ऋग्वेदः सूक्तं १.१८९

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १.१८९ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं १.१८८ ऋग्वेदः - मण्डल १
सूक्तं १.१८९
अगस्त्यो मैत्रावरुणिः
सूक्तं १.१९० →
दे. अग्निः । त्रिष्टुप् ।
मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१


अग्ने नय सुपथा राये अस्मान्विश्वानि देव वयुनानि विद्वान् ।
युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमउक्तिं विधेम ॥१॥
अग्ने त्वं पारया नव्यो अस्मान्स्वस्तिभिरति दुर्गाणि विश्वा ।
पूश्च पृथ्वी बहुला न उर्वी भवा तोकाय तनयाय शं योः ॥२॥
अग्ने त्वमस्मद्युयोध्यमीवा अनग्नित्रा अभ्यमन्त कृष्टीः ।
पुनरस्मभ्यं सुविताय देव क्षां विश्वेभिरमृतेभिर्यजत्र ॥३॥
पाहि नो अग्ने पायुभिरजस्रैरुत प्रिये सदन आ शुशुक्वान् ।
मा ते भयं जरितारं यविष्ठ नूनं विदन्मापरं सहस्वः ॥४॥
मा नो अग्नेऽव सृजो अघायाविष्यवे रिपवे दुच्छुनायै ।
मा दत्वते दशते मादते नो मा रीषते सहसावन्परा दाः ॥५॥
वि घ त्वावाँ ऋतजात यंसद्गृणानो अग्ने तन्वे वरूथम् ।
विश्वाद्रिरिक्षोरुत वा निनित्सोरभिह्रुतामसि हि देव विष्पट् ॥६॥
त्वं ताँ अग्न उभयान्वि विद्वान्वेषि प्रपित्वे मनुषो यजत्र ।
अभिपित्वे मनवे शास्यो भूर्मर्मृजेन्य उशिग्भिर्नाक्रः ॥७॥
अवोचाम निवचनान्यस्मिन्मानस्य सूनुः सहसाने अग्नौ ।
वयं सहस्रमृषिभिः सनेम विद्यामेषं वृजनं जीरदानुम् ॥८॥

सायणभाष्यम्

' अग्ने नय' इति दशमं सूक्तम् अष्टर्चमागस्त्यं त्रैष्टुभमाग्नेयम् । अग्ने नयाष्टावाग्नेयम्' इत्यनुक्रमणिका । प्रातरनुवाकाश्विनशस्त्रयोस्त्रैष्टुभच्छन्दसि विनियोगः । अथैतस्याः' इत्यत्र अग्ने नयाग्रे बृहन्नित्यष्टानामुत्तमादुत्तमास्तिस्र उद्धरेत् ' ( आश्व. श्रौ. ४. १३) इति सूत्रितत्वात् । अत्र शौनकः-’उत्पथप्रतिपन्नो यो भ्रष्टो वापि पथः क्वचित् । पन्थानं प्रतिपद्येत कृत्वा वा कर्म गर्हितम् ॥ अग्ने नयेति सूक्तेन प्रत्यृचं जुहुयाद्घृतम् । जपेच्च प्रयतो नित्यमुपतिष्ठेत वानलम् ' (ऋग्वि. १. १५१-१५३) इति ॥ आद्याश्चतस्रः श्रवणाकर्मणि विनियुक्ताः । ‘श्रावण्यां पौर्णमास्याम् । इत्यत्र सूत्रितम्-- अग्ने नय सुपथा राये अस्मानिति चतसृभिः प्रत्यर्चं हुत्वा' (आश्व. गृ. २.१.४ ) इति । आग्नेये पशौ वपापुरोडाशयोराद्ये द्वे अनुवाक्ये । तथा च सूत्रितम्-’अग्ने नय सुपथा राये अस्मान् पाहि नो अग्ने पायुभिरजस्रैः ' ( आश्व. श्रौ. ३. ७ ) इति । आद्या प्रायणीयेष्टौ आग्नेयस्यानुवाक्या । सैव उदयनीये याज्या । तदहः प्रायणीयेष्टिः' इत्यत्र सूत्रितम्-’अग्ने नय सुपथा राये अस्माना देवानामपि पन्थामगन्म' ( आश्व. श्रौ. ४. ३ ) इति । विपरीताश्च याज्यानुवाक्या इति च ।।


अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान्विश्वा॑नि देव व॒युना॑नि वि॒द्वान् ।

