सामग्री पर जाएँ

ऋग्वेदः सूक्तं १.१८८

विकिस्रोतः तः
← सूक्तं १.१८७ ऋग्वेदः - मण्डल १
सूक्तं १.१८८
अगस्त्यो मैत्रावरुणिः
सूक्तं १.१८९ →
दे. आप्रीसूक्तं (१ इध्मः समिद्धोऽग्निर्वा, २ तनूनपात्, ३ इळः, ४ बर्हिः, ५ देवीर्द्वारः, ६ उषासानक्ता, ७ दैव्यौ होतारौ प्रचेतसौ, ८ तिस्रो देव्यः सरस्वतीळाभारत्यः, ९ त्वष्टा, १० वनस्पतिः, ११ स्वाहाकृतयः ।गायत्री ।


समिद्धो अद्य राजसि देवो देवैः सहस्रजित् ।
दूतो हव्या कविर्वह ॥१॥
तनूनपादृतं यते मध्वा यज्ञः समज्यते ।
दधत्सहस्रिणीरिषः ॥२॥
आजुह्वानो न ईड्यो देवाँ आ वक्षि यज्ञियान् ।
अग्ने सहस्रसा असि ॥३॥
प्राचीनं बर्हिरोजसा सहस्रवीरमस्तृणन् ।
यत्रादित्या विराजथ ॥४॥
विराट् सम्राड्विभ्वीः प्रभ्वीर्बह्वीश्च भूयसीश्च याः ।
दुरो घृतान्यक्षरन् ॥५॥
सुरुक्मे हि सुपेशसाधि श्रिया विराजतः ।
उषासावेह सीदताम् ॥६॥
प्रथमा हि सुवाचसा होतारा दैव्या कवी ।
यज्ञं नो यक्षतामिमम् ॥७॥
भारतीळे सरस्वति या वः सर्वा उपब्रुवे ।
ता नश्चोदयत श्रिये ॥८॥
त्वष्टा रूपाणि हि प्रभुः पशून्विश्वान्समानजे ।
तेषां न स्फातिमा यज ॥९॥
उप त्मन्या वनस्पते पाथो देवेभ्यः सृज ।
अग्निर्हव्यानि सिष्वदत् ॥१०॥
पुरोगा अग्निर्देवानां गायत्रेण समज्यते ।
स्वाहाकृतीषु रोचते ॥११॥


सायणभाष्यम्

‘समिद्धो अद्य' इत्येकादशर्चं नवमं सूक्तमागस्त्यं सर्वं गायत्रम् । समिद्धाग्नितनूनपादादयः एकादश प्रत्यृचं देवताः। यास्केन ‘किंदेवताः प्रयाजाः' इत्युपक्रम्य ‘आग्नेयाः प्रयाजा ऋतुदेवताश्छन्दोदेवताः पशुदेवताः प्राणदेवताः आत्मदेवताः' इत्यादिना बहून् पक्षानुपन्यस्य ब्राह्मणानि च प्रदर्श्य आग्नेया एव इति सिद्धान्तितम् ( निरु. ८. २२ )। ‘समिद्ध अप्रियः' इत्यनुक्रान्तम् । पशौ अगस्त्यानामेकादशप्रयाजरूपम् इदमाप्रीसूक्तम् ॥


