज्ञैः पृ॑थि॒वी ऋ॑ता॒वृधा॑ म॒ही स्तु॑षे वि॒दथे॑षु॒ प्रचे॑तसा ।

दे॒वेभि॒र्ये दे॒वपु॑त्रे सु॒दंस॑से॒त्था धि॒या वार्या॑णि प्र॒भूष॑तः ॥१

प्र । द्यावा॑ । य॒ज्ञैः । पृ॒थि॒वी इति॑ । ऋ॒त॒ऽवृधा॑ । म॒ही इति॑ । स्तु॒षे॒ । वि॒दथे॑षु । प्रऽचे॑तसा ।

दे॒वेभिः॑ । ये इति॑ । दे॒वपु॑त्रे॒ इति॑ दे॒वऽपु॑त्रे । सु॒ऽदंस॑सा । इ॒त्था । धि॒या । वार्या॑णि । प्र॒ऽभूष॑तः ॥१

प्र । द्यावा । यज्ञैः । पृथिवी इति । ऋतऽवृधा । मही इति । स्तुषे । विदथेषु । प्रऽचेतसा ।

देवेभिः । ये इति । देवपुत्रे इति देवऽपुत्रे । सुऽदंससा । इत्था । धिया । वार्याणि । प्रऽभूषतः ॥१

“द्यावा “पृथिवी द्यावापृथिव्यौ ॥ ‘ दिवो द्यावा' इति द्यावादेश आद्युदात्तः । पृथिवीशब्दो ङीषन्तोऽन्तोदात्तः । ‘ देवताद्वन्द्वे च ' इति उभयपदप्रकृतिस्वरत्वम् । समासमध्ये पदान्तरपाठश्छान्दसः ॥ अहं यजमानः “यज्ञैः यागैस्तत्प्रदानैः निमित्तभूतैः हविष्प्रदानार्थं "प्र “स्तुषे प्रकर्षेण स्तौमि ।। पुरुषव्यत्ययः । कीदृश्यौ ते। “ऋतावृधा यज्ञस्य वर्धयित्र्यौ “मही महत्यौ "विदथेषु यागेषु “प्रचेतसा प्रकर्षेण अस्मांश्चेतयित्र्यौ अस्माभिश्चेतयितव्ये वा । ईदृश्यौ स्तुषे । अनयोः कोऽतिशय इति उच्यते । "ये द्यावापृथिव्यौ “देवेभिः यजमानैः “देवपुत्रे देवा यजमानाः पुत्रस्थानीयाः शुश्रूषका ययोस्ते तादृश्यौ । यद्वा । देवेभिर्विशिष्टे । “सुदंससा । दंस इति कर्मनाम । शोभनकर्मोपेते । “इत्था सत्यम् । इत्थेति सत्यनाम, सत्रा इत्था ' (नि. ३. १०. ५) इति तन्नामसु पाठात् । सत्यं “धिया अस्मदनुग्रहबुद्ध्या “वार्याणि वरणीयानि धनानि अस्मभ्यं “प्रभूषतः अलंकुरुतः दत्त इत्यर्थः । यद्वा । वार्याणि हवींषि धिया कर्मणा निमित्तेन कर्मसमाप्त्यर्थं प्रभूषतः प्रकर्षेण स्वीकुरुतः ॥


उ॒त म॑न्ये पि॒तुर॒द्रुहो॒ मनो॑ मा॒तुर्महि॒ स्वत॑व॒स्तद्धवी॑मभिः ।

सु॒रेत॑सा पि॒तरा॒ भूम॑ चक्रतुरु॒रु प्र॒जाया॑ अ॒मृतं॒ वरी॑मभिः ॥२

उ॒त । म॒न्ये॒ । पि॒तुः । अ॒द्रुहः॑ । मनः॑ । मा॒तुः । महि॑ । स्वऽत॑वः । तत् । हवी॑मऽभिः ।

सु॒ऽरेत॑सा । पि॒तरा॑ । भूम॑ । च॒क्र॒तुः॒ । उ॒रु । प्र॒ऽजायाः॑ । अ॒मृत॑म् । वरी॑मऽभिः ॥२

