ऋग्वेदः सूक्तं १.१७३

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं १.१७२ ऋग्वेदः - मण्डल १
सूक्तं १.१७३
अगस्त्यो मैत्रावरुणिः
सूक्तं १.१७४ →
दे. इन्द्रः । त्रिष्टुप्, ४ विराट्स्थाना, विषमपदा वा ।


गायत्साम नभन्यं यथा वेरर्चाम तद्वावृधानं स्वर्वत् ।
गावो धेनवो बर्हिष्यदब्धा आ यत्सद्मानं दिव्यं विवासान् ॥१॥
अर्चद्वृषा वृषभिः स्वेदुहव्यैर्मृगो नाश्नो अति यज्जुगुर्यात् ।
प्र मन्दयुर्मनां गूर्त होता भरते मर्यो मिथुना यजत्रः ॥२॥
नक्षद्धोता परि सद्म मिता यन्भरद्गर्भमा शरदः पृथिव्याः ।
क्रन्ददश्वो नयमानो रुवद्गौरन्तर्दूतो न रोदसी चरद्वाक् ॥३॥
ता कर्माषतरास्मै प्र च्यौत्नानि देवयन्तो भरन्ते ।
जुजोषदिन्द्रो दस्मवर्चा नासत्येव सुग्म्यो रथेष्ठाः ॥४॥
तमु ष्टुहीन्द्रं यो ह सत्वा यः शूरो मघवा यो रथेष्ठाः ।
प्रतीचश्चिद्योधीयान्वृषण्वान्ववव्रुषश्चित्तमसो विहन्ता ॥५॥
प्र यदित्था महिना नृभ्यो अस्त्यरं रोदसी कक्ष्ये नास्मै ।
सं विव्य इन्द्रो वृजनं न भूमा भर्ति स्वधावाँ ओपशमिव द्याम् ॥६॥
समत्सु त्वा शूर सतामुराणं प्रपथिन्तमं परितंसयध्यै ।
सजोषस इन्द्रं मदे क्षोणीः सूरिं चिद्ये अनुमदन्ति वाजैः ॥७॥
एवा हि ते शं सवना समुद्र आपो यत्त आसु मदन्ति देवीः ।
विश्वा ते अनु जोष्या भूद्गौः सूरीँश्चिद्यदि धिषा वेषि जनान् ॥८॥
असाम यथा सुषखाय एन स्वभिष्टयो नरां न शंसैः ।
असद्यथा न इन्द्रो वन्दनेष्ठास्तुरो न कर्म नयमान उक्था ॥९॥
विष्पर्धसो नरां न शंसैरस्माकासदिन्द्रो वज्रहस्तः ।
मित्रायुवो न पूर्पतिं सुशिष्टौ मध्यायुव उप शिक्षन्ति यज्ञैः ॥१०॥
यज्ञो हि ष्मेन्द्रं कश्चिदृन्धञ्जुहुराणश्चिन्मनसा परियन् ।
तीर्थे नाच्छा तातृषाणमोको दीर्घो न सिध्रमा कृणोत्यध्वा ॥११॥
मो षू ण इन्द्रात्र पृत्सु देवैरस्ति हि ष्मा ते शुष्मिन्नवयाः ।
महश्चिद्यस्य मीळ्हुषो यव्या हविष्मतो मरुतो वन्दते गीः ॥१२॥
एष स्तोम इन्द्र तुभ्यमस्मे एतेन गातुं हरिवो विदो नः ।
आ नो ववृत्याः सुविताय देव विद्यामेषं वृजनं जीरदानुम् ॥१३॥

सायणभाष्यम्

‘गायत्साम' इति त्रयोदशर्चं नवमं सूक्तमागस्त्यं त्रैष्टुभमैन्द्रम् । ‘गायत्सप्तोना' इत्यनुक्रान्तम् । समूळ्हे दशरात्रे तृतीये छन्दोमे मरुत्वतीयशस्त्रे एतत्सूक्तम् । विश्वजितोऽग्निं नरः' इति खण्डे सूत्रितं ’तृतीयस्येन्द्रः स्वाहा गायत्साम' (आश्व. श्रौ. ८.७ ) इति ।।


गाय॒त्साम॑ नभ॒न्यं१॒॑ यथा॒ वेरर्चा॑म॒ तद्वा॑वृधा॒नं स्व॑र्वत् ।

गावो॑ धे॒नवो॑ ब॒र्हिष्यद॑ब्धा॒ आ यत्स॒द्मानं॑ दि॒व्यं विवा॑सान् ॥१

गाय॑त् । साम॑ । न॒भ॒न्य॑म् । यथा॑ । वेः । अर्चा॑म । तत् । व॒वृ॒धा॒नम् । स्वः॑ऽवत् ।