समि॑द्धो अ॒द्य रा॑जसि दे॒वो दे॒वैः स॑हस्रजित् ।

दू॒तो ह॒व्या क॒विर्व॑ह ॥१

सम्ऽइ॑द्धः । अ॒द्य । रा॒ज॒सि॒ । दे॒वः । दे॒वैः । स॒ह॒स्र॒ऽजि॒त् ।

दू॒तः । ह॒व्या । क॒विः । व॒ह॒ ॥१

सम्ऽइद्धः । अद्य । राजसि । देवः । देवैः । सहस्रऽजित् ।

दूतः । हव्या । कविः । वह ॥१

हे अग्ने "देवैः व्यवहर्तृभिर्ऋत्विग्भिः "समिद्धः सम्यग्दीपितः "देवः अत एव दीप्यमानः समिद्धैः वा देवैः सहितः समिद्धः सन् "अद्य अस्मिन् यागदिने "राजसि ईशिषे । हे "सहस्रजित् सहस्रस्य धनस्य एतत्संख्याकानां शत्रूणां वा जेतः ततः "दूतः देवानां दूतः तद्यज्ञादिवार्ताहरः आह्वाता वा । ‘ अग्निर्देवानां दूत आसीत् ' (तै. सं. २. ५. ८. ५) इति श्रुतेः। "कविः क्रान्तदर्शी ईदृशस्त्वं “हव्या अस्मदीयानि हवींषि “वह देवेभ्यः प्रापय ।।


तनू॑नपादृ॒तं य॒ते मध्वा॑ य॒ज्ञः सम॑ज्यते ।

दध॑त्सह॒स्रिणी॒रिषः॑ ॥२

तनू॑ऽनपात् । ऋ॒तम् । य॒ते । मध्वा॑ । य॒ज्ञः । सम् । अ॒ज्य॒ते॒ ।

दध॑त् । स॒ह॒स्रिणीः॑ । इषः॑ ॥२

तनूऽनपात् । ऋतम् । यते । मध्वा । यज्ञः । सम् । अज्यते ।

दधत् । सहस्रिणीः । इषः ॥२

"तनूनपात् यज्ञशरीरस्य नपातयिता । यद्वा । आपोऽत्र तन्व उच्यन्ते इत्युक्तत्वात् अपां नपातयिता तासां नप्ता वा । अद्भ्य ओषधयः ओषधीभ्योऽग्निरिति नप्तृत्वम् । "यज्ञः पूज्यः । यज्ञनिर्वाहकत्वाद्वा यज्ञः । ईदृशोऽग्निः “ऋतं यज्ञं "यते गच्छते अनुतिष्ठते । यजमानाय तदभिमतार्थम् । "मध्वा मधुरेणाज्यसोमादिद्रव्येण "समज्यते । किं कुर्वन् अयम् । “सहस्रिणीः एतत्संख्याकान् "इषः अन्नानि “दधत् यजमानेभ्यो धारयन् ॥


आ॒जुह्वा॑नो न॒ ईड्यो॑ दे॒वाँ आ व॑क्षि य॒ज्ञिया॑न् ।

अग्ने॑ सहस्र॒सा अ॑सि ॥३

आ॒ऽजुह्वा॑नः । नः॒ । ईड्यः॑ । दे॒वान् । आ । व॒क्षि॒ । य॒ज्ञिया॑न् ।

अग्ने॑ । स॒ह॒स्र॒ऽसाः । अ॒सि॒ ॥३

आऽजुह्वानः । नः । ईड्यः । देवान् । आ । वक्षि । यज्ञियान् ।

अग्ने । सहस्रऽसाः । असि ॥३

हे "अग्ने आजुह्वानः अस्माभिराहूयमानः सन् "ईड्यः अस्माभिः स्तुत्यः इण्नामकः त्वं "नः अस्मदर्थं "यज्ञियान् यज्ञभाजः "देवान “आ “वक्षि आवह । हे अग्ने त्वं "सहस्रसा “असि अपरिमितधनस्य दातासि ॥