यु॒यो॒ध्य१॒॑स्मज्जु॑हुरा॒णमेनो॒ भूयि॑ष्ठां ते॒ नम॑उक्तिं विधेम ॥

अग्ने । नय । सुऽपथा । राये । अस्मान् । विश्वानि । देव । वयुनानि । विद्वान् ।

युयोधि । अस्मत् । जुहुराणम् । एनः । भूयिष्ठाम् । ते । नमःऽउक्तिम् । विधेम ॥ १ ॥

हे “अग्ने अङ्गनादिगुणविशिष्ट “देव द्योतमान “विश्वानि “वयुनानि सर्वाणि प्रज्ञानानि । अनेन एतदनुष्ठितमिदं प्रायणीयमिति यदेतज्ज्ञानमस्ति तद्विद्वानित्यर्थः । यतः “विद्वान् अतस्त्वम् “अस्मान् “सुपथा शोभनेन मार्गेण "राये गन्तव्याय स्वर्गादिधनाय । द्वितीयार्थे वा चतुर्थी । प्रापणीयं रयिं प्रति “नय । तदर्थं “जुहुराणं कुटिलकारि “एनः पापं फलप्रतिबन्धरूपम् “अस्मत् अस्मत्तः “युयोधि पृथक्कुरु । "ते तव वयं भूयिष्ठाम् अतिप्रवृद्धां “नमउक्तिं नमस्कारोक्तिं स्तुतिं “विधेम परिचरेम कुर्मः ॥


आयुष्कामेष्ट्याम् ‘अग्ने त्वं पारय' इति द्वे स्विष्टकृतो याज्ये ‘याहि नः' इति चतुर्थ्यनुवाक्या । ‘पाहि नो अग्ने पायुभिरजस्रैरग्ने त्वं पारया नव्यो अस्मानिति संयाज्ये' ( आश्व. श्रौ. २. १० ) इति सूत्रितम् । एते एव स्वस्त्ययन्यामपि संयाज्ये इति सूत्रितत्वात् ॥

अग्ने॒ त्वं पा॑रया॒ नव्यो॑ अ॒स्मान्स्व॒स्तिभि॒रति॑ दु॒र्गाणि॒ विश्वा॑ ।

पूश्च॑ पृ॒थ्वी ब॑हु॒ला न॑ उ॒र्वी भवा॑ तो॒काय॒ तन॑याय॒ शं योः ॥

अग्ने । त्वम् । पारय । नव्यः । अस्मान् । स्वस्तिऽभिः । अति । दुःऽगानि । विश्वा ।

पूः । च । पृथ्वी । बहुला । नः । उर्वी । भव । तोकाय । तनयाय । शम् । योः ॥ २ ॥

हे अग्ने “त्वं नव्यः नवतरः स्तुत्यो वा त्वम् अस्मान् यागानुष्ठातॄन् “अति पारय कर्म समापय्य अतिपारय अतिक्रामय । केन साधनेन । स्वस्तिभिः। अस्तिरभिपूजितः । सुशब्दः शोभनवचनः । अत्यन्तं पूजितैर्यज्ञादिसाधनैः। कानि । “दुर्गाणि दुर्गमनानि पापानि । अनतिक्रमणीयानि दुरिताख्यानि अतिपारय । किंच “नः अस्माकं “पृथ्वी पृथुतरा “पूश्च पुरी अपि भवत्विति शेषः । चशब्दो वक्ष्यमाणेन सह समुच्चयार्थः । पूरिति जात्येकवचनम् । पुराण्यपि भवन्त्वित्यर्थः । तथा नः अस्माकम् “उर्वी पृथ्वी अपि बहुतरा भवतु । त्वं तु “तोकाय अपत्याय “तनयाय पुत्राय । तोकशब्दोऽपत्यसामान्यवचनः । तनयशब्दः पुत्रवचनः। “शं सुखं “योः मिश्रयिता “भव । यद्वा । रोगाणां शमनं भयानां यावनं च भव कुर्वित्यर्थः ॥


अग्ने॒ त्वम॒स्मद्यु॑यो॒ध्यमी॑वा॒ अन॑ग्नित्रा अ॒भ्यम॑न्त कृ॒ष्टीः ।

पुन॑र॒स्मभ्यं॑ सुवि॒ताय॑ देव॒ क्षां विश्वे॑भिर॒मृते॑भिर्यजत्र ॥

अग्ने । त्वम् । अस्मत् । युयोधि । अमीवाः । अनग्निऽत्राः । अभि । अमन्त । कृष्टीः ।