गावः॑ । धे॒नवः॑ । ब॒र्हिषि॑ । अद॑ब्धाः । आ । यत् । स॒द्मान॑म् । दि॒व्यम् । विवा॑सान् ॥१

गायत् । साम । नभन्यम् । यथा । वेः । अर्चाम । तत् । ववृधानम् । स्वःऽवत् ।।

गावः । धेनवः । बर्हिषि । अदब्धाः । आ । यत् । सद्मानम् । दिव्यम् । विवासान् ॥ १ ॥

हे इन्द्र “नभन्यं नभस्यं नभसि भवं नभोव्यापिनं हिंसकं वा राक्षसादिकस्य । नभतिर्वधकर्मा, ‘नभति अर्दति ' ( नि. २. १९. १० ) इति वधकर्मसु गणनात् । तादृशं “साम हे इन्द्र “यथा “वेः येन प्रकारेण वेत्सि तथा “गायत् गायत्युद्गाता । “तत् तस्मात् यतः स्तौति ततः कारणात् “ववृधानं वर्धमान “स्वर्वत् फलभूतेन स्वर्गेण तद्वच्छस्त्रं यथा वेः तथा “अर्चाम पूजयाम शंसामेत्यर्थः । स्तुतमनु शंसतीति न्यायात् । यद्वा। तदुक्तलक्षणं साम ववृधानं सर्वत्र यथा भवति तथा अर्चाम। किंच “धेनवः दोग्ध्र्यः “अदब्धाः अहिंसिताः “गावः “यत् “बर्हिषि “सद्मानं सीदन्तं “दिव्यं दिवि भवमिन्द्रं त्वाम् “आ “विवासान् । विवासतिः परिचरणकर्मा । आगत्य परिचरन्ति क्षीरं दुहन्ति तथा अर्चाम॥


अर्च॒द्वृषा॒ वृष॑भि॒ः स्वेदु॑हव्यैर्मृ॒गो नाश्नो॒ अति॒ यज्जु॑गु॒र्यात् ।

प्र म॑न्द॒युर्म॒नां गू॑र्त॒ होता॒ भर॑ते॒ मर्यो॑ मिथु॒ना यज॑त्रः ॥२

अर्च॑त् । वृषा॑ । वृष॑ऽभिः । स्वऽइदु॑हव्यैः । मृ॒गः । न । अश्नः॑ । अति॑ । यत् । जु॒गु॒र्यात् ।

प्र । म॒न्द॒युः । म॒नाम् । गू॒र्त॒ । होता॑ । भर॑ते । मर्यः॑ । मि॒थु॒ना । यज॑त्रः ॥२

अर्चत् । वृषा । वृषऽभिः । स्वऽइदुहव्यैः । मृगः । न । अश्नः । अति । यत् । जुगुर्यात् ।

प्र। मन्दयुः । मनाम् । गूर्त । होता । भरते। मर्यः । मिथुना । यजत्रः ॥ २ ॥

“वृषा हविषां वर्षिता अयं यजमानः “स्वेदुहव्यैः स्वायत्तेद्धहविष्कैः । यद्वा । स्वयंप्राप्तेन्धकं हव्यं येषां तादृशैः । “वृषभिः वर्षकैर्हविष्प्रदातृभिः अध्वर्य्वादिभिर्विशिष्टः सन् "अर्चत् अर्चयतीन्द्रम् । यद्वा । वृषा फलस्य वर्षितायमिन्द्रः उक्तलक्षणैरध्वर्य्वादिभिरर्च्यते । “यत् यस्मात् "अश्नः व्यापकः पानाद्यर्थं धावन् “मृगो न हरिणादिरिवायमिन्द्रः अश्नोऽशनशीलः सन् "अति "जुगुर्यात् अत्यर्थमुद्युङ्क्ते हविर्भक्षणाय । यथा मृगः क्षुत्पिपासादितः शीघ्रमुद्युङ्क्ते तथायमिन्द्रोऽपि । यस्मादेवं तस्मादर्चति । यद्वा । अयमिन्द्रो यत् यथा अश्नो मृग इव अति जुगुर्यात भक्षयेत् तथा अर्चतीत्यर्थः । किंच हे “गूर्त उद्गूर्णेन्द्र “मनां मननं स्तोत्रमिच्छतां देवानां “मन्दयुः स्तुतियुक्तः “मर्यः “होता मानुषः एतन्नामकः ऋत्विक् “यजत्रः यागनिष्पादकः सन् “मिथुना मिथुनानि युग्मरूपाणि याज्यापुरोनुवाक्यादीनि मिथुनौ वा जायापतिरूपः सन् “प्र “भरते प्रकर्षेण संपादयति तस्मादर्चतीत्यर्थः ।