प्रा॒चीनं॑ ब॒र्हिरोज॑सा स॒हस्र॑वीरमस्तृणन् ।

यत्रा॑दित्या वि॒राज॑थ ॥४

प्रा॒चीन॑म् । ब॒र्हिः । ओज॑सा । स॒हस्र॑ऽवीरम् । अ॒स्तृ॒ण॒न् ।

यत्र॑ । आ॒दि॒त्याः॒ । वि॒ऽराज॑थ ॥४

प्राचीनम् । बर्हिः । ओजसा । सहस्रऽवीरम् । अस्तृणन् ।

यत्र । आदित्याः । विऽराजथ ॥४

“प्राचीनं प्रागग्रं "सहस्रवीरं सहस्रसंख्याका वीराः शत्रूणां विशेषेण ईरयितारो देवाः यस्य तत्तादृक् । यद्वा । अपरिमितवीराः पुत्रादयो येन तादृक् । “बर्हिः "ओजसा मन्त्रलक्षणबलेन उपेताः ऋत्विजः "अस्तृणन् आच्छादयन् । "यत्र यस्मिन् बर्हिषि "आदित्याः अदितेः पुत्राः यूयं "विराजथ विविधं राजध्वे तद्बर्हिः अस्तृणन् ।


वि॒राट् स॒म्राड्वि॒भ्वीः प्र॒भ्वीर्ब॒ह्वीश्च॒ भूय॑सीश्च॒ याः ।

दुरो॑ घृ॒तान्य॑क्षरन् ॥५

वि॒राट् । स॒म्ऽराट् । वि॒भ्वीः । प्र॒ऽभ्वीः । ब॒ह्वीः । च॒ । भूय॑सीः । च॒ । याः ।

दुरः॑ । घृ॒तानि॑ । अ॒क्ष॒र॒न् ॥५

विराट् । सम्ऽराट् । विभ्वीः । प्रऽभ्वीः । बह्वीः । च । भूयसीः । च । याः ।

दुरः । घृतानि । अक्षरन् ॥५

“विराट् । विशेषेण राजन्त इति व्यत्ययेनैकवचनम् ॥ “सम्राट् सम्यगिति पूज्यतरं राजमानाः ॥ अत्रापि व्यत्ययेनैकवचनम् ॥ “विभ्वीः विभ्व्यो विविधं भवित्र्यः "प्रभ्वीः प्रभ्व्यः प्रकर्षेण भवित्र्यः “बह्वीः बह्व्यः "भूयसीः लोकप्रसिद्धसंख्याभिः "च भूयस्यश्च “याः "दुरः यज्ञगृहद्वारः सन्ति ताः “घृतानि उदकानि प्राण्युपकारार्थम् "अक्षरन् क्षरन्ति । यद्वा । बह्वीर्भूयसीरित्येते संख्यावचने । शिष्टानि तासां नामधेयानि ॥ ॥ ८ ॥


सु॒रु॒क्मे हि सु॒पेश॒साधि॑ श्रि॒या वि॒राज॑तः ।

उ॒षासा॒वेह सी॑दताम् ॥६

सु॒रु॒क्मे इति॑ सु॒ऽरु॒क्मे । हि । सु॒ऽपेश॑सा । अधि॑ । श्रि॒या । वि॒ऽराज॑तः ।

उ॒षसौ॑ । आ । इ॒ह । सी॒द॒ता॒म् ॥६

सुरुक्मे इति सुऽरुक्मे । हि । सुऽपेशसा । अधि । श्रिया । विऽराजतः ।

उषसौ । आ । इह । सीदताम् ॥६

"सुरुक्मे शोभनदीप्ताभरणे प्रसिद्धे "सुपेशसा शोभनरूपे ईदृश्यौ अहोरात्रदेवते "अधि अधिकं “श्रिया सौन्दर्येण "विराजतः विशेषेण दीप्येते ।। हियोगादनिघातः । तादृश्यौ "उषसौ । एतत् रात्रेरप्युपलक्षणम् । उषःशब्दो दिवसस्योपलक्षकः । रात्रिरुषाश्च उभे “इह अस्मिन् दिने "आ "सीदताम् आगत्य तिष्ठताम् आगच्छतां वा ॥