उत । मन्ये । पितुः । अद्रुहः । मनः । मातुः । महि । स्वऽतवः । तत् । हवीमऽभिः ।

सुऽरेतसा । पितरा । भूम । चक्रतुः । उरु । प्रऽजायाः । अमृतम् । वरीमऽभिः ॥२

"उत अपि च “पितुः पितृस्थानीयायाः पात्र्याः "अद्रुहः अद्रोग्धुः । न हि कदाचित् पिता स्वपुत्रादये द्रुह्यति। तादृश्याः पृथिव्याः “स्वतवः स्वायत्तं बलं स्वयमेवास्मदनुग्रहाय त्वरमाणम् अत एव “महि महत् “तत् तादृशमनुग्रहयुक्तं “मनः चित्तं “हवीमभिः हवनैराह्वानैः “मन्ये जानामि प्रसादयामीत्यर्थः। यद्वा । तत्तादृशमुक्तलक्षणं मनो हवीमभिर्हवनैर्महि मन्ये अतिमहत् प्रवृद्धं मन्ये। तथा “मातुः सर्वस्योत्पादयितुरन्तरिक्षस्य द्युलोकस्य । 'मातान्तरिक्षं निर्मीयन्तेऽस्मिन्भूतानि' ( निरु. २. ८) इति निरुक्तम् । यद्वा । पितुर्द्युलोकस्य मातुर्भूम्याः। द्यौर्वः पिता पृथिवी माता' ( ऋ. सं. १. १९१. ६) इति श्रुतेः। तत्तादृशमुक्तलक्षणं मनो मन्ये। द्यावापृथिव्योर्मनोऽस्मदाह्वानैः प्रीणयामीत्यर्थः। किंच “पितरा माता च पिता च पितरौ द्यावापृथिव्यौ "सुरेतसा शोभनसामर्थ्येन “प्रजायाः यजमानादिरूपायाः “वरीमभिः वरिष्ठैः रक्षणविशेषैः “भूम बहुतरम् "उरु विस्तीर्णम् "अमृतम् अमरणभूतम् अभिलषितं “चक्रतुः कुरुतः ॥


ते सू॒नव॒ः स्वप॑सः सु॒दंस॑सो म॒ही ज॑ज्ञुर्मा॒तरा॑ पू॒र्वचि॑त्तये ।

स्था॒तुश्च॑ स॒त्यं जग॑तश्च॒ धर्म॑णि पु॒त्रस्य॑ पाथः प॒दमद्व॑याविनः ॥३

ते । सू॒नवः॑ । सु॒ऽअप॑सः । सु॒ऽदंस॑सः । म॒ही इति॑ । ज॒ज्ञुः॒ । मा॒तरा॑ । पू॒र्वऽचि॑त्तये ।

स्था॒तुः । च॒ । स॒त्यम् । जग॑तः । च॒ । धर्म॑णि । पु॒त्रस्य॑ । पा॒थः॒ । प॒दम् । अद्व॑याविनः ॥३

ते । सूनवः । सुऽअपसः । सुऽदंससः । मही इति । जज्ञुः । मातरा । पूर्वऽचित्तये ।

स्थातुः । च । सत्यम् । जगतः । च । धर्मणि । पुत्रस्य । पाथः । पदम् । अद्वयाविनः ॥३

“ते प्रसिद्धाः “सूनवः युवाभ्यामुत्पन्नाः पुत्रस्थानीयाः प्रजाः “स्वपसः शोभनकर्माणः “सुदंससः शोभनदर्शनाः युवां 'मही महत्यौ “माता मातृवद्धितकारिण्यौ “जज्ञुः जानन्ति महानुभावतामवगच्छन्ति । किमर्थम् । “पूर्वचित्तये प्रथमबुद्धये अनुग्रहरूपायै। किंच ते द्यावापृथिव्यौ “स्थातुः स्थावरस्य “जगतः जङ्गमस्य “पुत्रस्य पुत्रस्थानीयस्य उभयविधस्य जगतः “अद्वयाविनः न विद्यते द्वयं यस्य तादृशस्य । स्वजीवनाय युष्मद्व्यतिरिक्तमजानतः इत्यर्थः । ईदृशस्य “धर्मणि धारणे रक्षणे निमित्तभूते सति “पदं स्थानं "सत्यम् अबाध्यं “पाथः रक्षथः दत्थ इत्यर्थः । यद्वा। ते प्रसिद्धाः सूनवः उत्पाद्यमानाः स्वपसः शोभनप्रकाशादिकर्माणः सुदंससः शोभनदर्शनाः सुष्ठु उपक्षयन्तः वा आत्मानं स्वव्यापाराय ईदृशा रश्मयो मही महत्यौ द्यावापृथिव्यौ पूर्वचित्तये प्राणिनां पूर्वज्ञानाय जज्ञुः जातवन्तः द्यावापृथिव्योरन्तराले व्याप्ता इत्यर्थः। किंच स्थातुर्जगतश्च धर्मणि धारणे तदर्थम् अद्वयाविनो मार्गद्वयरहितस्य ॥ ‘बहुलं छन्दसि ' इति द्वयशब्दात् मत्वर्थीयो विनिः । ‘ अन्येषामपि दृश्यते' इति दीर्घः ॥ पुत्रस्य युष्मत्पुत्रस्थानीयस्यादित्यस्य पदं मार्गं सत्यं पाथः अवश्यं रक्षथः ।।


ते मा॒यिनो॑ ममिरे सु॒प्रचे॑तसो जा॒मी सयो॑नी मिथु॒ना समो॑कसा ।

नव्यं॑नव्यं॒ तन्तु॒मा त॑न्वते दि॒वि स॑मु॒द्रे अ॒न्तः क॒वय॑ः सुदी॒तय॑ः ॥४

ते । मा॒यिनः॑ । म॒मि॒रे॒ । सु॒ऽप्रचे॑तसः । जा॒मी इति॑ । सयो॑नी॒ इति॒ सऽयो॑नी । मि॒थु॒ना । सम्ऽओ॑कसा ।