नक्ष॒द्धोता॒ परि॒ सद्म॑ मि॒ता यन्भर॒द्गर्भ॒मा श॒रद॑ः पृथि॒व्याः ।

क्रन्द॒दश्वो॒ नय॑मानो रु॒वद्गौर॒न्तर्दू॒तो न रोद॑सी चर॒द्वाक् ॥३

नक्ष॑त् । होता॑ । परि॑ । सद्म॑ । मि॒ता । यन् । भर॑त् । गर्भ॑म् । आ । श॒रदः॑ । पृ॒थि॒व्याः ।

क्रन्द॑त् । अश्वः॑ । नय॑मानः । रु॒वत् । गौः । अ॒न्तः । दू॒तः । न । रोद॑सी॒ इति॑ । च॒र॒त् । वाक् ॥३

नक्षत् । होता । परि । सद्म । मिता। यन् । भरत् । गर्भम् । आ । शरदः । पृथिव्याः ।

क्रन्दत्। अश्वः । नयमानः । रुवत् । गौः । अन्तः । दूतः । न । रोदसी इति । चरत्। वाक् ॥३॥

“होता होमनिष्पादकोऽयमग्निः “मिता परिमिता “सद्म सदनानि गार्हपत्यादिस्थानानि “परि “यन् परितो गच्छन् “नक्षत् व्याप्नोति । व्याप्य च “शरदः संवत्सरसंबन्धिनं “पृथिव्याः भूम्याश्च संबन्धिनं “गर्भं गर्भस्थानीयमन्नं हविर्लक्षणम् “आ “भरत् आहरति स्वीकरोति । संभरति वा । संवत्सरपर्यन्तं वर्धितं भूम्यामुत्पन्नमित्यर्थः । यद्वा । संवत्सरसंबन्धिनं वसन्तादिकाले ज्योतिष्टोमादिषु दीयमानं पार्थिवं हविर्भरत् । वसन्ते वसन्ते ज्योतिषा यजेत' इति श्रुतेः । तथा कृत्वा “क्रन्ददश्वः । लुप्तोपममेतत् । अश्व इव क्रन्दति हर्षातिशयात् । किं कुर्वन् । “नयमानः नयन्निन्द्राय हविर्भारम् । किंच "गौः गन्ता उद्वृत्तो वृष इव "रुवत् रौति शब्दायते । किं कुर्वन् । “दूतो “न वार्ताहरो दूत इव “रोदसी रोदस्योर्द्यवापृथिव्योः “अन्तः मध्ये रोदस्योरन्तरा "वाक् स्तूयमानः स्तुवन् वा देवान् “चरत् चरति गच्छति । हविःस्वीकाराय पृथिवीं तत्प्रापणाय द्युलोकं च परिभ्रमतीत्यर्थः ॥ वक्तेः कर्तरि कर्मणि वा ' क्विब्वचि० ' इत्यादिना क्विब्दीर्घौ संप्रसारणाभावश्च ।।


ता क॒र्माष॑तरास्मै॒ प्र च्यौ॒त्नानि॑ देव॒यन्तो॑ भरन्ते ।

जुजो॑ष॒दिन्द्रो॑ द॒स्मव॑र्चा॒ नास॑त्येव॒ सुग्म्यो॑ रथे॒ष्ठाः ॥४

ता । क॒र्म॒ । अष॑ऽतरा । अ॒स्मै॒ । प्र । च्यौ॒त्नानि॑ । दे॒व॒ऽयन्तः॑ । भ॒र॒न्ते॒ ।