प्र॒थ॒मा हि सु॒वाच॑सा॒ होता॑रा॒ दैव्या॑ क॒वी ।

य॒ज्ञं नो॑ यक्षतामि॒मम् ॥७

प्र॒थ॒मा । हि । सु॒ऽवाच॑सा । होता॑रा । दैव्या॑ । क॒वी इति॑ ।

य॒ज्ञम् । नः॒ । य॒क्ष॒ता॒म् । इ॒मम् ॥७

प्रथमा । हि । सुऽवाचसा । होतारा । दैव्या । कवी इति ।

यज्ञम् । नः । यक्षताम् । इमम् ॥७

"प्रथमा । मुख्यनामैतत् । प्रतमौ प्रकृष्टतमौ । हिः प्रसिद्धौ । "सुवाचसा प्रियवचनौ "दैव्या देवार्हौ "होतारा देवानामाह्वातारौ होमनिष्पादकौ वा "कवी मेधाविनौ एतौ "नः अस्मदीयम् “इमं "यज्ञं "यक्षतां यजतां गच्छतां वा ।।


भार॒तीळे॒ सर॑स्वति॒ या व॒ः सर्वा॑ उपब्रु॒वे ।

ता न॑श्चोदयत श्रि॒ये ॥८

भार॑ति । इळे॑ । सर॑स्वति । याः । वः॒ । सर्वाः॑ । उ॒प॒ऽब्रु॒वे ।

ताः । नः॒ । चो॒द॒य॒त॒ । श्रि॒ये ॥८

भारति । इळे । सरस्वति । याः । वः । सर्वाः । उपऽब्रुवे ।

ताः । नः । चोदयत । श्रिये ॥८

हे "भारति । भरतः आदित्यः । तस्य संबन्धिनी भारती । तादृशि द्युलोकदेवते हे “इळे भूदेवि हे "सरस्वति । सरः वागुदकं वा । तद्वत्यन्तरिक्षदेवते तादृशि देवि । एताः क्षित्यादिदेवताः । एतास्तिस्र आदित्यप्रभावविशेषरूपा इत्याहुः । "याः तिस्रः "सर्वाः "वः युष्मान् "उपब्रुवे उपेत्य स्तौमि “ताः यूयं "नः अस्मान् "श्रिये संपदे “चोदयत प्रेरयत ।


त्वष्टा॑ रू॒पाणि॒ हि प्र॒भुः प॒शून्विश्वा॑न्समान॒जे ।

तेषां॑ नः स्फा॒तिमा य॑ज ॥९

त्वष्टा॑ । रू॒पाणि॑ । हि । प्र॒ऽभुः । प॒शून् । विश्वा॑न् । स॒म्ऽआ॒न॒जे ।

तेषा॑म् । नः॒ । स्फा॒तिम् । आ । य॒ज॒ ॥९

त्वष्टा । रूपाणि। हि । प्रऽभुः । पशून् । विश्वान् । सम्ऽआनजे ।

तेषाम् । नः । स्फातिम् । आ । यज ॥९॥

“त्वष्टा यज्ञसाधनपात्राभिमानी देवः “रूपाणि योनौ सृष्टानि रेतांसि रूपाणि कर्तुं "प्रभुः “हि । हिशब्दः श्रुत्यन्तरप्रसिद्धिद्योतनार्थः । ‘यावच्छो वै रेतसः सिक्तस्य', त्वष्टा रूपाणि विकरोति' (तै. सं. १. ५. ९. १-२ ) इति श्रुतेः । स देवः "विश्वान् सर्वानपि पशून् अस्मदीयान् गवादिकान् “समानजे सम्यगनक्ति व्यक्तीकरोति ॥ संपूर्वादनक्तेर्लिटि तस्मात् नुड्' इति नुट् ॥ अथ प्रत्यक्षः । “तेषाम् अक्तानां पशूनां "स्फातिं वृद्धिं "नः अस्मदर्थम् “आ “यन सर्वतः पूजय कुर्वित्यर्थः ।।