नव्य॑म्ऽनव्यम् । तन्तु॑म् । आ । त॒न्व॒ते॒ । दि॒वि । स॒मु॒द्रे । अ॒न्तरिति॑ । क॒वयः॑ । सु॒ऽदी॒तयः॑ ॥४

ते । मायिनः । ममिरे । सुऽप्रचेतसः । जामी इति । सयोनी इति सऽयोनी । मिथुना । सम्ऽओकसा ।

नव्यम्ऽनव्यम् । तन्तुम् । आ । तन्वते । दिवि । समुद्रे । अन्तरिति । कवयः । सुऽदीतयः ॥४

“ते प्रसिद्धे द्यावापृथिव्यौ “मायिनः । माया प्रज्ञा। स्वविषयप्रज्ञावन्तः प्रज्ञोपलक्षितकर्मवन्तो वा "सुप्रचेतसः सुष्ठु प्रकर्षेण चेतितुं शक्ताः रश्मयः “ममिरे मिमते प्रमाणेन परिच्छिन्दन्ति । कीदृश्यौ ते । “जामी परस्परं भगिनी। एतत्कुतः इति चेत् उच्यते । “सयोनी समानोत्पत्तिस्थाने “मिथुना प्राण्युत्पत्तये मिथुनभूते परस्परमवियुक्ते इत्यर्थः । “समोकसा समानस्थाने । द्युपृथिव्योः एकस्मिन्नेव अवकाशरूपे आकाशेऽवस्थानात् । समीचीनस्थाने वा। किंच “कवयः मेधाविनः स्वव्यापारविषयज्ञानवन्तः "सुदीतयः सुष्ठुद्योतना रश्मयः “दिवि द्योतमाने "समुद्रे अन्तरिक्षे "अन्तः मध्ये। समुद्रशब्दः अन्तरिक्षनामसु पाठात् तद्वचनः । स चैवं यास्केन निरुक्तः - समुद्रः कस्मात्समुद्भवन्त्यस्मादापः समभिद्रवन्त्येनमापः संमोदन्तेऽस्मिन्भूतानि समुदको भवति समुनत्तीति वा । (निरु. २. १०) इति । "नव्य॑नव्यं “तन्तुं तननीयं विस्तारणीयम् । जात्येकवचनम् । रश्मीन् “आ “तन्वते समन्ताद्विस्तारयन्ति ॥


तद्राधो॑ अ॒द्य स॑वि॒तुर्वरे॑ण्यं व॒यं दे॒वस्य॑ प्रस॒वे म॑नामहे ।

अ॒स्मभ्यं॑ द्यावापृथिवी सुचे॒तुना॑ र॒यिं ध॑त्तं॒ वसु॑मन्तं शत॒ग्विन॑म् ॥५

तत् । राधः॑ । अ॒द्य । स॒वि॒तुः । वरे॑ण्यम् । व॒यम् । दे॒वस्य॑ । प्र॒ऽस॒वे । म॒ना॒म॒हे॒ ।

अ॒स्मभ्य॑म् । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । सु॒ऽचे॒तुना॑ । र॒यिम् । ध॒त्त॒म् । वसु॑ऽमन्तम् । श॒त॒ऽग्विन॑म् ॥५

तत् । राधः । अद्य । सवितुः । वरेण्यम् । वयम् । देवस्य । प्रऽसवे । मनामहे ।

अस्मभ्यम् । द्यावापृथिवी इति । सुऽचेतुना । रयिम् । धत्तम् । वसुऽमन्तम् । शतऽग्विनम् ॥५

"वयं यजमानाः “सवितुः सर्वस्य प्रसवितुः "देवस्य आदिस्यस्य अन्तर्यामिरूपिणः “प्रसवे अनुज्ञायां सत्यां “तत् तादृशं “वरेण्यं वरणीयं “राधः पुरुषार्थसाधनसमर्थं गवादि धनं “मनामहे याचामहे ॥ मन्यतिर्याच्ञाकर्मा । छान्दसः शप् । यद्वा । पुनःपुनरभ्यस्यामः । लप्सीमहीति यावत् ॥ ‘ म्ना अभ्यासे' । व्यत्ययेनात्मनेपदम् । शपि पाघ्रादिना मनादेशः ।। किंच “अस्मभ्यं “द्यावापृथिवी द्यावापृथिव्यौ "सुचेतुना शोभनचेतनेन अस्मदनुग्रहबुद्ध्या “रयिं धनं “धत्तं दत्तम् । कीदृशम्। “वसुमन्तं निवासयोग्यगृहादिविशिष्टं “शतग्विनं शतसंख्याकगवादिविशिष्टम् ॥ ॥ २ ॥


मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१५९&oldid=205746" इत्यस्माद् पुनः प्राप्तिः