पुनः । अस्मभ्यम् । सुविताय । देव । क्षाम् । विश्वेभिः । अमृतेभिः । यजत्र ॥ ३ ॥

हे “अग्ने “त्वम् "अमीवाः रोगान् “अस्मत् अस्मत्तः "युयोधि व्यावर्तय । याः “अनग्नित्राः अग्निना अपालिताः "कृष्टीः प्रजाः “अभ्यमन्त अभिमिमतेऽस्मान् ॥ यच्छब्दाध्याहारादनिघातः । ताः युयोधि । यद्वा । ता अनग्नित्राः पापिन्यः कृष्टयः प्रजा अभ्यमन्त । त्वया अभ्यमितुमभितो रोगैः प्रापयितुमर्हन्ति । वयं तु न तादृशाः । अतोऽस्मत्तो वियोजयेत्यर्थः । न केवलं वियोगमात्रं अपि तु पुनः पुनरिदं कर्तव्यम् । “अस्मभ्यम् अस्मदर्थं "सुविताय शोभनफलाय हे “यजत्र यष्टव्य “देव द्योतमानाग्ने “विश्वेभिरमृतेभिः सर्वैरमरणधर्मभिः अन्यैर्यष्टव्यैर्देवैः सह “क्षां पृथिवीं देवयजनलक्षणाम् आगच्छेति शेषः ॥


‘पाहि नः' इत्यस्या विनियोगद्वयम् ‘अग्ने त्वं पारय' इत्यत्रोक्तम् । तथाग्नेयपशावेषैव हविषोऽनुवाक्या । तथा च सूत्रितं -- पाहि नो अग्ने पायुभिरस्रैः प्र वः शुक्राय भानवे भरध्वम् ' (आश्व. श्रौ. ३. ७ ) इति ॥

पा॒हि नो॑ अग्ने पा॒युभि॒रज॑स्रैरु॒त प्रि॒ये सद॑न॒ आ शु॑शु॒क्वान् ।

मा ते॑ भ॒यं ज॑रि॒तारं॑ यविष्ठ नू॒नं वि॑द॒न्माप॒रं स॑हस्वः ॥

पाहि । नः । अग्ने । पायुऽभिः । अजस्रैः । उत । प्रिये । सदने । आ । शुशुक्वान् ।

मा। ते। भयम् । जरितारम् । यविष्ठ । नूनम् । विदत् । मा । अपरम् । सहस्वः ॥ ४ ॥

हे "अग्ने "नः अस्मान् "अजस्रैः अनवरतैरविच्छिन्नैः "पायुभिः पालनप्रकारैः "पाहि पालय । “उत अपि च "प्रिये "सदने तव प्रियभूते यागगृहे “आ सर्वतः “शुशुक्वान् दीप्यमानो भवेति शेषः । किंच हे "यविष्ठ युवतम “ते तव "जरितारं गरितारं स्तोतारं मां "नूनम् अद्य "भयं “मा "विदत् मा लभतां मा आप्नोतु । हे "सहस्वः बलवन्नग्ने "अपरम् अपरस्मिन्काले भयं “मा विदत् । अपरं मदन्यं वा मा विदत् ॥ अच्युताय भौमाय एककपालपुरोडशहोमे ‘मा नो अग्ने' इत्यनया आशयमभिजुहोति । तथा च सूत्रितं-' मा नो अग्नेऽव सृजो अघायेत्येनमाशयेनाभिजुहोति' ( आश्व. गृ. २. १. ६) इति ॥


मा नो॑ अ॒ग्नेऽव॑ सृजो अ॒घाया॑वि॒ष्यवे॑ रि॒पवे॑ दु॒च्छुना॑यै ।

मा द॒त्वते॒ दश॑ते॒ मादते॑ नो॒ मा रीष॑ते सहसाव॒न्परा॑ दाः ॥

मा । नः । अग्ने । अव । सृजः । अघाय । अविष्यवे। रिपवे । दुच्छुनायै ।

मा । दत्वते । दशते । मा । अदते । नः । मा । रिषते । सहसाऽवन् । परा । दाः ॥ ५ ॥

हे "अग्ने "नः अस्मान् "अघाय हिंसकाय “अविष्यवे। अविष्यतिरत्तिकर्मा । अन्नेच्छवे “दुच्छुनायै । शुनं सुखम् । दुष्टसुखकारिणे । दुःखकारिणे इत्यर्थः । तस्मै “रिपवे “मा अव "सृजः मा त्याक्षीः तदधीनं मा कुवित्यर्थः । तथा नः अस्मान् दत्वते दन्तवते "दशते खादते सर्पादये "मा अव सृजः । तथा “नः अस्मान् "अदते अदन्तकाय शृङ्गादिभिर्घातिने "मा अव सृजः । तथा “रिषते हिंसकाय तस्करराक्षसादये हे "सहसावन् सहस्विन "मा “परा "दाः पराभूतं मा देहि सर्वथा न देहीत्यर्थः ॥ ॥१०॥