उप॒ त्मन्या॑ वनस्पते॒ पाथो॑ दे॒वेभ्यः॑ सृज ।

अ॒ग्निर्ह॒व्यानि॑ सिष्वदत् ॥१०

उप॑ । त्मन्या॑ । व॒न॒स्प॒ते॒ । पाथः॑ । दे॒वेभ्यः॑ । सृ॒ज॒ ।

अ॒ग्निः । ह॒व्यानि॑ । सि॒स्व॒द॒त् ॥१०

उप । त्मन्या । वनस्पते । पाथः । देवेभ्यः । सृज ।

अग्निः । हव्यानि । सिस्वदत् ॥१०


हे "वनस्पते यूपाभिमानिदेव “त्मन्या आत्मनैव "देवेभ्यः अग्न्यादिभ्यः "पाथः पशुरूपमन्नम् “उप “सृज उत्पादय । यूपाभावे पशुनियोजनाभावेन हविषोऽभावात् । त्वयि एवं कृतवति सति “अग्निः हव्यानि हवींषि "सिस्वदत् स्वदयतु स्वादूकरोतु ॥


पु॒रो॒गा अ॒ग्निर्दे॒वानां॑ गाय॒त्रेण॒ सम॑ज्यते ।

स्वाहा॑कृतीषु रोचते ॥११

पु॒रः॒ऽगाः । अ॒ग्निः । दे॒वाना॑म् । गा॒य॒त्रेण॑ । सम् । अ॒ज्य॒ते॒ ।

स्वाहा॑ऽकृतीषु । रो॒च॒ते॒ ॥११

पुरःऽगाः । अग्निः । देवानाम् । गायत्रेण । सम् । अज्यते ।

स्वाहाऽकृतीषु । रोचते ॥११

अयम् "अग्निः "देवानां “पुरोगाः असुरयुद्धं प्रति पुरोगामी । यद्वा । देवानां मध्ये यज्ञं प्रति अग्निरेव पुरोगामी । अत एव अग्रणीत्वादेव अग्निशब्दो निष्पन्नः । ‘अग्निः कस्मादग्रणीर्भवति' ( निरु. ७. १४ ) इति निरुक्तम् । तादृशोऽयं "गायत्रेण एतदुपलक्षितेन मन्त्रेण "समज्यते सम्यग्लक्ष्यते । "स्वाहाकृतीषु स्वाहाकारेषु सत्सु हविःषु दीयमानेषु "रोचते अत्यर्थं दीप्यते । एता: प्रयाजदेवताः यज्ञावयवाभिमानिन्यः । तद्द्वारा यज्ञ एव स्तूयते इति केषांचित् मतम् । अग्नेरेव नामान्तरमित्यन्ये ॥ ॥ ९ ॥


टिप्पणी

According to Sayana (RV I.13), there are 12 āprī sukta. Of the ten āprī sukta, R̥gveda commented by Gargya Narayana, RV I.13 and I.142 invoke Narāśaṁsa and Tanūnapāt manifestations of Agni. RV I.188, III.4, IX.5 and X.110 invoke only Tanūnapāt manifestation. RV II.3, V.5, VII.2 and X.70 invoke only Narāśaṁsa manifestation.

इध्मः

ध्मा प्रपूरणशब्दो य इध्मा नाम प्रकीर्त्यते । पूरितस्यागतिर्येन तेनेध्मस्त्वं भविष्यसि ।। वराहपुराणम् १८.२६ ।। ध्मा शब्दस्य विनियोजनं प्रायः अयसः ध्मानाय एव भवति। किन्तु अत्र प्रपूरणे अस्ति। यथा उल्लिखितमस्ति, इध्मस्य उन्नतं रूपं समित् अस्ति। समित् अर्थात् समिति, सममिति। अस्मिन् जगते सममितेः ह्रासं अस्ति, येन कारणेन सममितेः प्रपूरणाय वयं भोजनं कुर्वामः। सममितेः आधुनिकं व्याख्या श्री गोवान कृतमस्ति। विष्णु पुराणस्य १.८.१९ कथनमस्ति - लक्ष्मी इध्मा, विष्णुः कुशः। कुशोपरि टिप्पणी


मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१८८&oldid=206074" इत्यस्माद् प्रतिप्राप्तम्