जुजो॑षत् । इन्द्रः॑ । द॒स्मऽव॑र्चाः । नास॑त्याऽइव । सुग्म्यः॑ । र॒थे॒ऽस्थाः ॥४

ता। कर्म । अषऽतरा । अस्मै । प्र । च्यौत्नानि । देवऽयन्तः । भरन्ते ।

जुजोषत् । इन्द्रः। दस्मऽवर्चाः । नासत्याऽइव । सुग्म्यः । रथेऽस्थाः ॥ ४ ॥

“ता तानि "अषतरा अर्षतराणि व्याप्ततराणि वा हवींषि "अस्मै इन्द्राय तदर्थं "कर्म कुर्मः संपादयामः ॥ कृञ्श्छान्दसे वर्तमानार्थे लुङि ‘मन्त्रे घस ' इति च्लेर्लुक् । छन्दस्युभयथा ' इति अर्धधातुकत्वेन ङित्त्वाभावाद्गुणः ॥ “च्यौत्नानि च्यावयितॄणि दृढानि स्तोत्राणि कर्माणि स्वकीयानि सामर्थ्यानि वा “देवयन्तः देवानात्मन इच्छन्तो यजमानाः “प्र “भरन्ते प्रकर्षेण संपादयन्ति । तद्वद्वयमपि संपादयाम इत्यर्थः । "दस्मवर्चाः दर्शनीयतेजाः शत्रूपक्षयणबलो वा “नासत्येव नासत्याविव अश्विनाविव । तौ हि द्यावापृथिव्यात्मानौ । ताविव "सुग्म्यः सुगम्यः सुखेन गन्तुं शक्यः रथेष्ठाः रथे वर्तमान एवंभूतः सन् "जुजोषत् अस्मत्कृतं स्तोत्रादि कर्म सेवताम् ॥


तमु॑ ष्टु॒हीन्द्रं॒ यो ह॒ सत्वा॒ यः शूरो॑ म॒घवा॒ यो र॑थे॒ष्ठाः ।

प्र॒ती॒चश्चि॒द्योधी॑या॒न्वृष॑ण्वान्वव॒व्रुष॑श्चि॒त्तम॑सो विह॒न्ता ॥५

तम् । ऊं॒ इति॑ । स्तु॒हि॒ । इन्द्र॑म् । यः । ह॒ । सत्वा॑ । यः । शूरः॑ । म॒घवा॑ । यः । र॒थे॒ऽस्थाः ।

प्र॒ती॒चः । चि॒त् । योधी॑यान् । वृष॑ण्ऽवान् । व॒व॒व्रुषः॑ । चि॒त् । तम॑सः । वि॒ऽह॒न्ता ॥५

तम् । ऊँ इति । स्तुहि । इन्द्रम् । यः । ह । सत्वा । यः । शूरः। मघऽवा । यः । रथेऽस्थाः ।।

प्रतीचः । चित् । योधीयान् । वृषण्वान् । ववव्रुषः । चित् । तमसः । विऽहन्ता ॥ ५ ॥

"तमु तमेव "इन्द्रं "स्तुहि हे होतः स्तुतिं कुरु। किमस्याधिक्यमिति उच्यते । "यो “ह यः खलु “सत्वा अतिप्रभूतबलः । यद्वा । सत्वा सादकः शत्रूणाम् । "यः च “शूरः शौर्योपेतः "मघवा बलवानन्नवान् वा । "यः च "रथेष्ठाः रथे वर्तमानः । किंच प्रतीचश्चित् प्रत्यभिमुखं योद्धुरपि “योधीयान् योद्धृतमः ॥ प्रतिपूर्वादञ्चतेः क्विनन्तात् लुप्तमकारात् शसि ‘अचः' इति अकारलोपे चौ ' इति दीर्घः । ‘अञ्चेश्छन्दस्यसर्वनामस्थानम् ' इति विभक्तिरुदात्ता ॥ "वृषण्वान् । वृषाणो वर्षितारो वज्रादयः । तद्वान् । वृषा ते वज्र उत ते वृषा रथः ' (.ऋ सं. २. १६. ६ ) इति हि निगमः । तथा “ववव्रुषश्चित्तमसः आवरकस्यापि तमसो मेघादेः "विहन्ता विशेषेण घातकः । यस्मादेवंमहानुभावः तस्मात् स्तुहि ॥ ॥ १३ ॥


प्र यदि॒त्था म॑हि॒ना नृभ्यो॒ अस्त्यरं॒ रोद॑सी क॒क्ष्ये॒३॒॑ नास्मै॑ ।

सं वि॑व्य॒ इन्द्रो॑ वृ॒जनं॒ न भूमा॒ भर्ति॑ स्व॒धावाँ॑ ओप॒शमि॑व॒ द्याम् ॥६

प्र । यत् । इ॒त्था । म॒हि॒ना । नृऽभ्यः॑ । अस्ति॑ । अर॑म् । रोद॑सी॒ इति॑ । क॒क्ष्ये॒३॒॑ इति॑ । न । अ॒स्मै॒ ।

सम् । वि॒व्ये॒ । इन्द्रः॑ । वृ॒जन॑म् । न । भूम॑ । भर्ति॑ । स्व॒धाऽवा॑न् । ओ॒प॒शम्ऽइ॑व । द्याम् ॥६

प्र। यत् । इत्था । महिना। नृऽभ्यः। अस्ति । अरम् । रोदसी इति । कक्ष्ये३ इति । न । अस्मै ।