वि घ॒ त्वावाँ॑ ऋतजात यंसद्गृणा॒नो अ॑ग्ने त॒न्वे॒३॒॑ वरू॑थम् ।

विश्वा॑द्रिरि॒क्षोरु॒त वा॑ निनि॒त्सोर॑भि॒ह्रुता॒मसि॒ हि दे॑व वि॒ष्पट् ॥

वि । घ । त्वाऽवान् । ऋतऽजात । यंसत् । गृणानः । अग्ने । तन्वे । वरूथम् ।

विश्वात् । रिरिक्षोः । उत । वा । निनित्सोः । अभिऽह्रुताम् । असि । हि। देव। विष्पट् ॥६॥

हे "ऋतजात यज्ञार्थमुत्पन्न “अग्ने "वरूथं वरणीयं त्वां “तन्वे शरीरपोषाय "गृणानः स्तुवन् “त्वावान् त्वया देवतया तद्वान् जनः “वि ”घ “यंसत् विमुञ्चति खलु आत्मानम् । कस्मात्सकाशात् । “रिरिक्षोः हिंसितुमिच्छोश्चोरादेः सकाशात् । "उत "वा अथवा “निनित्सोः निन्दितुमिच्छतः । हे “देव "अभिह्रुताम् आभिमुख्येन कुटिलं कुर्वतां द्विषां विष्पट् विशेषेण बाधकः "असि “हि । अतः त्वदनुग्रहात् अयं जनो वि यंसत् ॥


त्वं ताँ अ॑ग्न उ॒भया॒न्वि वि॒द्वान्वेषि॑ प्रपि॒त्वे मनु॑षो यजत्र ।

अ॒भि॒पि॒त्वे मन॑वे॒ शास्यो॑ भूर्मर्मृ॒जेन्य॑ उ॒शिग्भि॒र्नाक्रः ॥

त्वम् । तान् । अग्ने । उभयान् । वि । विद्वान् । वेषि । प्रऽपित्वे । मनुषः । यजत्र ।

अभिऽपित्वे । मनवे । शास्यः । भूः । मर्मृजेन्यः । उशिक्ऽभिः । न । अक्रः ॥ ७ ॥

हे "यजत्र यष्टव्य “अग्ने “त्वं “तान् यष्टॄनयष्टॄंश्च "उभयान् "मनुषः मनुष्यान् विविच्य "विद्वान् जानन् "प्रपित्वे संनिहिते एव काले "वेषि कामयसे यष्टॄन् । तथा कुर्वन् "अक्रः आक्रमिता त्वं “मनवे । षष्ट्यर्थे चतुर्थी । मनुष्यस्य यजमानस्य "अभिपित्वे अभिप्राप्तकालेऽभिगमनवति यज्ञे वा “शास्यः "भूः शिक्षणीयो भव । इदं कुरु इदं कुरु इति विधेयो भव । "मर्मृजेन्यः शोधयिता यजमानः “उशिग्भिः कामयमानैर्ऋत्विग्भिरिव ॥


अवो॑चाम नि॒वच॑नान्यस्मि॒न्मान॑स्य सू॒नुः स॑हसा॒ने अ॒ग्नौ ।

व॒यं स॒हस्र॒मृषि॑भिः सनेम वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥

अवोचाम । निऽवचनानि । अस्मिन् । मानस्य । सूनुः । सहसाने । अग्नौ ।

वयम् । सहस्रम् । ऋषिऽभिः । सनेम । विद्याम् । इषम् । वृजनम् । जीरऽदानुम् ॥ ८ ॥

वयम् "अस्मिन् अग्नौ "निवचनानि नियमपूर्वकाणि वचांसि स्तोत्ररूपाणि "अवोचाम ब्रूमः । अग्निर्विशेष्यते । "मानस्य "सूनुः । मीयत इति मानो मन्त्रः । तस्य सूनुरग्निः मन्त्रेण उत्पद्यमानत्वात् । सप्तम्यर्थे प्रथमा । मानस्य सूनौ "सहसाने शत्रूणामभिभवितरि "अग्नौ अवोचाम । “वयम् एभिः “ऋषिभिः अतीन्द्रियार्थप्रकाशकैर्मन्त्रैः साधनैः "सहस्रम् अपरिमितं धनं “सनेम संभजेमहि । विद्याम इति गतम् ॥ ॥ ११ ॥


"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१८९&oldid=154801" इत्यस्माद् पुनः प्राप्तिः