सम् । विव्ये । इन्द्रः। वृजनम्। न। भूम। भर्ति। स्वधाऽवान्। ओपशम्ऽइव । द्याम् ॥६॥

“यत् यः इन्द्रः “महिना महत्त्वेन स्वैश्वर्येण "नृभ्यः नेतृभ्यः कर्मनिर्वाहकेभ्यो यजमानेभ्यः “प्र "अस्ति प्रभवति ईष्टे स्वर्गादिप्रदाने रक्षितुम् "अस्मै रक्षकायेन्द्राय "रोदसी द्यावापृथिव्यौ "कक्ष्ये कक्ष्ययते सती संचाराय “न "अरं नालं न पर्याप्ते । जगतोऽधीशस्येन्द्रस्य संचारायाल्पत्वात् द्यावापृथिव्यौ म पर्याप्ते इत्यर्थः । सृष्टादपि स्रष्टुर्महिम्नोऽधिकत्वादिति भावः । अयम् "इन्द्रो “वृजनं “न “भूम भूमिं भूतानि वा वृजनं न वृजनमिव । वृजेः कर्तनार्थस्येदं रूपम् ॥ तदिव तद्यथा आवृणोति तथायमपि स्वतेजसा “सं “विव्ये सम्यगावृणोति लोकत्रयम् । किंचायं “स्वधावान् अन्नवान् वृष्टिलक्षणोदकवान् वा "द्यां दिवं "भर्ति बिभर्ति । धारणे दृष्टान्तः । “ओपशमिव । ईषदुपशेते इत्योपशं शृङ्गं तद्वृषभ इव । यद्वा । परस्परं समीपे वर्तमानं क्षित्यन्तरिक्षाख्यं लोकद्वयम् ओपशम् । तदिव द्यां बिभर्ति । लोकत्रयमपि बिभर्तीत्यर्थः ।। भृञो लटि छान्दसः शपो लुक् ॥


स॒मत्सु॑ त्वा शूर स॒तामु॑रा॒णं प्र॑प॒थिन्त॑मं परितंस॒यध्यै॑ ।

स॒जोष॑स॒ इन्द्रं॒ मदे॑ क्षो॒णीः सू॒रिं चि॒द्ये अ॑नु॒मद॑न्ति॒ वाजै॑ः ॥७

स॒मत्ऽसु॑ । त्वा॒ । शू॒र॒ । स॒ताम् । उ॒रा॒णम् । प्र॒प॒थिन्ऽत॑मम् । प॒रि॒ऽतं॒स॒यध्यै॑ ।

स॒ऽजोष॑सः । इन्द्र॑म् । मदे॑ । क्षो॒णीः । सू॒रिम् । चि॒त् । ये । अ॒नु॒ऽमद॑न्ति । वाजैः॑ ॥७

समत्ऽसु । त्वा । शूर । सताम् । उराणम् । प्रपथिन्ऽतमम् । परिऽतंसयध्यै ।

सुऽजोषसः । इन्द्रम् । मदे । क्षोणीः । सूरिम् । चित् । ये । अनुऽमदन्ति । वाजैः ॥ ७॥

हे "शूर शौर्योपेतेन्द्र "समत्सु संग्रामेषु "सतां स्वामेवाश्रित्य वर्तमानानां प्राणिनाम् "उराणम् उरूण्यतिप्रभूतानि बलादीनि कुर्वाणं "प्रपथिन्तमं प्रकृष्टमार्गतमं सुकृतिनामुत्तममार्गभूतम् "इन्द्रं शत्रूणां दारकं “त्वा त्वां "परितंसयध्यै अवतंसीकर्तुं भूषणीकर्तुम् । भूषयितुं वा निमित्तेऽर्थे । "मदे तव मदार्थं च "सजोषसः सह सेवमानाः समानप्रीतयो वा "क्षोणीः क्षोण्यो विशः परिजना मरुतः प्रयतन्ते । कीदृशास्ते । “ये “वाजैः बलैः "अनुमदन्ति अनुकूलं मादयन्ति संग्रामे मरुतस्तमेव स्वामिनं कृत्वा मादयन्ति हर्षयन्तीत्यर्थः । यद्वा । ये यजमाना वाजैहविर्भिर्मादयन्ति ते समानप्रीतियुक्तास्तव मनुष्यभूता ऋत्विजो यजमानभूताः प्रजाः समत्सु सहमादनस्थानेषु यागेषूक्तलक्षणविशिष्टं त्वामेव पूजयितुं तव मादाय च प्रयतन्ते ॥


ए॒वा हि ते॒ शं सव॑ना समु॒द्र आपो॒ यत्त॑ आ॒सु मद॑न्ति दे॒वीः ।

विश्वा॑ ते॒ अनु॒ जोष्या॑ भू॒द्गौः सू॒रीँश्चि॒द्यदि॑ धि॒षा वेषि॒ जना॑न् ॥८

ए॒व । हि । ते॒ । शम् । सव॑ना । स॒मु॒द्रे । आपः॑ । यत् । ते॒ । आ॒सु । मद॑न्ति । दे॒वीः ।

विश्वा॑ । ते॒ । अनु॑ । जोष्या॑ । भू॒त् । गौः । सू॒रीन् । चि॒त् । यदि॑ । धि॒षा । वेषि॑ । जना॑न् ॥८

एव । हि। ते। शम्। सवना। समुद्रे । आपः। यत् । ते। आसु । मदन्ति । देवीः ।

विश्वा । ते। अनु। जोष्या। भूत् । गौः। सूरीन् । चित् । यदि । धिषा । वेषि । जनान् ॥८॥

हे इन्द्र “एवा “हि एवं हि सति “ते तव संबन्धीनि सवनानि । सूयते सोमोऽत्रेति सवनानि सोमयागाः । ते “शं सुखकरा भवन्ति । कथं सति । "यत् यदि “देवीः देव्यः द्योतमानाः “आपः समुद्रे उदकसमुद्रवणापादानभूतेऽन्तरिक्षे "आसु प्रजासु निमित्तभूतासु "ते त्वां "मदन्ति मादयन्ति ॥ अन्तर्भावितण्यर्थोऽयम् ॥ यदा प्राण्युपकारार्थं वर्षणाय त्वां प्रेरयन्ति वृष्ट्युदकानि तदा खलु तव सोमयागाः सुखकरा भवन्ति । यज्ञसाधनवृष्टिप्रदानेन यागान्निर्वर्तयेत्यर्थः । किंच हे इन्द्र “विश्वा “गौः सर्वापि स्तोत्रशस्त्ररूपा वाक् "ते त्वाम् अनुक्रमेण जोष्या जोषणार्हा प्रीणयित्री “भूत् भवति । कदा । "यदि "सूरींश्चित् स्तोत्रादिप्रेरयितॄन् स्तोतृजनानपि “धिषा धिषणया प्रज्ञया वृष्टिप्रदानरूपेण कर्मणा वा “वेषि कामयसे तदा सर्वापि स्तुतिस्त्वदर्था भवति ॥


असा॑म॒ यथा॑ सुष॒खाय॑ एन स्वभि॒ष्टयो॑ न॒रां न शंसै॑ः ।

अस॒द्यथा॑ न॒ इन्द्रो॑ वन्दने॒ष्ठास्तु॒रो न कर्म॒ नय॑मान उ॒क्था ॥९

असा॑म । यथा॑ । सु॒ऽस॒खायः॑ । ए॒न॒ । सु॒ऽअ॒भि॒ष्टयः॑ । न॒राम् । न । शंसैः॑ ।

अस॑त् । यथा॑ । नः॒ । इन्द्रः॑ । व॒न्द॒ने॒ऽस्थाः । तु॒रः । न । कर्म॑ । नय॑मानः । उ॒क्था ॥९

असाम । यथा । सुऽसखायः । एन । सुऽअभिष्टयः । नराम् । न । शंसैः ।

असत् । यथा । नः । इन्द्रः । वन्दनेऽस्थाः । तुरः । न । कर्म । नयमानः । उक्था ॥९॥

हे “एन इन ईश्वर इन्द्र "यथा सुसखायः शोभनत्वद्रूपसहायवन्तः "असाम भूयास्म किंच "स्वभिष्टयः शोभनाभ्येषणाः शोभनाभीष्टाश्चासाम । किमिव । "नरां “न “शंसैः । नराणां राजादीनां शंसैः शंसनैरिव । स्तुतिभिर्यथा मनुष्याः शोभनाभीष्टा भवन्ति तद्वत् । इदानीं परोक्षेणाह । “नः अस्मभ्यम् "इन्द्रः “वन्दनेष्ठाः अस्मत्स्तुतौ वर्तमानः सन् “तुरो "न त्वरमाण इव नः अस्माकं "कर्म "उक्था उक्थैः शस्त्रैः “नयमानः फलं प्रापयन् स्तुत्या तुष्टः सन् अस्मदीयेन कर्मणा फलप्रापयिता "यथा "असत् भवेत् । हे ऋत्विजः तथा कुरुतेति शेषः ।।


विष्प॑र्धसो न॒रां न शंसै॑र॒स्माका॑स॒दिन्द्रो॒ वज्र॑हस्तः ।

मि॒त्रा॒युवो॒ न पूर्प॑तिं॒ सुशि॑ष्टौ मध्या॒युव॒ उप॑ शिक्षन्ति य॒ज्ञैः ॥१०

विऽस्प॑र्धसः । न॒राम् । न । शंसैः॑ । अ॒स्माक॑ । अ॒स॒त् । इन्द्रः॑ । वज्र॑ऽहस्तः ।

मि॒त्र॒ऽयुवः॑ । न । पूःऽप॑तिम् । सुऽशि॑ष्टौ । म॒ध्य॒ऽयुवः॑ । उप॑ । शि॒क्ष॒न्ति॒ । य॒ज्ञैः ॥१०

विऽस्पर्धसः । नराम् । न । शंसैः । अस्माकं । असत् । इन्द्रः । वज्रऽहस्तः ।।

मित्रऽयुवः । न । पू:ऽपतिम् । सुऽशिष्टौ । मध्यऽयुवः । उप । शिक्षन्ति । यज्ञैः ॥ १० ॥

"नरां नेतॄणां मध्ये सस्पर्धान् नरान् यथा "विस्पर्धसः कुर्वन्ति सखिभूताः तद्वद्वयमपीन्द्रं “शंसैः स्तुतिभिः सखायो वयं तं तथा कुर्मः । स च "वज्रहस्तः विरोधिशिक्षणाय सर्वदा वज्रधारी “इन्द्रः अस्माकम् "असत् । विस्पर्धमनुकूलो भवतु । किंच मित्रायुवो न मित्रेच्छवो हितैषिण इव “सुशिष्टौ सुशासने वर्तमानं पूर्पतिं पुरः स्वामिनं यथा अभिमतदानेन पूजयन्ति तथा “मध्यायुवः अस्माकं श्रियां यशसां च मध्येऽवस्थितिं कामयमाना अध्वर्य्वादयः "यज्ञैः यज्ञसाधनै हविःस्तोत्रादिभिः "उप "शिक्षन्ति उपेत्य यजन्ते । शिक्षतिर्दानकर्मा ॥ ॥ १४ ॥


य॒ज्ञो हि ष्मेन्द्रं॒ कश्चि॑दृ॒न्धञ्जु॑हुरा॒णश्चि॒न्मन॑सा परि॒यन् ।

ती॒र्थे नाच्छा॑ तातृषा॒णमोको॑ दी॒र्घो न सि॒ध्रमा कृ॑णो॒त्यध्वा॑ ॥११

य॒ज्ञः । हि । स्म॒ । इन्द्र॑म् । कः । चि॒त् । ऋ॒न्धन् । जु॒हु॒रा॒णः । चि॒त् । मन॑सा । प॒रि॒ऽयन् ।

ती॒र्थे । न । अच्छ॑ । त॒तृ॒षा॒णम् । ओकः॑ । दी॒र्घः । न । सि॒ध्रम् । आ । कृ॒णो॒ति॒ । अध्वा॑ ॥११

यज्ञः । हि । स्म । इन्द्रम् । कः । चित् । ऋन्धन् । जुहुराणः । चित् । मनसा । परिऽयन् ।

तीर्थे। न । अच्छ। ततृषाणम्। ओकः । दीर्घः। न । सिध्रम् । आ । कृणोति । अध्वा ॥११॥

“कश्चित् "यज्ञः यज्ञवान् यज्ञानुष्ठायी "ऋन्धन् वर्धयन् भवति । इन्द्रं यज्ञेन वर्धयतीत्यर्थः । “जुहुराणश्चित् कुटिलगतिस्तु कश्चित् "मनसा केवलेन "परियन् परितो गच्छन् लौकिकविषयादिकं ध्यायन् वर्तते । यद्वा । परि वर्जनार्थः । वर्जयित्वा गच्छन्नेदं प्राप्नोति । तत्र दृष्टान्तः । तीर्थे प्रसिद्धे मार्गे "अच्छ आभिमुख्येन समीपे वर्तमानम् “ओकः पानीयादिकं सदनं "ततृषाणं पिपासायुक्तं यथा अविलम्बेन प्रीणाति । स यथा तत्सदनमागच्छतीत्यर्थः । तद्वत् यज्ञेन कश्चित् पुमानिन्द्रमभिगच्छतीति । कुटिलस्य दृष्टान्तः । "दीर्घो "न वक्रत्वेनातिदूरः "अध्वा मार्ग इव । स यथा “सिध्रं फलं पानीयादिरूपं फलार्थिनं वा पुरुषम् "आ “कृणोति अर्वाक्करोति नीचैः करोति वर्जयतीत्यर्थः । तस्माद्यज्ञमार्गमजानानो वक्रो दूरे परिभ्रमति नेन्द्रं तर्पयति । तद्विलक्षणस्तु वर्जयत्येव ॥


मो षू ण॑ इ॒न्द्रात्र॑ पृ॒त्सु दे॒वैरस्ति॒ हि ष्मा॑ ते शुष्मिन्नव॒याः ।

म॒हश्चि॒द्यस्य॑ मी॒ळ्हुषो॑ य॒व्या ह॒विष्म॑तो म॒रुतो॒ वन्द॑ते॒ गीः ॥१२

मो इति॑ । सु । नः॒ । इ॒न्द्र॒ । अत्र॑ । पृ॒त्ऽसु । दे॒वैः । अस्ति॑ । हि । स्म॒ । ते॒ । शु॒ष्मि॒न् । अ॒व॒ऽयाः ।

म॒हः । चि॒त् । यस्य॑ । मी॒ळ्हुषः॑ । य॒व्या । ह॒विष्म॑तः । म॒रुतः॑ । वन्द॑ते । गीः ॥१२

मो इति । सु। नः । इन्द्र । अत्र । पृत्ऽसु । देवैः । अस्ति । हि । स्म । ते । शुष्मिन् । अवऽयाः ।

महः । चित् । यस्य । मीळ्हुषः । यव्या । हविष्मतः । मरुतः । वन्दते । गीः ॥ १२ ॥

हे "इन्द्र "अत्र "पृत्सु एषु उपस्थितेषु संग्रामेषु वृष्ट्यर्थं मेघजयेषु "देवैः मरुदादिभिः सह "नः अस्मान् “मो “षु मैव त्याक्षीरिति शेषः । मरुत्सहितो युध्यस्वेत्यर्थः । हे 'शुष्मिन् बलवन्निन्द्र “अस्ति हि "स्म “ते अस्ति हि स्म तव खलु । तव किमस्तीति उच्यते । "अवयाः अवयजनम् अवयुज्य पृथक्कृत्य यजनं हविर्भागोऽस्ति । मरुद्यः"ळ पृथगप्यस्ति हविर्भागः । केवलं मरुद्भ्य एव दीयते नास्मभ्यम् अतः कथं योत्स्यामीति न मन्तव्यमित्यर्थः । यद्वा । अवयाः शत्रूणां वर्जनाय गन्ता वज्रोऽस्ति ते । किंच "हविष्मतः प्रदेयहवियुक्तस्य "मीळ्हुषः हविष्प्रदातुः । यद्वा । एतत्पदद्वयं मरुतां विशेषणम् । "यस्य मम “यव्या फलेनेन्द्रेण वा सह मिश्रयन्ती "गीः स्तुतिशस्त्रादिरूपा वाक् 'महश्चित् महतोऽपि मीळ्हुषः सेक्तॄन् हविष्मतो दत्तहविषा तद्वतः मरुतो "वन्दते स्तौति ।।


अथ त्रयोदश्या सूक्तादिमारभ्य कृत स्तुतिं निगमय्य फलं प्रार्थयते ॥

ए॒ष स्तोम॑ इन्द्र॒ तुभ्य॑म॒स्मे ए॒तेन॑ गा॒तुं ह॑रिवो विदो नः ।

आ नो॑ ववृत्याः सुवि॒ताय॑ देव वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥१३

ए॒षः । स्तोमः॑ । इ॒न्द्र॒ । तुभ्य॑म् । अ॒स्मे इति॑ । ए॒तेन॑ । गा॒तुम् । ह॒रि॒ऽवः॒ । वि॒दः॒ । नः॒ ।

आ । नः॒ । व॒वृ॒त्याः॒ । सु॒वि॒ताय॑ । दे॒व॒ । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥१३

एषः । स्तोमः । इन्द्र । तुभ्यम् । अस्मे इति । एतेन । गातुम् । हरिऽवः । विदः । नः।

आ। नः । ववृत्याः । सुविताये । देव । विद्याम । इषम् । वृजनम् । जीरऽदानुम् ॥ १३ ॥

हे "इन्द्र “एष "स्तोमः इदानींकारितप्रकारः स्तोत्रविशेषः "तुभ्यं त्वदर्थम् । हे "हरिवः हरिभ्यां तद्वन्निन्द्र “एतेन स्तोत्रेण गमनेन वा “नः अस्मदीयं गातुं देवयजनमार्गं विदः विदस्व । विदित्वा च हे देव "सुविताय सुहिताय शोभनगमनाय वा नः अस्मान् “आ “ववृत्याः आवर्तस्व अस्मद्यागं प्रत्यागच्छ । विद्याम इत्यादि व्याख्यातम् ॥ ॥ १५ ॥



मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१७३&oldid=207940" इत्यस्माद् पुनः प्राप्तिः